SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मुखे, प्रपाते, घट्टे, प्रवाहे, समुद्रे, पर्वते चेति सर्वेष्वपि स्थानेषु; तथा तस्याः कृते केवलं वर्तमानकाल एव विद्यते, भूतकालस्य भविष्यत्कालस्य च छायाऽपि तस्यां नैव पततीति ?' _ 'एवमेव' – सिद्धार्थोऽब्रवीत्, 'यदा चाऽहमेतज्ज्ञातवान्, मया मे जीवनमपि समीक्षितं, तदपि च नदीतुल्यमेवाऽवर्तत । बालः सिद्धार्थः, प्रौढः सिद्धार्थो वृद्धश्च सिद्धार्थः केवलं छायाभिरेव भिद्यन्ते न पुनस्तत्त्वतः । अतीते सिद्धार्थस्य पूर्वजन्मान्यपि नाऽऽसन् भविष्यति च तस्य मरणं ब्रह्मणि च तन्निवर्तनमपि नाऽस्ति । अतीतं नामाऽनागतं च नाम न किमपि विद्यते, प्रत्येकं वस्तु केवलं वर्तमानमेवाऽस्ति, वर्तमान एव च वास्तविकोऽस्ति' । ___ सिद्धार्थोऽतीव प्रसन्नतया वदन्नासीत् । अनयोपलब्ध्या स भृशं प्रमुदित आसीत् । 'जीवनस्य सर्वमपि दुःखं, भयं, सन्तापश्च काले एव निहिता नाऽऽसन् खलु ? जगतः सर्वाण्यपि कष्टानि पापानि च काले जिते एव, काले निरस्ते एव वा न जितानि खलु ?' - स सोत्साहं वदन्नासीत्, किन्तु वासुदेवः केवलं मधुरं स्मित्वा स्वशिरश्चालितवांस्तदभ्युपगमदर्शनार्थं, स्वकार्ये च प्रवृत्तः । यदा च प्रावृषि नद्यां पूरं समागतं तरङ्गमालाकुला च सोच्चैर्जगर्ज तदा सिद्धार्थः पुनरप्यकथयत् - 'किं नैतत् तथ्यं मित्र ! यन्नद्येषा बहून् ध्वनीन् धारयति ? राज्ञो, योधस्य, गोः, पक्षिणो, गर्भवत्याः स्त्रियो, निःश्वसतो जनस्य सहस्रशश्चाऽन्ये ध्वनयोऽस्यां न सन्ति खलु ?' ___'सत्यमेतद् भोः !', वासुदेवः शिरश्चालनपूर्वं कथितवान् – 'नद्यामस्यां सर्वेषामपि जीवानां ध्वनयः सन्त्ये व' । 'तथा जानाति भवान् ननु, यद् - यदाकदाचित् कश्चन तस्याः सहस्रशो-ध्वनीन् समकालमेव शृणोति तदेयं किमुच्चारयति ?' – सिद्धार्थोऽग्रेऽपृच्छत् । वासुदेव उच्चैर्हसितवान् । ततः स सिद्धार्थं प्रति किञ्चिदवनम्य तस्य कर्णे पवित्रमोङ्कारमुच्चारितवान् । एतदेव च तदासीद् यत् सिद्धार्थेनाऽपि श्रुतम् । गच्छता कालेन सिद्धार्थमुखे विलसत्स्मितं वासुदेवस्मितमनुकर्तुमारब्धम् । तदेव तेजस्तदेव सुखं, ता एव च प्रकाशिता मुखरेखाः, तदेव च बालसहजं मौग्ध्यं, तदेव च वृद्धजनोचितं गाम्भीर्यम् । बहवः प्रवासिनस्तौ द्वावपि नाविको सङ्गतौ दृष्ट्वा 'भ्रातरावेता'विति निश्चिन्वन्ति स्म । बहुधा सायाह्ने तौ द्वौ सममेव नदीतटे वृक्षस्कन्धमवलम्ब्योपविशतः स्म । ततो निःशब्दतया द्वावपि नदीं शृणुतः स्म । नद्येषा तयोः कृते न केवलं जलमासीदपि तु जीवनस्याऽऽत्मनः शाश्वततत्त्वस्य च ध्वनिरासीत् । बहुशश्चैवमपि भवति स्म यन्नदीश्रवणकाले द्वयोरपि चिन्तनं तुल्यमेव भवति स्म, कदाचित् पूर्वतनदिनस्य संवादविषयकं, कदाचिच्च कञ्चन प्रवासिनमधिकृत्य वा - यस्य स्थित्या नियत्या च तयोश्चित्तमाक्रान्तं स्यात्, कदाचिन्मरणविषयकं, कदाचिच्च बाल्यमाश्रित्य । तथा यदा नदी तौ सममेव किञ्चन शुभं वदति स्म तदा द्वावपि परस्परं पश्यतः स्म, तुल्यमेव विचारं कुर्वन्तौ, तुल्यस्यैव प्रश्नस्य च तुल्यमेवोत्तरं लब्ध्वा प्रमुदितौ भवतः स्म । ८८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy