SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अनुवादः तरणोपायः मुनिधर्मकीर्तिविजयः मनुष्येषु मूलत एवोत्तमत्वमंस्ति, सद्गुणान् प्रति निष्ठाऽस्ति । तासां सद्वृत्तीनां मूलोपरि समाजरचना करणीयाऽस्ति । अद्यावधि मानवमनः तथैव भूतकालस्य बन्धनेन, ग्रथिलमस्ति । अद्यतनकालस्य महत्यावश्यकाऽस्ति - मानसिकपरिवर्तनम् । समाजो मानवतानिष्ठो भवेत् - तथाविधं परिवर्तनमुपयोग्यस्ति | जीवनस्य सकलेष्वपि क्षेत्रेषु जनशिक्षणेन जनजागरणेन च शुभसंस्कारसेचनस्याऽऽन्दोलनमेव तरणोपायोऽस्ति । न धार्मिकवादो न संप्रदायवादो, न वैचारिकवादः, नाऽऽध्यात्मिकवादश्च इत्याद्यनाग्रहिचित्तधारका मानवीयतत्त्वोपासकाश्चाऽत्युपयोगिनः सन्ति साम्प्रतम् । ये नेतृत्वं नेच्छन्ति, अपि तु जीवनसाधनां लक्ष्यीकृत्य देशस्य कृते जीवनं समर्पयेयुः तादृशानां जनानां समाजो रचनीयोऽस्ति । अनेकान् जनान् प्रवचने गच्छतः पश्याम्यहं, मन्दिरे मस्जिदे च गच्छतः पश्याम्यहं तदा मे हृदि कम्पनं जागर्ति; आध्यात्मिकप्रवचनं कुर्वतां जनानां महत्सु सभासु सत्सङ्गेषु शिबिरेषु चाऽनेके जना गच्छन्ति । यदि आध्यात्मिकी जिज्ञासाऽपि जगतो लोकाचारो ( Fashion) भवेत्, असंस्कारिता व्यापारप्रवृत्तिरूपा च भवेत् तर्हि दुःखस्याऽन्त एव न स्यात् । महापुरुषाणां दर्शनं, तेषां शुभविचाराणां श्रवणं च करणीयमेव, किन्तु यदि तत्रैव समाप्तिर्भवेत् तर्हि समाजे नवीनतम दम्भः प्रसरिष्यति । Jain Education International ११२ For Personal & Private Use Only ले. विमला ठाकर (अध्यात्मनी अग्निशिखा) www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy