Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/002921/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Page #2 -------------------------------------------------------------------------- ________________ श्रेष्ठि देवचन्द लालभाइ जनपुस्तकोद्धारे ग्रन्थाङ्क: ८१ । अनेकार्थरत्नमञ्जूषायां श्रीसमयसुन्दरसन्दब्धाऽष्टलक्षार्थीत्यादि नाना रत्नानि । सम्पादकःसूर्यपुरवास्तव्यश्रीयुतरसिकदासतनुजः कापडियेत्युपाह्रो हीरालालः एम्. ए. इत्युपाधिविभूपितः सभाष्यसटीकतत्त्वार्थाधिगमधूवादिधन्थानां संशोधको न्यायकुसुमाञ्जल्यादिग्रन्थानां विवेचनात्मकभाषान्तर कर्ताऽऽर्हतदर्शनदीपिकायाः प्रणेता च । . . प्रकाशयित्रीजीवन चन्द्र साकरचन्द्र जह्वेरीद्वारा श्रेष्ठि देवचन्द्र लाल भाइ जैनपुस्तकोद्धारसंस्था । रामचन्द्र येसू शेडगेद्वारा निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्रकाशितः । धमे संस्करणे प्रतयः १२५० । वैक्रमीयाब्दे १९८९ तमे] वीरसंवति २४५९ [ऐसीयादे १९३३ तमे पण्यं रुप्यकत्रयम्। Page #3 -------------------------------------------------------------------------- ________________ एतद्ग्रन्थपुनर्मुद्रापणादिसर्वेऽधिकाराः श्रेष्ठिदेवचन्द लालभाइ जैनपुस्तकोद्धारसंस्थाकार्यवाहकाणामायत्ताः स्थापिताः । Page #4 -------------------------------------------------------------------------- ________________ Shoth Devchand Lalbhai Jain Pustakoddhar Fund Serios. No. 81 ANEKĀRTHA-RATNA-MAÑJŪSĀ CONTAINING Sri Samayasundara's Aștalaksārthi etc. CRITICALLY EDITED WITH INTRODUCTION IN SANSKRIT RY Prof. HIRĀLĀL RASIKDĀS KĀPADĪĀ, M. A. POST-GRADUATE LECTURER IN ARDEAMÄGADHI AT THE BHANDARKAR ORIENTAL RESEARCH INSTITUTE, POONA. PUBLISHED JIVANCHAND SAKERCHAND JAVERI. FOR SHETH DEVCHAND LALBHAI JAIN PUSTAKODDHAR FUND. First Edition) A. D. 1933. [ 1280 Copies Price Rs. 3-0-0 Page #5 -------------------------------------------------------------------------- ________________ [All rights reserved by the Trustees of Shoth D. L. J. P. Fund. ) Published by Jivanchand Sakorohand Javori, one of the honorary Trustees of Sheth Doroband Lalbhai Jain Pustakoddhar Fand, at Shoth Doroband Lalblai Jain Dharmashala, Badekban Chakla, Surat. Printed by Ramchandra Xesu Shedge, at the Nirnaya Sagar' Prons, 26-28, Kolbbat Lane, Bombay. વાપી સંઘતા અતા ઉપકારી પૂજ્યપાદ મહામહિમ | સૂરિસમ્રાટ પૂ. આચાર્ય ભગવંત શ્રીમદ્ વિજય રામચંદ્ર સૂરિશ્વરજી મ. સા. ના શિષ્યરત્નો પૂ. મુનિરાજશ્રી વૈરાગ્યરતિ વિજયજી મ. પૂ. મુનિરાજશ્રી પ્રશમરતિવિજયજી મ. સા. ની. પ્રેરણાથી - વિ. સં. ૨૦૧૨ની સાલતા ચાતુર્માસ દરમ્યાન પૂ. પ્રવર્તિની સાધ્વીજીશ્રી હંસશ્રીજી. મા. સા. ની તાકનિશ્રામાં શ્રાવિકા પૌષધશાળામાં થયેલ છે. જ્ઞાનદ્રવ્યની ઉપજમાંથી આ પુસ્તક પ્રકાશિત થયું છે. Page #6 -------------------------------------------------------------------------- ________________ સમર્પણ શ્રીગિરિગિરનારાદિ મહાન તીર્થોદ્ધારક, તપગચ્છાલંકાર, વિશુદ્ધચારિત્રચૂડામણિ, બાલબ્રહ્મચારી, શ્રીમદ્ આચાર્ય મહારાજ શ્રીવિજયનીતિસૂરીશ્વરજી, મુ. સેજિત (મારવાડ). પ્રાચીન ગ્રન્થ પ્રકાશનકાર્યમાં, અમૂલ્ય સહાયતા આપશ્રી તરફથી મળતી રહી છે તેની યુકિંચિત એધાણી તરીકે આ ગ્રન્થરસ આપશ્રીની અનુમતિ વિના આપના કરકમલમાં સમ અંશતઃ કૃતાર્થ થવા અભિલાષા રાખે ગોપીપુરા, સુરત, સં. ૧૯૮૯, વૈશાખી પૂર્ણિમા, મે સને ૧૯૩૩. જીવણચંદ સાકરચંદ જવેરી અન્ય માનદ મંત્રીઓ. અને Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ શ્રી પાર્શ્વશાંતિમ આમુખ. શેઠ દેવચંદ લાલભાઈ જેતપુરતોદ્ધારે ગ્રંથાંક ૮૧ મા તરીકે (૧) ઉપાધ્યાય શ્રીસમયસુન્દરમણિકૃત અષ્ટલક્ષાથી અપર નામ અર્ધરાવલી, (૨) શ્રી શુભતિલકકૃત ગાયત્રીવિવરણ, (૩) મહામંત્રાધિરાજ નવકારના “નમો પરિહંતા” પદના ૧૧૦ અર્થો વગેરે અમૂલ્ય કૃતિઓને અન્ન અનેકાર્થરતમંજૂષા નામથી એકત્ર પ્રસિદ્ધ કરતાં અમને વિશેષ આનંદ થાય છે, કેમકે આવી અનેક અર્થવાળી વિવિધ કૃતિઓ પ્રસિદ્ધિમાં લાવવાનો વેગ અમોને પ્રથમ પ્રાપ્ત થયો છે. પૃષ્ઠ ૧ થી ૨૪ માં સટીક નરકાસૂત્ર અને ઉવસગ્ગહરસ્તોત્ર પણ જોડવામાં આવ્યાં છે. પ્રોફેસર હીરાલાલ રસિકદાસ કાપડિયા M. A દ્વારા આ ગ્રંથનું સંશોધન કરાવવામાં આવ્યું છે અને તેમને આને અંગે જરૂરી પ્રસ્તાવના વગેરે સર્વ આલેખ્યું હોવાથી અમારે તસંબંધે વિશેષ કાંઈ કહેવાપણું રહેતું નથી. જે જે મુનિવર્યોએ અને ભંડારના સંચાલએ પ્રતા આપવા મહેરબાની કરી છે તથા પ્રકાશનકાર્યમાં જેમણે સહાયતા આપી છે તે સર્વેના અમો ગણી છિયે. અન્ય બહાર પડતાં અતિશય વિલંબ થવાથી વાચકોની ક્ષમા યાચિયે છિયે. લિ૦ ગોપીપુરા, સુરત. સં. ૧૮૯ વૈશાખી પૂર્ણિમા, મે સને ૧૯૩૩. જીવણચંદ સાકરચંદ જેરી, પિતે અને બીજા દૂરટીઓ માટે. Page #9 -------------------------------------------------------------------------- ________________ अनेकार्थरत्नमञ्जूषाया विषयानुक्रमणिका. १ स्मरणपत्रिका ( गौर्जरगिरि ) २ आमुखम् (गौर्जरीरि । ३ प्रस्तावना ४ अर्थरत्नावली ( अष्टलक्षार्थीत्यपराया ) ५ गायत्रीविवरणम् ६ हरिशब्दार्थगर्भितः श्रीवीतरागस्तवः · ७ सारङ्गशब्दार्थसङ्कलिता श्री ऋषभजिनस्तुतिः ८ 'सारङ्ग' शब्दषष्ट्यर्थमयः श्रीमहावीर जिनस्तवः ९ 'पराग' शब्दाष्टोत्तरशतार्थनिबद्धं साधारण जिनस्तव ।। १० 'सबत्थ' शब्दार्थ समुच्चयः ११ 'परवाया' शब्दार्थनिरूपणम् १२ नमस्कारप्रथमपदार्थाः १३ एकाक्षरनाभमाला १४. एकाक्षरनाम मालिका १५ पउमामेत्यादिगाथाया अनुयोगचतुष्टयव्याख्या १६ गोशब्दकाव्यम् १७ नमस्कारसूत्रं संटीकम् १८ उवसग्गहरस्तोत्रं टीकायुगलालङ्कृतम् ५ ७ ९-२० १-७०. ७१-८२ ८३ ८४-८५ . ८५-८६ ८७-९० ९१-९८ ९९-१०२ १०३ -११८ ११९-१२२ १२३-१२७ १२७-१३३ १३४ १-६ ७-२४ Page #10 -------------------------------------------------------------------------- ________________ प्रस्तावना "सिद्धं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं । कुसमयविसासणं सासणं जिणाणं भवजिणाणं ॥१॥" -सन्मतिप्रकरणे अनेकार्थरत्नमञ्जषाभिधस्यास्य कृतिकलापस्य प्रस्तावनाप्रणयने नाहमलम् , यथेष्टसा- ५ धनाभावात् । तथापि प्रास्ताविकं किञ्चिल्लिख्यते । तावत् प्रस्तूयतेऽनेकार्थसाहित्यगवेषणा___ अनेकार्थसाहित्यविषयका आहेत विवुधवरविरचिता नाना ग्रन्था दरीदृश्यन्ते । तत्र विषयानुक्रमणिकागतान् विहाय श्वेताम्बरीयाणां कतिपयानां नामोल्लेखः क्रियते । यथाहि(१) कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिप्रणीतं प्राकृतद्व्याश्रयकाव्यम् । (२) एतत्सरिसन्डब्धं संस्कृतद्व्याश्रयकाव्यम् । (३) एतत्सरिसूत्रितं सप्तसन्धानमहाकाव्यम् । (४) महोपाध्यायश्रीमेघविजयविरचितं सप्तसन्धानमहाकाव्यम् । (५) श्रीहेमचन्द्रसूरिविनेयश्रीवर्धमानगणिगुम्फितं कुमारविहारप्रशस्तिमहाकाव्यम्। १-२ पुण्यपत्तनस्थप्राच्यविद्यासंशोधनमन्दिरात् प्रसिद्धिं नीतमिदं प्रत्येकम् । महोपाध्यायश्रीमेघविजयैः सप्तसन्धानमहाकाव्यनाच्या निजकृतेः प्रारम्भे समसूचि, परन्तु तद् विनष्टमेतरमहोपाध्यायसमयपूर्वमिति ज्ञायते सप्तसन्धानगतेन प्रारम्भिकेन पगेन । ४ इदं मुद्रापितं समस्ति । ५ एतस्प्रारम्भ उलेखोऽयम् "श्रीहेमचन्द्रसूरिशिष्येण वर्धमानगणिना कुमारविहारप्रशस्ती कान्येऽमुस्मिन् पूर्व परर्थे कृतेऽपि कौतुकात् पोडशोत्तरं व्याख्यानां चके । तत्र प्रशस्तौ सप्ताशीतितमं वृत्तम् । तच्चेदम् 'गम्भीरः श्रुतिमिः सदाचरणतः प्राप्तः प्रतिष्ठोदयः सस्कान्तारचितप्रियो बहुगुणो यः साम्यमालम्ब्यते । श्रीचौलुक्यनरेश्वरेण विबुधश्रीहेमचन्द्रेण च श्रीमद्वाग्भटमत्रिणा च परिवादिष्या च मन्त्रेण च ॥" अस्य पद्यस्य ११६ अर्थाः। प्रणतनृपा-प्रणतनृप-ब्रह्म-विष्णु-महेश-परब्रह्म-धनपति-क्षेत्रपाल-धनदा-उरकृतयुग-विष्णुचक्रा-ऽनिरुध्य-वागुरिक-पल्लीपति-चकोर-नागराज-सुरपति-वैश्वानर-कृतान्त-राक्षस-वायु-कमठपाताल-मर्त्यलोक-सुरलोक-वरुण-धनुर्धर-सजन-दुर्जन-कुमारपाल-राजहंस-पण्डित-मूर्ख-लक्ष्मी हेमगुण-चन्द्रकपूर-देव-सूर्य-हेमचन्द्रसूरि-मङ्गल-बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतु-शङ्करशीपंगतचन्द्र-महेशहास्य-मदादेवासा-दानव-नर-लक्ष्मीनाशक-सुवर्णशशि-याचक-निष्काम-धर्मा-ऽर्थ-काम-मोक्ष-सरस्वती-वाक्-सुभटमवादि-पविक-घसर-सर्पिणी-व्यभिचारिणी-पण्डिता-सुभग-वात्स्यायन-भौतिकतापस-गौरीचर-खनतट-च. द्रकिरण-चारित्रप्राप्तधन-उल्का-मुख-शुक-कामि-सर्पदृष्टि-कामिनी-सामन्त-मांसाहार-कृपालुरवपरीक्षाका- - मालकास्ति-निधिकलश-जलचर-देवाकृति-वणिग्-जिनप्रतिमा-ऽर्हद्भक्त-स्थाद्वादवादि-पौरुष-विनायक-हस्तिना. वक-पर्वतगुहा-जिन-समवसरण-ज्ञान-दर्शन-चारित्र-यति-वाग्भट-जैनसिद्धान्त-गतिसिर-वेश्यासक्त-जिनेश्वरजिनस्वतिकारक-वृषभदेव-भरतपकि-चरमजिन-पार्वजिनेति विषयाः। अर्थ.2 Page #11 -------------------------------------------------------------------------- ________________ प्रस्तावना (६) श्रीजिनप्रभसूरिसूत्रितं कातव्याकरणविशदीकारि 'मगध'नरेश्वरश्रेणिकजीवनचरित्रात्मकं द्वयाश्रयमहाकाव्यम्। (७) श्रीविजयसिंहमूरिशिष्यश्रीसोमप्रभसूरिकृतं शतार्थवृत्त। (८) श्रीलावण्यधर्मशिष्यश्रीउदयधर्मगणिप्रणीता 'दोससय गाथाशतार्थी । ५ (९) श्रीवुद्धिसागरशिष्यश्रीमानसागरमुनिकृता परिग्रहेतिपद्यर्शतार्थी। (१०) श्रीजयसुन्दरसूरिसूत्रिता प्राप्तुं पारेत्यादिशतार्थी ।" । एतस्य कतिपयो विभागो मुद्रापितः । अस्य प्रणेतृमिबहवो ग्रन्था विरचिताः । एतमाम जिज्ञासुभिर्विलो. क्यता श्रीचतुर्विंशतिजिनानन्दस्तुतेर्मदीया भूमिका (पृ. ४०-४२) । रहस्यकल्पद्रुमोऽप्येतेषां कृतितते । प्रेक्ष्यतां १३०तम पृष्ठम् । २ एतत् काव्यमित्थम् "कल्याणसारसवितानहरेक्षमोह-कान्तारवारणसमानजयाचदेव । धर्मार्थकामद महोदय वीरधीर, सोमप्रभाव परमागम सिद्धसूरे ॥" अस्य चतुर्विंशतिजिनेश्वर-पञ्चपरमेष्ठि-पञ्चमहावत-चतुःपुरुषार्थ-नवग्रह-दशदिक्पालेत्यादिसम्बन्धिनः १०२ अर्थाः । किश्वास्य विवरणकोर एतस्काव्यप्रणेतार एव । उक्तं च "यो गृहणाति समुच्छ्रतं वहति यस्तऽद्भतं पाटवं ___ काव्यं यस्त्वरितं करोति सनुते यः पावनी देशनाम् । योऽबध्नात् सुमतेश्चरित्रमदभृद् यः सूक्तपहिं पर . श्रीसोमप्रभसूरिरेष विशदं वृत्तं शतार्थ व्यधात् ॥" ३ अद्यावष्यस्य स्वोपज्ञविवरणममुद्रापितं वर्तते । ४.श्रीधर्मदासगणिगुम्फिताया उपदेशमालाया एकपञ्चाशत्तमा गाथेयम् । यथाहि"दोससयमूलजालं पुवरिसिविवजिअं जईवंतं । भत्थं वहसि भणथं कीस अणस्य तवं चरसि ॥५१॥" पञ्चपरमेष्ठि-पट्कायरक्षा-टप्रवचनमातृ-दशयतिधर्म-गणधरादीनाश्रित्यास्याः १.१ भाः कृताः। ५ अस्य शतार्थी श्रीसोमप्रभसूरिभिरपि निर्मितेत्यनुमीयते सहस्रावधानिश्रीमुनिसुन्दरसूरिसूत्रितोपदेशरत्नाकर (द्वितीयांशचतुर्दशतरङ्ग)गतेन निम्नावतारितेनोल्लेखेन "विज्ञश्राद्धप्रभित "दोससय." इति गाथाशततमार्थव्याख्यावसरप्रतिबुद्धकरमुद्रिकादिस्यागिशता तिख्याति. भृड्रीसोमप्रभसूरयः प्रमादावस्थायाम् ।" प्रन्योऽयं नाचावधि मुदितः । समग्रं पचं योगशास्त्रे (प्र. २) विद्यते, यथा "परिग्रहारम्भमन्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरी ॥१ ॥ . . एतदनुलक्ष्य विवरणकारैः प्रोक्तम् "प्राचीनार्वाचीनाचार्यचक्रवर्तिभिः श्रीमत्तपागच्छाधिराजमहामहीपतिवितीर्ण विस्तीर्णसन्मानैः श्रीहीरवि. जयसूरिभिः शतार्थपरीक्षाकृते समर्पितस्य श्रीयोगशास्त्रद्वितीयप्रकाशस्य द्वादशस्य (? दशमस्य) सोकस्य शतार्थी क्रियते।" - चतुर्विंशतितीर्थकर-पञ्चपरमेष्ठि-ब्रह्म-विष्णु-दशदिक्पाल-चतुर्दशस्वमादिसम्बन्धिवः १.६ भा अत्र कि पथमवतरम्ति । ..' इयं शतार्थी नाद्यापि मुद्रिता । ९ योगशास्त्रस्य द्वितीयप्रकाशगतं ८५तमपचस्याचे घरणमिदम् । सम्पूर्ण पर्यतु यथा.. "प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । वीणां प्रकृतिवक्राणा, दुचरित्रस्य मो पुनः॥ ८५॥" . १. इयं शतार्थी मायावधि मे रष्टिपथमागता । अस्याः सत्ताऽपि सम्भवप्राया। Page #12 -------------------------------------------------------------------------- ________________ प्रस्तावना (११) रत्नाकरावतारिकाद्यपद्यशतार्थी । (१२) श्रीलाभविजयगणिप्रणीता नमो दुर्वारेत्यादिपद्यस्य पैश्चशतार्थी । (१३) श्रीहर्पकुलगणिविरचिता शतार्थी । (१४) श्रीवप्पभदिसूरिनिर्मिता 'तत्तीसिया'दिगाथाया अष्टोत्तरशतार्थी । (१५) श्रीहंसप्रमोदगणिकृताऽनेकार्थमयी सारङ्गसारवृत्तिः । (१६) श्रीभावप्रभसूरिकृतं मंदनादरविवरणम् । (१७) महोपाध्यायश्रीविनयविजयकृता 'चत्तारिअट्ठ'व्याख्या । (१८) श्रीदेवेन्द्रसूरिकृता (१९) श्रीसोमतिलकमूरिविनिर्मिता साधारणस्तुतिः स्वोपज्ञवृत्तिविभूषिता । (२०) एतत्सरिप्रणीतं सर्वज्ञस्तोत्रं विविधार्थालङ्कृतं 'सदानवसुराजितं'चतुर्थचरणात्मकम् ।। १० (२१) श्रीलक्ष्मीसागरसूरिशिष्यमहोपाध्यायश्रीचारित्ररत्नगणिप्रणीते एकोनत्रिंशत्पद्या.. १ प्रेक्ष्यतां जैनग्रन्थावली (पृ. ७८) । २ योगशास्त्रस्यादिमं पद्यमिदम् । तथाहि __"नमो दुर्वाररागादि-वैरिवारनिवारिणे । भर्हते योगिनाथाय महावीराय तायिने ॥ ॥" ३ भस्या भस्तिस्वं तपागच्छीयपट्टावल्यनुसारेण ज्ञेयम् । न चेयं मे नयनगोचरतां गता। ४ "तेषां रा(प्रा?)ऽपे राज्ये, विबुधा निर्मलशतार्थविरुदभृतः। श्रीहर्पकुलगणीन्द्रा, विबुधावतंसा बभूवु।" इति श्रीविजय विमलगणिकृतबन्धहेतूदयत्रिभङ्गीप्रकरणटीकाप्रारम्भिकपद्येनानुमीयते यदुतैभिः काऽपि शतार्थी निरमायि । ५ केवलमर्थचतुष्टयं समसूचि श्रीप्रभाचन्द्र सूरिभिर्निजकृती प्रभावकचरिताहृयायां (पृ. १४४-१४५)। ६ सम्पूर्ण पद्यमेवम् "सारप्रसारकमलादरसोमकान्त-देवागमामृतविभाजनधीरभूते । वामोपकार भरताधिप राजमान-वर्णाप्त बन्धुरशिवाज हरेक्षभाव ॥" ७ एतस्प्रारम्भिक उल्लेख एवम्__ "नमस्कृत्य कृतानन्दं, कन्दं सौभाग्यशाखिनः । वीरं पदर्थवृत्तस्य, वृत्तिं कुर्वे यथामति ॥ १॥" भन्ते पचं यथा"दोहास्यगुहास्यैक(१९६२)मिते वर्षे कृता अमी । अर्थाः सहादि सप्तम्या, पार्श्वनाथप्रसादतः ॥" ८ एतदर्थ प्रेक्ष्यतां श्रीभावप्रभसूरिकृतस्य श्रीनेमिभक्तामरस नवमस्य पद्यस्य स्वोपज्ञवृत्तेर्मदीयावृत्तः तमात् ११३तमपर्यन्तानि पृष्ठानि । ९ एतद्गाथाया भन्येऽन्येऽर्थाः प्रतिपादिताश्चैत्यपरिपाटीस्तवने । एतदर्थं विलोक्यता श्रीभावप्रभसूरिकृतिकलापाण्या मदीयाऽऽवृत्तिः (पृ. १३९-१४३)। १० एतजिज्ञासुभिः प्रेक्ष्यतामुपर्युकाऽऽवृत्तिः (पृ. १४३-१४६)। " अन्यकर्तृकावचूरिसमेता सम्पादितेयं मया । एतदिक्षुभिः प्रेक्ष्यता श्रीमेरुविजयगणिकृतश्रीचतुर्विशतिजिनानन्दस्तुतेर्मदीयाऽऽवृत्तिः (पृ. २१५-२१४)। १९ मदीयानुवादपूर्षकं समस्तीदं स्तुतिचतुर्विंशतिकाभिधे अन्थे (पृ. १६८१७.)। Page #13 -------------------------------------------------------------------------- ________________ प्रस्तावना त्मके श्रीयुगादिजिनस्तवने प्रथमान्तिमे पद्ये विहाय नानार्थवाचिप्रतिपद'सरस्वती'समल तानि पधानि । (२२) श्रीभावप्रभसूरिसूत्रिता गुंहलिका( गोधूलिका )पदनानार्थाः ।' (२३) श्रीसोमतिलकसूरिकृतं श्रीसिद्धार्थनरेन्द्रादिश्रीवीरजिनस्तवनम् ।' ५ (२४) श्रीरत्नशेखरसूत्रितं नवखण्डपार्श्वजिनस्तवनम् ।' (२५) , श्रीवामेयस्तवनं नवग्रहस्तवगर्भम् ।' (२६) , श्रीपार्श्वजिनस्तवः ।। (२७) प्रतिपद शर्म'शब्दसङ्कलितं श्रीपार्श्वनाथस्तोत्रम् । (२८) श्रीगुणविजयगुम्फितः प्रतिपद सारङ्ग'समलङ्कृतः श्रीमहावीरजिनस्तवः । १० (२९) 'महावीर'पदविभूपितं पद्याष्टकमितं च श्रीमहावीरजिनस्तोत्रम् । (३०) श्रीनयचन्द्रसूरिप्रणीतं पद्यदशकात्मकं श्रीस्तम्भनपार्श्वनाथस्तवनम् । श्रीसमयसुन्दरगणीनां कृतिततिः ग्रन्थनाम ग्रन्थमानम् रचनासंवत् भावशतकम् १०१ १६४१ १५ अर्थरनावली (अष्टलक्षार्थी) १६४६ साम्बप्रद्युम्नचोपाइ (गू.) १६५९ करकंडचोपाइ (गू.) १६६२ १ अस्य द्वितीयं पद्यमवतारितं मया श्रीशोभनस्तुतिभूमिकायां (पृ.१०)। मापं तु यथा "सदा चिदानन्दनिदानमद्वयं, जगन्नयीत्राणधुरीणपवयम् । सरस्वतीतुष्टिकृते सरस्वती-पदार्थसाथैः प्रथमं जिनं स्तुवे ॥१॥" २ समीक्ष्यतां श्रीभावप्रभसूरिकृतिकलापाख्या मदीयाऽऽवृत्तिः (पृ. १२९-१३५)। ३ अस्याग्रिमं पद्यं वरीवति श्रीशोभनस्तुतेर्मदीयायां भूमिकायां (पृ. २६), समग्र सावरिकं जैन स्तोत्रसमुच्चये (पृ.७६-०१)। ४ अस्यायं पधं श्रीशोभनस्तुतेभूमिकायां मयाऽवतारितम् । समस्त्रं स्तवनं तु सावरि समस्ति जैनस्तोत्र समुश्चये (पृ. ६९-७०)। ५ प्रेक्ष्यतां जैनस्तोत्रसमुच्चयः (पृ. ७१-७२ ) । ६ अवलोक्यता जैनस्तोत्रसमुच्चयः (प.)। ७ समीक्ष्यतां जैनस्तोत्रसङ्ग्रहस्य द्वितीयो विभागः (पृ. १३१-१३३)। . भस्स सपनस्य चतुर्यादिसप्तमान्तेषु पयेषु प्रतिपदं हरिपदं समरिख । समग्रतः चतुर्दश मा पोतिता भन्न Page #14 -------------------------------------------------------------------------- ________________ ग्रन्थनाम दान - शील-तप-भावनासंवाद (गू.) रूपकमालाऽवचूर्णिः चार प्रत्येकबुद्धरास (गू. ) चातुर्मासिकव्याख्यानम् कालिकाचार्य कथा श्रावकाराधनाविधिः शीलछत्रीसी (गू.) सन्तोषछत्रीसी (गू.) प्रियमेलकरास (गू.) सामाचारीशतकम् “विशेषशतकम् प्रस्तावना ग्रन्थमानम् रचना संवत् १६६२ ४०० १६६३ १६६५ १ लींबडी भाण्डागारसस्कायां प्रत्यां प्रशस्तिरियम् 29 १६६६ १६६७ १६६९ 19 १६७२ 17 97 "सोलसह वासठि (१६६२ ) समह रे 'सांगा' नगर (?) मक्षारि । पद्मप्रभ सुपसाउ लइ रे एह भण्णट अधिकारे रे ॥ ६ ॥ सोहम सांपि परंपरा रे 'खरतर' गच्छ कुलचंद | युगप्रधान जगि परगडा रे श्रीजिनचन्द्र सूरिंदो रे ॥ ७ ॥ सासु सीस अति दीपतो रे विनयवंत जसवंत । भाचारिज चढती कला रे श्रीजिनसिंह सूरि महंतो रे ॥ ८ ॥ प्रथम श (शिष्य श्री पूजनो रे सकलचन्द तसु सीस । समय सुन्दर वाचक भणिरे संप सदासुं जगीस रे ॥९॥ वान शील तप भाषनो रे सरस रचिउ संवाद । भणतां गुणतां भावसुं रे रिद्धि समृद्धि सुप्रसादो रे ॥ १० ॥" २ इयं समशोधि श्री समय सुन्दर गणिमगुरुश्रीजिनचन्द्रसूरि शिष्य श्रीरत्ननिधानगणिभिः । ३ नीजी भाण्डागारसत्कसप्तपत्रात्मिकायाश्चातुर्मासिक व्याख्यानप्रत्याः प्रान्ते - "श्रीसमय सुन्दरोपाध्यायविरचितचतुर्मासिकव्याख्यानं समाप्तम् ।" ४ वाराणसी स्थयतिश्रीबाल चन्द्रभाण्डागार सरक कालक सूरि कथा प्रतिप्रान्ते उल्लेखो यथा"श्रीमद्विक्रम संवति रसर्तुशृङ्गार (१६६६) सख्यके सहसि । श्री वीरमपुर' नगरे श्रीराउलतेजसीराज्ये ॥ १ ॥ बृहस्वरतरे गच्छे, युगप्रधानसूरयः । जिनचन्द्रा जिनसिंहाश्च, विजयन्ते गणाधिपाः ॥ २ ॥ यः सकलचन्द्रः शिष्यः समयसुन्दरः । कथां कालिकसूरीणां चक्रे बालावबोधिकाम् ॥ ३ ॥" ५ 'मेडता' नगरे रचितमिदम् । ६ श्रीविजयधर्मलक्ष्मीज्ञानभाण्डागारसत्कप्रति प्रान्तेऽयमुलेखः- "श्रीमत् 'खरतर 'गच्छे श्रीमजिनसिंहसूरिगुरुराज्ये । साम्राज्यं कुर्वाणे युगप्रधानाख्यविरुद्धरे ॥ १ ॥ विक्रमसंवति कोचनमुनिदर्शन कुमुदबान्धव ( १६७२ ) प्रमिते । श्री पार्श्व जन्मदिवसे ( पौषकृष्ण दशम्यां ) पुरे भी 'मेडता' नगरे ॥ २ ॥ १३ ་ १० Page #15 -------------------------------------------------------------------------- ________________ प्रस्तावना रचनासंवत् १६७३ ग्रन्थनाम नेलदवदंतीचोपाइ (गृ.) पुण्यसारचरित्र (गृ.) 'विचारशतकम् वल्कलचीरीचोपाह (गू.) वस्तुपालतेजपालरास (गू.) शत्रुजयरास ( गू.) बारव्रतरास (गू.) १६७४ १६८१ १६८२ १६८५ युगप्रधानपदवी, भोअकब्बरशाहिना । येभ्यो दत्ता महाभाग्याः, श्रीजिनचन्द्रसूरपः ॥३॥ सेषां शिष्यो मुख्यं(ख्यः) स्वहस्तदीक्षश्च सकलचन्द्रगणिः । तच्छिष्यसमयसुन्दरसुपाठकैरकृत शतकमिदम् ॥ ४ ॥ संवत् १७२७ वर्षे श्रावणवदि ३ दिने शनिवारे श्रीगुढामध्ये ॥ पं. कल्याणनिधानमुनीना (नामन्ते). वासिना पं० लब्धिचन्द्रमुनि(ना) लिपीचके।" गाथासहस्यां निरदेशि ग्रन्थोऽयं श्रीसमयसुन्दरगणिभिः । , "सुधरम सामि परंपरा 'चंद' कुल 'वयर' सामि सापि, 'कोटक' गच्छ खरतरउ महारकिया सुभाषि सुभाष जुगपरधान जिनचंद प्रथम शिष्यशिरोमणी, जसु गोत्र 'रीहर' नाम पंडित संकलचंद मसिद षणी तसु शिष्य पभणइ समयसुन्दर उपाध्याय इसी परई, वाचनाचार्य हर्पनन्दन प्रमुष सिध्यमई आदरई। गोत्र 'गलोछा' गहगहह 'मेडता' नयर ममारि, दिन दिन संघ माहि दीपता 'खरतर' गच्छ सिणगार सिणगार धमें तणा धुरंधर देवगुरुरागी घणउ,रायमल्ल पुत्ररत्न अमीपाल (खे)तसी नेतसी भ' राजसी तासु भत्रीज तिहां किण नेतसी भाग्रह करी, चौपइ कीधी समयसुंदर नलवदंती चरित्तरी संवत सोल तिहोत्तरह (१६७३) मास वसंत आणंद, नगर मनोहर 'मेडतह जिहां वासपूज्य जिणंद वासपूज्य तीर्थकर प्रसाद(8) गच्छ 'खरतर' गहगहइ, गच्छराय युगपरधान जिनसंघसूरि सदा जस कहा उवझाय कह समयसुंदरकीय भाग्रह नेतसी, चोपहनलवदंती केरी चतुर माणस पित्त वसा संवत् १७९७ वर्षे कार्तिक शुक्ल १. रविवासरे सयणाप्रामे"। २ चुनीजीभाण्डागारसत्कविचारशतकप्रतिप्रान्ते प्रशस्तिरेवम् "स्वच्छे 'खरतरगच्छे विजयिनि जिनसिंहरिगुरुराजे। वेदमुनिदर्शनेन्दु(१६७४)प्रमितेऽन्दे 'मेडता'नगरे ॥१॥ श्रीजिनचन्द्रमुनीन्द्रास्तच्छिष्यः सकलचन्द्रगणिरासीत्। तच्छिष्यसमयसुन्दरनामानः पाठकप्रवराः॥२॥ शीघ्र स्मृतिकृते स्वस्य, विचारशतकं व्यधुः । पृथक् स्थितविधाराणा-मेवमेकन मीलनात् ॥ ३॥" । “संवत सोलसह न्यासीयह (१६८२) ५ श्रावण वदि सुखकार से. रास भण्यट 'सेव्रुज' तणड ए नगर 'नागोर' मझार से. १९ गिरुयक गच्छ 'खरतर' तणऊ ए श्रीजिणचंदसरीस से., 'प्रथम शिष्य श्रीपूज्यना ए सकलचंद सुसीस से.२० तासु सीस 'जगि परगडा ए समयसुंदर उवझाय से०, ए सस रच्या तिण रुयाउ.ए. सुणतां पाणंद पाय से. " Page #16 -------------------------------------------------------------------------- ________________ ग्रन्थनाम विशेषसङ्ग्रहः विसंवादशतकम् गौतमपृच्छारास (गू. ) गाथा सहस्री (प्रा.) जंयतिहुयणवृत्तिः नवतच्चवृत्तिः Trailers (गू.) दशवैकालिकषृत्तिः थावच्चाचोपाइ (गू.) व्यवहारशुद्धिचोपाइ ( गू. ) प्रस्तावना ग्रन्थमानम् ३३५० रचनासंवत् १६८५ 11 १६८६ 19 १६८७ १६८८ 99 १६९१ 12 १६९३ १ "स्वच्छे 'खरतर 'गच्छे 'चान्द्र' कुले 'वज्र' नामशाखायाम् । - महारकजिनचन्द्रा युगप्रधानाख्यविरुदधराः ॥ १ ॥ तेषां शिष्या 'रीहड' गोत्रीयाः सकलचन्द्रगणिमणयः । तच्छिक्ष्यसमयसुन्दर नामानः पाठकप्रवराः ॥ २ ॥ तैः शिष्या दिहितार्थं प्रन्थोऽयं प्रथितः प्रयलेन । नाम्ना विशेषसङ्ग्रह इदुवसुशृङ्गार ( १६८५ ) मितवर्षे ॥ ३ ॥ राज्ये श्रीजिनराजसू रिसुगुरोर्बुद्ध्या जितस्वर्गुरो-राचायें जिनसागरे सुखकरे सौभाग्यभाग्याधि के 1: दर्श (मे) श्रीमति 'लूणकर्ण सरसि' श्रीसद्धदीप्तोदये, प्रन्थोऽयं परिपूर्णतामलभत श्रीफाल्गुने मासि च ॥४॥" २ " श्रीमत् ' खरतर 'गच्छे जिनसागरसूरिराजसाम्राज्ये । 'अणहिलपत्सन' नगरे संवति मुन्यष्टशृङ्गारे (१६८७)ः ॥ १ ॥ श्री समय सुन्दराख्याः पाठकविदुरा इमां व्यधुर्वृत्तिम् । मुनि सहजविमल पण्डित मेघ विजयशिष्यपठनार्थम् ॥ २ ॥ " ३ श्रीविजयधर्म लक्ष्मीशानभाण्डागारसत्कायां प्रत्यामुलेख एवम् - “श्री‘खरतर’गच्छकमलदिनिंदा युगप्रधान जिनचंदा मे । मृ० श्री जिनसिंघ सूरि सोभागी पुण्य दिसा जसु जागी बे । मृ० २१ प्रथम शिष्य श्रीपूज्य केरा सकलचंद गुरु मेरा घे मृ० तसु प्रसादि थया ग्रंथ पूर (ण) प्रगव्या सुजस पडूरा ने मृ० १४ सोलसह अठसठया ( १६८८ ) वरषे हुई चउपई घणो हरषे मे २६ मृगावतीचरित्र कला त्रिहुं खंडे पणे आणंद घमंडे बेबे ॥ २७ ॥ समयसुंदर चड् संघ आसीसी रिद्धि वृद्धि सुजगीसा बे २९ मृ०: संवत् १६९० वर्षे अश्वनि शुदि ३ दिने बृहस्पति वार ॥ श्री' परतर' गच्छे ॥ श्रीपूज्य श्री ५ जिनसिंघसूरि ॥ पं० श्रीलब्धिवर्धनमुनि । तत् शिष्यक्ष (१) । वा० श्रीषोषारिषि उपाध्याय श्री ५ शिवचंद्र तत्शिक्ष (2) मानकीर्तिलिखितं ।" ४ पुण्यपत्तनस्थप्राच्यविद्या संशोधनमन्दिरसत्कथावच्चाचोपद्मतिप्रान्ते * "संवत् सोल एकाणुं वरषै काती वदि श्रीज हर ने श्री ' भाइत' खारवा वाढई चौमासि रह्या सुदिहाडे बे से० २०. 'घरतर' गच्छ जिणचंदसूरीसा सकलचंद तसु सीसा मे समयसुंदर तसु सीसे प्रसिद्धा शिष्य प्रशिष्य समृद्धा मे ॥ २१ ॥" १० Page #17 -------------------------------------------------------------------------- ________________ ५ L ग्रन्थनाम वृत्तरत्नाकरवृत्तिः 'चंपक चोपाइ (गू.) अर्थला पनिका ( रघुवंशटीका ) कल्याणमन्दिरस्तोत्रटीका पुंजराजऋषिरास आलोयणा छत्रीसी द्रौपदीसती सम्बन्ध (गू.) कैल्पलता ( कल्पसूत्रटीका ) प्रस्तावना रचनासंवत् १६९४ १६९५ 17 29 १६९८ "" १७०० १ वाराणसीनयाघाटस्थ चुनीजी भाण्डागार सक्कवृत्तरत्नाकरटी का प्रतिप्रान्ते प्रशस्तिरियम् - वृत्तरत्नाकरे वृत्ति, गणिं (णिः) समयसुन्दरः । पष्ठाध्यायस्य सम्बन्ध (न्धं), पूर्णी चक्रे प्रयत्नतः ॥ su संवति विधिमुख निधि-रस- शशि ( १६९४ ) सख्ये द (दी) पपर्वदिवसे च । 'जालोर 'नामनगरे लूणेया फसलार्पितस्थाने ॥ २ ॥ श्रीमत् 'खरतर 'गच्छे श्रीजिनचन्द्रसूरयः । तेषां सकलचन्द्राख्यौ (ख्यो) विनेयः प्रथमोऽभवे (व) त् ॥ ३ ॥ सरिश (च्छिष्य समय सुन्दर एतां वृत्तिं चकार सुगमतराम् । श्रीजिनसागरसूरिं (रि) प्रवरे गच्छाधिराजेति ४ यः कोऽपि मत्सरी मूढः प्रशस्ति न लिखिष्यति । स लोके लप्स्यते निन्दां, कुणिर्भावी परत्र च ॥ ५ ॥” मुनिवर्य श्रीहंसविजयसत्कप्रत्यां पञ्चमं पद्यं न वर्तते । २ "संवत सोल पंचाणूंयह मह 'जालोर 'मांहे जोडी रे चंपकशेठनी चउपई अंगि आलस नइ उंघ छोडी रे १५ के० श्री 'खरतर' गच्छ राजीयो श्री युगप्रधान जिनचंदो रे प्रथम शिष्य श्री पूज्यना श्रीसकलचंद मुणिंदोरे १६ के० समयसुंदर शिष्य तेहना तिण चटवई कीधी एहो रे शिष्य तणइ आग्रह करी जे उपरि अधिक सनेहो रे १७ के० लिखिता चेयं पंडितचारित्रविजय०" ३" रघुवंशे महाकाव्ये, कृता समयसुन्दरैः । 'अर्थला पनिका' वृत्तिः, पूर्णा सर्गे दशाप्रके ॥" * एतत्प्रशस्त्यादिदिदृक्षुभि: प्रेक्ष्यतां भक्तामर कल्याणमन्दिर नमिऊण स्तोत्रस्य मदीया भूमिका (पृ. ३५ ) । ५ " व्याख्यानं कल्पसूत्रस्य, नवमं सुन्दरं स्फुटम् । शिष्यार्थ पाठकाश्चक्रुः समयादिमसुन्दराः ॥ १ ॥ श्री शासनापीश्वरवर्धमानो गुणैरनन्तैरतिवर्धमानः । यदीयतीर्थ खखखामनेत्र (२१००० ) - वर्षाणि यावद् विजयि प्रसिद्धम् ॥ १ ॥ तदीयशिष्यो गणभृच्च पञ्चमः, सुधर्मनामाऽस्य परम्परायाम् । बभूव शाखा किळ 'वज्र'नाम्नी, चान्द्रं कुलं चन्द्रकलेव निर्मलम् ॥ २ ॥ तद्गच्छेत्यभिधानतः 'खरतरे' यैः 'तम्मना 'वीश्वरो भूमध्यात् प्रकटीकृतः पुनरपि खानोदकादुद्गता । स्थानाङ्गादिनवाङ्ग सूत्र विवृतिर्नष्याऽतिभव्या कृता श्रीमन्तो ऽभयदेवसूरिगुरवो जाता जगद्विश्रुताः ॥ ३ ॥ यो योगिनीभ्यो जगृहे ददौ च वरान् वरान् जाग्रदनेक विद्यः । पञ्चापि वीरान् स्ववशीचकार, युगप्रधानो जिनदत्तसूरिः ॥ ४ ॥ सानुमतः श्रीमजिनचन्द्र सूरिनामानः । जाता युगप्रधामा 'दिल्ली' पतिपातिसाहिकृताः ॥ ६ ॥ अकबररञ्जनपूर्वं द्वादशसूत्रेषु सर्वदेशेषु । स्फुटतरममारिपटहः प्रवादितो यैश्व सूरिवरैः ॥ ७ ॥ . Page #18 -------------------------------------------------------------------------- ________________ ग्रन्थनाम 'ऋषभभक्तामरम् 'दुरियरयसमीरवृत्तिः जीवविचार - नवतच्च दण्डकटीका प्रस्तावना अप. 3 तेषां श्रीजिनचन्द्राणां शिष्यः प्रथमतोऽभवत् । गणिः सकलचन्द्राख्यो, 'रीहडा'न्वयभूषणः ॥ १० ॥ तच्छिष्य समयसुन्दर सदुपाध्यायैर्विनिर्मिताध्यायैः । कल्पलतानामाऽयं मन्थश्चक्रे प्रयत्नेन ॥ ११ ॥ प्रक्रिया हैमभाष्यादि, पाठकैश्च विशोषिता । हर्पनन्दनवादीन्द्रः, चिन्तामणिविशारदैः ॥ १२ ॥ राज्ये श्रीजिनराजसूरि सुगुरोर्बुद्ध्या जितस्वर्गुरोः । ... *** ... राजन्ते जिनराजसूरिगुरवस्ते साम्प्रतं भूतले ॥ १९ ॥ ... युवराजे जिनसागरसूरिवरे विजयिनि प्रकृतिसौम्ये ॥ २० ॥ इति श्रीसमय सुन्दरोपाध्यायविरचिता कल्पलतानाम्नी कल्पसूत्रटीका समाप्ता ।" १ अस्याचान्ति मे पधे यथा "नम्रेन्द्रवन्द्र ! कृतभद्र ! जिनेन्द्रचन्द्र - ज्ञानात्मदर्श परिदृष्ट विशिष्टविश्व ! । स्वन्मूर्त्तिरर्त्तिहरणी तरणी मनोशे-वालम्बनं भवजले पततां जनानाम् ॥ १ ॥" “श्रीमन्मुनीन्द्रजिनचन्द्र यतीन्द्रशिष्य- पूर्णेन्दु शिष्य समयादिमसुन्दरेण । भक्तामरस्तवनतुर्यपदं समस्या - काव्यैः स्तुतः प्रथमतीर्थपतिर्गृहीत्वा ॥ ४५ ॥” २ श्रीजिनवल्लभमुनीशैः नानाच्छन्दस्तु ४४ पद्यात्मकस्य प्रणीतस्य वीरचरितस्तवस्य प्रारम्भिकपदानी मानि, सम्पूर्ण पद्यं तु यथा "दुरियरयसमीरं मोहपंकोहनीरं, पणमय जिणवीरं निजियाणंगवीरं । भयभडपतिकूलं तस्स मुक्खाणुकूलं, चरियमिह समूलं किंचि कित्तेमि भूलं ॥ १ ॥” वृष्यादो भयमुलेख:--- "नत्वा वीरजिनेन्द्रं दुरियरयसमीरस्य च वृत्तिमहम् । अतिसुगमामिह वक्ष्ये शीघ्रं तस्यार्थबोधार्थम् ॥ १ ॥ श्रीजिनचन्द्र गणाधिप शिष्यादिमसकलचन्द्रगणिशिष्याः । प्रवदन्ति समयसुन्दरनामानः पाठकाः प्रकटम् ॥ २ ॥ " ३ भावनगरस्य श्री आत्मानन्दजैनसभाऽन्तर्गतमुनिराज श्री भक्तिविजय भाण्डागार सरकजी व विचार- नवतरव-दुण्डकसटीक प्रतिप्रान्तेऽयमु लेख: १७ "संवति रस्य (?) निधिगुहमुख सोम (१६९६ १) मिते नभसि कृष्णपक्षे च । 'अमदावादे' 'हाजापटेल 'पोलीस्थशालायाम् ॥ ३ ॥ श्रीमत्‘खरतर'गच्छामीश्वरजिनचन्द्रसूरि शिष्योऽभूत् । गणिसकलचन्द्रनामा 'रीहड'गोत्री च पुण्यात्मा ॥ ४ ॥ तच्छिष्यसमय सुन्दर एतां वृत्तिं चकार चारुतया । अतिसुगमां च सुबोधरं पठन्तु भो पाठयन्तु द्वा ॥ ५ ।। " Page #19 -------------------------------------------------------------------------- ________________ १२ प्रस्तावना एतावत्य एव कृतयः श्रीसमयसुन्दरगणीनामिति न समीचीनम् ; अन्या अपि लघ्व्यः कृतयो गौर्जरगिरि सन्ति, परन्तु ग्रन्थगौरवभयात् तन्नामोल्लेखो न क्रियतेऽत्र । श्रीसमयसुन्दरगणीनां शिष्यादिनामजिज्ञासुभिः प्रेक्ष्यतां चुनीजीभाण्डागारसत्कमहा. राजकुमारचरित्रगतो निम्नावतारित उल्लेखः "श्री'खरतर' गच्छ जगतमा प्रतपै जाणि दिणंद सु० सहु गछ माहे सिरतिलो रे ग्रहगणमां जिम चंद सु० ६ गुण गिरवौ तिहां गच्छपति रे श्रीजिणचन्द्र(द) सूरिंद सु० महिमा मोटी जेहनी रे मानै वडा नरिंद सु० ७ ज्ञानपयोधि प्रबोधि वारे अभिनव ससिहर प्राय सु० कुमुदचंद्र उपमा वहे रे समयसुन्दर कविराय सु० ८ ततपर शास्त्र समरथिवा रे सार अनेक विचार सु० । पलि कलिंदका कमलिनी रे उल्लासन दिनकार सु० ९ . विद्यानिधि वाचक भला रे मेघविजय तसु सीस सु० तस सतीर्थ्य वाचकवरु रे हर्षकुशल सुजगीस सु० १० तासु शिष्य अति शोभता रे पाठक हर्षनिधान सु० परम अध्यातम धारवा रे जे योगींद्र समान सु० ११ तीन शिष्य तसु जाणीए रे पंडित चतुर सुजाण सु० साहित्यादि ग्रंथना रे निर्वाहक गुण जाण सु० १२ प्रथम हर्षसागरसूरी रे ज्ञानतिलक गुणवंत सु० पुण्यतिलक सुवपाणतां रे हीयदो हेज हरपंत सु० १३ तास चरणसेवक सदा रे मधुकर पंकज जेम सु० प्रमुदित चित्तनी चुंपसुं रे रास रच्यो मै एम सु० १४ संवत सतरै बावनै (१७५२) रे श्री पाटण'पुर मांहि सु० फागण सुदि पांचम दिने रे गुरुवारे उच्छांहि सु० १५ ढाल बायालीस अति भली रे नव नव राग प्रधान अडलातीस ने आठसै (८४८) रे गाथानो छै मान सु० १६ ढाल चवदमी मन गमी रे सहु रीझ्या ठाम ठाम । ज्ञानतिलक गुरु सांनिधि रे विनयचंद्र कह आम सु० १८ Page #20 -------------------------------------------------------------------------- ________________ प्रस्तावना इति .... संवत् १८९० वर्षे मिति चैत्रशुदि ११ शुक्रे महोपाध्याय श्री ५ श्रीपुण्यचन्द्रजीगणि । तत्सि (च्छि ) ष्य पुण्यविलासजी गणि । तदंतेवासी वाचकपुण्यशीलगणिलिखिता चतुष्पदिका | 'बाकरोद' ग्राममध्ये ।" किश्च विलोक्यतां 'सुसढचोपड़' प्रान्तिमो भागः-"श्रीजिनचंद सूरीसरू रे सकलचंद तसु सीस समय सुंदर पाठक सदा रे जयवंता जगदीस ७६० पाटोघर तसु परगडा रे कंदवादकुद्दाल हरषनंदन वाचक हठी रे प्रीछइ बाल गोपाल ८६० जयकीरत वाचक ज्या रे सीहां सीह सुसिष्य राजसोम पाठक रिधू रे प्रसिद्ध है तासु प्रसिष्य ९६० ग्यानलाभ गणि गुण निलो रे अंतेवासी अम्ह समयनिधान वाचक सुपीरे तिण कह्यो चोपइ तुम्ह १०६० सुस तणी अति सुंदरु रे मुझ सिष्य नाम मुरारि ते करि देवो तुम्हे रे अरज एह अवधारि ११६० चतुर जोडाई उपइ रे श्रीजिनधर्मसूरीस रिधू तलै त राजमई रे संवत सतरै सैतीस 'अकबराबाद' कीधी अम्हे रे आलमगीर अधीस १३६० ...संवत् १८१८ वर्षे फागुणमासे कृष्णपक्षे पंचमीतिथौ शनिवासरे श्रीदेशणोकमध्ये भ० श्री जिन भक्तिसूरिजी शिष्यवाचनाचार्य श्री माणिक्य सागरजी गणिशिष्यपं ० तत्त्वधर्म लिवीचक्रे 'देणोक 'ग्रामे चतुर्मासीकृता ।" "मुज जनम श्री' साचोर' मांहि, तिहां च्यार मास उच्छांहि; तिहां ढाल ए कीधी एके ज, कहे समय सुंदर धरी हेज" प्राग्वाटीयलीलादेरुपसीनन्दनश्रीसमय सुन्दरगणीनां जन्मस्थलं 'सत्यपुर' मिति ज्ञायते सीतारामचतुष्पदी (ख. ६, ढा. ३ ) गतेन निम्नावतारितोल्लेखेन श्रीसमयसुन्दरगणीनां विशारदतादिदिग्दर्शनम् - १९ १ प्रेक्ष्यतां देवीदासगुम्फितं गीतम् । ५ एतद्गणीनां मुख्यैः शिष्यैः श्रीहर्षनन्दनैः १६७३ तमेऽब्दे प्रणीते मध्याह्वव्याख्यानपद्धतिनामके ग्रन्थे स्वगुरुनिपुणता दिमाश्रित्य किमपि प्रोक्तम् । तच्चैवम्"जिनचन्द्रसूरियुगवरराजानां शिष्य मुख्य गणनायाम् । गणिसकलचन्द्र विबुधाः सद्गुरुभक्ताः सदा आसन् ॥ ११ ॥ १० १५ २० २५ Page #21 -------------------------------------------------------------------------- ________________ प्रस्तावना तेषां शिष्या मुख्या वचनकलाकविकलासु निष्णाताः । तर्कव्याकृतिसाहित्यज्योतिःसमयतत्वविदः ॥ १२ ॥ प्रज्ञाप्रकर्षः 'प्राग्वाटे' इति सत्यं व्यधायि यः । येषां हस्तात् सिद्धिः सन्ताने शिष्यशिष्यादी ॥ १३ ॥ अष्टलक्षानर्थानेकपदे प्राप्य ये तु निर्ग्रन्थाः।। संसारसकलसुभगा विशेपतः सर्वराजानाम् ॥ १४ ॥ तेषां शिष्यो मुख्यो वादी इह हर्पनन्दनो नाम्ना ।" एवं विविधहस्तलिखितप्रत्याधारेण यथामति सम्पादितेऽस्मिन् मनोमोहके ग्रन्थे मम प्रयासस्य साफल्यमापादयितुं प्रयतन्तां प्रेक्षावन्तो मह्यं निर्दिशन्तु निरीक्षकाः सहृदयाश्च छमस्थ१० सुलभाः स्खलना इति निवेदयति २४५७तमे 'वीर'संवत्सरे आपाढकृष्णकादश्यां मोहमयीनगर्या भूलेश्वरवीथ्या विदुपां वशंवदो हीरालालः श्रीयुतरसिकदासनन्दनः। Page #22 -------------------------------------------------------------------------- ________________ श्रेष्ठि-देवचन्द्र-लालभाइ-जैनपुस्तकोद्धार-प्रन्थाके श्रीसमयसुन्दरगणिकृता ॥अर्थरत्नावली॥ (अष्टलक्षार्थीत्यपरनानी) श्रीसर्वज्ञाय नमः । श्रीसूर्यः श्रेयसे भूयाद्, भक्तितत्परभूस्पृशाम् । यस्य नामसहस्रस्य, जापः पापहरो भवेत् ॥ १॥-अनुष्टुप् सान्निध्यं कुरुताद् ब्राह्मी-देवता वरदायिनी । सेवका यत्प्रसादेन, साधयन्तीप्सितं फलम् ॥ २ ॥-अनुष्टुप "राजानो ददते सौख्यं” इति श्लोकैकपादस्य मया निजबुद्धिवृद्धिनिमित्तम् अर्थाः १. क्रियन्ते । तत्र प्रथमं श्रीसूर्यदेववर्णनमाद्द राजा नो ददते सौख्यम् ॥ १॥ "सावित्रीभाविता राजा, विसृजो विघृणो विराट् । सप्तार्चिः सप्ततुरगः, सप्तलोकनमस्कृतः ॥१॥"-अनुष्टुप् इति श्रीस्कन्दपुराणे श्रीसूर्यसहस्रनामान्तर्भणितत्वाद् राजा-श्रीसूर्यः नः-अ-१५ स्माकं सौख्यं-सुख-ददते-ददाति । इदं श्रीसूर्यदेवताभकजनानां वचनम् ॥ १॥ पुनः प्रकारान्तरेण श्रीसूर्यदेवस्यैव वर्णनमाह राजा आ नो ददते असौख्यम् ॥ २॥ "शब्दः पावके सूर्ये, धर्मे दाने धने पुमान् । आ अरौ अर एतानि, अरं चारौ श्च शसि ॥१॥"-अनुष्टुप् । इति श्रीविश्वशम्भुवचनप्रामाण्यात् आ-सूर्यः-श्रीआदित्यदेवः, "अमानोनाः प्रतिपेधे” इति (एकाक्षरी)वचनात् नो-न असौख्यं न सौख्यं असौख्यं, दुःखमित्यर्थः, तत् Page #23 -------------------------------------------------------------------------- ________________ अर्थरनावली [अर्थस्तृतीयः] ददते, प्राणिनामिति शेषः, सर्वदैव सर्वेषां सौख्यदानात् । किंविशिष्ट आ ? 'राजा' राजते-दीप्यते विश्वव्यापिप्रभाभिरिति राजा । इदमपि श्रीसूर्यसेवकानामेव वचनम् ॥२॥ अथ पुनः प्रकारान्तरेण श्रीब्रह्मविष्णुशिवदेवानाश्रित्यार्थमाह रा-अज-अ-अ नः अददत ईसौख्यम् ॥ ३॥ ५ "रा रमा रमणी वाला” इति विश्वशम्भुवचनात् रा तत्पर्यायत्वात् श्रीः। तथा अजः-ब्रह्मा । “अः कृष्ण" इति श्रीअमरवचनात् अः-श्रीकृष्णः । तथा “अः शिवे केशवे वायौ, ब्रह्मचन्द्राग्निभानुषु" इति विश्वशम्भुवचनप्रामाण्यात् अः-शिवः । ततः अजश्च अश्च अश्च अजाः । (रया-) श्रिया उपलक्षिता अजाः (राजा:-) श्रीअजाःश्रीब्रह्मविष्णुशिवाख्यास्त्रयोऽपि देवाः नः-अस्माकं, “ईः श्रीः" इति श्रीअमरकविव१० चनप्रामाण्यात् ई:-श्रीः तस्याः तत्सम्बन्धि वा सौख्यं-सुखं ईसौख्यं ऋद्धिसौख्य मिति __यावत् अददत-अदुरित्यर्थः । इदं तत्तत्सेवकानां वचनम् । ___ अत्र राशब्दो व्यवधानेन श्रीप्रतीतिकृदपि श्लेपचित्रादित्वात् न दोषभाक् । यथा- "येन ध्वस्तमनोभवेन वलिजित्कायः पुराऽस्त्रीकृतो यश्चोद्वत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः॥१॥"-शार्दूलविक्रीडितम् इत्यादि । एवमग्रेऽपि सति प्रयोजनेऽनुसतव्यम् ॥ ३॥ .. 'यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः' इति पाठः सुभाषितरत्नभाण्डागारे। २ 'सोऽच्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः' इत्यपि पाठः सुभाषितरत्नभाण्डागारे। ३ इदं कूटकाव्यं तस्मादस्य टिप्पणकं दीयते, हरपक्षे यथा-स उमाधवः-पार्वतीपतिः त्वां सर्वदा-सदा पापात्रक्षतु । स किंभूतः? यो गङ्गामधारयत् येन बलि जितवानिति बलिजित्-विष्णुः तस्य काय:-शरीरं पुरा-त्रिपुरवधकाले अस्त्रीकृतः-अनत्वेन सम्पादितः। किंभूतेन येन? 'ध्वस्तमनोभवेन' वस्त:-क्षपितः मनोभवः-रतिपतिर्येन स तेन । पुनः किंभूतः सः । 'यश्चोत्त०' हाराश्च वलयानि च हारवलयम्, उदृत्ताच ते भुजङ्गाश्च उत्तभुजङ्गाः, ते हारवलयं यस्य सः, उद्वृत्तभुजङ्गाः-सर्पाः हारः-कण्ठाभरणं वलय-कटकं भुजभूषणमित्यर्थः । पुनः स किंभूतः? यस्य शिरः-मस्तकं 'शशिमत्' शशी-चन्द्रोऽस्ति यस्मिन् तत् शशिमत् । पुनः स किंभूतः यस्य स्तुत्यं-प्रशंसनीय नाम-अभिधानं अमरा-देवा इति आहुः-अकथयन् । इतीति किम् ? हर इति-महादेव इति । पुनः स किंभूतः? स्वयं-भारमना अन्धकनामा देत्यः तस्य क्षयकरः-अन्तकृत् । हरिपक्षे यथा येन ध्वस्तमनो भवेन बलिजिस्कायः पुरा स्वीकृतो यशोवृत्तभुजङ्गहा रवलयोऽगं गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदो माधवः ॥ १॥ सर्व-समस्तं ददाति-यच्छतीति सर्वदः स माधवः-लक्ष्मीपतिः मा-लक्ष्मीः तस्या धवः-पतिः माधवः स्वा पायात्-अवतु । स कः? येन भवेनेत्युत्पन्नमात्रेण पृतदेहेनेत्यर्थः, अनः-शकटाकृतिर्दानवः ध्वस्तं-अधानि, अथवा अकारमशेष करवा अभवेनेति घोरसंसारसमुद्रे पूर्वकर्मानुसारेण न विद्यते भवो-जन्म यस्य स तेन कृष्णलीलामृत Page #24 -------------------------------------------------------------------------- ________________ [अर्थाः ४-११] श्रीसमयसुन्दरगणिकृता रा अजा नो ददते सौख्यम् ॥ ४-८॥ "रा रमा रमणी बाला" इति (विश्वशम्भु)वचनाद् रा-रमणी न:-अस्मभ्यं सौख्यं ददते । फिविशिष्टा रा? 'अजा' । “अजश्छागे हरे विष्णौ, रघुजे वेधसि स्मरे" इति हैमानेकार्थ( श्लो० ८० )वचनात् अजं-हरं १ विष्णुं २ रघुजं ३ ब्रह्माणं ४ स्मरं ५ वा । अटति अतति-गच्छतीति अजा-पार्वती १ लक्ष्मीः २ इन्दुमती ३ ५ सावित्री ४ रतिश्च ५। इदं तत्तद्भक्तानां वचनम् । अर्थाः ५ सर्वे ॥ ४-८॥ राज! आः नो दद! ते सौख्यम् ॥ ९॥ "रा रमा रमणी बाला"इति (विश्व०)वचनाद् रा-लक्ष्मीः । ततः "जश्च जेतरि जनने विगते" इति सुधाकलश(श्लो० १८)वचनात् जः-जननं यस्य स राजः कन्दर्पः लक्ष्मीनाममातृजातत्वात् । तत्सम्बोधनं हे राज!-हे कन्दर्प! । “आः सन्तापको... पयोः" इति तिलकानेकार्थवचनात् आ इति कोपे । ते-तुभ्यं सौख्यं-सुखं नो-न, अस्तु इति शेषः । तव सुखं माऽस्तु इत्यर्थः । यतः हे दद! "दं कलत्रम्” इति सुधाकलश(श्लो० २५)वचनात् दं-कलत्रं द्यति-खण्डयति-पीडयतीति ददः, अवलासन्तापकारक इत्यर्थः । तत्सम्बोधनं हे दद!। इदं कान्तविरहे कामपीडितायाः कामिन्याः कामं प्रति आक्रोशदानवचनम् ॥ ९॥ १५ रा आजा नः अददत ईसौख्यम् ॥ १०॥ "आ स्वयम्भूः" इति श्रीअमरकविवचनात् आ-ब्रह्मा ततो जा-जाता आजाश्रीसरस्वती देवीत्यर्थः । नः-अस्माकं अस्मभ्यं वा ईसौख्यं-लक्ष्मीसौख्यं अददत-अदतेत्यर्थः। फिविशिष्टा आजा? 'रा' राजते-दीप्यते-शोभते । 'क्वचिड्डः' (सिद्धहेमे अ०५, पा० १, सू० १७१) इति डप्रत्यये अपि च रा ।। १० ॥ राजा नो ददते सौख्यम् ॥ ११ ॥ ___ “रं जले रङ्गवेगयोः" इति विश्वशम्भुवचनात् रेण-रङ्गेण अजेन-छागेन वाहनरूपेण अजति-गच्छतीति राजा-अग्निः, छागवाहनत्वात् नो-न सौख्यं ददते-ददाति, दाहकत्वात् । अथवा नः-अस्माकं सौख्यं-सुखं ददते, रन्धनशीताद्यपहारकत्वेन परमोपकारकत्वात् ॥ ११ ॥ विग्रह इति । पुनः स कीदृशः? येन सुधाविभागार्थ शिवमोक्षार्थ वा बलिजिच्चासौ कायश्चेति पुरा स्वीकृतः-श्रीभावं प्रापितः । पुनः कीदृशः? यः अग-गोवर्धननामगिरि गां-पृथ्वीं च अधारयत्-दधे । पुनः कोशः? यः अन्धेभगाधे के-जले क्षयं-गृहं करोतीति, विष्णुर्जलशायीति प्रसिद्धिः। पुनः कीदंशः? भमरा यस्य इति स्तुत्यं नाम माहुः । इतीति किम् ? शशिमच्छिरोहर इति, शशिनं-चन्द्रं मनातीति शशिमत्-राहुः तस्य शिरोहरतीति सः । पुनः कीशः? उद्धृत्तो भुजङ्गहा-रुडो यस्य सः, तथा रवे-परब्रह्मणि लयः-एकाग्रता यस्य सः अथवा भकार. प्रक्षेपं कृत्वा भरं-सुदर्शनमामचक्रं वलयं यस्य सः । भयमोलेखः श्रीसुधाकलशमुनीशकतैकाक्षरीनाममालिकाया आधारेण सूचितः । २ भत्र द्वौ अधों पृथग शेयो न वेति प्रभः । Page #25 -------------------------------------------------------------------------- ________________ अर्थरन्नावली [ अर्धाः १२-१६] रा अजा नो ददते सौख्यम् ॥ १२ ॥ रा-लक्ष्मीः नः-अस्माकं सौख्यं ददते । किं० रा? 'अजा' न जायते इत्यजा, शाश्वतीत्यर्थः । अर्थयोजना स्वयं कार्या सुधीभिः ॥ १२ ॥ राजा ना उ ददते असो खी अम् ॥ १३ ॥ . ५ "एते चतुर्दशापि स्वराः सम्बोधन-पादपूरण-भर्त्सना-मन्त्रण-निषेधेषु" इति श्रीबृहज्यासवचनप्रामाण्यात् 'उ' इति सम्बोधने । असौ-प्रत्यक्षो ना-पुमान् अं-परब्रह्म ददतेददाति । किं० ना? 'राजा' राजभिः-नृपैः आ-शोभा यस्य स राजा, राजभिः सेव्यत्वात् । पुनः किं० ना? 'खी' । “खमिन्द्रिये स्वर्गे व्योम्नि नृपे शून्ये सुखे संविदि" इति श्रीअमरकविवचनप्रामाण्यात् ख-सुखं ज्ञानं वा तद् अस्यास्तीति खी, सुखवान् ज्ञानवान् १० वा इत्यर्थः ॥ १३ ॥ राजाव नो ददते सौख्यम् ॥ १४ ॥ रेण-रङ्गेण अजां-गलस्तनी वृश्चति-छेदयतीति राजावृट् तं राजावृश्चं आचष्टे-स्तीतीति 'णिज्बहुलं नाम्नः कृगादिषु' (सिद्ध० अ० ३, पा० ४, सू० ४२) इति णिजि, ‘णेरनिर्टि' (सिद्ध० अ०४, पा० ३, सू० ८३) इति णिज्लुकि क्विपि तल्लुकि च राजा-अजा१५ हन्तृस्तुत् कोऽपि पापिष्ठमतिः नो-न सौख्यं ददते, हिंसाकारकनरस्तोतृत्वात् । अत्र 'व्योः' (सिद्ध० अ० १, पा० ३, सू० २३) इति सूत्रेण वलोपे राजानो ददते सौख्यमिति रूपसिद्धिः। यदाहुः श्रीहेमसूरिपादाः-व्योः अवर्णात् परयोः पदान्तस्थयोर्षययोर्घोषवति परे लुक् स्यात् स च असन्धिः । वृक्षश्चं अव्ययं च आचक्षाणो वृक्षव् अव्यय वृक्षयाति अव्ययाति । एवमेतत्सूत्रेण अग्रेऽपि सति प्रयोजने वययोर्लोपः २० कर्तव्यः ॥१४॥ राजाय नो ददते सौख्यम् ॥ १५ ॥ रा-रमा-लक्ष्मीः जाया-भार्या यस्य स राजायः श्रीकृष्णा, लक्ष्मीभार्यत्वात् , तं राजायं-कृष्णं आचष्टे-सेषकत्वात् स्तोतीति णिजि तल्लुकि विपि तल्लुकि च राजाय-कृष्णस्तोता । न:-अस्मभ्यं सौख्यं ददते । इदं वैष्णववचनम् । अत्रापि 'व्योः' (सिद्धा २५ अ० १, पा० ३, सू० २३) इति सूत्रेण यलोपे कृते राजा नो ददते सौख्यमिति रूपसिद्धिः । एवमग्रेऽपि । शेषं पूर्ववत् ॥ १५ ॥ र! अजाय नो ददते सौख्यम् ॥ १६ ॥ "ः स्मरे तीक्ष्णे विश्वानरे शब्दे रामे वजे नरे” इति सुधाकलशवचनात् है र!-हे नर!। न विद्यते जाया-स्त्री यस्य सः अजायः-स्त्रीरहितः। उपलक्षणत्वात् ख्यादि. "र: कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६॥ रामे वज्रे च शन्दे स्यात्" इति सुधाकलशैकाक्षरनाममा. लिकायाम् । Page #26 -------------------------------------------------------------------------- ________________ [ अर्थाः १७-२७] श्री समय सुन्दरंगणिकृता सर्वपरिग्रहरहितः, यतिरित्यर्थः । तमाचष्टे - स्तौतीति अजाय् । नः - अस्माकं सौख्यं ददते । यलोपादिः पूर्ववत् । अर्थयोजना स्वयं कार्या ॥ १६॥ - आजा नो ददते असौख्यम् ॥ १७ ॥ "ऋर्देवमातरि" इति ( श्रीसुधाकलशमुनीशकृताया एकाक्षरनाममालिकायाः श्लो० ६ ) वचनात् ऋ - देवमातरं आ - सामस्त्येन अजन्ति-सुरारित्वेन क्षिपन्तीति राजा- ५ दैत्याः । नः - अस्माकं असौख्यं ददते । इदं सुराणां वचनम् । अत्र 'इवर्णादेरस्व स्वरे यवरलम्' (सिद्ध० अ० १, पा० २, सू० २१ ) इति सूत्रेण रत्वे सन्धौ च कृते राजा नो ददते असौख्यमिति रूपसिद्धिः ॥ १७ ॥ राजा नो ददते सौख्यम् ॥ १८ ॥ ५ "ॠस्त्वजे दानवाञ्छायाम्" इति ( सुधा० श्लो० ७ 1) वचनात् ऋः - अजो - १० मेषः तेन वाहनभूतेन अजति गच्छतीति रजः- अग्निदेवता तस्य इमे राजाः - अग्निहोत्रीया ब्राह्मणाः नः - अस्माकं सौख्यं ददते । अर्थयोजना स्वयं कार्या ॥ १८ ॥ ऋ-आजा नो ददते असौख्यम् ॥ १९ ॥ ऋः- दानवाञ्छा तस्या आजः -क्षेपो येभ्यः येषां वा ते रत्वे कृते राजाः - कृपणाः नः - अस्माकं असौख्यं ददते- प्रयच्छन्ति, वितरणाभावात् । इदं याचकानां वचनम् ॥१९॥ १५ ऋ-आ-अजा नो ददते असौख्यम् ॥ २०-२१ ॥ " ऋशब्दः पावके सूर्ये धर्मे दाने धने पुमान्" इत्यादि (विश्व०) वचनात् अरंपावकं - अग्निदेवं आ - सामस्त्येन अजन्ति - देवत्वेन गच्छन्तीति रत्वे कृते राजा :- अग्निदेवसेवकाः नो-न असौख्यं ददते । इदं अग्निहोत्रीय ब्राह्मणवचनम् ॥ २० ॥ राजा: एवं अरं - सूर्य - आदित्यदेवं आ - सामस्त्येन अजन्ति-देवत्वेन गच्छन्तीति रत्वे कृते १० :- श्रीसूर्यदेवोपासकाः नो-न असौख्यं ददते । इदमपि तद्विधानामेष वचनम् ॥ २१ ॥ ऋ-आ-अजा नो ददते सौख्यम् ॥ २२-२४ ॥ अरं धर्म दानं धनं वा आ-सामस्त्येन अजन्ति - गच्छन्ति प्रामुवन्तीति रवे कृते राजा:-धर्मिष्ठाः गुणिनः गुणाढ्याश्च पुरुषाः नः - अस्माकं सौख्यं सुखं ददते ॥ ३ ॥ इदं उत्तमजनवचनम् ॥ २४ ॥ ऋ-आजा नो ददते सौख्यम् ॥ २५-२७ ॥ ऋशब्दस्य प्रथमैकवचने आ इति रूपम् । ततः आ इति धर्मो दानं धनं च तस्य आजः -क्षेपो येभ्यो येषां ते । रखे कृते राजाः नास्तिकाः दानक्षेपकाः विरक्ताश्च पुरुषाः नो-न सौख्यं ददते । इदं आस्तिकानां दातॄणां संसाररक्तानां च वचनम् ॥ ३ ॥ २७ ॥ २५ Page #27 -------------------------------------------------------------------------- ________________ अर्थरत्नावली [ अर्थाः २८-३५] राजा आ नो ददते सौख्यम् ॥ २८ ॥ ___ आ-अग्निः नः-अस्माकं सौख्यं ददते । किं० आ ? 'राजा' राजते-दीप्यते भूतले इति राजा ॥ २८ ॥ राजा आ नो ददते सौख्यम् ॥ २९-३१॥ ५. आ-धर्मो नः-अस्माकं सौख्यं ददते । किं० आ ? 'राजा' रञ्जयति चतुरनरचेतासीति राजा । इदं धर्मिष्ठजनवचनम् ॥ २९ ॥ ___एवं आ-दानं धनं च नः-अस्माकं सौख्यं ददते । कि० आ? 'राजा' । व्युत्पत्त्यादि पूर्ववत् अर्थद्वयम् ॥ २॥ सर्वे ॥ ३१ ॥ -आ-अजा नो ददते असौख्यम् ॥ ३२॥ १. ऋ:-देवमाता तां आ-सामस्त्येन अजन्ति-मातृत्वेन गच्छन्तीति रत्वे कृते सन्धी च सति राजा-देवाः नः-अस्माकं असौख्यं ददते । इदं दैत्यानां वचनम् ॥ ३२॥ -आ-अजा नो ददते असौख्यम् ॥ ३३ ॥ "ऋर्दितौ स्यादजे" इति तिलकानेकार्थवचनात् ऋः-दितिस्तां आ-सामस्त्येन अजन्ति-मातृत्वेन गच्छन्तीति राजाः-दैत्याः नः-अस्माकं असौख्यं ददते । इदं सुराणां १५ वचनम् ॥ ३३ ॥ ऋ-आ-अजा नो ददते असौख्यम् ॥ ३४ ॥ -मेषस्तं आ-सामस्त्येन अजन्ति-क्षिपन्तीति रत्वे कृते राजाः-सिंहादयः नःअस्माकं असौख्यं ददते । इदं मृगाणां वचनम् ॥ ३४ ॥ ल-आ-अजा नो ददते सौख्यम् ॥ ३५॥ २० "(ल?)राह्याम्" इति तिलकानेकार्थवचनात् ऋः (लः?)-वाराहीदेवता तां आ-सामस्त्येन अजन्ति-देवत्वेन गच्छन्तीति लाजाः-वाराहीभक्ताः पुरुषाः नः-अस्मभ्यं सौख्यं ददते । इदं तद्विधानामेव वचनम् । अत्र 'इवर्णादेरस्वे स्वरे यवरलम्' (सिद्धा अ० १, पा० २, सू० २१) इति सूत्रेण लत्वं विधेयम् । अत्र चित्रादित्वाद् रलयोरक्यं न दोपाय । यदाह "अहमपि परेऽपि कवय-स्तथापि महदन्तरं पर ज्ञेयम् । ___ऐक्यं रलयोरिति यदि, तत् किं केलभायते करभः ? ॥ १॥" एवमग्रेऽपि सति प्रयोजनेऽनुसतव्यम् ॥ ३५ ॥ " , "लारामां" इन्ते सुधा० (सो..)। २ 'करभायते कलभः' इति सुभाषितः । १५ Page #28 -------------------------------------------------------------------------- ________________ [ अर्थाः ३६-४१] श्रीसमयसुन्दरगणिकृता ___ लाजाय नो ददते सौख्यम् ॥ ३६ ॥ लाजेभ्यः-तन्दुलेभ्य आय-लाभं आचष्टे इति लाजाय एवंविधः कोऽपि जनः नःअस्माकं सौख्यं ददते । णिजादिविधिः पूर्ववत् । अर्थयोजना स्वयं कार्या ॥ ३६॥ . लाव जा ! नो ददते असौख्यम् ॥ ३७॥ "ला च लक्ष्मीलमम्वरे” इति विश्वशम्भुवचनात् लां-लक्ष्मी अवति-स्वामी- ५ भवतीति लावो-लक्ष्मीवान् । तमाचष्टे-स्तातीति णिजि लावयतीति णिज्लुकि क्विपि तल्लुकि च लाव् । “जंस्तु जेतरि” इति (विश्वशम्भु)वचनात् हे जाः!-जेत. जनाः! लाव-लक्ष्मीस्वामिस्तावकः नो-न असौख्यं ददते । अर्थयोजना स्वयं कार्या । अत्र 'अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमन]प्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवात्यालिङ्गनहिंसादानभागवृद्धिषु' इति (पाणिनीयधातुपाठे ६००) उक्तत्वात् अव-१० धातुः स्वाम्यर्थो ग्राह्यः । एवमेव शतार्थिभिर्जयसुन्दरसूरिभिरपि उक्तम् । तथाहिजं-जन्म यान्ति-प्राप्नुवन्तीति जया-जन्मिनस्तेषु ये वृषभाः-श्रेष्ठाः भव्यत्वात् तेषां अवति-स्वामीभवतीति जयवृपभावः इत्यादि ॥ ३७ ॥ राजा नो ददते असौख्यम् ॥ ३८ ॥ ___ "ऋतु कुत्सायाम्" इति सुधाकलश(श्लो० ६)वचनात् ऋ इति कुत्सा तां १५ अजन्ति-गच्छन्तीति रत्वे कृते रजाः-कुत्सागामिनः पुरुषाः तेषामिमे राजाः। एवंविधाः केचन पुरुपाः नः-अस्माकं असौख्यं ददते । इदं प्रतिष्ठितजनवचनम् ॥ ३८ ॥ लाजाव् नो ददते सौख्यम् ॥ ३९ ॥ लाजानां-तन्दुलानां अवं अवनं-रक्षणं करोतीति लाजाव्-तन्दुलरक्षकः । अत्र करोत्यर्थे णिज् ज्ञेयः । नः-अस्माकं सौख्यं ददते । अर्थयोजना स्वयं कार्या ॥ ३९॥ २० राजाय नो ददते सौख्यम् ॥ ४०॥ रा-रमा-लक्ष्मीस्तस्या जो-जातः राजः-कामस्तं अयति-गच्छतीति राजायःकामिजनः तमाचष्टे-स्तौतीति णिजादिविधौ राजाय-कामिजनस्तावकः । नो-न सौख्यं ददते । इदं विरागिणो वचनम् ॥ ४०॥ राजाय नो ददते सौख्यम् ॥ ४१ ॥ राजानं-नृपं चन्द्रं वा अयति-गच्छतीति राजायः तमाचष्टे इति राजाय । एवंविधः कोऽपि जनो नः-अस्माकं सौख्यं ददते । अर्थयोजना स्वयं कार्या । यलोपः पूर्ववत् ॥ ४१ ॥ १ 'जश्च जेतरि' इति सुधा० (श्लो. १८)। २५ Page #29 -------------------------------------------------------------------------- ________________ ८ अर्थरत्नावली राजाय नो ददते सौख्यम् ॥ ४२ ॥ राजवत्-नृपवत् आयो - भाग्यं यस्य स राजायः एवंविधः कोऽपि जनः तमाचष्टेस्तोतीति राजा । नः - अस्माकं सौख्यं ददते । अर्धयोजना तु (यत्र) कृता न भवति तत्र स्वयं कार्या । मया तु ग्रन्थगौरवभयान्न लिख्यते ॥ ४२ ॥ [ अर्थाः ४२-५६ ] राजा ! नो ददते असौख्यम् ॥ ४३-४४ ॥ जयानां समाहारो जायं - जयसमूहं आचष्टे इति जायू - वन्दिजनादिः तत्सम्वोधनं हे जायू ! "राः कनके विभवे मेघे स्थानके" इति सुधाकलशवचनात् राः - कनकं ( १ ) द्रव्यं (२) मेघः (३) आश्रयश्च (४) । नो-न असौख्यं ददते । सौख्यं ददते इत्यर्थः । इदं स्वर्णद्रव्यमेघाश्रमा ( या ? )र्थिनां वचनम् ॥ ४ ॥ स्वयं बुद्ध्या चत्वारोऽप्यर्थाः पृथक् १० पृथक् कार्याः ॥ ४४ ॥ राजावू नो ददते सौख्यम् ॥ ४५ ॥ “रं जले रङ्गवेगयोः” इति विश्वशम्भुवचनात् रेण-रङ्गेण अजां -गलस्तनीं अवति-रक्षतीति राजावः - अजारक्षाकृत् कोऽपि धर्मिष्ठो जनः तं आचष्टे इति राजाव् । एवंविधः कोऽपि नः-अस्माकं सौख्यं ददते । अर्धयोजना स्वयं कार्या । वलोपादि पूर्ववत् १५ ज्ञेयं, ग्रन्थगौरव भयात् न वारंवारं सूत्राणि लिख्यन्ते ॥ ४५ ॥ र! अजाबू नो ददते सौख्यम् ॥ ४६-५० ॥ अवन्ति-स्वामी भवन्तीति अवाः । अजाः हर १ हरि २ ब्रह्म ३ रघुज ४ स्मरा ५ख्या देवाः अवाः - स्वामिनो येषां ते अजावास्तान् आचष्टे - स्तौतीति अजाव - हरादिदेवसेवकस्तुत् ५ हे र! हे नर ! नः - अस्माकं सौख्यं ददते । अर्थयोजना स्वयं कार्या । २. वलोपादिः पूर्ववत् । एवमत्र पञ्चाप्यर्थाः पृथक् पृथक् स्वयं कार्याः ॥ ५० ॥ राजावू नो ददते सौख्यम् ॥ ५१-५६ ॥ राजभ्यो - नृपचन्द्रयक्षेभ्यः आं-लक्ष्मीं अवन्ति - गच्छन्ति प्राप्नुवन्तीति राजावा:नृपचन्द्रयक्षसेवकाः तान् आचष्टे इति राजाव् ॥ ३ ॥ नः - अस्माकं सौख्यं असौख्यं च ददते । अर्धयोजना स्वयं कार्या । वलोपादिः पूर्ववत् । एवमत्र नृपसेवकस्तावकेन चन्द्र२५ सेवकस्तावकेन यक्षसेवकस्तावकेन च समं सौख्यासौख्यपदद्वयं मीलयित्वा पडर्थाः कार्याः ॥ ५६ ॥ १ " द्रव्ये कनके पुनः । भाधये नीरदे च स्यात्" इति सुधा० (लो० ३७) । २ अत्र 'चस्वारोऽप्यर्था: पृथक् पृथक् कार्या:' इति स्पष्टोल्लेखे सत्यपि आदर्शपुस्तकेषु भर्थाङ्कद्वयमेवोपलभ्यते तच्चिन्त्यम् । 'सौख्यं' इति संयोजना । अर्थान्तरे Page #30 -------------------------------------------------------------------------- ________________ [ अर्थाः ५७-७८ ] श्री समय सुन्दरगणिकृतां राजावू नो ददते सौख्यम् ॥ २५७-६३ ॥ " रा रमा रमणी वाला” इति (विश्व०) वचनाद् रा-रमा-लक्ष्मीः तस्या आजंक्षेपं - तिरस्कारं अवति - ददातीति राजावः - लक्ष्मीतिरस्कारदाता तं आचष्टे - स्तौतीति राजाव् नः-अस्माकं सौख्यं ददते । एवं असौख्यं च ददते । अर्थयोजना वलोपादिः पूर्ववत् ॥ २ ॥ एवमेव रमणीवाचकेन वालावाचकेन च राशब्देन समं आजाव्शब्देन च समं ५ सौख्यासौख्यपदद्वयं मीलयित्वा अर्थचतुष्टयं कार्यम् । व्युत्पत्त्यादि सर्व पूर्ववत् । अत्र अवधातुर्दानार्थो ज्ञेयः । तथा चोदाहरणं श्रीजय सुन्दर सूरिकृतार्थे - अं - परब्रह्म तत्र सीदन्तीति अंसदः - सिद्धाः तेषां आ-लक्ष्मीः नमतांसदा तां अवति - ददातीत्येवंशीलः नमतांसदावी इत्यादि ॥ ६३ ॥ राजावू नो ददते सौख्यम् ॥ ६४-६७ ॥ रस्य - स्मरस्य आज - तिरस्कारं अवति - ददातीति राजाव-ईश्वरः तमाचष्टे - स्तौतीति राजाव - ईश्वरस्तोता नः - अस्माकं सौख्यं ददते । असौख्यं च ददते । इदं तद्विधानामतद्विधानां च वचनम् । वलोपादिः पूर्ववत् । एवं वह्निवाचकेन नरवाचकेन च रशब्देन समं आजाव्शब्दे सौख्यासौख्यपदद्वयं च मीलयित्वा अर्थचतुष्टयं कार्यम् । वलोपादिः पूर्ववत् ॥ ६७ ॥ राजावू नो ददते सौख्यम् ॥ ६८ ॥ राजा - यमः अर्थात् मरणं तस्माद् अवति-रक्षतीति राजावः- मरणरक्षको भगवद्धर्म इत्यर्थः, तमाचष्टे इति राजावू नः - अस्माकं सौख्यं ददते । इदं धर्मिष्ठजनवचः । वलोपः पूर्ववत् ॥ ६८ ॥ राजाव् नो ददते सौख्यम् ॥ ६९-७६ ॥ राज्ञां - चन्द्र - नृप-यक्ष- यमानां आं-शोभां वृश्चन्ति - छेदयन्तीति राजवृश्वो-राहुप्रमुखाः ४ तान् आचष्टे - स्तौतीति राजावू ४ नः - अस्माकं सौख्यं असौख्यं च ददते । अर्थ योजना वलोपादिः पूर्ववत् । अत्र विस्तरान्वेषिणा पृथक् पृथक् अष्टौ अर्थाः कार्याः ॥ ८ ॥ ७६ ॥ १० १५ २० -राजा ! नो ददते सौख्यम् ॥ ७७-७८ ॥ २५ रावं - शब्दं करोतीति राव् एवंविधः कोऽपि शब्दकारकः । हे जाः ! - हे जेतृपुरुषाः ! मो - न ददते सौख्यम् । अनिष्टशब्दस्य ( जनस्य ) वचनमेतत् १ | एवं राव्-शब्दकारकः नो-न ददते असौख्यम् २ | इदमिष्टशब्दस्य जनस्य वचनम् । वलोपादिः पूर्ववत् ॥२॥७८॥ १' असौख्यं ' इति अर्थान्तरे, अग्रेऽपि प्रस्तावे एवंविधा संयोजना कार्या । २ अत्र पढर्था दरीदृश्यन्ते तथाप्यादर्श पुस्तकेषु अर्थसप्तकसूचकसंज्ञा समस्ति तद् विचारणीयं विद्वद्भिः । ३ अर्थषट्कस्थाने आदर्शपुस्तकेषु तु ३० चत्वारोऽर्था गणिताः, तदपि चिन्त्यम् । अर्थ. २ Page #31 -------------------------------------------------------------------------- ________________ अर्थरत्नावली [अर्थाः ७९-८४] राजाव नो ददते सौख्यम् ॥ ७९-८० ॥ रे-अग्नौ अजाः-त्रैवार्षिका व्रीहयः तान् अवति-दहतीति राजाव-वहौ त्रिवार्षिकश्रीहिहोता ताचष्टे णिजादिविधौ राजाव् नः-अस्माकं सौख्यं ददते । इदं याज्ञिक जनवचनम् । अथवा नो-न सौख्यं ददते । दुःखं ददातीत्यर्थः । इदं तद्विरुद्धजनवचनम् । ५वलोपादिः पूर्ववत् ॥ ८० ।। अथ प्रकारान्तरेण श्रीजैनमतप्रसिद्धान् अर्हत् १ सिद्ध २ आचार्य ३ उपाध्याय४ साधु ५ रूपान् पश्चपरमेष्ठिनः स्तुवन्नाह राजा अःनो ददते सौख्यम् ॥ ८१॥ "अः स्यादर्हति सिद्धे च विष्णावपि" इति वचनात् अ-अर्हन् नः-अस्मभ्यं सौख्यं १० ददते । किंविशिष्टः अः? 'राजा' स्वामी, त्रिजगत्प्रभुरित्यर्थः । इदं जैनवचः॥ ८१॥ राजा नो ददते सौख्यम् ॥ ८२॥ राजन्ति-सिद्धिशिलायां दीप्यन्ते 'क्वचित्' (सिद्ध० अ०५, पा० १, सू० १७१) डे राः। तथा जायन्ते-पुनरुत्पद्यन्ते ते जाः, न जाः अजाः-जन्ममरणरहिताः। अजाः-सिद्धाः। ततो राश्च ते अजाश्च राजाः न:-अस्माकं सौख्यं ददते । इदं जन्ममरणादिदुःखखिन्ननर• १५वचनम् ॥ ८२॥ राजा आः नो ददते सौखी अम् ॥ ८३ ॥ "आः स्याद् गणधारिणि" इति वचनात् आः-आचार्यः नः-अस्माकं अं-परब्रह्म ददते । किं० आः ? 'राजा' रञ्जयति अमृतस्राविण्या सन्देहसन्दोहकाननकृपाण्या स्याद्वा दवाण्या सभामिति राजा । पुनः किं ? 'सौखी' सुखानां संसारविरक्तिरूपाणां समाहारः २. सौखं तदस्यास्तीति सौखी ॥ ८३ ॥ राज! आन् ! ओ! अदद! ते असौख्यम् ! ॥ ८४॥ रिति पदैकदेशे पदसमुदायात् उः-उपाध्यायः तत्सम्बोधनं हे ओ!-हे उपाध्याय! ते-तव रा-दीप्तिः, भवत्विति शेषः । हे ज! "जस्तु जेतरि” इति (विश्व०)वचनात् हे प्रतिपक्षजेतः! । पुनः हे आन् ! आ-सामस्त्येन नो-ज्ञानं येभ्यस्तानि आनानि-शा२५ स्त्राणि, शास्त्रेभ्य एव ज्ञानोत्पादात् अर्थात् द्वादशाङ्गरूपाणि तानि आचष्टे-अर्थतः पाठ यतीति णिजादिविधौ आन् तत्सम्बोधनं हे आन् ! | पुनः हे अदद!। अतन्ति-गच्छन्तीति अतः-प्राणिनः तेषु तेषां वा न विद्यते दो-बन्धः छेदो वा यस्मादसौ अददः, षड्जीव . समीक्ष्यतां द्वादशं पृष्ठम् । २ अवलोक्यतां पञ्चदशं पृष्ठम् । ३ 'नो ज्ञानबन्धनयोः' इति सुधा० १९ (लो०२०)। ४ 'दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः' इति सुधा० (को० २५)। , Page #32 -------------------------------------------------------------------------- ________________ [ अर्थः ८५ ] श्री समय सुन्दरगणिकृता निकायवत्सलत्वात् तत्सम्बोधनं हे अदद ! । पुनः चित्रादित्वात् विन्दुलोपे हे असौख्य ! आत्-अर्हतः तीर्थङ्करात् सकाशात् सौख्यं - मुखं यस्य सः असौख्यस्तत्सम्बोधनं असांख्य ! । अत्र राशब्दो दीप्तौ ज्ञेयः । तथाच श्रीजय सुन्दरोदाहरणम् -'तरां तस्य ' तस्य तत्त्वस्य ज्ञानस्य वा रां-दीप्तिम् । तशब्दस्तत्त्वे ज्ञाने चास्ति । राशब्द आकारान्तो दीप्तौ च वर्तते इत्यादि । अत्र ओ इति एकाक्षरत्वेन पदैकदेशोऽपि पदप्रतीतिजनको ज्ञेयः । ५ दृश्यते च इत्थं यथा अप्रशिख इत्यस्य व्याख्याने । "अनेन तव पुत्रस्य, प्रसुप्तस्य वनान्तरे । शिखामाक्रम्य पादेन, खड्गेन निहतं शिरः ॥ १ ॥ " इति । यथा वा ""मिच्छामि दुक्कडं” इत्यस्य व्याख्यायाम्“मित्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ । मित्ति य मेराइ (ऍ) ठिओ, दुत्ति दुगुंछामि अप्पाणं ॥ १ ॥ कत्ति कडं मे पावं, उत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कड - पयक्खरत्यो समासेणं ॥ २ ॥” १ अस्य काव्यस्य प्रत्येकपादप्रारम्भिकाक्षरसंयोजनेन अप्रशिखेति निष्पत्तिः । २ मिथ्या मे 'दुष्कृतम् । १ छाया - ( आवश्यकनिर्युक्तौ गा० ६८६ - ६८७ ) तथा श्री आवश्यक बृहद्वृत्तावपि “मित्ति मिउमद्दवत्ते" इत्यादि । एवमनेकग्रन्थ- १५ संवादः स्वयं ज्ञेयः सुधीभिः । अक्षराणामपि च वाचकत्वं न चेत् तेषु समुदाये कथं स्यात् सिकतासु तैलवत् इत्यादि ॥ ८४ ॥ राज अना - उत्! अदते ! सौख्यम् ॥ ८५ ॥ "नः पुनर्बन्धबुद्धयोः” इति वचनात् न विद्यते नो-वन्धः कर्मबन्धनं यस्याः यस्यां वा अना - निष्पापा एवंविधा उद्-भाषा यस्य सः अनोत् । 'विशेषणाद् विशेष्यप्रतीति' रिति २० साधुः, निरवद्यभाषत्वात्, तत्सम्बोधनं हे अनोत् ! - हे साधो ! । त्वमिति क्रियाक्षिकर्तृत्वे । राज- दीप्तिं प्राप्नुहि । सौख्यं यथा स्यात् तथा, क्रियाविशेषणमेतत् । “क्रियाविशेषणस्यापि, सकर्माकर्मधातुषु । नपुंसकत्वमेकत्वं, कर्मकत्वं च युज्यते ॥ १ ॥” 'मि' इति मृदुमार्दवस्वे 'छ' च इति दोषाणां छादने भवति । 'मि' इति च मर्यादायां स्थितः 'दु' इति जुगुप्सामि आत्मानम् ॥ १॥ 'क' इति कृतं मया पापं 'ड' इति च लयामि तद् उपशमेन । एष मिथ्यादुष्कृतपदाक्षरार्थः समासेन ॥ २ ॥ ४ हारिभद्रीयवृतौ । प १ १० २५ Page #33 -------------------------------------------------------------------------- ________________ अर्थराखाली [अौँ ८६-८७ 'राज(ऋग्) दीप्तौ इत्यस्य धातोरुभयपदित्यत् परस्मैपदम् । उदाहरणमपि नैषध. काव्ये (स० १, श्लो० १०) "अनल्पदग्धारिपुरानलोज्वलै-निजप्रतापर्वलयं ज्वलद्भुवः ।। प्रदक्षिणीकृत्य जयाय सृष्टया, रराज नीराजनया स राजघः॥१॥" ५ हे अदते ! "दो दाने पूजने क्षीणे" इत्याधुकत्वात् न दा-न क्षीणा प्रोता तिः-पूजा यस्य सः अदतिः, तत्सम्बोधनं हे अदते ।। इति पञ्चपरमेष्ठिन आश्रित्यार्था उक्ताः ॥ ८५॥ __ अथ पुनरपि प्रकारान्तरेण श्रीआदिदेव १ श्रीशान्तिनाथ २ श्रीनेमिनाथ३श्रीपार्श्वनाथ ४ श्रीमहावीराभिध५ तीर्थङ्करपश्चकसञ्जातपश्चतीर्थीमाश्रित्यार्था लिख्यन्ते । १. तत्र प्रथमं श्रीआदिदेववर्णनमाह र! अज! (अ!) न! उत् अद! ते सौख्यम् ॥८६॥ अजो-ब्रह्मा पङ्किरथन्यायेन नाभिभूः । तथा त्वमपि नाभिभूः, नाभिनामनृपजातत्वात्, तत्सम्बोधनं हे अज! हे श्रीआदिदेव! ते-तव उत्-भाषा अर्थाद् व्याख्यानध्वनिः सौख्यं सौख्यहेतुरित्यर्थः । हे र! "रः सूर्येऽग्नौ धने कामे" इति १५विश्वशम्भुवचनात् हे सूर्य !, भव्यजीवराजीवराजीनां विकासहेतुत्वात् । पुनः हे अ! “अस्थादर्हति सिद्धे च” इति वचनात् हे अर्हन् ! । पुनः हे न! “नः पुनर्योधबुद्धयोः" इति वचनात् हे बुद्ध!-हे अवगततत्त्व! । पुनः हे अद! “अः शिवे केशवे वायौ, ब्रह्मच. न्द्राग्निसानुषु" इति विश्वशम्भुवचनात् अः ब्रह्मा अग्निर्वा तद्वत् "दो दाने पूजने क्षीणे, दानशौण्डे च पालके। देवे दीप्तौ" इति विश्वशम्भुवचनाद् दो-दीप्तिर्यस्य सोऽदः २. पीतवर्णत्वात् आदिदेवस्य तत्सम्बोधनं हे अद!॥ - नन्वत्र चतुस्त्रिंशदतिशयसङ्ग्राहकातिशयचतुष्टयमध्ये कोऽतिशयः केन पदेनोच्यते सूच्यते वा इत्यभिधीयते । उदिति पदेन वचनातिशयः सूचितः॥१॥ तथा 'अ' इति पदेन च पूजातिशयः । 'अ' इति पदस्य अर्हति चतुःषष्टिसुरेन्द्रकृतां पूजामिति अर्हन्निति पर्यायव्युत्पत्तेः ॥२॥ तथा नेति पदेन च ज्ञानातिशयः ॥३॥ स चापायापगमातिशयमन्तरेण न २५ सम्भवति । अतो ज्ञानातिशयेन अपायापगमातिशयोऽप्याक्षिप्तः ॥ ४ ॥ इति अतिशयचतुष्टयमपि अत्रेदं ज्ञेयम् । इति आदिदेववर्णनेन प्रथमोऽर्थः ॥ ८६ ॥ रा-अजा नो ददते असौ खी अम् ॥ ८७॥ अजं-मेष मेषराशिं अटति-गच्छति इति अजाः शान्तिः, मेषराशित्वात् । ततः । सोमसौभाग्येऽपि (स० १, श्लो० ३५) "राजन्ति यत्र जिनराजगृहेषु पञ्च-वर्णाचिरवमणिरवसुतोरणानि । एनोजयाद् विजयलक्ष्मिवृतस्य धर्म-भूपस्य मालकृते किमु सजितानि " १ एवंदू विश्वशम्भुवचनम् । Page #34 -------------------------------------------------------------------------- ________________ [ अथा: ८८-९१] श्रीसमयसुन्दरगणिकृता रा-श्रीः इत्पूर्वकः अजाः श्री(रा)अजाः-श्रीशान्तिः असौ-एषः अं-परब्रह्म न-अस्माकं ददते । किं० १ खी-ज्ञानवान् , केवलज्ञानवानित्यर्थः । इति द्वितीयोऽर्थः । सर्वे ॥ ८७ ॥ र! अज अ ! नो अद ! दत ! इसौख्यम् ॥ ८८॥ हे अ!-हे अर्हन् ! त्वं इसौख्यं-कामसुखं अज-क्षिप, वैराग्यदेशनादानेन दूरीकुरु इत्यर्थः । यतस्त्वं किंभूत ? साक्षात् र!-सूर्य ! केवलज्ञानेन जगत्प्रकाशकारित्वात् । हे ५ अद! अस्य-कृष्णस्य दः-पूजनं यस्मिन् यस्य वा सः अदः; अथवा अवन्-कृष्णवत् दो-दीप्तिर्देहद्युतिर्यस्य सः अदः, कृष्णवर्णत्वात् 'विशेषणाद् विशेष्यप्रतीति 'रिति न्यायात् श्रीनेमिः तत्सम्बोधनं हे अद!-हे श्रीनेमे! । पुनः हे दत! दैः-देवैः ता-श्रीः-शोभा यस्य स दतः, जघन्यतो देवकोटीसेव्यत्वात् , तत्सम्बोधनं हे दत!। किं० त्वम् ? । नो-बुद्धःअवगततत्त्वः । इदं श्रीनेमिप्रभोरग्रे वैराग्यदेशनां शुश्रूषणां यदूनां वचनम् । इति तृती-१० योऽर्थः । सर्वे ॥ ८८॥ रा-आजा नो अददत ईसौख्यम् ॥ ८९ ॥ रा-पर्यायेण श्रीः । “अः शिवे केशवे वायौ” इति विश्वशम्भुवचनाद् अं-वायु अजति-क्षिपति धातूनामनेकार्थत्वात् भक्षतीति अचि आजः-सर्पस्तेन आ-शोभा यस्य स आजाः । श्री(रा)पूर्वकः आजाः श्री(रा)आजाः-श्रीपार्श्वनाथः, सर्पलाञ्छनात् । स नः-१५ अस्माकं ईसौख्यं अददत । इति चतुर्थोऽर्थः । सर्वे ॥ ८९ ॥ . रा-ज! अना-उत्-अत् अत ईसौख्यम् ॥ ९० ॥ "रा रमा रमणी वाला" इति वचनात् रा-कन्या तत्पर्यायत्वात् कन्याराशिस्तत्र जो-जातो राजः-श्रीमहावीरः, कन्याराशिजातत्वात् , तत्सं० हे राज!-हे श्रीवीर! त्वं ईसौख्यं अत-गच्छ । किं० (त्वम्) ? अना-निरवद्या उतू-भाषा तां अततीति अनीदत् ।२. इति पञ्चमोऽर्थः । इति जैनमतप्रसिद्धपश्चतीर्थीमाश्रित्यार्थाः प्रदर्शिताः । जाता: सर्वेऽपि ॥९॥ अथ पुनरपि प्रकारान्तरेण जैनमतप्रसिद्धान् कतिचिजिनानाश्रित्यार्थाः प्रदर्श्यन्ते-- रा आऽजानोऽत् ! अद! ते आसौख्यम् ॥ ९१॥ ___ आं-ब्रह्माणं अजति-देवत्वेन गच्छति, तं श्रयतीत्यर्थः इति आज तादृशं यदनः-१५ शकटं रोहिणीत्यर्थः। तथाच प्रयोगः-'उदेष्यति शकटं कृत्तिकोदयात् । शकटे अन इति नाम च स्यात् तदाकारत्वात् । आजत्वं च ब्रह्मसेवकत्वात् । यदुक्तम्-"ब्राह्मी तु रोहिणी" इति (अभि० का० २, श्लोक २३)। तत आजानः-रोहिणीनक्षत्रं तत् अतति 'मसौख्यम्' इति भान्तरे। Page #35 -------------------------------------------------------------------------- ________________ १४ अर्थरत्नावली [अर्थाः ९२-९४] तत्र जातत्वेन गच्छतीति आजानोऽत्-श्रीअजितनाथो द्वितीयो जिनः, रोहिणीनक्षत्रजातत्वात् । ततः हे आजानोत्! ते-तव रा-शोभा, भवत्विति शेषः । हे अद! :-अग्निस्तद्वत् दो-दीप्तिर्यस्य सोऽदः, पीतवर्णत्वात् अजितस्य । हे आसौख्य! आ-सामस्त्येन सौख्यं-सुखं यस्मादसौ आप्तौख्यः, तत्सं० हे आसौख्य! चित्रत्वादनुस्वारलोपो न दोषाय। ५ तथा अत्र ते. आसौख्यम् इत्यत्राकारलोपः। 