________________
प्राप्नुयाद् वर्षसहस्रैरपि कश्चित् परं नैकोऽप्येतेषु कश्चिदहङ्काराद्यनघगुणकालुष्यकलुषितमात्मानं बभार । हन्त तर्खेतदपेक्षया कः खलु ज्ञानातिशयः साम्प्रतकालीनानां जनानाम् ? किञ्च – एतन्निष्टङ्कितमिह जानीहि, यत्राऽहङ्कारान्धकारप्रचारो, न तत्र निर्मलज्ञानदिनकरकरप्रचारः, विद्याहङ्कारयोः सहाऽनवस्थानस्वभावविरोधविधुरत्वात् । एकतरसम्भवे इतराभावस्य स्पष्टनिष्टङ्कनात् । कुत्रचिदहङ्काराभावेऽपि विद्याविरहदर्शनेन नाऽत्र व्यभिचारचौरप्रचारः शङ्कनीयः । तत्र तदुत्पादकाध्ययनादिसमग्रकारणभावहेतुकोदारविद्यानुपलम्भेपि तद्योग्यताया विद्यमानत्वात् ।
न च वयं निरहङ्कारत्वमेव सर्वथा विद्याहेतुं ब्रूमः, तदन्येषामप्यध्ययनादितद्धेतूनां विद्यमानत्वात् । न च विद्यारूपस्वकार्योत्पादनासमर्थत्वात् तस्य तद्योग्यताया अप्यभाव, इति वाच्यं, तदन्यकारणाभावनिमित्तकत्वात्तदनुत्पादनस्य । न च मुख्यहेतुसम्भवेऽप्यपरहेत्वनपेक्षं कार्योत्पादः सम्भवति, तेषां तदनिदानप्रसक्तेः । यो यदभावेऽपि भवति, न तत्तस्य कारणं, घटस्येव तन्तवः । तन्नैवं तत्र तद्योग्यताभावः साधयितुं शक्यः
न चैवं साहङ्कारस्याऽपि तद्योग्यता भवत्विति चिन्त्यं, तस्य कदाऽपि तददर्शनात् । अथाऽऽचक्षीथाः प्रत्यक्षमृषावादित्वमेतत्, यदहङ्कारिपुरुषव्रातानां सन्तमपि विद्याप्राग्भारमपहृध्वे । दृश्यन्ते हि बहवोऽपि सुधियोऽप्रमाणोन्नताहङ्कारशिखरिशिखरमारूढचेतसोऽपि विद्यावैशारद्यापहृतसहृदयहृदया इति । तदेतदज्ञानमदिरापानविह्वलचेतसां प्रलपितम् । तत्पुरुषाणां चातुर्वेदस्य विद्यात्वायोगात्, तदयोगश्च तत्फलविरहात् । विद्या हि ज्ञानमुच्यते, तस्य चाऽनन्तरफलं कुमार्गविरत्यादि, सन्मार्गासेवनादि च । तथा चोक्तम् -
ज्ञानस्य फलं विरतिरित्यादि । तथा 'तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसो हि कुतः शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ इत्यादि ।
अहङ्कारस्य रागाद्यविनाभावित्वात्तत्त्वतस्तदभेदाच्चेति । न चाऽहङ्कारः सन्मार्गस्तस्य भवहेतुत्वात्, शिष्टनिन्दितत्वाच्च; आखेटकादिवत् । इति सिद्धं यत्राऽहङ्कारघोरान्धकारप्रचारो, न तत्र ज्ञानदिनकरकरविहार इति दर्पापाकरणम् ।
अतः परित्याज्योऽयं सर्वथा प्रशस्यश्रेयोमार्गाराधनप्रधानसाधनानवद्यविद्याविशारदादिभिः साभिलाषिभिरवलेपाक्षेपः । विधेयोऽनवरतमप्रतिमगुणानुरागसङ्गः, उपार्जनीयाश्च सम्यग्ज्ञानविनयनयविवेकादिगुणनिकराः । यतो गुणा एव दुष्प्रापाः प्रबलकलिकालविलासानुभावस्फुरदोषजालबहुलेऽत्र क्षितितले, गुणवानेव च त्रिविष्टपेऽपि विशिष्टजनेषु स्पष्टप्रतिष्ठास्पदं जञ्जभ्यमानः समीक्ष्यते दक्षैः । यतो गुणाः सर्वत्र पूज्यन्ते । तथा गुणवन्तमेव हि वरीवृणीयुरहमहमिकया निरस्तापदस्तत्तत्सकलसम्पदः । ऋद्धिसमिद्धा अपि दुर्लभतरगुणवच्चरणपरिचर्यालालसमानसाः सर्वतस्तदभ्यासदेशालङ्करणं बोभूयेरन् । अप्रार्थिता अपि च तद्गुणप्रकरप्रेक्षणप्रहृष्टमानसा निर्व्याजभक्तिभावितान्तःकरणतया गुणवत्पदयुगलं स्वमौलौ मौलिलीलामवलम्बयेयुः ।
४४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org