________________
वाचकानां प्रतिभावः महात्मन्,
नन्दनवनकल्पतरोः एकत्रिंशी शाखा अत्र प्राप्ता । पूर्वं यथोक्तम्, अहं कल्पतरुवाचनेन द्वेधा लाभान्वितः अस्मि । (जैनदर्शनपरिचयेन, संस्कृतस्य विशिष्टप्रयोगाणां क्रोडीकरणेन चेति) । तत्र सर्वा अपि पद्यरचना हृद्याः । आचार्य विजयहेमचन्द्रसूरिभिलिखितं श्रीनेमिसौभाग्यमहाकाव्यं तत्रत्यवाक्प्रवाहेण मनोऽकार्सीत् । मुनिकल्याणकीर्तिविजयैलिखितः 'शून्यता' इति वैज्ञानिकलेखो मां गीतायास्त्रयोदशेऽध्याये "ब्रह्म न सत्, न च असत्' इति यदुक्तं, तदस्मारयत् । तत्र "प्रोटोनकणस्य परितः" इति दृष्टम् (३७तमे पुटे मध्यभागे ईषदुपरि) तत्तु “प्रोटोनकणं परितः" इति स्यात् चेत् उत्तमम् ।
हेरमानहेसस्य सिद्धार्थकथाया आङ्ग्लानुवादः पूर्वं पठित आसीत् । इदानीं कल्पतरौ तस्य संस्कृतानुवादं दृष्ट्वाऽतीव प्रसन्नोऽभवम् । अनुवादकेभ्यो मुनिकल्याणकीर्तिविजयेभ्यो नमः । तैरेव लिखिता अमरदत्तमित्रानन्दयोः कथाऽपि मह्यमतीवाऽरोचत । इति भवदीयः
रवीन्द्रः Palghat-678012
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org