SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ बहुभिः प्रवासिभिरनुभूयते स्म यन्नावो नाविकाभ्यां च किञ्चनाऽद्भुतं तत्त्वं निःसरति स्मेति । कदाचित् त्वेवमपि भवति स्म यद् द्वयो विकयोरन्यतरस्य मुखं दृष्ट्वा कश्चन यात्रिकः स्वजीवनस्य विषये, विपदश्चाऽधिकृत्य कथनमारभते स्म, स्वकृतानि पापानि निवेदयति स्म, आश्वासनार्थमनुशासनार्थं वा प्रार्थयते स्म । कदाचित् पुनः, कश्चन नद्याः कथनं श्रोतुं तयोः सान्निध्ये रात्रियापनार्थमपि चाऽनुज्ञां गृह्णाति स्म । कदाचिच्च केचन कुतूहलिनो - द्वौ प्राज्ञौ साधुचरितौ योगिनौ वा नदीघट्टे वसत - इति कुतश्चिच्छ्रुत्वा समायान्ति स्म, तौ च बहून् प्रश्नानपि पृच्छन्ति स्म, किन्तु न किञ्चन प्रत्युत्तरं लभन्ते स्म नाऽपि च प्राज्ञौ योगिनौ वाऽप्युपलभन्ते स्म । केवलं द्वौ सौहार्दपूर्णौ वृद्धजनौ ते पश्यन्ति स्म यौ तेषां मूकावथ च विचित्रौ मूखौ च प्रतिभातः स्म । ततश्चोपहसन्तस्ते कथयन्ति स्म यदीदृशान् निरर्थकान् प्रवादान् प्रसारयन्तो जनाः नूनं मूर्खा अन्धश्रद्धालवश्च सन्तीति ! ।। वर्षाणि व्यतीतानि किन्तु द्वयोरन्यतरोऽपि तेषां गणनां नैव कृतवान् । अथाऽन्यदा गौतमबुद्धस्य शिष्याः केचन भिक्षवो नदीतटे समागता नदीपारप्रापणार्थं च तयोविज्ञप्तं तैः । नौचालनसमये भिक्षूणां सकाशात् ताभ्यां ज्ञातं यन्महात्मा बुद्धो गभीरतया रुग्णोऽस्ति, अचिरादेव च चरमं मरणं नाम निर्वाणं प्राप्य मोक्षं प्राप्स्यतीति, अतस्ते यथाशीघ्रं तत्र स्वगुरुचरणयोरन्तिमं दर्शनमुपदेशं च प्राप्तुं गच्छन्तः सन्तीति । ततश्चाऽल्पेनैव कालेन बहवः श्रमणगणास्तेनैव मार्गेण स्वगुरोः पार्श्वे गन्तुं समागताः । प्रायशः सर्वेऽपि भिक्षवो यात्रिणश्च केवलं गौतमबुद्धस्य विषये तन्निर्वाणस्य विषय एव च वदन्त आसन् । युद्धार्थं प्रयाणस्य समये राज्याभिषेककाले वा यथा जना सर्वदिग्भ्यः समागच्छन्ति, यथा वा मधुकोशं प्रति मधुमक्षिकाणां सङ्घाताः समागच्छन्ति, तथैव सहस्रशो जनाश्चुम्बकीयमाकर्षणमनुभवन्त इव मृत्युशय्यायां शयितं बुद्धं वन्दितुं, तन्निर्वाणोत्सवे सम्मीलितुं, युगोद्धारकस्य शाश्वततत्त्वप्राप्तेरवसरे च सन्निहिता भवितुं समागच्छन्ति स्म । निर्वाणोन्मुखस्याऽस्य महर्षेविषये सिद्धार्थश्चिराय चिन्तितवान्, यस्य वचनानि सहस्रशो जनानां जीवनानि परावर्तितवन्ति, यस्य च वचांसि स स्वयमप्येकदा श्रुतवानासीत्, यस्य च पवित्रं स्वरूपं सोऽहोभावेन दृष्टवानासीदेकदा । स तस्य वात्सल्यस्य विषये चिन्तितवान्, तेन प्ररूपितं निर्वाणमार्गोपदेशं स्मृतवान् । तस्य प्रतिभातं यत् तदा तेनोच्चारितास्ते शब्दाः किलौद्धत्यपूर्णा अकालपक्वा इव चाऽऽसन् । स स्मृतवान् यद् दीर्घकालं यावद् गौतमस्य प्रभावान्मुक्तो भवितुमपि स नाऽशकत् । एवं सत्यपि स तस्योपदेशांस्तु नैव स्वीकृतवान् । नैव, वास्तविकः सत्यगवेषको हि कदाऽपि कस्याऽप्युपदेशं नैव स्वीकुर्याद्, यदि स यथार्थतया किञ्चित् प्राप्तुमिच्छुकः स्यात् । येन च किन्तु किञ्चित् प्राप्तमस्ति स तु सर्वानपि मार्गान् सर्वाण्यपि च ध्येयानि समनुमोदते, यतः स जानात्येव यत् शाश्वततत्त्वं ये प्राप्ता ये च पूर्णानन्दमेव श्वसन्ति ते हि सर्वथाऽभिन्ना एव । अथैकदा, बहुषु जनेषु निर्वाणोन्मुखस्य बुद्धस्य दर्शनार्थं गच्छत्सु, पूर्वकालस्य गणिकानां श्रेष्ठा सुन्दरी कमलाऽपि तदर्थं निर्गताऽऽसीत् । बहोः कालात् पूर्वमेव सा स्वस्याः पूर्वतनजीवनान्निवृत्ताऽऽसीत् । ८९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy