SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ यो वितरति तादृशं बोधम् । सहस्रशो युवकास्तस्योपदेशं प्रत्यहं शृण्वन्ति तस्याऽनुशासनं च प्रतिक्षणं पालयन्ति । किन्तु ते सर्वेऽपि हि सन्ति पतितपर्णतुल्याः, तेषामन्तःकरणे प्रज्ञायाः प्रकाशो नाऽस्ति नाऽपि चाऽऽन्तरो मार्गदर्शकः' । कमला तं विलोकयन्ती स्मितं कृतवती, 'भवान् पुनरपि तस्य विषये वदति' - सोक्तवती । 'भवान् पुनरपि श्रमणवद् विचारयन्नस्ति' । सिद्धार्थस्तूष्णीं भूतः । ततस्ताभ्यां प्रेमकेलिरादृता । कमलाः तस्याश्चत्वारिंशदधिकप्रकारेषु पारङ्गताऽऽसीत् । तेषामन्यतम एव प्रकारस्ताभ्यां समारब्धः । कमलायाः शरीरं चित्रकस्येव चपलं व्याधस्य धनुरिव च सुनम्यमासीत् । यः कोऽपि तत्सकाशात् प्रेमक्रीडां शिक्षेत स बहुविधानि सौख्यानि प्राप्तुं रहस्यानि चाऽवगन्तुं शक्नोति स्म । सा सिद्धार्थेन सह चिरायाऽक्रीडत्, सा तं निराकृतवती, अभिभूतवती, आक्रान्तवती, पराजितवती, स्वीयप्रभुत्वेन हृष्टा जाता च । प्रान्ते स तया वशीकृतः सन् श्रान्तो भूत्वा तत्पार्वे शयितवान् । कमला हि किञ्चिदवनम्य तस्य वदनं श्रान्ते च नयने निरीक्षितवती । 'अद्ययावत् मया ये प्रेमिणः प्राप्तास्तेषु भवानेव श्रेष्ठः' - सा विचारयन्तीव कथितवती । 'भवान् अन्येभ्यो दृढतरोऽधिकचपलोऽधिकानुकूलश्च । भवता मम कला सुष्ठ शिक्षिताऽस्ति । सिद्धार्थ ! यदाऽहं वयस्का भविष्यामि तदा, विचारयामि यद् भवत्तोऽपत्यं प्राप्स्यामि । किन्त्वेतावताऽपि भवान् श्रमण एव । भवान् वस्तुतो मां नैव प्रीणाति - भवान् कमपि नैव प्रीणाति । किं सत्यमिदम् ?' । - 'स्यात् कदाचित्' – सिद्धार्थः क्लान्त्या प्रोक्तवान् । 'अहं भवादृश एवाऽस्मि । भवती अपि कमपि नैव प्रीणाति, अन्यथा कथं भवती प्रेम कलात्वेनाऽभ्यस्येत् ? अस्मादृशा जनाः स्नेहं कर्तुमसमर्थाः खलु ! सामान्यजनास्तत्र शक्ताः, तदेव तेषां रहस्यम्' । ६७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy