SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आस्वादः प्रगाढ़विचाराः डॉ. मदनलालवर्मा यथा सागरस्य समुत्थितास्तरङ्गा अन्तरिक्षालम्भनस्य प्रयासं कुर्वन्ति, तेनैव प्रकारेण मानवस्येहा बलवत्यो भूत्वा संसृतेः सकलानन्दप्रापणस्य प्रयासं कुर्वन्ति । वृत्तमिदं कुत्रपर्यन्तं सत्यमस्ति, इत्यत्र चिन्तनस्याऽऽवश्यकता वर्तते । निजनिर्दिष्टस्थानं प्रापणायाऽस्माभिः कण्टकाकीर्णमार्गेष्वपि प्रचलनीयं भवेत्तर्हि विकलैर्न भवतिव्यम् । प्रणयः प्रसह्य केनाऽपि साकं न विधातुं शक्यते । इदं हि पूर्वसंस्कारगतभावनाधारेण जायते । प्रणयार्थं काश्चन विशिष्टाः परिस्थितयोऽपगम्याऽऽयान्ति । तासु दशासु बद्धो जनः स्वत एव प्रणयमार्गेऽग्रेसरो भवति । उपवने विकसितानां पुष्पाणां सुरभिरस्मभ्यमिदं दिष्टं प्रेषयति यद् यूयमपि स्वचरित्रस्य सौरभं सर्वत्र प्रसारयथ, तथा यथाऽन्ये जनास्तदनुभूय हर्षिता भवेयुस्तथा च युष्मदर्थे सद्विचाराणां सृष्टिं कुर्युः । ___ अस्मान् स्वतोऽस्य वृत्तस्य स्मरणं न जायते यद् वयं कुत्र गच्छामः । परिस्थित्या समाधानं विधाय गन्ता जनः कदाचिद् वञ्चितो भवति । परिणामस्य विषये शोचनस्याऽपेक्षया कर्मलीनेन भवितव्यम् । येन ब्रह्मणा जन्म प्रदत्तं, तस्याऽधिकचिन्ता वर्ततेऽस्मभ्यम् । याथार्थ्येन तेनैव प्रकारेण, यथा कस्यचिदबोधस्य शिशोश्चिन्तनं तस्य जननी करोति । दीपके शलभाः स्वत आगत्य वारं वारं ज्वलन्ति । अनेनाऽस्माभिरपि चिन्तनीयं यद् वयमेषां हितायाऽऽत्मानं समर्पयेम । 'परहितसमा निष्ठा न भ्रातः !' एतस्य विचारस्याऽऽत्मसात्कर्ता जनोऽन्तरात्मनि सानन्दो वसति । असावनेन शान्ति लभते । अन्ये जना यथाकामं किमपि चिन्तनं कुर्युरस्माभिः स्वकर्त्तव्ये आस्तिकबुद्ध्या पुरतो गमनीयम् । ४६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy