________________
सिद्धार्थेन विना नाऽहं तादृशमेकमपि जनं न प्रत्यक्षीकृतवान् यं दृष्ट्वा 'अयं सर्वथा पवित्रो जनः' इति प्रतीतिः स्यात् । भवन्तु नाम तस्य कल्पना विचित्राः, स्युर्नाम च तस्य वचांसि निरर्थकानि, किन्तु तस्य दृष्टिस्तस्य च हस्तः, तस्य त्वक् केशाश्चेति सर्वमपि पवित्रतां, शान्ति, प्रसन्नतां, सौजन्यं, साधुतां चैव प्रसारयति; एतच्च मयाऽस्माकं महागुरोनिर्वाणानन्तरं न कुत्रचिदपि जने दृष्टमस्ति' ।
___ एवं विचारयन् गोविन्दः संशयितचित्तः सन्नेव सिद्धार्थं प्रणतवान्, मौनेन शान्ततयोपविष्टं सिद्धार्थ स भावपूर्वकं नतः ।
ततस्तेनोक्तं - 'सिद्धार्थ ! आवां वार्धक्यग्रस्तौ जातावधुना । इतः परं जीवने आवां न कदाचिदपि परस्परं द्रक्ष्यावः । मम प्रियमित्र ! भवता शान्तिः प्राप्ताऽस्तीति साक्षात् विलोकयामि, तथैवाऽनुभवाम्यपि यन्मया सा नैव प्राप्ताऽस्ति । समादरणीयमित्र ! कृपया मे शब्दमेकं वा कथयतु यमहं सम्यगवबोद्धं शक्नुयाम् । सिद्धार्थ ! तादृशं किञ्चन मे ददातु यन्मम पथ्युपयोगि स्यात्, यतो मे पन्था हि प्रायः कठिनस्तमसाऽऽवृतश्चाऽस्ति' ।
निःशब्दः सिद्धार्थस्तं मृदुना प्रशान्तेन स्मितेन सह विलोकितवान् । गोविन्दः स्थिरतया तद्वदनमेव पश्यन्नासीत् - सौत्सुक्यं सस्पृहं च । दुःखसहनं, निरन्तरं सत्यान्वेषणस्य श्रान्तिनिरन्तरा च निष्फलता तस्य दृष्टौ संलक्ष्यते स्म ।
सिद्धार्थस्तल्लक्षित्वा स्मयमान एव तत्कर्णेऽत्यन्तं मन्दतयर्जुतया च कथितवान् – 'इतोऽपि किञ्चिन्निकटमायातु, इतोऽपि निकटम् । इदानीं मम ललाटे चुम्बनं करोतु' । ____एतन्निशम्य गोविन्दो यद्यपि किञ्चिद्विस्मितोऽभवत् तथाऽपि केनचिदकथ्येन संवेदनेन प्रेमाधिक्येन च वशीभूतः स तदादेशमनुसृत्य प्रह्वीभूतः सन् समीपमागतः स्वीयाधरद्वयेन च तस्य ललाटं संस्पृष्टवान् । संस्पृष्टमात्र एव तत्र किञ्चिदद्भुतं संवेदनं तेनाऽनुभूतम् । इतोऽपि तन्मानसे सिद्धार्थस्य विचित्राः शब्दाः प्रतिफलन्त आसन, इतोऽपि स कालस्य कल्पनामपास्तुं निरर्थकतया प्रयतमान आसीत्, संसारनिर्वाणयोरैक्यमवगन्तुं यत्नं कुर्वन्नासीत्, इतोऽपि च तन्मानसे मित्रस्य शब्दानधिकृत्य प्रकटितोऽनादरस्तं प्रति जातेन दुर्निवारप्रेम्णा पूज्यभावेन च सह विवदन्नासीत् तावतैवैतत् संवेदनं घटितम् ।
तस्येदानीं स्वमित्रस्य सिद्धार्थस्य वदनं नैव दृश्यते स्म, प्रत्युताऽन्यान्येव वदनानि स दृष्टवान्, बहूनि वदनानि, दी(काऽऽवलिरेव वदनानां, निरन्तरो वदनप्रवाहः - शतशः सहस्रशो वदनानि, यानि क्षणं स्थित्वाऽदृश्यीभवन्ति स्म, तथाऽपि च तत्रैव सन्तीति प्रतिभासमानानि आसन, यानि च प्रतिक्षणं स्वयमेव परावर्तमानानि नावीन्यं च प्राप्यमाणानि आसन्, तथाऽपि सर्वाणि सिद्धार्थसत्कान्येवाऽऽसन् । स कस्याश्चित् शफर्याऽतिमहत्तरया व्यादत्तं मुखं दृष्टवान्, कस्यचिन्मरणोन्मुखस्य निष्प्रभलोचनस्य मीनस्य मुखं दृष्टवान् । स कस्यचन नवजातस्य शिशो रक्तवर्णं वलीपूर्णं रोदनप्रवणं च मुखं विलोकितवान् । मनुजशरीरं छुरिकया प्रहरतः कस्यचित् हिंसकस्य मुखं स दृष्टवान्, समकालमेव च स तं हिंसकं मस्तकमानम्य जान्वोरुपविष्टं वधकेन च च्छिद्यमानमस्तकं दृष्टवान् । स कामकेलिरतानां स्त्री-पुरुषाणां शरीराणि - विविधमुद्रास्थितानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org