________________
प्रास्ताविकम्
लेखनं नाम किम् ?
कस्यचन भावस्य विचारस्य वा भाषामाध्यमेनाऽभिव्यज्याऽन्यस्य मनसि प्रापणं प्रत्यायनं वा नाम लेखनम् । अत्र हि तत्त्वद्वयमस्ति – कथयितव्यं, भाषा च । तन्नाम, प्रथमं तावत् यत् कथयितव्यमस्ति तद्विषयकः स्पष्टो बोध आवश्यकः । असति हि स्पष्टे बोधे सुष्ट्वप्यभिव्यक्तिसामर्थ्यं परप्रत्यायने सफलं नैव भवेत् ।
स्पष्टे बोधे च सति तदभिव्यक्त्यर्थं भाषासामर्थ्यमपि सुतरामावश्यकम् । अन्यथा स्वमनसि स्पष्टबोधवत्यपि लेखनं निष्फलं भवेत् ।
एवं च तत्त्वद्वये सत्येव सफलतया लेखनं कर्तुं शक्यम् । यो हि स्वेन कथयितव्यं किमित्येव न जानाति तस्य लेखनं हि यथाकथञ्चित् प्रवर्तमानमुन्मत्तस्याऽटाट्येव भवति । एतादृशे लेखनेऽसाङ्गत्यमसम्बद्धतास्पष्टतेत्यादयो दोषा दृश्यन्ते । ततश्च वाचकस्य प्रत्यायनं सर्वथा न भवति ।
यश्च कथयितव्यं सम्यगवबुध्यते किन्तु तदभिव्यक्तये भाषासामर्थ्यं न धारयति तस्य लेखनं यद्यपि प्रत्यायनसमर्थं तु कथञ्चिद् भवेत् तथाऽपि तस्य यथार्थः प्रभावो नैव भवेत् ।
Jain Education International
6
For Personal & Private Use Only
www.jainelibrary.org