SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ रमणी संशोधकाः कथयन्ति यत् शिक्षिकाः पत्नीत्वेन श्रेष्ठा भवन्ति - इति । किमर्थं तथा स्यात् ? रमणः यतः, प्रश्नः कथं प्रष्टव्य इति ताभिः शिक्षितं भवति, तथा प्रश्नस्योत्तरं श्रोतुं कियच्चिरं तूष्णीं स्थातव्यमित्यपि !! विदग्धः अहो ! भवान् विदेशादधुनैव प्रतिनिवृत्तो वा ? किं तत्रत्यया भाषया भवतः काचिद् बाधा जाता वा ? दुर्विदग्धः न, मम तु न काचिद् बाधा जाता, किन्तु तत्रत्यजनानां तु भृशं जाता !! एकस्मिन् कार्यक्रमे सुदीर्घ प्रवचनं दत्त्वा गृहं समागतः कश्चन विद्वान् स्वपत्नी पृष्टवान् – 'कथमासीदद्यतनीयं मे निर्वहणम् ?' पत्न्या कथितम् – अत्युत्तमम् ! नवरं भवान् प्रवचनाद् विरमणस्य कांश्चन श्रेष्ठानवसरान् विफलीकृतवान् !! पतिः अस्माकमधिकारी दुष्टोऽस्ति, किन्तु तत् शोभनमस्ति । । पत्नी कथं तत् ? पतिः स सर्वेषामपि कर्मकराणां कृते दुष्टोऽस्ति !! १३४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy