SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ अत्र निष्कर्षस्त्वयमेव यल्लेखनार्थं प्रथम सोपानं स्पष्टो बोधोऽनिवार्यः, तस्मिंश्च सति भाषाप्रावीण्यमावश्यकम् । तत्त्वयोश्चैनयोराधारेण लेखकानामपि चतुभिः प्रकारैर्वर्गीकरणं शक्यम् - १. यस्य विचारणं स्पष्टं तर्कशुद्धं च स्यात्, तदभिव्यक्तिसमर्थं च भाषाप्रावीण्यमपि स्यात् । २. यस्य विचारणं स्पष्टं स्यात्, परं भाषासज्जताऽल्पीयसी स्यात् । ३. यस्याऽभिव्यक्तिसामर्थ्य भाषाप्रावीण्यं च स्यात् परं विचारशक्तिरल्पीयसी स्यात् । ४. यस्य विचारणं त्वस्पष्टमेव स्यात् सहैव भाषासज्जताऽपि न स्यात् । अत्र प्रथमः प्रकारः सर्वथा प्रशस्यः । द्वितीयोऽपि कथञ्चिदुत्तीर्ण एव । परं तृतीयश्चतुर्थश्च प्रकारः सर्वथा नाऽऽदरणीयः । किन्त्वद्यत्वे साहित्यजगतो दौर्भाग्यमस्ति यल्लेखकेषु पाश्चात्यौ द्वौ प्रकारावेवाऽत्यधिकतया दृश्येते । अतः सर्वत्र तुच्छानां निःसाराणां चैव पुस्तकानां प्रसारः प्रचारश्चाऽऽधिक्येन दृश्यते । ____ अत्र कारणानि तु बहूनि स्युः परं द्वित्राणि तु विशेषतया प्रतिभान्ति-प्रथमं तावदस्मिन् युगे मुद्रणमतिसुलभं सञ्जातमस्ति । यः कोऽपि जनो यत्किमपि लिखित्वा यदा-कदाचिदपि मुद्रयितुं प्रकाशयितुं समर्थो जातोऽस्ति । अन्यच्च, पूर्वं हि लेखकाः स्वलिखितं सर्वमधिकारिविद्वज्जनेन संशोधयन्ति स्म, तत्सकाशाच्चाऽनुमतौ लब्धायामेव तत् प्रकाशयन्ति स्म । किन्त्वद्यत्वे तादृशं नियामकं किमपि तत्त्वं समाजे न विद्यते, यतः प्रायो जना जन्मन्याः सन्ति । यदि च कुत्रचित् तादृशं तत्त्वं स्यात्तदाऽपि तस्याऽवधीरणमेव क्रियते । फलतश्च साहित्यजगतो महान् भागो निरर्थकैर्मुद्रणैनिःसारैश्च प्रकाशनैः सङ्कलो जातोऽस्ति । एतेन सद्वाचनमिच्छतामपि सामान्यवाचकानां समक्षं तादृशान्येव पुस्तकानि पुरस्क्रियन्ते । उत्तमानि पुस्तकानि त्वत्यल्पानि कुत्रचिन्निलीनानीव शोधनेनैव प्राप्यन्ते । ___ अथ चाऽसाराणि पुस्तकानि पठित्वा ये नूतनतया लेखका भवन्ति तेऽपि तादृगेव लिखन्तीति दुश्चक्रमिदं सदाऽऽवर्तमानमेव भवति । एतस्माद्दुश्चक्रात् समाजस्य बहिरानयनं हि प्रेक्षावतामधिकारिणां च विद्वज्जनानां लेखकानां च कर्तव्यम् । तच्च तैरविलम्बेनाऽस्खलिततया च निर्वोढव्यमेवाऽन्यथाऽऽगामिनि काले समाजोऽयं पठन-वाचनाभ्यां निविण्ण एव भविष्यति । किं वयमेतदर्थं सज्जाः स्मो वा ? चिन्त्यताम् !! कीर्तित्रयी चैत्रशुक्ला पूर्णिमा गोधरानगरम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy