SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सहस्रावधानधुराधरणधौरेयश्रीमुनिसुन्दरसूरीश्वरकृता श्रीत्रैविद्यगोष्ठी । नमः सर्वविदे । विघ्नवल्लिविध्वंसिने कुठाररूपाय गुरवे नमः । ऐनमः ।। जयश्रीलीलालीवितरतु ममाऽनन्तमहिमा, जिनः श्रीमान् वीरस्त्रिभुवनविभुः सर्वकलनः । प्रवादा यस्यैवाऽऽगमजलनिधेरत्र निखिलाः समादाय स्वैरं कतिपयलवान् सत्त्वमभजन् ॥१॥ श्रीज्ञानसागराह्वस्वगुरूणां ज्ञानवारिधिम् । उपजीव्योपदेशं च कुर्वे त्रैविद्यगोष्ठिकाम् ॥२।। नमो विततैकान्तिकात्यन्तिकहितहेतुभ्यः श्रीमद्गुरुभ्यः । इह किल स्वपरसमयार्थसार्थादृष्यवैदुष्यपरिकर्मितमतयो विज्ञपतयः प्रायस्त्रैवैद्यगोष्ठीरतयो भवन्तीति तन्मनोविनोदाय तद्विषये किञ्चिदुच्यते । तत्र त्रैधाः प्रायो विदग्धा उपलभ्यन्ते तथाहि - केचन परमतमप्राचीनागण्यपुण्यप्रचयोपलब्ध श्रीमद्गुरुचरणपरिचर्याप्रसादप्राप्तानवद्यविद्याविलासोपहृतसहृदयहृदया अपि अवगतवस्तुसतत्त्वतया न कदाऽप्यभिमानकालुष्यमाशेश्लिष्यन्ते । केचन च किञ्चित्प्राचीनप्रचिताप्रधानकर्ममर्मवशतो निष्प्रतिमप्रतिज्ञातिरेकोद्भवाहङ्कारप्रचारप्रचारिताविवेका अपि सुयुक्तियुक्तोपदेशश्रवणादिना, स्वतोऽप्यधिकतरप्रज्ञाप्रकर्षप्रतिहतप्रवीणप्रकराप्रमाणप्रज्ञिलत्वाभिमानप्रकृष्टप्राज्ञपुरुषविशेषसमीक्षणादिना वा, व्यपहायाऽवलेपाक्षेपं सम्यग्गुणानुरागसङ्गिनो बोभूयुः । __इह कतिचित्पुरुषा अनादिकालमपारसंसारकान्तारोदरप्रसरणोपार्जितानिष्टकष्टौघहेत्वष्टपुष्टदुष्टादृष्टरक्षोधिष्ठिता विशिष्टमार्गसंसर्गिणः कथमपि परमतमप्रयासप्रसाधितकतिपयशास्त्राभ्यासा अपि परमार्थतो निबिडजडिमप्रचण्डिमावष्टब्धचेतस्कतया शृण्वन्तोऽपि तत्तन्निर्व्यपदेशोपदेशं, पश्यन्तोऽपि च बहुरत्नायां वसुन्धरायां तारतम्येन स्वतोऽधिकाधिकतरनिस्तुषमनीषासमुन्मेषोल्लासिप्रवीणवातान्, अखर्वगर्वपर्वतारूढमूढचेतोवृत्तितया न कदाऽपि गुणानुरागानुषणपूर्वकं मार्दवं बा भजन्ति । अनर्हाश्चैते सर्वथा असाध्यामयप्रचयप्रपीडिताङ्गाङ्गिवत् सदुपदेशादिप्रतीकारस्य । अनधिकृताश्च ते प्रबुद्धैरविबुधा विबुधजनोचितप्रशस्तशास्त्रगोष्ठीसुधापाने । आद्या द्वैधा अपि चाऽधिचक्रिरे तत्र सूरिभिः, परं द्वितीयाः साध्यव्याधिव्यथिताङ्गभाज इव प्रधानतरौषधविधानेन यथाप्रस्तावमहङ्कारनिराकरणविषयोपदेशलेशेन प्रतिबोधनीया इति । अथैतेषामन्यतमभाग्योपलभ्ये सङ्गमे समुपजाते सति यथोचितवचनादिप्रतिपत्तिपूर्वकमेवं स्याद् गोष्ठी । तथाहि - आगम्यतां भोः कोविदकुलावचूल ! अलङ्क्रियतामिदमासनं, किञ्चित्कलयथ प्रतिकलमतुलकुशलकमलाक्रीडाक्रोडासंक्रीडने भृङ्गभूयं यूयं, प्रमोमोदीदद्य शुभवतां भवतां कलावतां दर्शनेन सद्योऽस्मच्चित्तचकोरः । उल्लसत्येव हि कलावतः समुदये अप्रत्नगुणरत्नरत्नाकरः । दुर्लभो हि धर्मव्रततिवितानोच्छेदकरालकरवाले बहुलदोषजालेऽस्मिन् कलिकाले विमलगुणमण्डलाभरणभारिणां ३७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy