________________ ..... तर्हि लिखतु !! - किं भवान् क्षणस्य नयनयोः कज्जलमञ्जितुं जानाति? ... तर्हि लिखतु!! मरुप्रदेशस्य विषादं मरीचिकाजलेन मार्जयितुं शक्नोति? .... तर्हि लिखतु !! - जनमध्येऽपि एकाकी स्थातुं जानाति? ... तर्हि लिखतु!! स्वस्मादपि विच्छिन्नो भवितुं शक्नोति? ... तर्हि लिखतु !! "न किमपि जानाम्यह''मिति स्वीकृत्य स्थिरीभवितुं जानाति? ... तर्हि लिखतु!! (गूर्जरमूलं - सुरेश दलाल) Jain Education International For Personal & Private Use Only www.jainelibrary.org,