________________
स्वभावादेव च प्रथयन्ति कविप्रकाण्डगन्धवाहा दिक्षु विदिक्षु च गुणवद्गरीयोयशःकर्पूरपूरसौरभप्रतिमानम् । यतो नहि विकसत्तरमम्भोजन्म अधर्मकर्मकृज्जन्मवल्लभवलक्षचक्षुरनध्यक्षलक्ष्म्याः स्वस्मिन्निवासाय प्रार्थनाचाटूनि घटयदुपलभ्यते, किन्तु गुणगरिष्ठश्रेष्ठस्थानतया तत्रैव वावसीति सा । न चाऽपि राजद्राजीवराजी रणरणकारकारिमधुकरनिकराकारणाय क्वचनाऽप्यरियरीति, किन्तु स्वयमेव तद्गन्धसौरभलोलुपास्ते मधुपा गायन्त इव तद्गुणनिकरान् झणझणाकारिरावप्रकारैः परिवरीव्रतः सर्वतः तदलङ्करणभूयं सम्प्रतिपनीपद्यन्ते । अनभ्यर्थिता अपि च स्वस्यैवोद्यच्छोभाविशेषसमुन्मेषाय तथैवाऽर्हतया नरविसरोत्तमा अपि निवेशयेरंस्तां निजोत्तमाङ्गभागे स्वेनैव च वितन्तन्यन्ते तद्गन्धसौरभपूरं सर्वतो दिगुदरविवरेषु गन्धवाहाः । तस्माद्गुणानेवेह बंहीयोमहिमप्रारभाराऽप्रतिहननहेतुतया निरूपयामः खल्वपि ।
किञ्च, वचनमपि गुणवन्मुखादेव समुत्थितं सम्यगादेयतामादधानमादेद्रीयन्ते विबुधधुरीणाः । तथा चाऽवादिषुर्विदुराः -
क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातुः स्तनात्पिबतः ॥१॥ तद्वत्सुभाषितमयं क्षीरं दुश्शीलभाजनगतं तु ।
न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पतितम् ।।२।। तस्मादनणीयः श्रेयःसाधनप्रगुणगुणानुरागादिगुणोपार्जन एवाऽऽहितावधानैर्भवितव्यं स्वहितैषिभिर्मनीषिभिः । त एव चाऽर्हन्ति श्रेष्ठशिष्टगोष्ठीमपि । तेनाऽथ अर्हथ प्रथीयःसद्गुणानुरागासङ्गितया यूयमिदानीमिमाम् । वयमपि च सम्यगुपासितश्रीगुरुचरणसरोजाऽप्रतिमप्रसादादधिकारिण एवाऽत्र । यतो द्रढीयोद्रढिमजडिमप्रचण्डिमावष्टब्धचेतस्का अपि श्रीमद्गुरुवदनोद्गच्छद्वचनप्रपञ्चोद्यद्दिनकरकरनिकरप्रतिहतान्तरतमःपटलपटिमतया समबोबोधिष्टाऽक्षोदीयोलक्षणाप्रतिमप्रमाणच्छन्दोऽलङ्कृत्यादिप्रशस्तशास्त्राणि । यतो नास्तीह तत्किञ्चिदवद्यं, महतां चरणपरिचर्यापि यत्पाटने न पटुपटिमानं प्रकटयति, घटयत्येवेयं दुर्घटोत्कृष्टविशिष्टश्रीघटानामपि सण्टङ्कम् । विघटयत्येव च स्फुटं कटतटानीव घटपेटकं विकटतरदुरितकोटीरपि । सामान्यजनेष्वपि किञ्चिद्गरिष्ठपुण्यस्थविमवशात्तुष्टिपुष्टिमुपगताः श्रीगुरुपादा जायन्ते एव जगज्ज्येष्ठस्थेष्ठसम्पत्साधनपटिष्टाः । यदुक्तं -
गुरुयाणं चलणसेवा न निप्फला होइ कइया वि ।
ततः सुखेनैव तथाविधधिषणासाधिमविधुरा अपि श्रीमद्गुरुगुरुप्रसादमध्यासीना अध्यगीष्महि, अधीमहे चाऽद्याऽपि विशुद्धबुद्धिप्रबोध्यमेध्यशास्त्राणि । तथा तत्तद्वस्तुव्यतिकरेषु तत्त्वातत्त्वविचारणचतुरचेतोवृत्तितामपि प्रतिकलं कलयामः । नहि श्रीमद्गुरुप्रसादकल्पद्रुमप्रभाववैभवस्येयत्ता काऽपि समस्ति । तथा स्वभावात् श्रीगुरूपदेशाच्च गुणवत्प्रेक्षणप्रहर्षिणोऽपि वरिवृत्मः । तथा तथाविधबुधप्रष्ठप्रेष्ठवरिष्ठगोष्ठीरसिकस्वान्ततामपि देध्रीयामहे । अतो युक्तिमत्येव सम्प्रत्यावयोरेषा शास्त्रगोष्ठी । ततो विधीयते क्षणम् ।
[अनुवर्तते]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org