________________
प्रिय !, भवतः केशा अपि पलिताः सञ्जाताः । एवं सत्यपि भवान् तस्य युवश्रमणस्य सदृश एवाऽसि य एकदा विवस्त्रो रजोगुण्डितपादश्च ममोद्याने समायातः । कामस्वामिनं मां च विहाय यदा भवान् गतवांस्ततोऽप्यधुना भवानाधिक्येन श्रमणवत् प्रतिभाति । भवतो नेत्रे तस्य युवश्रमणस्येवैव स्तः सिद्धार्थ ! । अहमपि वार्धक्यग्रस्ता सञ्जाताऽस्मि, किं भवान् मां प्रत्यभिजानाति ?'
सिद्धार्थः स्मितवान् कथितवांश्च – 'प्रिये कमले ! अहं त्वां शीघ्रमेव प्रत्यभ्यजानम्' । ततस्तस्या नेत्रे विषप्रभावाद् घूणिते निमीलिते च । एतद् दृष्ट्वा बालको रोदनमारब्धवान् । तदा सिद्धार्थस्तमुत्सङ्गे शाययित्वा विलपन्तं तं मस्तके लालितवान् । अथ च, बालस्य तस्य मुखं दृष्ट्वा, स स्वीयशैशवेऽभ्यस्तमेकं ब्राह्मणगानं स्मृतवान् । ततो मन्दमन्दं स मधुरस्वरेण तं गानं गीतवान् । गानशब्दा अप्यतीतं शैशवं च समुल्लङ्घय समागता इव तन्मुखान्निःसरन्ति स्म । गानं श्रावं श्रावं स बाल ईषत् क्रन्दन्नेव निद्राधीनो जातः । सिद्धार्थस्तं वासुदेवशय्यायां शायितवान् । ततश्चल्लयामोदनं पचन्तं वासुदेवं दृष्टवान् । सोऽपि स्मितं कृतवान् ।
'एषा म्रियमाणाऽस्ति' – सिद्धार्थो मृदुतयोक्तवान् । ___ वासुदेवः शिरश्चालितवान् । चुल्लेरग्नेः प्रकाशस्तस्य मुखे प्रतिभासमान आसीत् । यातनया तस्या वदनं विवर्णं जातमासीत् । सिद्धार्थो दुःखं संविभजन्निव शान्त्यैकाग्रतया धैर्येण च तस्याः पीडायुक्तं मुखं निरीक्षितवान् । विदग्धा कमला दृष्टिपातेनैवैतदवगतवती ।
तमेव पश्यन्ती साऽकथयत् – 'मम प्रतिभाति यद् भवतो नयने अपि परावर्तिते स्तः । ते किञ्चिदिव विशिष्टे जाते स्तः । भवानितोऽपि सिद्धार्थ एवेत्येवं भवन्तं कथं प्रत्यभिजानीयाम् ? यतो भवान् सिद्धार्थः सन्नपि नास्ति तत्सदृशः !' ।
सिद्धार्थः किमपि नोवाच । केवलं शान्तभावेन तस्या नयनयोरेव विलोकितवान् । 'किं भवता स्वध्येयमधिगतम् ? किं भवताऽन्तः शान्तिः प्राप्ता वा ?' – सा पृष्टवती । सिद्धार्थः केवलं स्मितवान्, स्वहस्तं च तद्धस्तोपरि स्थापितवान् । 'आम्, मम दृश्यते एव; अहमपि शान्ति प्राप्स्याम्येव' – सा सोत्साहमुक्तवती । 'भवत्या प्राप्तैव सा किले'ति मृदुस्वरेण सिद्धार्थः कथितवान् ।
कमला स्थिरतया तमेव दृष्टवती । गृहान्निर्गमनकाले हि तस्या उद्देशस्तु गौतमबुद्धस्य दर्शनार्थं गमनमासीत्, तत्र च गत्वोपशमलेशस्य प्राप्तिरासीत्; किन्तु तत्स्थाने सा केवलं सिद्धार्थमेव प्राप्ता । तच्च शोभनमेवाऽऽसीत् तस्याः कृते, तथा शोभनं यथा सा महात्मानं बुद्धं दृष्ट्वाऽन्वभविष्यत् ! एतच्च सा तस्य कथयितुमिष्टवती किन्तु तस्या जिह्वा तदिच्छां नैवाऽनुवर्तितवती । शान्तभावेन सा तं विलोकितवती, स च तस्या दृष्टेः क्रमशः क्षीयमाणं जीवनं निरीक्षितवान् । यदा च तस्या नयनतोऽन्तिमः पीडाबिन्दुनिष्क्रान्तः, यदा च तस्या शरीरादन्त्यः कम्पोऽतिक्रान्तः, सिद्धार्थः स्वीयाङ्गुलीभिस्तन्नयनच्छदे पिहितवान् ।
९१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org