SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ कथा निलोभिता सा. श्रीधृतियशाश्रीः ___एकदा देशे दुष्कालो जातः । क्षुधा मरणावसर आगतः । तदा एक उदारः श्रेष्ठी उद्घोषितवान्, "अहं नित्यं बालकेभ्यो रोटिका दास्यामि" । एतादृश्युद्घोषणां श्रुत्वा द्वितीयदिने सहस्रं बालकास्तस्य गृहाद् बहिः समागच्छन् । ते सर्वेऽपि बाला रोटिका नेतुं कोलाहलं कुर्वन्तो धावन्तश्च रोटिकानामपि खण्डान् चक्रुः । रोटिकास्सूक्ष्मस्थूलाः सर्वप्रकारा सञ्जाताः । प्रत्येकं बालस्स्थूलरोटिकां प्राप्तुम् ऐच्छत् । . एभ्यो बालकेभ्यो दूरमेका धीरा बाला मौनेन स्थिता । यदा सर्वैः बालकै रोटिका गृहीता तदा साऽग्रे आगतवती । सर्वेषु बालकेषु रोटिकां प्राप्तवत्सु तस्यां स्थाल्यामेकैव रोटिकाऽऽसीत् । सा हृष्ट्वा तां रोटिकामग्रहीत् गृहं च प्रति चलिता । ____ अनेनैव क्रमेण प्रत्येकं दिने रोटिकादानं प्रवृत्तम् । अद्य दिनेऽपि ह्य इव घर्षणं कोलाहलश्च अभूत् । किन्तु अद्याऽपि सा तेनैव प्रकारेण स्थिता । सर्वे बाला घर्षणं कृत्वा शोभना रोटिका नीत्वा गताः, प्रान्ते च या लघुरोटिका शिष्टा तां गृहीत्वा सा गृहं प्रति प्रस्थिता गृहं गत्वा यदा तया रोटिकायाः खण्डः कृतस्तदा तस्या मध्यात् सुवर्णमुद्रा निरगच्छत् । बालाया माता बालायै तां मुद्रां श्रेष्ठिने प्रतिदातुं कथितवती । बाला यदा मुद्रां गृहीत्वा श्रेष्ठिनो गृहं समागमत् तदा श्रेष्ठी उक्तवान् - "अहं मुद्रामाभोगेनैव सकलरोटिकाभ्यो लघुरोटिकायां स्थापितवान्, अहं धीरबालकाय पुरस्कारं दातुमैषम् । अतस्तां त्वमेव धारय' । तदा मुग्धा बाला अवोचत् – "मम धैर्यस्याऽयं पुरस्कार आसीत् यन्मम केनाऽपि सह घर्षणं न जातम् । परमिमां गृहीत्वाऽहं लोभिनीभविष्यामि, सर्वदा च सकलरोटिकाभ्यो लघुरोटिकां प्राप्तुं प्रयतिष्ये। अतो भवान् इमां प्रतिगृह्णातु' । एवं श्रुत्वा श्रेष्ठी बालया प्रभावितो जातः । तया च सह निजपुत्रीवत् व्यवहारं कृतवान् । उपदेशः – कदाऽपि लोभो न कर्तव्यः । १३२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy