________________
तव दुःखं तव मुखादाविर्भवति । अतो मिथ्या मा वादीः । सत्यं कथय । आवयोः सख्यं घनमस्ति चेत् कथने कः सङ्कोचः ?"
अन्ततो मित्रस्याऽत्यन्ताग्रहवशात् सलज्जो रघुरवदत् - "निमाय ! मयाऽपि अस्मिन्नेव विषये संस्कृतग्रन्थो विरचितोऽस्ति । ह्य एव तल्लेखनं समाप्तम् । परं...परं..."
"परं किम् ? निःसङ्कोचं वद ।" निमायो धैर्यं दत्तवान् ।
"परं, मत्कृतिस्त्वत्कृतितोऽतीव निम्नतराऽस्ति । अतो मनसीषत् खेदो जातः 'मम प्रयासो वृथा भविष्यती'ति । अहं जानामि 'मम खेदः सर्वथाऽनुचितः' इति । ईदृशं चिन्तनं मया न कर्तव्यम् । तत एवेदानीं यावदिदं मया तुभ्यं न ज्ञापितम् । किन्तु, इदानीं किञ्चिदपि दुःखं न विद्यते । त्वं मनागपि अन्यथा न चिन्तय । आवामभिन्नहृदयौ स्वः । अतस्तव ग्रन्थोऽपि ममैव ग्रन्थः । अधुना त्वं मदीयां चिन्तां त्यज, ग्रन्थं चाऽऽनय ।"
किन्तु.. रघु श्रुत्वा निमायेन तु किञ्चिदकल्पितमेव कृतम् । अचिरेण तमननुकृति (प्रत्यन्तररहितं) ग्रन्थं निमायः सरिते समर्पितवान् ।
प्रशस्यतरं ग्रन्थं जलसमाधि गृह्णन्तं दृष्ट्वा रघुः सवेगमरोदीत् । रुदन्नेव सोऽवदत् - "निमाय ! त्वया किं कृतमिदम् ? तव बहूनां दिवसानां मासानां च प्रयासो निरर्थकः सञ्जातः । मदुःखं तु केवलं क्षणिकमासीत् ।"
तदानीं विश्वस्याऽनन्याया मैत्र्या उदाहरणं दर्शयन्निव निमायः सस्मितमाह - "मित्र ! इदानीं दुःखस्य किं कारणम् ? मच्चेतसि तव मैत्री ग्रन्थादधिकाऽस्ति । किञ्च, अधुनैव त्वमपि उक्तवान् 'आवामभिन्नहृदयौ' इति । अतस्तव ग्रन्थोऽपि ममैव ग्रन्थः । ततो मम ग्रन्थोऽधुनाऽपि विद्यते । रोदनं मा कुरु मित्र !" निमायो वदति स्म, रघू रोदिति स्म ।
ज्योत्स्नामयी सा रात्रिरविस्मरणीया सञ्जाता । कीदृशी साधुवादाऱ्या मैत्री ? अनेन प्रसङ्गेन जगतैकमनुकरणीयमुदाहरणं प्राप्तम् ।
१३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org