SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ दर्दुरा इव रटन्ति दुर्जनास्तद्वचः श्रवसि तप्ततैलवत् । कोकिला इव वदन्ति सज्जनास्तगिर: श्रवणयोः सुधाझरी ॥८८॥ दुर्जनवचनं शृण्वन्, बधिर धन्याः प्रपञ्च इति मन्ये । सज्जनभाषणकाले, श्रोत्रेन्द्रियमेव परममिति कलये ॥८९॥ दुर्जनो मानवान् दूषयन्नन्वहं निर्दयं निस्त्रपं निष्ठुरं भाषते । सज्जनः सर्वदा लोकसौख्येच्छया कोमलं सादरं सरिमतं भाषते ॥१०॥ भुक्ष्व च भोजय लोकं, तुष्य च तोषय समस्त जीवगणान् । जीव च जीवय सर्वान्, इति नीतिं पालयन्ति किल सन्तः ॥१॥ श्रमार्जितान्नेन सदा वसन्तः परोपकारैर्भुवने लसन्तः । धनस्य दासान् कुजनान् हसन्तः समर्चनीया विबुधेन सन्तः ॥२॥ अन्येषाम् उपकृतये, धनं च सौख्यं च देहमपि गेहम् । तृणवद्गणयन्तोऽमी, सन्तः श्रेष्ठाः समस्तदेवेभ्यः ॥१३॥ सदापि धर्मं हृदि धारयन्तः पापाज्जनान् आशु निवारयन्तः । पुण्यं समस्तैरपि कारयन्तः सन्तो जयन्तु प्रतिभानवन्तः ॥४॥ भ्रमरहिताः किल सन्तः, सूर्यालोकेन सुष्टु विकसन्तः । पद्मगणा इव लोके, पङ्कालिप्ता जयन्ति विलसन्तः ॥९५॥ कूपा इव जीवनदा, दीपा इव घोरतिमिरपरिहरणाः । नीपा इव खचरहिताः, पापविदूरा जयन्ति भुवि सन्तः ॥६॥ बोधय धर्मरहस्यं, शोधय हृदयं सुशास्त्रचिन्तनया । रोधय दुर्जनसङ्ख, साधय सज्जन! विशुद्धनिजरूपम् ॥७॥ का पत्नी? न करोति पत्युरहितं या सर्वदा सर्वथा कः पुत्रः ? पितरौ धिनोति चरितैर्यो धर्ममार्गोचितैः । २२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy