________________
श्रीगौतमस्वामि-स्तुति-षोडशिका
आ. विजयहेमचन्द्रसूरिः
(उपजाति-वृत्तम्)
सुवर्ण-पद्मासन-संनिषण्णं, स्फुरत्प्रभामण्डलभासमानम् । देवेन्द्रवृन्दार्चितपादप , श्रीगौतमं सत्तममानमामि ॥१॥ ग्रामः पवित्रः खलु गोब्बराऽऽह्वः, पुण्या च पृथ्वीजननी नितान्तम् । तातोऽपि धन्यो वसुभूतिनामा, यत्राऽजनि श्रीगुरुगौतमोऽयम् ॥२॥ यदीयलोकोत्तरसद्गुणानां, पारं न प्राप्नोति गुरुः कदापि । द्विजान्वयेन्दुर्गुणरत्नसिन्धुः, स राजतां गौतमयोगिराजः ॥३॥ वीरप्रभोराद्यगणाधिपो यो, भव्याम्बुजोदबोधनतिग्मरश्मिः । समीप्सितार्थप्रददर्शनोऽसौ, विराजतां गौतमयोगिराजः ॥४॥ यो बीजबुद्ध्या रचयाञ्चकार, सद्द्वादशाङ्गी भुवनोपकृत्यै । मुहूर्त्तमात्रेण पदत्रयेण, तमिन्द्रभूतिं प्रणमामि कामम् ॥५॥ स्वशक्तितोऽष्टापदपर्वते यो, जगाम नन्तुं जिनराजपादान् । भव्यात्मनां कामितकल्पवृक्षः, स राजतां गौतमयोगिराजः ॥६॥ ख-व्योम-बाण-क्षिति(१५००)-सङ्ख्यकेभ्यः, सत्तापसेभ्यो निजलब्धिशक्त्या । योऽदात् पयोव्याजत एव तत्त्वं, तं गौतमं सद्गुरुमानमामि ॥७॥ उत्पेदिरे योगबलेन यस्य, श्रोतो-नभोयान-पुलाकमुख्याः । अक्षीण-सौषधिलब्धयश्च, तं गौतमं सद्गुरुमानमामि ॥८॥ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org