SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ __ मित्रेणोक्तं - 'भवतः कृते स यद् वाणिज्यं कुर्यात् तत्र लाभे जाते तस्य तृतीयं भागं देयं कल्पता, हानौ च जातायां भवता सह समानं भागं स निर्वहतु । एवंकृते स वाणिज्येऽधिकतयोत्साही भविष्यति' । कामस्वामी तद्वचनमनुसृत्य प्रवृत्तः । किन्तु सिद्धार्थस्तत्राऽप्यनासक्त एव स्थितः । यदा तस्य लाभो जातस्तदा स प्रशान्ततया तं स्वीकृतवान्, यदि च हानिः स्यात् तदा स हसित्वा कथयति स्म – 'अहो ! व्यवहारोऽयं ननु किञ्चिदिव निष्फलो जातः, परं न तत्र काऽपि चिन्ताऽस्ति' । वस्तुतस्तु स वाणिज्ये किञ्चिदिवाऽदत्तावधान एवाऽऽसीत् । एकदा स कुत्रचिद् ग्रामे महान्तं व्रीहिराशि क्रेतुं गतवान् । यदा स तत्र प्राप्तस्तदा पूर्वमेव तत्रत्यैर्जनैः स राशिरन्यस्मै वणिजे विक्रीत आसीदिति तेन ज्ञातम् । तथाऽपि स सर्वथाऽनुद्विग्न: कानिचन दिनानि तत्रैवोषितवान्, कृषकैः सह मनोरञ्जनं कृतवान्, धनं च बालकेभ्यो विभज्य दत्तवान्, तत्र च प्रवृत्ते कस्मिंश्चिद् विवाहे भागं गृहीत्वा पूर्णतया तृप्तः सन् नगरं प्रतिनिवृत्तवान् । यदा च कामस्वामी शीघ्रमनागमनार्थं समयस्य धनस्य च व्ययार्थं तमुपालब्धवान् तदा सिद्धार्थस्तमुक्तवान् – 'माऽऽक्रोशीद् भवान्, मम प्रियमित्र ! । आक्रोशनेन कदाऽपि किमपि नैवाऽधिगतमस्ति । यदि हानिर्जाता तर्हि जायतां नाम, अहमेव तां वोढा । अहं ह्यनेन पर्यटनेन सर्वथा तुष्टोऽस्मि यतस्तेन बहूनां जनानां परिचयो मे जातः, ब्राह्मणेनैकेन सह मैत्री जाता, बालकाः समागत्य ममोत्सङ्गे उपविष्टाः, कृषकैश्च मे निजक्षेत्राणि दशितानि । तथा न केनाऽप्यहं वणिक्त्वेन परिगणितः' । 'तत्तु सर्वमपि शोभनमेव' – कामस्वामी विमनस्कतया स्वीकृतवान्, 'किन्तु वस्तुतो भवान् वणिगेव । यदि वा किं भवताऽऽनन्दप्राप्त्यर्थमेव पर्यटनं कृतं ननु ?' 'नूनमहं निजानन्दार्थमेव प्रवासं कृतवान्' – सिद्धार्थो हसित्वा कथितवान् । 'किमर्थं न ? अहं बहुभिर्जनैर्नूतनप्रदेशैश्च परिचितो जातः । मया मित्रताया विस्रम्भस्य च सौख्यमनुभूतम् । यद्यहं कामस्वाम्यभविष्यं तदा क्रयणं कर्तुमक्षमोऽहं व्यथितो भूत्वा प्रतिन्यवर्तिष्यम्, तथा मम समयो धनं च नष्टावैव स्याताम् । किन्तु मया बहूनि सुदिनानि यापितानि, बहु शिक्षितं, भूयानानन्दोऽनुभूतः, तथा कोपेनाऽसमीक्ष्यकारितया वा मया स्वस्याऽन्येषां वा क्लेशो नोत्पादितः । यद्यहं पुनरपि कदाचित् तत्र गच्छेयं, नवं व्रीहिराश्यादि क्रेतुं केनचिद् वाऽन्येन प्रयोजनेन, तदा तत्रत्या जनाः सौहार्दन मामाकारयेयुर्मम स्वागतं च कुयुः । तदैव चाऽहं कोपकरणमसमीक्ष्यकारित्वं च मया नैवाऽऽचरितमिति स्मृत्वा सुखीभविष्यामि । भवतु मित्र ! क्लेशकरणेन मा स्वं दुःखीकरोतु । यदा च भवताऽनुभूयेत यत् सिद्धार्थो मे हानि करोति तदा केवलं शब्दमेकं कथयतु, सिद्धार्थः सर्वं त्यक्त्वा स्वीयमार्गे गमिष्यति । तावत्पर्यन्तं किन्त्वावां प्रशस्तौ सुहृदावेव भवामः' । 'भवान् मम अर्थात् कामस्वामिनोऽन्नमेव खादित्वा जीवति'ति सिद्धार्थं प्रत्याययितुं श्रेष्ठिनः प्रयत्ना अपि विफला जाताः । यतः सिद्धार्थस्योत्तरमासीद्, यत् – 'स स्वीयमेवाऽन्नं भुङ्क्ते । किञ्च, सर्वेऽपि जनाः परस्परमितरस्याऽन्नं भुञ्जन्त एव' । सिद्धार्थः कामस्वामिनः पीडाभिः सर्वथाऽलिप्तः सन् निश्चिन्त Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy