SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ३. संसारः चिरकालाय सिद्धार्थः सांसारिकोऽभूत्वा संसारे जीवन् आसीत् । श्रमणावस्थायां सुषुप्तानि तस्येन्द्रियाणीदानीं पुनरपि जागृतानि आसन् । समृद्धः शृङ्गारभावस्य सत्तायाश्च स्वादस्तेन प्राप्त आसीत् । तथाऽपि चिराय सोऽन्तःकरणेन श्रमणवदेव जीवितवान् । चतुरा कमला ह्येतल्लक्षितवत्यासीत् । तस्य जीवनं सदाऽपि विचार-प्रतीक्षोपवासैरेव शासितमासीत् । जगतो जनाः - सामान्यजनास्तस्य कृते परदेशिन इव सञ्जाता आसन्, सोऽपि च तेषां कृतेऽपरिचित इवैवाऽऽसीदधुनाऽपि । वर्षाणि व्यतीतानि । अनुकूलसंयोगैः सर्वथा सुखीभूतः सिद्धार्थः कालविषये सर्वथाऽनवधान आसीत् । स धनिको जात आसीत् । चिरादेव तेन स्वकृते विशालं गृहं निर्मापितमासीद् यच्च सुस्थं रक्षितुं बहवः सेवका अपि तत्राऽऽसन् । नगराच्च बहिर्नदीतटे तेन स्वीयमेकमुद्यानमपि निर्मितमासीत् । जनास्तं प्रीणन्ति स्म, तथा यदाकदाचित् धनादीनां साहाय्यं मार्गदर्शनं च ग्रहीतुं तत्पार्वे समागच्छन्ति स्माऽपि । किन्त्वेतावताऽपि समग्रेऽपि नगरे कमलाया ऋते तस्य न केऽपि निकटस्नेहिन आसन् । अथ च महात्मनो गौतमबुद्धस्योपदेशस्य श्रवणानन्तरं गोविन्दाच्च वियोजनानन्तरं स्वीययौवने सिद्धार्थेन यदुत्कृष्टं प्रबुद्धचैतन्यमनुभूतमासीत्, तथा परमजागृतेर्विशुद्धेच्छा, गुरोः शास्त्रेभ्यश्च विनैव स्थातुमग्रेसतुं च गर्वः, स्वीयान्तःकरणे उद्भवतो दिव्यध्वनेः श्रवणार्थमुत्सुकता - एतत्सर्वमपि शनैः शनैः स्मृतिशेषं सञ्जातमासीत् । यः पवित्रश्चैतन्यनिर्झर एकदा तस्य हृदयासन्नमेव सकलकलं प्रवहमान आसीत् स क्रमशो दूरं गच्छन् क्षीयमाणनादश्चाऽभवत् । एवंस्थितेऽपि श्रमणानां सकाशाद्, गौतमस्य, स्वपितुर्ब्राह्मणानां च सकाशात् स यद्यच्छिक्षितवान् तत् सर्वमपि - संयतं जीवनं, विचारवैशा, दीर्घकालीनं ध्यानं, स्वात्मनो नित्यत्वस्य देहमनोभ्यामन्यत्वस्य च गूढं ज्ञान-मित्येतेषामेकैकशो बोधस्यांऽशा निष्क्रिया उपेक्षिताश्च जातास्तथाऽपि किञ्चित्तु तत्राऽवशिष्यते स्म । प्रभूतो बोधस्तच्चित्ते सुदीर्घकालं स्पन्दमानो न्यवसत् । यथा कुम्भकारस्य चक्रं गतिमज्जातमेकदा, चिराय परिभ्राम्यति, ततश्च शनैः शनैर्मन्दभ्रमणं भूत्वा प्रान्ते स्थिरं भवति; तथा संयमस्य, विचारस्य विवेकस्य च चक्रं - सिद्धार्थचित्ते गतिमज्जातं - चिराय पर्यभ्राम्यत्, अधुनाऽपि परिभ्राम्यति स्म, किन्तु क्रमशो मन्दीभूतवेगं सस्खलनं च, स्तोकवेलया च स्थिरीभविष्यतीव । यथा विनश्यवृक्षप्रकाण्डं प्रविश्य क्लेदः शनैः शनैस्तं विशीर्णं करोति तथा संसारो जाड्यं च सिद्धार्थात्मनि प्रविश्य तं गुरुभारं, परिश्रान्तं, निद्रामग्नं च व्यधत्ताम् । किन्त्वन्यतस्तस्येन्द्रियाणि ह्यधिकाधिकं जागृतान्यभवन् । तानि बहु शिक्षितवन्ति ततोऽप्यधिकमनुभूतवन्ति च । ६८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy