SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ निजं क्रीडोद्यानं सा बौद्धभिक्षूणां विहारार्थं समर्पितवत्यासीत्, स्वयमपि च बुद्धोपदेशानां शरणं गृहीतवत्यासीत् । सम्प्रति च यात्रिणां सेवां कुर्वतीनां स्त्रीणां गणे सम्मिलिताऽऽसीत् । मरणशय्यास्थितं गौतमं ज्ञात्वा साऽपि सामान्यवस्त्राणि परिधाय पादचारेणैव स्वपुत्रेण सह प्रस्थिता । जनैः सह तौ द्वावपि नदीतटं यावत् प्राप्तौ । किन्तु स बालकोऽचिरादेव श्रान्तोऽभवत्, स गृहं प्रतिगन्तुमैच्छत्, विश्रान्तिमैच्छत्, खादितुं चैच्छत् । स वारं वारं रुष्टो भवति स्माऽश्रूणि च स्रावयति स्म । अनेकशः कमलया तेन सह विश्रान्तव्यं भवति स्म । मातुविरोधं कर्तुमसौ चिराभ्यस्त आसीत् । कमलया वारं वारं स भोजयितव्य आसीत्, आश्वासयितव्य आसीत्, कदाचिच्चोपालब्धव्योऽप्यासीत् । कस्यचित् पवित्रस्याऽप्यपरिचितस्य जनस्य कृते कस्मिंश्चिदज्ञाते स्थले गन्तुं खेदावहा कष्टपूर्णा च यात्रा किमर्थं वा कर्तव्येति सोऽवगन्तुं न पारयति स्म । 'म्रियतां नाम सः । तेन बालकस्य मम किम् ?' इति तस्य चिन्तनमासीत् । ___ यदा यात्रिकाणां गणो वासुदेवनौकातोऽनतिदूरे आसीत् तदैव लघुसिद्धार्थः स्वमातरमवदद् यत् स विश्रान्तुमिच्छतीति । कमला स्वयमपि श्रान्ताऽऽसीत् । अतः स बालकाय कदलीफलं खादितुं दत्त्वा स्वयं चैकस्य वृक्षस्याऽधस्तान्नेत्रे निमील्य किञ्चिदिव शयिता। किन्तु, सहसैव तस्या मुखाच्चीत्कारो निर्गतः । एतच्छ्रुत्वा चकितो बालो यावन्मातुर्मुखं विलोकितवान् तावत् तद् भयेन विच्छायं दृष्टम् । तावता च तस्या वस्त्रेभ्यः कश्चन लघुः कृष्णसर्पो निर्गतो येन कमला दष्टाऽऽसीत् ।। ____ ततो भयभीतौ तौ द्वावपि ततो धावित्वा यात्रिकगणेन सम्मिलितौ । यदा च तौ घट्ट प्राप्तौ तदैव कमलाऽग्रे गन्तुमशक्ता सती तत्रैव पतिता । एतेन भीतो बालको मातरं परिष्वज्य सहायार्थमुच्चैरारटितवान् । साऽपि चोच्चै रुदती सहायार्थं पूत्कृतवती । तयोश्चाऽऽरावा नौकासन्नस्थितेन वासुदेवेन श्रुताः । स झटिति तत्राऽऽगत्य कमलां स्वीयहस्ताभ्यां वहन् कुटीरं प्रति गतः । बालकोऽपि तत्पृष्ठत एव धावितः, शीघ्रं च ते उटजं प्राप्ताः । इन्धनानि प्रज्वालयन् सिद्धार्थस्तत्रैवाऽऽसीत् । तेन मुखमुन्नम्य प्रथमं तु बालकवदनं दृष्टम् । दृष्टमात्रे च तस्मिन् तन्मनसि किञ्चित् स्मरणमभवत् । ततश्च स वासुदेवहस्तयोः स्थितां कमलां दृष्टवान् शीघ्रमेव च तां निःसञ्जामपि प्रत्यभिज्ञातवान् । ततश्च तेन ज्ञातं यत् स बालस्तु स्वस्यैवाऽपत्यमासीत् यन्मुखं तस्य किञ्चित् स्मारितवत् । तस्य हृदयस्पन्दनानि वर्धितानि । कमलाया व्रणं जलेन स्वच्छीकृत्यौषधेन पूरितम् । किन्तु तत् कृष्णवर्णं जातमासीत्, तस्याः शरीरमपि च शोथमयं सञ्जातमासीत् । तस्या मुखे चेतनप्रदमौषधं प्रक्षिप्तं, तेन साऽल्पवेलायामेव ससञ्जा जाता । सा कुटीरे सिद्धार्थशय्यायामेव शयिताऽऽसीत्, तथा सिद्धार्थो, यस्मिन् सा पूर्णतयाऽनुरक्ताऽऽसीत्, स, तत्पुरत एव स्थितो दृष्टस्तया । ___'किमहं स्वप्नं पश्यामि वे'ति चिन्तयन्ती सा स्मयमाना स्वदयितस्य मुखं विलोकितवती । शनैः शनैस्तया स्वपरिस्थितिरवबुद्धा, सर्पदंशोऽपि स्मृतः, ततश्च व्याकुलतया सा स्वपुत्रमाहूतवती । 'चिन्तां मा कार्षीः, सोऽत्रैवाऽस्ति' – सिद्धार्थ उक्तवान् । तन्नयनयोरन्तनिरीक्षितवती सा विषमयशरीरवत्त्वात् कष्टेनाऽवदत् - 'भवान् वृद्धो जातोऽस्ति ९० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy