________________
न कोऽपि प्रयत्नः कृतः । किं बहुना ? सिद्धार्थः कुत्रचिद् गतवान् - इति तया यंदा ज्ञातं तदा तयाऽऽश्चर्यमपि नाऽनुभूतम् । तया आसिद्धार्थमेलनकालात् तदपेक्षितमेवाऽऽसीत् । यतः सा जानाति स्मैव यत् तस्य मूलं तु श्रामण्य एव प्रतिष्ठितमासीत्, गृहत्यागः, यात्रा, भ्रमणमित्यादिकं तस्य सहजमेवाऽऽसीत् । एतच्च तथ्यं तया सिद्धार्थस्याऽन्तिमे समागमे सर्वतोऽप्यधिकतयाऽनुभूतमासीत् । सिद्धार्थस्य गमनात् सञ्जाते दुःखेऽपि तया तस्याऽन्तिमस्य मिलनस्य, गाढमालिङ्गनस्य, रतिक्रीडायां च तेन स्वोपरि प्राप्तस्य प्रभुत्वस्याऽऽनन्दोऽद्याऽपि अनुभूयते स्म ।
किञ्च, यदा तयैदम्प्राथम्येन सिद्धार्थगमनवार्ता श्रुता तदा सा यत्र गवाक्षे सुवर्णपञ्जरस्थो गायकः पक्षी समासीत् तत्र गत्वा सुवर्णपञ्जरमुद्घाटितवती पक्षिणं च बहिनिष्कास्य मुक्ताकाशे उड्डायितवती । ततश्चिराय सा तं पक्षिणमदृश्यीभवन्तं निरीक्षितवती । ___अथ च तस्माद्दिनात् साऽऽगन्तुकानां कृते स्वगृहद्वाराणि पिहितवती । कैश्चिद् दिवसैः साऽवगतवती यत् सिद्धार्थस्याऽन्तिमसमागमेन साऽपत्यं प्रसविष्यतीति ।
७४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org