'एदोतः पदान्तेऽस्य लुग्' (सिद्ध० अ० १, पा० २, सू० २७) इत्यनेन सूत्रेण मतान्तरमाश्रित्य यथा कुमारसम्भवे महाकाव्ये"वन्धुप्रियां वन्धुजनो [आजुहाव तां पार्वतीत्याभिजनोऽऽजुहाव"। महाभारतेऽपि"कुरवोऽऽत्महितं मन्त्रम्" । अन्यत्रापि-"निर्मापितोऽऽमराज्ञा, गोपगिरौ जयति वीरजिनः" । एवमनेकशः स्थलानि विलोकनीयानि । अथवा हे असौख्य! न विद्यते सौख्यं१० सांसारिकसुखं यस्य सः असौख्यस्तत्सं० हे असौख्य ! इति । द्वितीयजिनवर्णनमाश्रित्यार्थ उक्तः । सर्वे ॥ ९१॥ राजा नो ददते सौख्यम् ॥ ९२॥ राजा-चन्द्रस्तेनोपलक्षितः अ-अर्हन् राजा-चन्द्रप्रभजिनोऽष्टमः, चन्द्रलाञ्छनत्वात् । अथवा राजा-चन्द्रस्तेन लाञ्छनभूतेन आ-शोभा यस्य स राजा-चन्द्रमभो १५ न:-अस्माकं सौख्यं ददते ॥८॥ सर्वे ॥९२ ॥ रा-ज-आनः अददत इ सौख्यम् ॥ ९३ ॥ "रा रमा रमणी बाला" इति वचनात् पङ्किरथन्यायेन रा-रामा ततो जं-जन्म यस्य स राजः-श्रीसुविधिः, रामामातृजातत्वात् तस्य आनो-मुखश्वासो राजानः। इ इति सम्बोधने । सौख्यं-मनःसन्तोपं अददत, ददौ इत्यर्थः । इदं बाल्यावस्थायां खेलना२० दिसमये रामामात्रादिजनवचनम् ॥९॥ सर्वे ॥ ९३ ॥ ___रा जानो ! ददते सौख्यम् ॥ ९४ ॥ ___आ-लक्ष्मीस्तत्पर्यायत्वात् या। ततः जपूर्वा आ जाआ, जाया इत्यर्थः। ततो जायानाम्नी वासुपूज्यमातेत्यर्थः । तस्याः "नुः स्तुतौ” इति वचनात् नुः-स्तुतिर्यस्मात् स जानु:-श्रीवासुपूज्यः । उत्तमपुत्राद्धि मातापित्रोः स्तुतिर्लोके भवत्येव । ततस्तत्सं० हे २५ जानो!-हे श्रीवासुपूज्य! भवानिति अध्याहारे । सौख्यं ददते । किं० भवान् ? 'राः' "रं : जले रङ्गवेगयोः" इति (विश्व०)वचनात् रं-रङ्गं अटति-गच्छति-प्रामोतीति राः ॥१२॥ सर्वे ॥ ९४॥ ... निर्णयसागरमुद्रणालये मुद्रिते पुस्तके (स.,लो. २६)तु निम्नलिखितः पाठः "तां पार्वतीत्या भिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।" ३. २ भष्टमतीर्थङ्करसूचकोऽकोऽयम् । Page #36 -------------------------------------------------------------------------- ________________ [अर्थाः ९५-१०२] श्रीसमयसुन्दरगणिकृता रा-अ-ज-अः नो ददते असौ खी अम् ॥ ९५॥ रा-श्रीः अ-विष्णुः, सदृशनामत्वात् श्रेयांसपिता । राजाऽपि विष्णुः, तस्मात् जोजातोऽजः, (रया-) श्रिया उपलक्षितोऽजः श्री(रा)अजः-श्रीश्रेयांसः स चासौ अ-अर्हन राजाः-श्रीश्रेयांसतीर्थकृत् । असौ-अयं नः-अस्माकं अं-परब्रह्म ददते । किं०? 'खी' खे -सुखे परमानन्दरूपे तिष्ठतीत्येवंशीलः खी ॥ १३ ॥ सर्वे ॥ ९५ ॥ र-आ-ज-अः नः ! ददते सौख्यम् ॥ ९६ ॥ "रेश्च कामे तैक्ष्ण्ये विश्वानरे नरे । रामे वज्रे च शब्दे स्यात्" इति सुधाकलश(श्लो० ३६-३७)वचनात् रेण-वज्रेण लाञ्छनभूतेन आयाः-श्रियाः। “जस्तु जेतरि जनने" इति विश्वशम्भुवचनात् जो-जननं यस्य स राजा-श्रीधर्मनाथो जिनः, वज्रलाभ्छनत्वात् । ततो राजश्चासौ अश्च-अर्हन् राजाः । हे नः!-हे नर! सौख्यं-सुखं ददते १. ॥ १५॥ सर्वे ॥ ९६ ॥ र! अजाः! नोदत् ! अतेः सौख्यम् ॥ ९७ ॥ हेर!-हे नर! अजेन-छागेन लान्छनभूतेन आ-श्रीः यस्य सः अजाः-श्रीकुन्थुनाथः, छागवाहनत्वात् तत्सं० हे अजाः! त्वं सौख्यं अतेः-गच्छेः । किं० १ 'नोदत् !' नो-न दत् !-क्षयकृत् ! प्राणिनामिति शेषः, षड्जीवनिकायवत्सलत्वात् 'तसू[७] दसूच् उपक्षये' १५ (सिद्ध० धातुपाठे) क्विपि रूपम् । चित्रादित्वात् विसर्गलोपो न दोषाय ॥१७॥ सर्वे ॥१७॥ रा-ज-अः नो ददते असौख्यम् ॥ ९८॥ रा-पतिरथन्यायेन पद्मा ततो रायां-पद्मायां पद्मानाम्न्यां मातरि जो-जाप्तो राजः स चासौ अ:-अहेन राजाः-श्रीमुनिसुव्रततीर्थकृत् असौख्यं नो-न ददते ॥२०॥ सर्वे ॥ ९८ ॥ २. अथ पुनः प्रकारान्तरेण विविधानांनाह राजा अः नो ददते सौख्यम् ॥ ९९-१०० ॥ ___ "अः स्यादर्हति सिद्धे च" इति वचनात् अः-सिद्धो न:-अस्माकं सौख्यं ददते । किं० अः ? 'राजा' राजते-सिद्धिशिलायां दीप्यते इति राजा । इदं संसारविरक्तजनवचनम् । एवं असौख्यं ददते । इदं संसारासक्तिरक्तनरवचनम् । शेषं सर्व पूर्ववत् । इत्यर्थ-२५ द्वयम् । सर्वमीलने ॥ १०॥ राजा नो ददते असौख्यम् ॥ १०१-१०२॥ जायते इति जा-पुत्री । 'क्वचित्' (सिद्ध० अ० ५, पा० १, सू० १७१) डप्रत्यये , 'रः कामे तीक्ष्णे वैश्वानरे भरे' इति पाठान्तरम् । Page #37 -------------------------------------------------------------------------- ________________ १६ अर्थरत्नावली [ अर्थाः १०३-१११] जा अग्रे 'डुमिन्ट प्रक्षेपणे' (सिद्ध० धातुपाठे) जां मिनोति इति जामाता।'"जाया मिगः तृप्रत्ययः" । 'मिग्मीगः०' (सिद्ध० अ० ४, पा० २, सू० ८) इत्याकारः इति न्यासकारकृतव्युत्पत्तिदर्शनात् जा-पुत्री नः-अस्माकं असौख्यं ददते । यतः किं०? 'रा' रं-कामं अटति-अतति-गच्छतीति रा, कामाकुला इत्यर्थः । इदं कामाकुलत्वेन प्रकटी. ५ कृतविकारे पितॄणां वचनम् ॥१॥ एवं जा-पुत्री नो-न असौख्यं ददते, सौख्यं ददते इत्यर्थः । यतः किं० जा? 'रा' राजते षोडशशृङ्गाररचितवेषत्वेन सुन्दरदर्शनात् इति रा । इदं परहितावगुण्ठितनिजपुत्रीदर्शने जातसुखस्य पितुर्वचनम् ॥२॥ सर्वे ॥१०२॥ रा अ-जा नः ददते सौख्यम् ॥ १०३-१०४॥ न.विद्यते जा-पुत्री यस्यां सा अजा, एवंविधा रा-रमणी नः-अस्माकं सौख्यं ददते १.॥१॥ एवं हे नः!-नर! ममेति शेषः । असौख्यं ददते । इदमनिष्टेष्टपुत्रीदर्शनयोः पित्रोर्वचनम् ॥ २॥ अन्यथा वा स्वयमर्थयोजना कार्या ॥२॥ १०४ ॥ रा-जा-आ नो ददते सौख्यम् ॥ १०५-१०६ ॥ "रा रमा रमणी बाला" इति (विश्व०)वचनात् रा-रमा-लक्ष्मीः सा जा-पुत्री यस्य स राजः-समुद्रः, तजनकत्वात् । तस्य आ-शोभा राजा न:-अस्माकं सौख्यं ददते । १५ इदं तदधिकारिदेवानां वचनम् ॥१॥ एवं राजा-समुद्रशोभा हे नः!-हे नर! असौख्यं ददते । इदं अगस्तेर्वचनम् ॥ २॥ सर्वे ॥ १०६ ॥ रा-जा-अ नो ददते सौख्यम् ॥ १०७-१०८ ॥ रा-बाला-कन्या जा-पुत्री यस्याः सा राजा तां अटति-गच्छतीति राजाः एवंविधः कोऽपि जसः नः-अस्माकं सौख्यं असौख्यं च ददते । अर्ययोजना स्वयं कार्या ॥२॥१०८॥ २. रा! जा-अनः ददते सौख्यम् ॥ १०९-११० ॥ जा-पुत्री तत्क्रीडार्थ अनः-शकटं जानः । हे राः!-हे नराः । ममेति शेषः, सौख्यं ददते असौख्यं च ददते । इदं लघुशकटिकाक्रीडमाननिजपुत्रीप्रेमाप्रेमवतोः पुंसोर्वचनम् ॥२॥ सर्वे ॥ ११० ॥ राय जा-आनः ददते सौख्यम् ॥ १९१ ॥ २५. जायाः-पुच्याः आनो मुखश्वासो जानः, ममेति शेषः, सौख्यं ददते । किं० जानः? 'राय' रस्य-हर्षस्य आय-प्राप्तिं करोतीति राय । णिजादिविधानेन रूपसिद्धिः पूर्ववत् । 'व्योः' (सिद्ध० अ० १, पा० ३, सू० २३) इति सूत्रेण यलोपोऽपि पूर्ववत् । इदं वल्लभ. पुत्रीकस्य पितुहुलापनसमये वचनम् ॥ १११ ॥ , . 'जायाखन मिगः' इति ख-पाठः । Page #38 -------------------------------------------------------------------------- ________________ [ अर्थाः ११२-१३१] श्रीसमयसुन्दरगणिकता रा अ-जा नो ददते असौख्यम् ॥ ११२ ॥ . - अस्य-कृष्णस्य जा-पुत्री अजा नो-न ददते असौख्यं, ममेति शेषः । किं० १ 'रा' राजते-शोभते इति रा-शोभमाना । अर्थयोजना स्वयं कार्या ॥ ११२ ॥ . रा आ-जा नो ददते सौख्यम् ॥ ११३ ॥ आ-ब्रह्मा तस्य जा-पुत्री आजा-सरस्वती न:-अस्माकं सौख्यं ददते । किं. ५ आजा ? 'रा' शोभमाना ॥ ११३ ॥ राजा अः नः ददते सौख्यम् ॥ ११४-११५॥ “अः कृष्णः" इति श्रीअमर(कवि)वचनात् अ:-श्रीकृष्णो नः-अस्माकं सौख्यं . ददते । किं० ? 'राजा' स्वामी । इदं वैष्णवं वचः ॥ १॥ एवं असौख्यं ददते । इदं । कालनेमि-हयग्रीव-शकटादिदैत्यानां वचनम् ॥ २॥ ११५॥ राजा (राजा) अ-आ नः ददते सौख्यम् ॥ ११६-११७ ॥ __ अस्य-कृष्णस्य आ-शोभा न:-अस्माकं सौख्यं ददते । किं० १ 'राजा' राजते इति अचि आपि च राजा । सुन्दरेत्यर्थः। अथवा विशेषणद्वयं पृथक् रा-शोभमाना । पुनः किं० १ । अजा न जायत इत्यजा-शाश्वती, न तु अन्यजनशोभेव कृत्रिमा। इदं यशोदादीनां वचनम् ॥ १॥ एवं असौख्यं ददते । शेषं सर्व पूर्ववत् । इदं कृष्णवैरिणां १५ वचनम् ॥२॥ ११७ ॥ ... राजा आ नो ददते सौख्यम् ॥ ११८-११९ ॥ "आः स्वयम्भूः" इति (विश्व० श्लो० ५) वचनात् आः-श्रीब्रह्मा नः-अस्माकं सौख्यं सुखं ददते । किं० आः ? 'राजा' स्वामी । एवं असौख्यं-दुःखं ददते । शेषं पूर्व. : वत् । इदं विधिभक्ताभक्तजनवचनम् ॥ ११९ ॥ . राजा आ-आ नो ददते सौख्यम् ॥ १२०-१२१ ॥ आ-ब्रह्मा तस्य आ-शोभा नः-अस्मभ्यं सौख्यं असौख्यं (वा) ददते । किं० १ 'राजा' सुन्दरा । शेषं पूर्ववत् । अर्थयोजना स्वयं कार्या ॥ १२१ ॥ राजा अः नो ददते सौख्यम् ॥ १२२-१३१ ॥ .. " शिवे केशवे वायौ, ब्रह्मचन्द्राग्निभानुषु” इति विश्वशम्भु(श्लो० ५)वचनात् २५ अः-ईश्वरः सौख्यं असौख्यं च ददते । किं० ? 'राजा' शोभमानः। शेषं पूर्ववत् । इदं , 'ममेति शेषः' इत्यधिकः क-पाठश्चिन्तनीयः, तस्यापि सम्भवश्चेत् सरस्वती · नो-न असौख्यं ददते इति पाठः। * अनेन चिह्न सूच्यते यदुत 'भसौख्य' इति संयोजना कार्याऽर्धान्तरे। २-३ 'भा मः' इति क-पाठचिन्तनीयः । ४ 'सानुषु' इति प्रत्यन्तरे । अर्थ. ३ Page #39 -------------------------------------------------------------------------- ________________ १४ अर्यरत्नावली [अर्थाः १३२-२०४] माहेश्वराणां गजपूषादीनां वचनम् ॥२॥ एवं वायु-ब्रह्म-चन्द्रा-ऽग्निवाचकेनापि भशब्देन समं द्वौ द्वौ अौँ पृथक् पृथक् कार्यों । जाता अष्टौ ॥ ८॥ पूर्वोत्तद्वयमीलने जाताः॥१०॥ सर्वे० ॥ १३१॥ रा-अः जाः! नो ददते असौ खी अम् ॥ १३२-१३६ ॥ रा-श्री अः कृष्णः । रया-श्रिया उपलक्षितः अरा:-श्रीकृष्णः । “जस्तु जेतरि" इति वचनात् हे जाः!-हे जेतारः पुरुषाः! असौ-प्रत्यक्षः अं-परब्रह्म नो-न ददते? अपि तु ददते इति काका व्याख्येयम् ॥१॥ किं० १ 'खी' ज्ञानवान सुखवान् वा । एवं अर्हसिद्ध रशिवश्वाचकेनापि अशब्देन समं अर्थत्रयं कार्यम् । पूर्व(१)मीलने ॥ ४ ॥ सर्वे० ॥१५॥ एवं ब्रह्मवाचकेन अशब्देनापि समं अनयैव रीत्या एकोऽर्थः कार्यः । सर्वे ॥१६॥ र-अजाः नो ददते सौख्यम् ॥ १३७-१३८॥ अजन्ति-क्षिपन्तीति अचि अजा:-क्षेपकाः । रस्य-कन्दर्पस्य अजा:-क्षेपकाः राजा विशेषणाद् विशेष्यप्रतीतिरिति न्यायात् ईश्वराः। बहुवचनं च ईश्वरस्य बहुत्वख्यापना धम् । यदुक्तं (महादेवस्तोत्रे श्लो० ३४)-"क्षितिजलपवनहुताशने"त्यादि । नः१५ अस्माकं सौख्यं असौख्यं च ददते । इदं तद्भकाभक्तजनवचनम् ॥२॥ सर्वे० ॥ १३८ ।। अथ पुनरपि प्रकारान्तरेण अर्थानाह राजा नो ददते सौख्यम् ॥ १३९-२०४ ॥ राजा-नृपतिः न:-अस्मभ्यं अस्माकं (वा) सौख्यं-सुखं ददते । इदं सुरक्षितप्रजावचनम् ॥२॥ राजा-नृपतिर्नो-न सौख्यं ददते प्रजानामित्युक्तिसामर्थ्याद् गम्यते । इह केन२.चिद् वैदेशिकेन कीगत्र राजेति पृष्टः कोऽपीदमुवाच । अत्र नो प्रतिषेधको ज्ञेयः। यदवाचि एकाक्षयां "अमानोनाः प्रतिषेधे” इति । एवमग्रेऽपि सति प्रयोजने स्मर्तव्यम् ॥२॥ राजानो-नृपाः सौख्यं ददते, जनानामिति शेषः। एवमयेऽपि अर्थसामर्थ्यात् स्वेप्सितशेषशेषशब्दाकर्षः कर्तव्यः । अत्र नामक्रियाबहुवचनकृतोऽर्थभेदः॥४॥ शतार्थिकृतां शास्त्रादौ अपि क्वचित् क्वचित् नामवचनभेदात् कचित् कचित् क्रिया२५ वचनभेदात् क्वचित् कचित् काकुवचनभेदाच अर्थभेदो दृश्यते ततोऽत्र वह(थ)करणे को दोषः । एतत् तु सर्व अत्रैव ग्रन्थान्ते वक्ष्यते । एवमेते चत्वारोऽप्यर्थाः काकुवचनेनापि कार्याः । यथा-राजा-नृपतिः न:-अस्मभ्यं सौख्यं ददते! अपि तु न ददते । इत्यादि पूर्वरीत्या कर्तव्याः। जाताः॥८॥ एते पुनरपि अष्टावप्यर्थाः असौख्यशब्देन समं योज्यन्ते ॥ यथा-राजा३. नृपतिः नः-अस्मभ्यं असौख्यं ददते । इदं करनिकरनिपीडितप्रजावधनन् । इत्यादि पूर्व , 'एतयैव' इति ग-ध-पाठः । Page #40 -------------------------------------------------------------------------- ________________ [ अर्थाः २०५-२२० ] श्रीसमयसुन्दरगणिकृता पत् कार्याः । व्युत्पत्तिरपि पूर्ववत् । अर्थयोजना तु यत्र न कृता भवति तत्र सर्वत्र सुधीभिः स्वयं कार्या । मया विस्तरभयान लिख्यते । सर्वे० ॥ १६ ॥ ___एते .१६ अर्थाः नृपवाचकराजनशब्दस्य जाताः । एवं चन्द्रवाचिराजन्शब्दस्याप्येते १६ अर्थाः कार्याः। यथा-राजा-चन्द्रो न:-अस्मभ्यं सौख्यं ददते । इदं संयोगिन्याः स्त्रियाः चकोरस्य वा वाक्यम् । इत्यादि पूर्वविधिना ज्ञेयाः। अर्थयोजना स्वयं कार्या । ५ जाताः॥ ३२॥ एवं यक्षवाचिराजन्शब्दस्याप्येतेऽर्थाः (१६) कार्याः। यथा-राजा यक्षोनः-अस्मभ्यं सौख्यं ददते । इदं यक्षभक्तजनवचनम् । इत्यादि पूर्वविधिना कार्याः । जाताः॥४८॥ अत्र राजनशब्दो यक्षवाचको ज्ञेयः। यदवाचि श्रीकालिदासकविना "तस्य स्थित्वा कथमपि पुरः 'केतकाधीनहेतो रन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः । कण्ठाश्लेषप्रणयिनि जने किं पुनरसंस्थे ? ॥१॥" -मेघदूते (पू० श्लो० ३) इति । अर्थाः ॥ ४८॥ एवं यमवाचिराजन्शब्दस्याप्येतेऽर्थाः कार्याः । यथा-राजा-यमो न:-अस्मभ्यं सौख्यं ददते । इदं यमभक्तसेवकवचनं कविसमयमाश्रित्य । अथवा मरणसमये अतिदुःखिजनवचनं इत्यादि पूर्वविधिना ज्ञेयाः । अर्थयोजना स्वयं कार्या । जाताः ॥६४॥ पूर्वोक्त३८ (१) मीलने जाताः ॥ १०४ ॥ अर्थाः । सर्वमीलने च जाताः ।। २०४॥ राजा अनः ददते सौख्यम् ॥२०५-२२० ॥ राजा-नृपतिः सौख्यं ददते । किं० राजा? 'अनः' "नः पुनर्बन्धबुद्धयो" इति वचनात् न विद्यते बन्धो-बन्धनं यस्मात् यस्य यस्मिन् वा सोऽनः ॥ १॥ इदं धर्मिष्ठजनवधनम् । एवं राजा-नृपोऽसौख्यं ददते । किं० राजा ? 'अनः' बन्धनरहितः । व्युत्प. त्यादि पूर्ववत् । इदं पापिष्ठवचनम् ॥ २॥ राजा-नृपः सौख्यं ददते, ममेति शेषः । किं. १ 'अनः' नो-बुद्धः न नः अनः मूर्ख इति यावत् । इति मूर्खवचनम् । यतो हि २५ सदृशाः सदृशैः समं राजन्ते । यदुक्तम् "हंसा रजति सरे, भमरा रजन्ति केतकीकुसुमे । चन्दणवणे भुअंगा, सरिसा सरिसेण रजति ॥१॥" इत्यादि ॥ ३ ॥ , 'कैतकाधामहेतोः', 'केतकाधानहेतोः' इति वा पाठः। २ छाया सा रज्यम्ति सरसि अमरा रज्यन्ति केतकीकुसुमे । चन्दनवने भुजङ्गाः सरशाः साशेन रज्यन्ति । Page #41 -------------------------------------------------------------------------- ________________ अर्थरत्नावली [ अर्थाः २२१-२२८] राजा-नृपः असौख्यं ददते । किं० ? 'अनः' मूर्खः । इदं पण्डितस्य राजसेवकस्य वचनम् । यतो हि मूर्यो राजा दुःखेन आराध्यते । यदुक्तम् (श्रीभर्तृहरिमहर्षिभिः) शक्यो वारयितुं जलेन दहनश्छत्रेण सूर्यातपो . नागेन्द्रो निशिताङ्कन समदं दण्डेन गोगर्दभम् । व्याधिर्भपजसङ्ग्रहेण विविधैर्मन्त्रः प्रयोगैपिं ___ सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौपधम् ॥ १॥" -(नीतिशतके श्लो० १०) इत्यादि ॥४॥राजा-नृपः सौख्यं ददते । ममेति शेषः । किंविशिष्टो राजा? । 'अन' न विद्यन्ते नाः-नराः-अर्थान्निजनिकटवर्तिसेवका यस्य सोऽनः, रतकृते एकाकी इत्यर्थः । १. इदमन्यजनलज्जमाननवोढावचनम् । अत्र नशब्दो नरवाचकः। यदुक्तमेकाक्षयों (श्लो०७६) विश्वशम्भुना-"नो नरे च सनार्थे (2) च नोऽनर्थेऽपि प्रदर्श्यते(र्शने)” इति । इदमग्रेऽपि सर्वत्रानुस्मरणीयम् ॥५॥ राजा-नृपोऽसौख्यं ददते । प्रजानामिति शेषः । किं० राजा? 'अनः' नररहितः, एकाकीत्यर्थः। एकाकी हि राजा विपक्षान् निराकृत्य प्रजासुखदाने न समर्थो भवेदित्यर्थयोजना । इदं विपक्षलक्षपीड्यमानवचनम् ॥६॥ राजा-नृपः सौख्यं ददते। १५ किं० राजा? । 'अनः' न विद्यते नः-अनर्थो यस्मात् यस्य यस्मिन् वाऽसौ अनः । इदं नीतिवाक्यम् ॥ ७ ॥राजा-नृपः असौख्यं ददते । किं० राजा? 'अनः' अनर्थरहितः। इदमनर्थप्रियजनवचनम् ॥ ८॥ एते अष्टावप्याः काकुवचनेनापि समं कायोः। यथा राजा सौख्यं ददते? अपि तु न ददते । किं०? 'अनः' वन्धरहितः । इत्यादिप्रकारेण पूर्ववत् कार्याः । अर्थयोजनाऽपि स्वयं कार्या सर्वत्र । जाताः ॥ १६ ॥ पूर्वोक्त २०४. २० मीलने च जाताः सर्वेऽपि ॥ २२० ॥ राजाऽऽनः ददते सौख्यम् ॥ २२१-२२४ ॥ . राज्ञां राज्ञो वा आनः-मुखश्वासः सौख्यं ददते । इदं सम्भोगसमये रामावचनम् ॥१॥राजानो-राजमुखश्वासोऽसौख्यं ददते । इदं रतसमये रुष्ठरामावचनम् ॥२॥ . राज्ञां राज्ञो वा आनः-प्राणो राजानः सौख्यं १ असौख्यं २ ददते । इत्यादिप्रकारेण अर्थद्वयं २५ कार्यम् । अर्थयोजना स्वयं कार्या । जाताः ॥ ४॥ पूर्वोक्तसर्वमीलने जाताः ॥ २२४ ॥ राज-आ-नः ददते अः सौखी अम् ॥ २२५-२२८ ॥ "अः स्यादर्हति सिद्धे च" इति वचनात् अ-श्रीअर्हन्-जिनः अं-परब्रह्म ददते । जिनभक्तिभाजामित्यर्थः (ति शेषः?)। किं० अः? 'राजाना' राजते इति अचि राजं, एवं(विधं) आ इति अतिशयितं नं-ज्ञानं यस्य स राजानः । पुनः किं ? 'सौखी' सुखाना३. परमानन्दरूपाणां समाहारः सौखं, तदस्यास्तीति सौखी । परमानन्दमय इत्यर्थः॥१॥ एवं , 'भष्टाऽप्याः ' इति ग-घ-पाठः। Page #42 -------------------------------------------------------------------------- ________________ [ अर्थाः २२९- २४० ] श्री समय सुन्दरगणिकृता २१ शिव१केशव२सिद्ध ३वाचकेनापि अशब्देन समं पृथक् पृथक् अर्थत्रयं कार्यम् । जाताः ॥ ४ ॥ अत्र चित्रादित्वाद् विसर्गाभावभावौ न दोषाय । यदुक्तं रुद्रटालङ्कारटीकायां नमिसाधुना - "विसर्जनीयाभावभावयोर्न विशेषः ।” यथा " द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विपद्भ्यस्त्रस्यसि कथं, वृकयूथादजा यथा ॥ १॥" इत्यादि । सर्वमीलने ॥ २२८ ॥ राजा अनः ददते सौख्यम् ॥ २२९ - २३२ ॥ राजा-नृपः अनः- शकटं ददते । सेवकानामिति शेषः । किं० अनः ? 'सौख्यं' १० सौख्य हेतुत्वात् सौख्यकारकत्वात् वा, कारणे कार्योपचारात् सौख्यम् । राज्ञां हि स्वसेवकेभ्यः सुखकारिशकटादिभिरपि अवष्टम्भदानयोग्यत्वात् ॥ १ ॥ राजा-नृपः अनः- शकटं ददते । किं० ? 'असौख्यं न विद्यते सौख्यं यस्मात् तदसौख्यम् । असौख्यकारकमित्यर्थः । अभक्तसेवकानां एवंविधस्यैव शकटादेर्दानयोग्यत्वात् ॥ २ ॥ एवं काकुवचनेनापि समं अर्थद्वयं कार्यम् । यथा राजा नृपः शकटं ददते ? अपि तु न । किं० अनः १ 'सौख्यं' १' सौख्य कारकम् । व्युत्पत्त्यादि पूर्ववत् । जाताः ॥ ४ ॥ सर्वे ॥ २३२ ॥ रांजा ! नः ददते असौख्यः ॥ २३३ - २४० ॥ नः-बुद्धः अवगततत्त्वः रां-लक्ष्मीं ददते । हे जाः ! - हे जेतारः ! पुरुषाः ! किं० नः १ ‘असौख्यः' आत्-अर्हतः सौख्यं यस्य सः असौख्यः, जैन इत्यर्थः । इदं जेतृपुरुषान् प्रति पाश्चिद् वचनम् ॥ १ ॥ एवं आत्-कृष्णात् सौख्यं यस्य सः असौख्यो - वैष्णवः ॥ २॥ २० तथा आत्-ईश्वरात् सौख्यं यस्य सः असौख्यः - माहेश्वरः ॥ ३ ॥ तथा आत्-सिद्धात् सौख्यं यस्य सः असौख्यः - सिद्धभक्तः ॥ ४॥ एवं आत्-वायोः वायुदे (दै ?) वताद् वा सौख्यं • असौख्यः- वाताभिलाषी वायुदेवताभक्तो वा ॥ ५ ॥ तथा आत्-ब्रह्मणः सौख्यं यस्य सः असौख्यः । यो हि ब्रह्मणः सकाशात् सौख्यं प्राप्नोति स एवंविधः ॥ ६ ॥ तथा आत् - चन्द्रात् सौख्यं यस्य सः असौख्यः । यस्य हि चन्द्रो देवः स एवंविध उच्यते ॥ ७ ॥ २५ तथा आत्-अग्नेः अग्निदेवात् सौख्यं यस्य सः असौख्यः - आग्नेयः ॥ ८ ॥ एतेऽष्टावप्यर्थाः जैनार्थवाचि असौख्यशब्दवत् पूर्ववत् कार्याः । यथा असौख्यो- वैष्णवो रां-लक्ष्मीं ददते । हे जाः ! - हे जे पुरुषाः । । किं० अ० १ 'नो' बुद्धोऽवगततत्त्वः इत्यादि अर्थ योजनाऽपि स्वयं कार्या । जाताः ॥ ८ ॥ सर्वे० ॥ २४० ॥ १ रुद्रटकृतकाव्यालङ्कारटीकायाम् इत्यर्थः । १ 'अथवा असौइयो - जैन इति कर्तृपदम्, किं० असोस्यः ३० नो दुः (?) इत्यादि' पाठः क - पार्श्वे सूचिता । Page #43 -------------------------------------------------------------------------- ________________ अर्थरत्नावली [अर्थाः २४९-२५०] रा अ-ज! आं नो ददते अ-सौख्य ! ॥ २४१ ॥ 'अ-कृष्णः तस्माजो-जातः अजः-कन्दर्पः तस्य सम्वोधन हे अज! रा-लक्ष्मीः नः-अस्मभ्यं आं-लक्ष्मी सम्पदं ददते । किं० अज? 'असौख्य! आत्-कृष्णात् सौख्यं यस्य सः असौख्यः, अथवा अस्य-कृष्णस्य सुखं यस्मात् सः असौख्यः । पुत्राद्धि ५पितुः सुखं भवत्येवेति तत्सम्बोधनं हे असौख्य! । इदं कन्दर्पदेवं प्रति लक्ष्मीदेषतासेवकानां वचनम् ॥१॥२४१ ॥ रा अज! आ नो ददते सौख्यम् ॥ २४२-२४३ ॥ "एते चतुर्दशापि स्वराः पादपूरणभर्त्सनामन्त्रणनिषेधेषु" इति बृहन्यासवचनात् आ इति आमन्त्रणे पादपूरणे वा । हे अज!-हे कन्दर्प! व्युत्पत्त्यादि पूर्ववत् । रा१. लक्ष्मीदेवता नः-अस्माकं सौख्यं-सुखं ददते । इदमपि कन्दर्प प्रति लक्ष्मीदेवतासेवकानां घचनम् ॥ १॥ एवं असौख्यं ददते । शेषं सर्व उत्त्यादियोजनं पूर्ववत् । इदं रुष्टलक्ष्मीदेवताताडितरत्यादीनां वचनम् । अन्यथा वा यथा चेतसि चमत्कारता भवेत् तथा (योजना) कार्या ॥२॥ सर्वमीलने ॥ २४३ ॥ रा अ-ज! आं नो ददते अ-सौख्य! ॥ २४४ ॥ १५ अ-शिवः ततो जं-जन्म यस्य सः अजः-ईश्वरपुत्रो-विनायकस्तत्सम्बोधनं हे अज! रा-लक्ष्मीदेवता नः-अस्मभ्यं आं-सम्पदं ददते । किं. हे अज? हे 'असौख्य'! आत्-ईश्वरात् सौख्यं यस्य सः, अथवा अस्य-शिवस्य सौख्यं यस्मात् सः असौख्यः तत्सं० हे असौख्य! । इदं विनायकं प्रति लक्ष्मीदेवतादीयमानसम्पदां लक्ष्मीसेवकानां वचनम् ॥ २४४॥ २०. रा अ-ज! आ नो ददते सौख्यम् ॥ २४५-२४८ ॥ आत्-वायोः जो-जातः अजः-हनूमान् तत्सं० हे अज! आ इति सम्बोधने पादपूरणे वा । रा-लक्ष्मीदेवता नः-अस्माकं सौख्यं असौख्यं च ददते । इदं हनुमन्तं प्रति लक्ष्मीदेवतादीयमानसौख्यानांतत्सेवकानाम् (वचनम् )॥१॥ अस्थिरतासारत्वमहामोहोत्पादकादिदोषदर्शनेन समुत्पन्नविरक्तभावानां तत्त्यागिनां ऋषिप्रभृतीनां च वचनम् ॥२॥एवं २५.आत्-चन्द्रात् जो-जातः अजः-बुधः इति व्युत्पत्त्या बुधवाचकेनापि अजशब्देन समं पूर्ववत् अर्थद्वयं कार्यम् । अर्थयोजनाऽपि स्वयं कार्या । जाताः ॥ ४ ॥ सर्वे० ॥ २४८ ॥ राज! अनोत्! अत्! अतेः सौख्यम् ॥ २४९-२५०॥ अनः-शकटं तदाकारस्वात् “उदेष्यति शकटं कृत्तिकोदयात्" इति दर्शनात् अनो -रोहिणी स्वयं अतति-गच्छतीति अनोत्-चन्द्रः तत्सं० हे अनोत्! त्वं सौख्यं अतेः३. गच्छेः । हे 'राज!' राजते-शोभते इति अचि राजः तत्सं० हे राज!। पुनः हे 'अत्।' Page #44 -------------------------------------------------------------------------- ________________ [ अर्थाः २५१-२६१] श्रीसमयसुन्दरगणिकृता अतति-सततं गच्छति अम्बरतले ति किपि तल्लकिच अत तसं हे अत् ।। चित्रादि. स्यात् अत्र विसर्गलोपो न दोषाय । इदं ज्योत्स्नापानप्रीणितचकोरवाच्यम् ॥ १॥ एवं काक्वाऽपि एकोऽर्थः कार्यः । यथा हे अनोत् !-हे चन्द्र ! स्वं सौख्यं अतेः अपि तु न अतेः इत्यर्थः । शेष विशेषणादि पूर्ववत् । इदं चन्द्रकिरणनिकरनिपीडिताया वियोगिन्या वचनम् ॥ २॥ सर्वे ॥२५० ॥ राजा अ! आ नो ददते सौख्यम् ॥ २५१-२५२ ॥ आ इति आमन्त्रणे । हे !-हे कृष्ण! राजा-चन्द्र नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदं रतसमये स्वप्रियनारायणेम समं रममाणगोपाङ्गनानां चन्द्रोद्योतम. धोतिते जगति स्वप्रियं प्रति वचनम् ॥ १॥ एवं हे अ!-कृष्ण! राजा-चन्द्रो मा-अ. स्मभ्यं १ अस्माकं २ वा आ इति पादपूरणे असौख्यं-कामपीडां ददते । त्वद्विरहे इति । अर्थाद् गम्यम् । इदमपि गोपाङ्गनावचनम् ॥ २॥ सर्वे० ॥ २५२ ॥ राजा अ! अ नो ददते सौख्यम् ॥ २५३-२५४ ॥ भइति सम्बोधने । हे अ! हे कृष्ण! राजा-यक्षो न:-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । अत्र हि द्वारिकातो वहिनिर्गच्छता नारायणेन केऽपि यक्षाराधकार पृष्टाः-यदुत भोः कीरा यक्षः । ततस्ते इदमाहुः ॥२॥ सर्वे० ॥ २५४ ॥ १५ राजा अ! अनो ददते असौख्यम् ॥ २५५-२५६ ।। अ इति पादपूरणे । हे अ-हे कृष्ण! राजा-यक्षो न:-अस्मभ्यं १ अस्माकं २षा असौख्यं उपद्रवरूपं ददते । इदं कोपियक्षोपद्रुतप्रजानां स्वस्वामिनं विष्णुं प्रति वचनम् । सर्वे ॥ २५६ ॥ राजा अ! अ नो ददते सौख्यम् ॥ २५७-२५८ ॥ अ इति सम्बोधने । हे अ!-हे कृष्ण! राजा-यमो न:-अस्मभ्यं १ अस्माकं २ या सौख्यं अपहरणाभावरूपं ददते । त्वदीयप्रचण्डोद्दण्डप्रतापभीतो नः-अस्माकं भव. दीयमजानां अपहरणं (न) करोतीत्यर्थः । इदं यमापरिभूतप्रजावचनं स्वस्वामिनं प्रति ॥२॥ सर्वे० ॥ २५८ ॥ राजा अ! आ नो ददते असौख्यम् ॥ २५९-२६०॥ आ इति कोपे । हे अ!-हे कृष्ण! राजा-यमो नः-अस्मभ्यं १ अस्माकं २ वा असौख्यं ददते, अपहरणकरणात् । इदं कदाचित् समये कृतान्तोपद्रुतद्वारिकावासिलोकानां स्वस्वामिनं हरिं प्रति वचनम् ॥ २॥ सर्वे० ॥२६॥ राजा अ! अ नो ददते सौख्यम् ॥ २६१-२६२ ॥ आइति आमन्त्रणे हे! हे कृष्णराजा अर्थात् अन्यायी मृपा नो-न सौख्यं. २५ , Page #45 -------------------------------------------------------------------------- ________________ २४ अर्थरत्नावली [ अर्थाः २६३-३०० ] ददते ॥ १ ॥ तथा अ इति आमन्त्रणे । हे अ ! - हे कृष्ण ! राजा अर्थाध्यायी नृपः नो-न असौख्यं ददते, प्रजानामिति शेषः । इदं नीतिवाक्यद्वयं व्याख्याने सदसि नीतिशास्त्र विदा केनापि कोविदेन श्रीकृष्णमुद्दिश्योक्तम् ॥ २ ॥ सर्वे ० ॥ २६२ ॥ राजा अ ! अ नो ददते सौख्यम् ॥ २६३ - २६६ ॥ ५ अ इति आमन्त्रणे । हे अ ! हे कृष्ण ! राजा - लोकरूढिवशात् घूकः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते वामपार्श्वे दर्शितदर्शनत्वात् शब्दकरणत्वाद् वेति अर्थवशाद् गम्यम् २ | एवं असौख्यं ददते । दक्षिणपार्श्वे दर्शितदर्शनत्वात् शब्दकरणत्वाद् वेत्यपि अर्थवशाद् गम्यम् । इदं भिन्नभिन्नसमये दिग्विजयार्थ प्रस्थितानां कृष्णपुत्रादीनां वचनम् ॥ २ ॥ ४ ॥ सर्वे० ॥ २६६ ॥ ܪ राः ज ! अ ! नो ददते सौख्यम् ॥ २६७ - २८२ ॥ अ इति आमन्त्रणे । हे अ ! - हे कृष्ण ! "राः कनके विभवे मेघे स्थानके ४" इति श्री अनेकार्थतिलकवचनप्रामाण्यात् राः - कनकं नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । किं० अ ? हे ज ! - हे शत्रुजेतः ! । इदं श्रीकृष्णेन युष्माकं किं सुखदायकमिति प्रश्नितानां स्वर्णाभरणवाञ्छकानां गोपाङ्गनानां कृष्णं प्रति वचनम् ॥ २ ॥ एवं असौख्यं १५ ददते । शेषं पूर्ववत् । इदं तद्विपरीतानां वचनम् ॥ २ ॥ सर्वे० ॥ ४ ॥ एवं ( रा :-) विभवो द्रव्यं ( अस्मभ्यं अस्माकं वा ) सौख्यं ददते । इदं द्रव्यार्थिनां श्रीकृष्णं प्रति वचनम् || २ || एवं असौख्यं ददते । इदं प्रव्रज्यासमये संसारविरक्तानां द्वारिकावासिनां श्रीकृष्णं प्रति जनानां केषाश्चित् वचनम् ॥ २ ॥ ४ ॥ पूर्वमी ० ॥ ८ ॥ एवं राः - मेघः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं -सुखं ददते । इदं श्रीकृष्णां १० प्रति कर्षुकाणां वचनम् ॥ २ ॥ एवं असौख्यं ददते । इदं क्षेत्रे धान्यनिष्पत्तिसमये कर्षु - काणामेव वचनम् ॥ २ ॥ ४ ॥ पूर्व ८ मीलने ॥ १२ ॥ एवं राः - स्थानम् - आश्रयः सौख्यं ददते । इदं स्थानार्थिनां वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं तद्विपरीतानां वचनम् ॥ २ ॥ ४ ॥ पूर्वमीलने ॥१६॥ सर्वे० ॥ २८२ ॥ राज ! अ! आ नो ददते सौख्यम् ॥ २८३-३०० ॥ इति आमन्त्रणे । हे अ ! हे कृष्ण ! रा- लक्ष्मीः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । किं० अ ? हे ज ! हे शत्रुजेतः ! इदं लक्ष्मी सन्तोषितनिजदासदासीप्रभृतीनां कृष्णं प्रति वचनम् ॥ २ ॥ एवं असौख्यं ददते । इदं परस्परं कलिसमये लक्ष्मीसपत्नीनां राधा-रुक्मिणीप्रभृतीनां वचनं २ श्रीकृष्णं प्रति । पूर्वमीलने ॥ ४ ॥ एवं रा - रमणी नः - अस्मभ्यं १ अस्माकं २ च सौख्यं असौख्यं च ददते । इदं कृष्णं ३० प्रति प्रमदार्थिनां प्रमदाविरक्तानां च वचनम् । ( ४ ) पूर्वमीलने ॥ ८ ॥ सर्वे० ॥ ३०० ॥ • Page #46 -------------------------------------------------------------------------- ________________ श्री समयमुन्दरगणिकृता राजा अ ! आ नो ददते असौख्यम् ॥ ३०१-३०३ ॥ आ इति पादपूरणे । हे अ ! - हे कृष्ण ! रां-लक्ष्म जस्यति - धातूनामनेकार्थत्वात् नाशयतीति राजा - आपद् नः - अस्मभ्यं १ अस्माकं २ वा असौख्यं दुःखं ददते । इदं आपदा पीडितानां जनानां कृष्णं प्रति वचनम् ॥ २ ॥ एवं नो-न सौख्यं ददते अर्थयोजना पूर्ववत् ॥ १ ॥ पूर्वमी० ॥ ३ ॥ सर्वे ० ॥ ३०३ ॥ राजा अ ! आ नो ददते सौख्यम् * ॥ ३०४-३०७॥ [ अर्थाः ३०१-४३३ ] रां - रमणी जस्यति - नाशयति- मारयतीति उप्रत्यये आपि च राजा - स्त्रीमारिका काचिदेवंविधा स्त्री । आ इति कोपे । हे अ ! हे कृष्ण ! नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं चे २ ददते । अर्थयोजना स्वयं कार्या ॥ ४ ॥ सर्वे० ॥ ३०७ ॥ र-अजा अ ! अ नो ददते सौख्यम् ॥ ३०८-३११ ॥ अजति - क्षिपतीति अजा । रस्य कामस्य अजा- -क्षेपका राजा - शीलवती स्त्री । हे अ ! - हे कृष्ण ! अ इति आमन्त्रणे । नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं १ अंसौख्यं वा २ ददते । इदं शीलवल्लभानां तद्विपरीतानां च श्रीकृष्णं प्रति वचनम् ||४|| सर्वे० ३११ राजा अ! आ नो ददते सौख्यम् * ॥ ३१२ - ३७२ ॥ २५ १ 'सौख्यम्' इत्यर्थान्तरे । २ 'वा' इति पाठान्तरम् । अर्थ. ४ आ इति आमन्त्रणे । हे अ ! "अः शिवे केशवे वायौ, ब्रह्म-चन्द्राऽग्नि-सा (भा) नुषु ” १५ इति विश्वशम्भु (श्लो० ५) वचनात् हे ईश्वर ! राजा - चन्द्रः नः - अस्मभ्यं १ अस्माकं २ च सौख्यं ददते । इदं रतसमये स्वप्रियेश्वरेण समं रममाणपार्वतीवचनं चन्द्रोद्योतप्रद्योतिते जगति स्वप्रियं प्रति ॥ २ ॥ एवं हे अ ! - हे ईश्वर ! राजा-चन्द्रो नः - अस्मभ्यं १ अस्माकं व २, आ इति पादपूरणे, असौख्यं - कामपीडां ददते । त्वद्विरहे इति अर्थाद् गम्यम् । इदमपि पार्वतीवचनम् ॥ २ ॥ सर्वे ० ॥ ४ ॥ अत्र 'नः' इति बहुवचनं आत्मनो गौरवख्यापना- २० र्थम् । एवं यथा पञ्चाशदधिकद्विशतार्थेभ्यः २५० पश्चाद् ये एकषष्टिरर्थाः विष्णुवाचकेन अशब्देन समं कृताः, तथा शिववाचकेनापि अशब्देन समं एकषष्टिरर्थाः कार्याः । विशेष्यस्य भिन्नत्वाच्च अर्थभेदः स्फुट एव । मया तु ग्रन्थविस्तर भीत्या लिखनस्य एकपद्धत्या अल्पभेदत्वाच्च न विविच्य लिखिताः । पृथग्भेदान्वेषिभिः विद्वद्भिः स्वयं कार्याः । एवं अर्थयोज - नाऽपि यथासम्भवं स्वयं कार्या सुधीभिः । ततो जाताः ॥ ६१ ॥ पूर्वोक्ताः ॥ ३११ ॥ २५ मीलने च जाताः ॥ ३७२ ॥ राजा अ ! आ नो ददते सौख्यम् ॥३७३-४३३ ॥ अस्य कृष्णस्य अपत्यं इ:- कामः तस्यापि अपत्यं अः - अनिरुद्धः । ततः हे अ ! M १० Page #47 -------------------------------------------------------------------------- ________________ अर्थरत्नावली [अर्थाः ४३४-४४३] हे अनिरुद्ध ! आ इति सम्बोधने, राजा-चन्द्रः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदमपि रतसमये स्वप्रियेण समं रममाणाया उषाया वचनं अनिरुद्धं प्रति ॥२॥ एवं असौख्यं ददते त्वद्विरहे इति शेषः। शेषं पूर्ववत् ॥ २॥ ततः॥४॥ अथवा नो-न असौख्यं ददते, सौख्यं ददते इत्यर्थः। तथा नो-न सौख्यं-सुखं ददते, दुःखं ददते इत्यर्थः। ५ शेषं पूर्ववत् । एवं अनिरुद्धवाचिनाऽपि अशब्देन समं पूर्वरीत्या एकपष्टिरी ज्ञेयाः। तद्दिक् प्रदर्शिता । अर्थयोजनाऽपि स्वयं कार्याऽऽर्यैः । पूर्वोक्त३७२मीलने जाताः सर्वेऽपि ॥ ४३३ ॥ तथाऽत्र वायु-चन्द्रा-ऽहंद्वाचिनाऽपि अशब्देन समं बहवोऽर्था अनया रीत्या उत्पद्यन्ते, परं मया प्रयासबाहुल्यात् परस्परं स्तोकभेदत्वाच्च उपेक्षिताः । जाताः सर्वे॥४३३॥ र-अजा नो ददते सौख्यम् ॥ ४३४-४३७ ॥ अजन्ति-क्षिपन्तीति अचि अजाः, ततो रस्य-कामस्य अजा:-क्षेपकाः राजाःकामहन्तारोऽर्थाद् विशेषणाद् विशेष्यप्रतीतिरिति न्यायाद् वा यतयः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं-सुखं ददते । यतो हि "सुरासुरनराः सर्वे, येनैते स्ववशीकृताः। निर्जितो यैः स कामोऽपि, ते यतीशाः सुखप्रदाः ॥१॥" १५ इत्युक्तत्वात् यतयः सुखप्रदा एव स्युः ॥ एवं असौख्यं ददते । इदं कामिनां वचनम् ॥२॥ पूर्वोत्तमीलने सर्वे० ॥ ४३७ ॥ - राजा! नो ददते सौख्यम् ॥ ४३८-४३९ ॥, __हे राजाः!-हे यतयः! । व्युत्पत्त्यादि पूर्ववत् । नो-बुद्धः अवगततत्त्वोऽर्थात् जिनः सौख्यं-सुखं ददते, अमृतस्राविवचनेन प्रीणयतीत्यर्थः । अस्माकमिति शेषः । इदं भगवद्२० व्याख्यानश्रवणानन्तरं अत्यन्तं तुष्टमनसो भव्यस्य यतीनुद्दिश्य वचनम् ॥१॥ एवं असौख्यं ददते अभव्यस्य, अन्यथा वाऽर्थयोजना कर्तव्या ॥२॥ सर्वे० ॥ ४३९ ।। राज! अनो ददते सौख्यम् ॥ ४४०-४४१ ॥ - हे राज!-हे यते ! अनः-अवुद्धः सौख्यं ददते । इदं मूर्खाणां वचनम् ॥१॥ एवं असौख्यं ददते । इदं पण्डितजनवचनम् ॥ २॥ सर्वे० ॥ ४४१ ॥ २५ राजा! नो ददते सौख्यम् ॥ ४४२-४४३ ॥ हे राजाः!-हे यतयः!। व्युत्पत्त्यादि पूर्ववत् । “नस्तु संविदि" इति अनेका. थैतिलकोकेः नो-ज्ञानं सौख्यं ददते । अस्माकमिति अर्थवशाद् गम्यम् । इदं यतीन् प्रति ज्ञानार्थिनां वचनम् ॥ १॥ एवं असौख्यं ददते मूर्खतां कामयमानानाम् ॥२॥ सर्वे०॥४४३॥ Page #48 -------------------------------------------------------------------------- ________________ [ अर्थाः ४४४-४६५ ] श्रीसमय सुन्दर गणिकृता राज ! अनो ददते सौख्यम् ॥ ४४४-४४५ ॥ हे राज ! - हे यते ! नो-ज्ञानं तद्विरुद्धं अनः - अज्ञानं सौख्यं ददते । अस्माक मिति शेषः । इदं यतीन् प्रति अज्ञानं कामयमानानां वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं ज्ञानार्थिनां वचनम् ॥ २ ॥ सर्वे ० ॥ ४४५ ॥ राजा ! नो ददते सौख्यम् * ॥ ४४६ - ४४७ ॥ "नः पुनर्बन्धबुद्धयोः” इति वचनात् नो-बन्धोऽर्थात् कर्मणां बन्धः । हे राजाः !हे यतिनः ! नः - अस्माकं सौख्यं ददते ? अपि तु न इति काक्वा व्याख्येयम् ॥ १ ॥ अथवा सौख्यं ददते । अर्धयोजना यथा चेतसि चमत्कारमादधाति तथा स्वयमेव विधेया । एवं असौख्यं ददते । इदं कर्मवन्धभीतानां नराणां यतीन् प्रति वचनम् ॥ २ ॥ सर्वे० ॥ ४४७ ॥ १० राज ! अनो ददते सौख्यम् ॥ ४४८ - ४४९ ॥ हे राज ! - हे ते ! नो- बन्धस्तद्विरुद्धो अनः - अबन्धः, कर्ममोक्ष इत्यर्थः । अस्माकं सौख्यं ददते । इदं मुक्तिकामानां यतिं प्रति वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं तद्विपरीतानां वचनम् ॥ २ ॥ सर्वे० ॥ ४४९ ॥ राजा ! नो ददते सौख्यम् ॥ ४५० - ४५१ ॥ २७ "नो नरे चं सनाथे च, नोऽनर्थेऽपि प्रदर्शने” इति विश्वशम्भु (श्लो० ७६ ) वचनात् हे राजाः ! - हे यतयः ! नः - अनर्थः अस्माकं सौख्यं ददते । इदं यतीन् प्रति प्रतिबोधसमये धीवरादीनां वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं अनर्थ भीतचेतसां चतुराणां वचः ॥ २ ॥ सर्वे ० ॥ ४५१ ॥ र-अज-अ नो ददते सौख्यम् ॥ ४५२ - ४५५ ॥ रः-कामः-कामदेवः । अजो - हरः - ईश्वरदेवः । अः कृष्णः । ततो रश्च अजश्च अश्व राजाः काम- शिव-विष्णुसंज्ञकास्त्रयोऽपि देवाः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदं (तत्) तद्भवानां वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं तद्विपरीतानां वचनम् ॥ २ ॥ सर्वे० ॥ ४ ॥ पूवोक्तमी० ॥ ४५५ ॥ र-अ-अजाः ! नो ददते सौख्यम् ॥ ४५६-४६५ ॥ १५ २५ हे राजाः ! - हे काम शिव-विष्णुदेवाः ! नो-बुद्धः १ ज्ञानं २ बन्धः ३ अनर्थो ४ वा अस्माकमिति गम्यम्, सौख्यं १ असौख्यं २ वा ददते । अर्ययोजना स्वयं कार्या १ 'नः सनाथे च' इति प्रत्यन्तरे । २० Page #49 -------------------------------------------------------------------------- ________________ र- अज- आ नो ददते सौख्यम् * ॥ ४६६-४७१ ॥ “रः सूर्येऽग्नौ धने कामे ” इत्यादि विश्वशम्भु (श्लो० १०१ ) वचनात् रः श्रीसूर्य५ देवः, अजो-हरिः, आ-ब्रह्मा, ततो द्वन्द्वे कृते राजाः -श्रीसूर्य-विष्णु-ब्रह्माख्यास्त्रयोsपि देवाः नः - अस्मभ्यं १ अस्माकं २ न ३ वा सौख्यं १ असौख्यं २ वा ददते ॥ ६ ॥ इदं तद्भक्तिमतां तद्विपरीतानां च वचनम् | अर्धा जाताः || ६ || सर्वमीलने जाताः ॥ ४७१ ॥ २८ अर्थरत्नावली [ अर्था: ४६६-४९७ ] सुधीभिः । एते चत्वारोऽर्थाः सौख्यासौख्यपदाभ्यां द्विगुणिताः ८ भवन्ति । एवं नो- नरः इति नरशब्देनापि समं अर्थद्वयं कार्यम् । जाताः ॥ १० ॥ सर्वे० ॥ ४६५ ॥ र- अज-आ ! नो ददते सौख्यम् ॥ ४७२- ४८१ ॥ राजा: ! - हे सूर्य हरि- ब्रह्मदेवाः ! नो-बुद्धः १ ज्ञानं २ बन्धः ३ अनर्थो ४ नरो ५ वा सौख्यं १ असौख्यं २ च ददते । अर्ययोजना तु स्वयं विधेया धीमद्भिः सद्भिः । अर्थाः ॥ १० ॥ सर्वमीलने ॥ ४८१ ॥ रा-ज-आनः ददते सौख्यम् ॥ ४८२ - ४८७ ॥ 1 "रा रमा रमणी वाला” इति (विश्व० श्लो० १०१ ) वचनात् रा - लक्ष्मीः ततो १५ जो - जातः आनो - मुखश्वासः राजानः सौख्यं १ असौख्यं २ च ददते । इदं श्रीकृष्णस्य सम्भोगसमये तन्निवृत्तिसमये च वचनम् । अन्यथा वा अर्थयोजना कार्या । अर्थाः ॥ २ ॥ एवं रा - रमणी तस्याः सकाशात् जो-जातः आनो - मुखश्वासः सौख्यं १ असौख्यं २ ददते । इदं कामिविर जनयोर्वचनम् ॥ २ ॥ एवं रा-बाला ततो जो-जातः आनो-मुखश्वासः सौख्यं १ असौख्यं २ ददते । अर्थयोजना स्वयमेव यथा चमत्कारं करोति तथा २० विधेया ॥ २ ॥ पूर्व ४ मीलने ॥ ६ ॥ सर्वमीलने ॥ ४८७ ॥ रा-अ-ज-आनो ददते सौख्यम् * ॥ ४८८ - ४९७ ॥ १० २५ रा - पर्यायेण श्रीः । अः - कृष्णः । रया - श्रिया उपलक्षितः अः राअः - श्रीकृष्णः । तस्मात् जो-जातः आनो - मुखश्वासो राजानः सौख्यं १ असौख्यं २ च ददते । इदं सम्भोगसमये मुखचुम्बनावसरे गोपाङ्गनानां, तद्विपरीतसमये तासामेव अन्यासां च वचनम् ॥२॥ एवं कृष्णवाचि अशब्दवत् शिव १ अर्हत् २ अनिरुद्ध श्वाचिनाऽपि अशब्देन समं. अर्थाः कार्याः । ततः पूर्ववत् समासादिके कृते सति राजानः इति कोऽर्थः ? श्रीशिवमुखश्वासः १ श्री अर्हन्मुखश्वासः २ श्री अनिरुद्धमुखश्वासश्च ३ सौख्यं १ असौख्यं २ च ददते । जाताः ॥ ६ ॥ अर्थयोजना स्वयं कार्या । पूर्वद्वयमीलने ॥ ८ ॥ Page #50 -------------------------------------------------------------------------- ________________ [ अर्थाः ४९८- ५७२ ] श्री समय सुन्दरगणिकृता २९ एवं आ - ब्रह्मा इत्यनेनापि शब्देन समं अर्थद्वयम् ॥ २ ॥ जाता अष्टमीलने ॥ १० ॥ सर्वे० ॥ ४९७ ॥ र-आ-ज-आनो ददते सौख्यम् * ॥ ४९८-५०५ ॥ "रः स्मरे । तीक्ष्ण्ये विश्वानरे शब्दे, रामे वज्रे नरे” इति श्री तिलका नेकार्थवचनात् । "रः सूर्येऽग्नौ धने कामे” इति श्रीविश्वशम्भु ( श्लो० १०१ ) वचनाच्च रः कन्दर्पः ५ १ अग्निदेवता २ सूर्यदेवता ३ नरश्च ४, ततो रात् - कन्दर्पात् १ अग्निदेवात् २ सूर्यात् ३ नरात् ४ आ - सामस्त्येन जो-जातः आनो-मुखश्वासो राजानः सौख्यं १ असौख्यं २ च ददते । इदं तोपेपोष समये रोषसमये च तत्तत्स्त्रीणां अन्येषां वा वचनम् । जाताः ॥८॥ सर्वमीलने ॥ ५०५ ॥ ल-आ-ज-आनो ददते सौख्यम् ॥ ५०६ - ५०७ ॥ “लश्च लौ च (लूश्च ) बिडौजसि ” इति सुधाकलश ( श्लो० ३८ ) वचनात् लःइन्द्रः तस्मात् आ-सामस्त्येन जो-जातः आनो - मुखश्वासो लाजानः सौख्यं १ असौख्यं २ च ददते । अस्माकमिति शेषः । इदं शचीनां स्वपतिना समं मुखचुम्वनकामानां १ अकामानां च तस्मिन् तस्मिन् समये वचनम् ॥ २ ॥ सर्वे० ॥ ५०७ ॥ र- अज-आनो ददते असौख्यम् ॥ ९०८ ॥ "रं जले रङ्गवेगयोः” इति विश्वशम्भु (श्लो० १०१ ) वचनात् रस्य - रङ्गस्य अज:क्षेपकः - निराकारकः आनो - मुखश्वासो यस्य स राजानः एवंविधः कोऽपि जनः असौख्यं ददते, दुःखदायिश्वासत्वात् । इदं तथाविधस्त्रीपुरुषवचनं निजसखीजनं प्रति ॥ ५०८ ॥ रा-अज-आनो ददते सौख्यम् ॥ ५०९ - ५१० ॥ ܙ रा - दीप्तिः तस्याः अजः - क्षेपको राजः एवंविधः आनो-मुखश्वासो यस्य स राजानः २० सौख्यं १ असौख्यं २ च ददते । अर्थयोजना स्वयं कार्या ॥ २ ॥ सर्वे० ॥ ५१० ॥ १५ राज अनो- द ! द-त ! ईसौख्य ! * ॥ ५११ ॥ अनः - शकटं अर्थात् शकटरूपं दैत्यं द्यति-खण्डयतीति अनोदोऽर्थाक्षेपान्नारायणः तत्सं० हे अनोद ! - हे श्रीकृष्ण ! त्वं राज-दीप्तिं प्राप्नुहि । 'राज दीप्तौ” इत्यस्य धातोरुभयपदित्वात् परस्मैपदित्वम् । हे दत ! दं-दानं तेन ता - शोभा यस्य स दतः तत्सं० हे दत ! २५ हे ईसौख्य ! ई:- लक्ष्मीः निजभार्या तस्याः सौख्यं यस्य यस्मात् स ईसौख्यः तत्सं० हे सौख्य ! ॥ १ ॥ सर्वे० ॥ ५११ ॥ र! अज अनो-द! दन्त ! ईसौख्यम् ॥ ५१२ - ५७२ ।। हे अनोद ! - हे श्रीकृष्ण ! त्वं ईसौख्यं - लक्ष्मी सौख्यं अज-गच्छ । हे र! राजते १ 'सन्तोषभोगसमये' इति ख-ग-पाठः । Page #51 -------------------------------------------------------------------------- ________________ १५ ३० अर्थरत्नावली इति डे रः तत्सं० हे र!। पुनः हे दत!। व्युत्पत्त्यादि पूर्ववत् ॥१॥ एवं ईसौख्यं अजक्षिप, दूरीकुरु इत्यर्थः । इदं श्रीकृष्णं प्रति प्रतिबोधसमये यतीश्वरवचनम् ॥ २॥ एवं "ईभुवि श्रियाम्" इति तिलकानेकार्थवचनात् ईसौख्यं-पृथ्वीसौख्यं अज-गच्छ । इदं सेवकानामाशिषा वचनम् ॥ ३ ॥ एवं ईसौख्यं-पृथ्वीसौख्यं अज-त्यज । इदमपि ५यतिवचनं प्रतिबोधसमये ॥४॥ एवम् "इः कुत्सार्थेऽपि पापे (कामे)ऽपि, निषेधे नयनभ्रमे ॥ ६ ॥ ई रमा-मदिरा-मोहे, महानन्दे शिरोभ्रमे । स्त्रीलिङ्गोऽयमुपाद्यन्तो, नान्तोऽस्माल्लोपनं सुपः ॥ ७ ॥ ईयौँ योऽयात्र जसा रूपं, स्यादमारूपमी शसि ।" १० इति विश्वशम्भु(श्लो० ६-८)वचनात् इसौख्यं-कुत्सासौख्यं अज-क्षिप ॥ ५॥ एवं ईसौख्यं-मदिरासौख्यं ६ मोहसौख्यं ७ अज-क्षिप । अर्थयोजना स्वयं कार्या । एवं ईसौख्यं-महानन्दसौख्यं अज-गच्छ ॥८॥ एवं ईसौख्यं-प्रत्यक्ष(१)सौख्यं अज-गच्छ । अर्थयो० ॥९॥ एवं “इः स्मरेऽर्थेऽव्ययं खेदे कोपोक्तौ" इति तिलकानेकार्थवचनात् इसौख्यं-कामसौख्यं अज-गच्छ ॥ १० ॥ पक्षे क्षिप ॥ ११॥ अर्थयो० । (र! अज अनोद! दते! सौख्यम् ) दतेसौख्यं इत्यत्र एवं पदविश्लेपः कार्यः-दते असौख्यम्। तत एवं उक्तिः हे अनोद ! त्वं असौख्यं-दुःखं अज-क्षिप ॥ १२ ॥ एवं असौख्यं-दुःखं अज-गच्छ । इदं कृष्णस्य दुःखमिच्छतस्तथाविधस्य कस्यचिद्वचनम् ॥ १३ ॥ हे दते! दस्य-देवस्य तिः-पूजा यस्य सः। अथवा दवत्-देववत् तिः-पूजा यस्य स दतिस्तत्सं० हे दते !। शेषं पूर्ववत् ॥१३॥ २० एवं सौख्यं अज-गच्छ ॥ १४ ॥ क्षिप वा ॥ १५ ॥ अर्थयो । एवं एते एव पञ्चदशार्थाः ॥ १५ ॥ परोक्षाप्रथमपुरुपैकवचनजातया आज इत्येवंरूपक्रियया समं योज्याः। यथा हे अनोद ! त्वं ईसौख्यं-लक्ष्मीसौख्यं आज-जगाम । शेषं पूर्ववत् । एवमन्येऽपि अनया पूर्वोत्तरीत्या च ॥ १४ ॥ अर्थाः कार्याः । अर्थयोजना स्वयं कार्या । जाताः ॥ ३० ॥ (राज अनोद-द! त! ई-सौख्य !) २५ एवं अनोदं-श्रीकृष्णं दयते-पालयति-रक्षतीति अनोददः-नन्दगोकुली तत्सं० हे अनोदद! हे नन्दगोकुलिन् ! त्वं राज-दीप्तिं प्रामुहि । हे ईसौख्य ! पूर्ववत् । हे त! तस्य-तत्त्वस्य ज्ञानस्य वा इत्यादिप्रयोगदर्शनात् तो-ज्ञानं आधाराधेययोरभेदोपचारात् "कुन्ताः प्रविशन्ति” इत्यादिवत् लक्षणया वा त इति कोऽर्थः ? ज्ञानवानित्यर्थः। अथवा तनोति सुखादिकं इति डे प्रत्यये तः तस्य सं० हे त!। यत्र च ते सौख्यं ३० असौख्यं एवं पदविभागस्तत्र तस्य पूर्वोक्त एव अर्थः । इ इति च सम्बोधने पादपूरणे वा 'हे र ! पूर्ववत्' इत्यधिकः पाठः क-ख-ग-ध-प्रतिषु वरीवर्ति, किन्तु सोऽस्थानीय इति प्रतिभाति । '! भज मनोदर !! ई-सौस्य' इति पाठसम्भवे तस्वीकारः कर्तुं शक्यः। Page #52 -------------------------------------------------------------------------- ________________ [ अर्थाः ५७३-६२० ] श्रीसमयसुन्दरगणिकृता जेयम् । सन्धी कृते च रूपसिद्धिः इत्येवंरीत्या स्वयं ३१ अर्थाः कार्याः। अर्थयो । मया तु विस्तर भीत्या न विस्तरतया लिखिताः । जाताः ॥ ६१ ॥ सर्वे० ॥ ५७२ ॥ र! अजा नो ददते सौख्यम् ॥ ५७३-५८४ ॥ र:-अग्निः तत्सम्बोधने हे र! अर्थादधिष्ठानाधिष्ठात्रोरभेदोपचाराद् वा हे अग्न्यधिछायकदेवते!, हे अग्निदेवते ! इत्यर्थः । अजाः-छागाः हुता इति अर्थसामर्थ्याद् गम्यम् , ५ न:-अस्मभ्यं १ अस्माकं २ वा सौख्यं-स्वादिसुखं ददते । इदं अग्निहोतृवाक्यम् । एवं असौख्यं ददते । इदं तद्विपरीतानां वचनम् ॥ ४॥ एवं नो-न सौख्यं ददते ॥५॥ एवं नोन असौख्यं ददते ॥ ६ ॥ शेषं पूर्ववत् । अर्थयोजना स्वयं कार्या ॥६॥ एवं “अजस्त्रैवार्षिको ब्रीहिः” (अनेका० श्लो० २१ इति) धनञ्जयी(य)कोशाभिधा नात् अजाः-त्रैवार्षिका व्रीहयः इति त्रिवार्षिकत्रीहिवाचिनाऽपि अजशब्देन समं पूर्ववत् १० पडर्थाः कार्याः ॥ ६॥ यथा-हे र!-हे अग्निदेवते ! अजास्त्रैवार्षिका व्रीहयो नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । अर्थयोजना स्वयं कार्या । एवमन्येऽपि अर्थाः कार्याः । अथवा प्रकारान्तरेण अर्थाः कार्याः । तथाहि-हे र!-हे नर! अजाः-त्रैवार्षिका व्रीहयो नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदं केनचिद् वैगुण्येन येषां त्रैवार्षिका ब्रीहय एव रोचन्ते नान्यत् धान्यं तेषां वचनम् । एवं असौख्यं ददते तद्विपरीतानाम् ॥ ६ ॥१५ उभयमीलने जाताः ॥ १२॥ सर्वे० ॥ ५८४ ॥ - रा-अजा नो ददते सौख्यम् ॥ ५८५-६२० ॥ __ "अजो विष्णौ रघूद्भवे । विरश्चे मन्मथे रुद्रे, मेपे” इति तिलकानेकार्थवचनात् रा-श्रीः, ततः रया-श्रिया उपलक्षिताः अथवा रापूर्वकाः अजाः राजाः, श्रीकृष्णाः इत्यर्थः। नःअस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदं वैष्णववचनम् ॥२॥ एवं असौख्यं द-२. दते । इदं कालनेमि-हयग्रीव-शकटा-ऽरिष्टदैत्यादीनां वचनम् । जाताः ॥ ४ ॥ एवं नो-न सौख्यं असौख्यं च ददते इति ॥ २॥ अर्थों । शेषं पूर्ववत् । जाताः ॥ ६॥ एवं राजाः । व्युत्पत्त्यादि पूर्ववत् । रघूद्भवाः अजाभिधाना राजानो नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं २ च ददते-प्रयच्छन्ति । इदं तन्मित्राणां तच्छत्रूणां च वचनम् । एवं ६ अर्थाः कार्याः ॥ जाताः ॥ १२ ॥ २५ एवं राजाः-श्रीब्रह्माणः १ श्रीकामदेवाः २ ईश्वराश्च इत्यर्थवाचिनाऽपि राजशब्देन समं षट् षडाः ६ कार्याः । जाताः ॥१८॥ पूर्वाक्त १२ मीलने ॥३०॥ एवं हे र!-हे नर! अजाः-छागाः गलस्तन्यो वान:-अस्मभ्यं १ अस्माकं २वा सौख्यं असौख्यं च ददते । नो-न सौख्यं असौख्यं च ददते । इदं अजापालानां तद्विपरीतानों Page #53 -------------------------------------------------------------------------- ________________ ३२ अर्थरनावली [अर्थाः ६२१-६३७ ] च पचनम् ॥ ६॥ अर्थयोजनाऽपि यत्र तादृशी न भवति कृता तत्र कुशाग्रीयमतिभिः स्वयं कार्या । मया तु ग्रन्थगौरवभिया न वारंवारं लिख्यते । पूर्वोक्त ३० मीलने जाताः ॥ ३६ ॥ सर्वे० ॥ ६२०॥ ___ राजानः! देदते सोख्यम् ॥ ६२१-६२४ ॥ ५ हे राजानः!-हे नृपाः! ददते अर्थात् दानं ददानाय पुरुषाय सौख्यं-सुखं, अस्तु इति शेषः, दानस्य सर्वाभीष्टार्थसाधकत्वात् । यदुक्तम् "धर्मस्य मूलं पदवी महिम्नः, पदं विवेकस्य फलं विभूतेः। प्राणाः प्रभुत्वे प्रतिभूश्च सिद्धे-र्दानं गुणानामिदमेकमोकः॥१॥ दानेन चक्रित्वमुपैति जन्तु-र्दानेन देवाधिपतित्वमुच्चैः।। दानेन निःशेषयशोऽभिवृद्धि-दर्दानं शिवे धारयति क्रमेण ॥२॥" इत्यादि ॥१॥एवं असौख्यं-दुःखं स्यादिति गम्यं इह मार्गणादिलोककृतसन्तापवशादिति ॥ २॥ एवं अददते पुरुषाय, कृपणायेत्यर्थः । सौख्यं । मार्गणादिजनानुच्चाटनत्वात् । इदं मार्गणादिसन्तापितस्य दीयमानदानस्य पञ्चजनस्य राज्ञः प्रति वचनम् ॥ ३ ॥ एवं अददते असौख्यं दानपुण्याभावात् ॥ ४॥ सर्वे० ॥ ६२४ ॥ १५ राज! आनो! ददते अददते सौख्यम् ॥ ६२५-६२८ ॥ ___ आ-अतिशायिनी नुः-स्तुतिलोंके यस्य स आनुः तस्य सं० हे आनो-अतिशायिस्तुतिमन् ! ददते पुरुषाय सौख्यं ॥१॥ हे राज ! राजतेः अचि राजस्तत्सं० हे राज !। शेषं पूर्ववत् । अमुना प्रकारेण पूर्ववत् ४ अर्थाः कार्याः । एवमत्र खण्डनया भिन्नभिन्नविशेष्यसम्बोधनपदकर्षणेन अनेकेऽर्थाः उत्पद्यन्ते, परं मया बहुप्रयासभीत्या न २. लिखिताः । सर्वे०॥ ६२८ ॥ राजानो ददते सौख्यम् ॥ ६२९-६३०॥ राजानं आनयति-जीवयतीति राजानो-राजवैद्यः सौख्यं ददते, रोगिणामिति शेषः, रोगापहारेण सौख्यदानात् ॥ १॥ एवं असौख्यं ददते । तथाविधानां केषाञ्चित् ॥ २॥ अर्थयो । सर्वे ॥ ६३०॥ रोजानो ददते असौ ख्यम् ॥ ६३१-६३७ ॥ राजानो-नृपाः। “(याच्यलिङ्गः) खशब्दोऽर्के, वितर्के व्योम्नि वेदने । प्रश्ननिन्दानृपक्षेप-सुखशून्येन्द्रिये दिवि ॥ २४ ॥ अवसानेऽपवर्गेऽपि, परब्रह्मण्यपीरितः।" मददते' इति अर्थान्तरे। २ 'राजा नो' इत्यर्थान्तरे। Page #54 -------------------------------------------------------------------------- ________________ [ अर्थाः ६३८-६४३ ] श्रीसमयसुन्दरगणिकृता ३३ इति श्रीविश्वशम्भु ( श्लो० २४ - २५ ) वचनात् खं सुखं तस्य भावः ख्यं, सुखत्वमित्यर्थः । असौ - कृपाणे सति ददते । वैरिणामिति शेषः । अपि तु न ददते इति काकुवचनम् ॥१॥ एवं राजा-नृपः नो-न असौ-कृपाणे सति ख्यं -सौख्यत्वं ददते, वैरिणामिति शेषः ॥२॥ । एवं राजा-नृपो नः - अस्मभ्यं १ अस्माकं २ वा असौ - कृपाणे (सति) ख्यं - सुखत्वं ददते । कोऽर्थः ? यावद् राजा सशस्त्रः तावत् शत्रुभ्यो भयाभावेन अस्माकं सदा ५ सौख्यमेवेति भावः ॥ २ ॥ पूर्वोक्त २ मीलने ॥ ४ ॥ एवं असौ - प्रत्यक्षो राजा - नृपो नः - अस्मभ्यं १ अस्माकं २ न ३ वा ददते । अर्ययोजना स्वयं कार्या ॥ ३ ॥ पूर्वोक्त ४ मीलने ॥ ७ ॥ सर्वे० ॥ राजा नो ददते असौ खी अम् ॥ ६३८- ६४० ॥ असौ राजा । खीति विशेषणात् स्वामी इन्द्रो नः - अस्मभ्यं १ अस्माकं २ (वा) "अं मान्तो ब्रह्मसंवादे, परब्रह्मप्रवाचकः ॥ व्यसने व्याधिते व्याधौ, ज्ञानविज्ञानवन्दने ।” इति विश्वशम्भु (श्लो० १९-२० ) वचनात् अं- परब्रह्म ददते, परब्रह्मसदृशं सौख्यं ददातीत्यर्थः । किं० ? 'खी' खे - स्वर्गे तिष्ठतीति खी । इदं स्वर्गाधिपसन्मानितसुरवचनम् ||२|| एवं असौ राजा अर्थवशात् यादवेशः खी-सुखी सन् अं-कृष्णं नो-न ददते । इदं १५ कंसवधानन्तरं जरासन्धराज्ञा कृष्णे याचिते सति वलमानं जरासन्धं प्रति गतप्रत्यागत निजपुरुषवचनम् || १ || सम्वन्धश्चान्यशास्त्रान्तरादवसेयः ॥ ३ ॥ सर्वे० ॥ ६४० ॥ राजा नो ददते अः सौखी अम् ॥ ६४१-६४३ ॥ ख्यं - सौख्यत्वं ६३७ ॥ अः - कृष्णः नः - अस्मभ्यं १ अस्माकं २ वा अं- परब्रह्म ददते । किं० ? 'राजा' स्वामी पुनः 'सौखी' सुखसमाहारयुक् ॥ १ ॥ एवं अः - कृष्णः अं ददते । किं० ? 'राजा' । पुनः २० नो- न सौखी असौखी-सुखसमाहारवियुक्तः, प्राप्तकष्टस्थितिरित्यर्थः । भगवतो हि श्रीनारायणस्य दशावतारान्तर्गतमी नावतारस्य शङ्खदैत्यापहृत वेदोद्धारपरायणस्य पातालगमने प्राप्तकष्टत्वात् । यदुक्तं खण्ड प्रशस्त काव्ये - "मायामीनतनोस्तनोतु भवतां पुण्यानि पङ्कष्टुतिः पुच्छाच्छोटसमुच्छलज्जलभरप्राग्भाररितोदधेः । पातालावटमध्य सङ्कटतया पर्याप्तकष्टस्थिते वेदोद्धारपरायणस्य सततं नारायणस्य प्रभोः ॥ १ ॥ " - शार्दूल० इत्यादि । अत्रत्यसम्बन्धस्त्वैन्यशास्त्रान्तरादव सेयः । मया तु ग्रन्थविस्तर भीत्या न लिखितः । इदं शङ्खदैत्यान्तकरणानन्तरं वेदे वालिते निजसेवकजनवचनम् ॥ २ ॥ १ अन्यशब्दचिन्त्यः । २ 'युक्तः' इति ग घ पाठः । ३ अन्यशब्दश्चिन्त्यः । अर्थ. ५ १० २५ Page #55 -------------------------------------------------------------------------- ________________ ३४ अर्थरत्नावली [ अर्थः ६४४] ___ एवं नो-न अं-परब्रह्म परब्रह्मसदृशं सौख्यं ददते । शेपं पूर्ववत् । इदं कृष्णस्य द्वारिकागमने विरहव्याप्तवृन्दावनवर्तिगोपाङ्गनावचनम् ॥३॥ अत्र चित्रादित्वात् विसर्गलोपो न दोषाय ॥ ३ ॥ सर्वे० ॥ ६४३ ॥ राजा नो ददते असौ खी अम् ॥ ६४४ ॥ ५ असौ राजा-नृपः नः-अस्मभ्यं १ अस्माकं २ वा अं-परब्रह्म ददते । किं० ? - 'खी' खं-संविदस्यास्तीति खी । इदं ज्ञानिराजदीयमानपरब्रह्मणो नरस्य वचनम् ॥१॥ एवं असौ राजा अं-पर० नो-न ददते यतः। किं.? खी-ज्ञानी। इदं जडवचनम् । ज्ञानिनो हि गुणान् ज्ञानिन एव जानन्ति, न तु अतद्विधा अज्ञानिनः । अतो मूर्खाणां ज्ञानिनो न सौख्यप्रदाः । यदुक्तं श्रीचम्पूकथायाम् "जानन्ति हि गुणान् वक्तुं, तद्विधा एव तादृशाम् । वेत्ति विश्वम्भरा भारं, गिरीणां गरिमाश्रयम् ॥१॥" इति ॥२॥ असौ नः-अस्माकं राजा-अस्मत्स्वामी अं-पर० ददते । भक्तानामिति गम्यम् । किं० १ 'खी' ज्ञानी, अर्थादुत्पन्नकेवलज्ञानः । इदं कोपि स्विकस्वामिनं अङ्गीकृतसंयमभारं १५ ततः समुत्पन्नकेवलज्ञानं सममालोक्य अवादीत् ॥३॥ एवं असौ राजा-यमो नो-न अंपर० ददते। किं० ? 'खी' खं-वितर्कः किममुं नरादिकं संहरामि किममुमित्यादिरूपो विद्यते यस्मिन् यस्य वा स खी। यमस्य हि प्राणिप्राणसंहरणस्वभावत्वात् परब्रह्मदानं कुतः । इदं यमापह्रियमाणनरवचनम् ॥ ४ ॥ असौ राजा-यमो नः-अस्मभ्यं १ अस्माकं २ वा अं-पर० ददते ? अपि तु नेत्यर्थः इति काक्का व्याख्येयम् । यतो हि परो लक्षोपा२० यैर्निजजीवितरक्षणकृते क्रियमाणैरपि यमो जनादि हरत्येव । यदुक्तम् “चदत यदीह कश्चिदनु सन्ततसुखपरिभोगलालितः प्रयतनशतपरोऽपि विगतव्ययमायुरवाप्तवान् नरः । न खलु नरसुरौघसिद्धविद्याधरकिन्नरनायकोऽपि यः सोऽपि कृतान्तदन्तकुलिशाक्रमणकशितो ने नश्यति ॥१॥ नश्यति नौति यति वितनोति करोति रसायनक्रियां चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदीर्यते ॥२॥" , 'समालोक्य' इति क-पाठः। २ 'नश्यति' इति ख-पाठः। ३ 'यतति' इति ग-पाठः। Page #56 -------------------------------------------------------------------------- ________________ [ अर्धाः ६५४-६६१ ] श्रीसमयसुन्दरगणिकृता इत्यादि ॥ ४ ॥ एवं राजा-चन्द्रो नः-अस्मभ्यं १ अस्माकं २ वा अं-पर० ददते । किं. १ 'खी' ख-सुखं देवसम्बन्धि अस्यास्तीति खी । इदं रोहिण्या वचनम् ॥ २॥ पू० ६॥ असौ राजा-चन्द्रः चन्द्रग्रहः नो-न अं-पर० ददते । किं०? यतः 'खी' खं-निन्दा अयं पापिष्ठो मां पीडयति इत्यादिरूपा यस्य स खी। द्वितीयचतुर्थपञ्चमाष्टमनवमद्वादश इत्यर्थः । द्वितीयादिचन्द्रो हि कृते अशुभे लोकैनिन्द्यते । यदुक्तं रनकोशे "जन्मस्थः कुरुते पुष्टिं, द्वितीये नास्ति निर्वृतिः । तृतीये राजसन्मानं, चतुर्थे कलहागमः ॥ १ ॥ पञ्चमेऽर्थपरिभ्रंशः, पष्ठे धान्यधनागमः। सप्तमे राजपूजा च, अष्टमे प्राणसंशयः॥२॥ नवमे कार्यहानिः स्यात् , सिद्धिश्च दशमे भवेत् । एकादशे जयो नित्यं, द्वादशे मृत्युमादिशेत् ॥ ३॥" ॥७॥ एवं राजा-यक्षः असौ-प्रत्यक्षः नः-अस्मभ्यं १ अस्माकं २ वा आराधितः इति अर्थवशात् गम्यम् अं-पर० ददते । किं०? खी-सुखवान् । इदं यक्षदीयमानपरब्रह्मणां यक्षसेवकानां वचनम् ॥ २॥ पू०७मी० ॥९॥ असौ राजा-यक्षो अनाराधित इति शेषः अं-पर० नो-न ददते । किं.? 'खी' पूर्ववत् ॥१॥ पूर्व ९मी० ॥१०॥ सर्वे० ॥ ६५३ ॥१५ र-अज-आ नः अददत ईसौख्यम् ॥ ६५४-६५७ ॥ र:-कामः अजो-हरः आ-ब्रह्मा, ततो द्वन्द्वे कृते राजाः- कन्दपेश्वरब्रह्माणः । एते त्रयोऽपि देवाः नः-अस्मभ्यं १ अस्माकं २ वा ईसौख्यं इसौख्यं च-लक्ष्मीसौख्यं कामसौख्यं च अददत-अंदुरित्यर्थः । अत्र 'डुदाञ् दाने' (पा० धा०१०९१) इत्यस्य धातोरात्मनेपदविवक्षायां अनद्यतनीविषये प्रथमपुरुषवहुवचने अददत इति रूपम् । एवमग्रेऽपि विज्ञे- २० यम् । अर्थाः ॥ ४ ॥ सर्वे० ॥ ६५७ ।। रे-अज-आ नः अददत ईसौख्यम् ॥ ६५८-६६१ ॥ रो-रविः अजः-स्मरः अः-कृष्णः, ततो द्वन्द्वे कृते राजाः-रवि-स्मर-कृष्णाः नःअस्मभ्यं १ अस्माकं २ वा 'ईसौख्यं अददत-अदुरित्यर्थः ॥२॥ एवं हे र!-हे अग्निदेवते! अजाः-छागाः, हुता इति शेषः, न:-अस्मभ्यं १ अस्माकं २ वा "ईसौख्यं-स्वर्गादिसौख्यं २५ राज्यादिसौख्यं वा अददत-अदुरित्यर्थः । पूर्वमी० ॥ ४ ॥ इदं अग्निहोत(त्रि?)वाक्यम् । तेषां हि अयं अभिप्रायः-अजादिहोमात् स्वर्गादिसुखं प्राप्यते ॥४॥ सर्वे० ॥ ६६१ ।। 'रम्भकोशे' इति ख-पाठः। २ अर्थान्तरे तु 'र! मजाः नः०' इति पाठः । ३-४-५ 'इसौख्यम्' इति ख-पाठः। भनेन विद्धन सूच्यते यदुतार्थान्तरे ईकारस्थाने इकारः इकारस्थाने ईकारो वा ज्ञेयः । Page #57 -------------------------------------------------------------------------- ________________ ५ ३.६ अर्थरत्नावली राजानः अददत 'ईसौख्यम् ॥ ६६२-६६३ ॥ राजानो-नृपाः ईसौख्यं-लक्ष्मीसौख्यं इसौख्यं - कामसौख्यं च अददत- अदुरित्यर्थः ॥ २ ॥ सर्वे ० ॥ ६६३ ॥ २० राजानः ! दद तेसौख्यम् ॥ ६६४ ॥ हे राजानः ! - हे नृपाः ! यूयमिति क्रियासामर्थ्याद् गम्यम् । 'तेसौख्यं दद' तालक्ष्मीः इः- कामः तयोः सौख्यं तेसौख्यं दद- अदद्ध्वमित्यर्थः । अत्र ददेति परोक्षामध्यमपुरुषबहुवचने रूपम् । एवमग्रेऽपि ज्ञेयम् । सर्वे० ॥ ६६४ ॥ र-अ-अः जा ! नो ददते "सौख्यम् ? ॥ ६६५–६६६ ॥ हे जाः - हे जेतृपुरुषाः ! र अर्थात् अग्निदेवः अः - कृष्णः अः - गरुडः । ततो द्वन्द्वे १० कृते राः - अग्नि-विष्णु-गरुडाख्या देवाः नो-न सौख्यं सुखं ददते ? अपि तु ददते इत्यर्थः । एवं नो-न असौख्यं ददते ॥ २ ॥ सर्वे० ॥ ६६६ ॥ राजानः ! अददत 'इसौख्यम् || ६६७-६७२ ॥ हे राजानः । हे चन्द्रमसः ! भवन्त इति शेषः क्रियासामर्थ्याद् गम्यः इसौख्यं - - कामसौख्यं अददत - अदुरित्यर्थः । संयोगिनीनामिति शेषः ॥ १ ॥ एवं ईसौख्यं - लक्ष्मीं १५ (लक्ष्मीसुखं) अददत | देवत्वेन स्वसेवाजुषां लक्ष्मीसौख्यदानत्वात् तेषाम् । अत्र चन्द्रसां बहुत्वं जैनमतमाश्रित्य - [ अर्थाः ६६२-६७२ ] “दो ससि दो रवि पढमे दुगुणा लवणम्मि धाइय ( यई ?) संडे । वारस ससि वारस रवि तप्पभिइ निद्दिट्ठससिरविणो ॥ १ ॥ तिगुणा पुलिजुया अणंतराणंतरम्मि खित्तम्मि | काठोए वायाला विसत्तरी पुक्खरद्धमि ॥ २ ॥” इत्यादिप्रकारेणासङ्ख्येयत्वं चन्द्रमसाम् ॥ सर्वे० ॥ २ ॥ एवं हे राजानः ! - हे यक्षाः ! भवन्त इति शेषः ईसौख्यं इंसौख्यं वा अददत, अदुरित्यर्थः ॥ २ ॥ अर्थयोजना स्वयं कार्या । एवं हे राजानः ! - हे यमाः ! भवन्तः ईसौख्यं १ इसौख्यं वा २ अददत ? अपि नेत्यर्थः ॥ एवं ||४|| सर्वे० ॥ ६७२ ॥ १ छाया द्वौ शशिनो द्वौ रवी प्रथमे द्विगुणा लवणे धातकीखण्डे । द्वादश शशिनो द्वादश स्वयः तत्प्रभृति निर्दिष्टशशिरवयः ॥ त्रिगुणाः पूर्वीययुता अनन्तरानन्तरे क्षेत्रे । कालोदधौ द्विचत्वारिंशद् द्वासप्ततिः पुष्करार्धे ॥ २ 'कुया' इति ख- पाठः । Page #58 -------------------------------------------------------------------------- ________________ [ अर्थाः ६७३-६९७ ] श्री समय सुन्दरगणिकृता राजानोऽददत ई सौख्यम् ॥ ६७३ ॥ राजानो - नृपाः ई-लक्ष्मी च पुनः सौख्यं सुखं अददत ॥ १ ॥ एवं राजानो - नृपाः ईकामं सुखं (सौख्यं ?) यथा स्यात् तथा अददत | धातूनामनेकार्थत्वात् प्रमदाजनं कामवन्तं कृतवन्त इत्यर्थः । अत्र चित्रादित्वादनुस्वारागमनगमनयोर्न विशेषः । यदवादि (श्रीवाग्भटैः) श्रीवाग्भटालङ्कारे ( श्लो० २० ) - “यमक-श्लेष-चित्रेषु, ववयोर्डलयोर्न भित् । नानुस्वार - विसर्गों तु, चित्रभङ्गाय सम्मतौ ॥ १ ॥ " इत्यादि । एवमग्रेऽपि । नन्वत्र चशब्दस्य कथमसतोऽपि ग्रहणम् ? सत्यमाह भवान् ।, तथापि महाग्रन्थान्तरे प्रयोगदर्शनात् युक्तम् । यदुक्तं श्री हेमबृहद्वृत्तिसारोद्धारकक्षपुढे "येथा अहर्नयमानो, गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति, सुराया इव दुर्मदी ||१|| " ॥ ६७३ ॥ राजानोऽददत ई सौख्य ! ॥ ६७४-६८५ ॥ हे सौख्य !-सौख्यसौख्यवतोरभेदोपचारात् हे सौख्यवत्पुरुष ! राजानो - नृप्राः १२. चन्द्राः २ यक्षाः ३ यमाः ४ वा ई-लक्ष्मीं इं-कामं वा अददत । शेषं पूर्ववत् ॥ ८ ॥ एवं १५ई इति इ इति वा पादपूरणे । राजानो - नृपाः १ चन्द्राः २ यक्षाः ३ यमाः ४ सौख्यं - सुखः अददत | अर्थयोजना० । पूर्वोक्त ८ मीलने ॥ १६ ॥ सर्वे ० || ६८५ ॥ राजानः ! दद तेसौख्य ॥ ६८६-६८९ ॥ ३७ हे राजानः ! - हे नृपाः ! १ चन्द्राः ! २ यक्षाः ! ३ यमाः ! ४ वा । यूयमिति शेषः । 'तेसौख्यं' ता-लक्ष्मीः इः - कामः तयोः सौख्यं तेसौख्यं दद इति ४ । अर्थयोजना स्वयं १०० विधेया ॥ ४ ॥ सर्वे ० ॥ ६८९ ॥ राजा नो ददत 'ईसौख्यम् ॥ ६९० - ६९५ ॥ जा- जेतारः पुरुषाः नः - अस्मभ्यं १ अस्माकं २ वा नो-न वा ३ ईसौख्यं लक्ष्मीसौख्यं १ इसौख्यं - कामसौख्यं २ वा अददत ॥ ६ ॥ अर्धयोजना स्वयं० । किं० १ “रा राजन्त इति राः । सर्वे० ॥ ६९५ ॥ राजाः ! नो दद तेसौख्यम् ॥ ६९६-६९७ ॥ १ 'यथाहयर्तयमानो' इति ख- पाठः । ५ हे जाः ! यूयं सौख्यं - लक्ष्मीकामसुखं नो-न दद । अथवा नो-न दद अपितुः अदध्वमित्यर्थः । अर्थयो० २ । किं० १ 'राः' पूर्ववत् । सर्वे० ॥ ६९७ ॥ २ अर्थान्तरे 'सौक्ष्यं' इति पृथक् पदं ज्ञेयम् । २५ Page #59 -------------------------------------------------------------------------- ________________ अर्थरत्नावली [ अर्थाः ६९८-७३६ ] राजा नोऽददत इसौख्यम् ॥ ६९८-७०० ॥ राजा:-यतयः, व्युत्पत्त्यादि पूर्ववत्, नः-अस्मभ्यं १ अस्माकं २ वा ईसौख्यं अददत । अथवा राजा-यंतयो नो-न इसौख्यं-कामसौख्यं अददत ॥ ३॥ सर्वे० ॥ ७००॥ । लाजानो ददते सौख्यम् ॥ ७०१-७१४ ॥ ५ रलयोरक्यात् लाजाः-तन्दुलाः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं-सुखं ददते । अत्र केनचिदजीर्णतन्दुलेन जीर्णतन्दुलस्य पुंसः पृष्टं यदुत भो! युष्माकं तन्दुलाः कीदृशाः? ततस्तैरुक्तमिदं वचनम् ॥ २ ॥ एवं लाजाः-तन्दुलाः न:-अस्मभ्यं १ अस्माकं २ वा असौख्यं ददते । इदं तद्विपरीतजनानां वचनम् । सर्वे० ॥४॥ एवं लाजाः नो-न सौख्यं १ असौख्यं २ वा ददते । अर्थयोजना स्वयं कार्या ॥ २ ॥ पूर्व ४ मीलने ॥६॥ १. एवं लाजाः-तन्दुलाः हे नः!-हे पुरुष! सौख्यं १ असौख्यं २ वा ददते । अर्थयो० पूर्व ६ मीलने ॥ ८॥ एवं "नः पुनर्वन्धबुद्धयोः” इति वचनात् । उ इति पादपूरणे सम्बोधने वा। हे न! -हे बुद्ध ! लाजाः-तन्दुलाः सौख्यं १ असौख्यं २ वा ददते । तदभिलाषुकाणां अनभि लाषुकाणां च ॥ पूर्व८मीलने ॥ १० ॥ १५ एवं नः-अस्माकं लाजाः अस्मदीयतन्दुलाः सौख्यं १ असौख्यं २ च ददते । अर्थयो । पूर्व १० मीलने ॥ १२ ॥ एवं लाजानां तन्दुलानां अनः-शकटं लाजानः-तन्दुलशकटं सौख्यं ददते । अप्राप्ततन्दुलस्येति शेषः । एवं लाजानः-तन्दुलशकटं असौख्यं ददते तथाविधानां केपाश्चित् ॥ २ ॥ पूर्व १२ मीलने ॥ १४ ॥ सर्वे० ॥ ७१४ ॥ लाजा नो अददत ईिसौख्यम् ॥ ७१५-७३६ ॥ लाजाः-तन्दुलाः नः-अस्मभ्यं १ अस्माकं २ वा ईसौख्यं-लक्ष्मीसौख्यं ऋद्धिसुखं अददत-अदुरित्यर्थः। तन्दुलेभ्यो हि लक्ष्मीसौख्यं भवत्येवेति अर्थयोजना । अन्यथा वा यथासम्भवं विधेया ॥२॥ एवं लाजा नः-अस्मभ्यं १ अस्माकं २ वा इसौख्यं-कामसुख अददत-अदुरित्यर्थः। अर्थयो०। २ (पूर्व)मीलने ॥४॥ एवं लाजा नो-न ईसौख्यं इसौख्यं २५ वा अददत । अर्थयो० २ । पूर्व० ४ मीलने ॥ ६॥ एवं लाजाः-तन्दुलाः नः-अस्मभ्यं १ अस्माकं २ वा ई-लक्ष्मी ई-कामं सुखं यथा स्यात् तथा अददत-अदुः। अर्थयो०।४। पूर्व ४ मीलने ॥ ८॥ एवं नो-न ई-लक्ष्मी चकारस्य पूर्वोक्तरीत्या सौख्यं च अददत । एवं कामवाचिना इशब्देन सममपि अर्थः कार्यः । २ । पूर्व ८ मीलने ॥१०॥ एवं , 'यतिनः' इति ख-पाठः। २ अर्थान्तरेषु 'नः !', 'न! ', 'काजा-मनः' एति। र्थान्तरयोजना पूर्ववत् । Page #60 -------------------------------------------------------------------------- ________________ [ अर्थाः ७३७-७९६ ] श्रीसमयसुन्दरगणिकृता हे नः !-हे पुरुष! लाजा ईसौख्यं १ ई च पुनः सौख्यं वा अददत । १ । एवं इसौख्यं १ इं च पुनः सौख्यं वा अददत ॥ ४ ॥ अर्थयो । पूर्व १० मीलने ॥ १४ ॥ एवं उ इति सम्बोधने हे न!-बुद्ध ! लाजा ईसौख्यं १ ई च पुनः सौख्यं वा २ अददत । एवं इसौख्यं ई-कामं सौख्यं-सुखं च वा अददत । अर्थयो० ४ । पूर्व १४ मी० ॥१८॥ एवं नःअस्माकं लाजाः अस्मदीयतन्दुलाः ईसौख्यं १ इसौख्यं वा २ अददत अदुरित्यर्थः २। ५ पूर्व १८ मीलने ॥ २० ॥ एवं लाजानः-तन्दुलशकटं ईसौख्यं इसौख्यं वा २ अददत अदुः। पूर्व २० मीलने ॥ २२ ॥ एवं सर्वमीलने ॥ ७३६ ॥ लाजा! नो दद तेसौख्यम् ॥ ७३७-७३८॥ हे लाजाः! हे तन्दुलाः! यूयं तेसौख्यं-लक्ष्मी-कामसुखं नो-न दद । अथवा नो-न दद ? अपि तु अदद्ध्वमित्यर्थः ॥२॥ सर्वे० ॥ ७३८ ॥ लाजा नो ददते सौख्यम् ॥ ७३९-७७६ ॥ एवं यथा सप्तत्रिंशदाः तन्दुलवाचिना लाजशब्देन पूर्व प्रदर्शिताः। तथा "लाजा भ्रष्टधान्ये स्युरक्षते” इति अनेकार्थतिलकवचनात् लाजा-भृष्टधान्यानि तद्वाचिनाऽपि लाजशब्देन सप्तत्रिंशदर्थाः कार्याः । यथा लाजा-भृष्टधान्यानि नः-अस्मभ्यं १ अस्माकं वा २ सौख्यं ददते इत्यादि । एवं सर्वेऽपि ॥ ७७६ ॥ १५ लाज-अनो ददते सौख्यम् ॥७७७-७७८ ॥ "लाजः स्यादातन्दुले । लाजास्तु भृष्टधान्ये स्युाजं पुनरुशीरके” इति श्रीहैमा- . नेकार्थ( का० २ श्लो० ८९-९०)वचनात् लाजानि-वालकाः तेषां अनः-शकटं लाजानःवालकशकटं सौख्यं असौख्यं च ददते । भोगिनां योगिनां चेत्यर्थयोजना । सर्वे०॥७७८॥ लाज-अनः अददत ईसौख्यम् ॥ ७७९-७८० ॥ लाजानो-वालकशकटं ईसौख्यं-लक्ष्मीसुखं १ कामसुखं २ (वा) अददत-अदात् । अर्थयो० ॥२॥ सर्वे० ॥ ७८० ॥ लाजाणः ददते सौख्यम् ॥ ७८१-७९६ ॥ लाजाः-तन्दुलास्तान् अणति-गच्छति गत्यर्थानां प्राप्त्यर्थत्वात् प्रामोतीति लाजाणः । अच्प्रत्ययः तन्दुलपापकः । एवंविधः कोऽपि जनः सौख्यं १ असौख्यं २ च २५ ददते । अर्थयो० ॥२॥ एवं लाजाणः ईसौख्यं इसौख्यं वा अददत । पूर्व २ मी० ॥ ४ ॥ एवं भृष्टधान्यप्रापकवाचिनाऽपि लाजाणशब्देन ४ अर्थाः कार्याः । यथा लाजाणः-भृष्टधान्यप्रापकः सौख्यं असौख्यं च ददते इत्यादि पूर्व ४ मी० ८ । एवं वालकप्रापकवाचि । अर्थान्तरे भददत ईसौख्यम् । Page #61 -------------------------------------------------------------------------- ________________ ४० अर्थरत्नावली [ अर्थाः ७९७ -८१९] नापि लाजाणशब्देन ४ अर्थाः कार्याः । पूर्व ८ मी० ॥ १२॥ एवं लाजाः - आर्द्रतन्दुलाः पृथुकाः इत्यर्थः तान् अणतीति लाजाणः- पृथुकप्रापको जनः सौख्यं १ असौख्यं २ वा - ददते । एवं पूर्ववत् ४ पूर्व १२ मी० १६ । सर्वे ० ॥ ७९६ ॥ राजा अणः ददते सौख्यम् ॥ ७९७-८०० ॥ अणः-शब्दः सौख्यं असौख्यं च ददते । किं० ? 'राजा' रञ्जयति जनमनांसीति राजा, मधुरगीतादिध्वनिरित्यर्थः । एवं ईसौख्यं इसौख्यं च अददत | अर्थयो० ॥ ८०० ॥ ला जा-नो ! ददते सौख्यम् ॥ ८०१ -८०४ ॥ " जाया जनन्योर्जाबन्तः” इति श्रीविश्वशम्भु (श्लो० ३५ ) वचनात् जाया - जनन्याः नुः - स्तुतिर्यस्य स जानुः; अथवा जया - मात्रया हेतुभूतया नुः- स्तुतिर्यस्य स जानुः; १० अथवा जयेन आ-सामस्त्येन नुः-स्तुतिर्यस्य स जानुस्तत्सम्वोधने हे जानो ! | "ली महेन्द्रे मृते गत्यां ला च लक्ष्मीर्लमम्बरे" इति विश्वशम्भु (श्लो० १०४ ) वचनात् लाइन्द्राः सौख्यं १ असौख्यं २ च ददते । इदं शचीनां बलादीनां च वचनम् ॥२॥ एवं ला- इन्द्रा हे जानो ! ईसौख्यं इसौख्यं च अददत २ ॥ पूर्व २ मी० ४ ॥ एवं सर्वे ० ॥८०४ ॥ ला! जाः नो दद ते सौख्यम् * ॥ ८०५-८१० ॥ ५ १५ हे लाः ! - हे इन्द्राः ! यूयं तेसौख्यं - लक्ष्मी - कामसौख्यं नो दद ॥ १ ॥ एवं नोन दद? अपि तु ददध्वमित्यर्थः ॥ २ ॥ किं० लाः ? 'जाः !' प्रतिपक्षजेतारः ! || २ || एवं हे लाः ! - हे इन्द्राः ! जाः - जेतारः पुरुषाः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं २ वा ददते । अर्थयो० ||४|| पूर्व २ मी० ॥ ६ ॥ सर्वे० ॥ ८१० ॥ लौ ! जा नो ददते असौख्यम् ॥ ८११-८१५ ॥ हे लाः ! - हे इन्द्राः ! जा - जेतारः - अस्मत्पराभवकारिणः प्रतिपक्षाः नः - अस्मभ्यं १ 'अस्माकं २ वा असौख्यं ददते । इदं पराभिभूतदेवानामिन्द्रं प्रति वचनम् ॥२॥ एवं नो-न सौख्यं ददते १ || ३ || एवं हे जाः ! हे जेतृपुरुषाः ! लाः- इन्द्राः नो-न सौख्यं ददते । इदं बलादीनां वचनम् । एवं नो-न असौख्यं ददते । इदं शचीनां वचनम् ||२|| पूर्व ३ मी० ५॥ सर्वे ० ९० ।। ८१५ ।। लाज! आ नो ददते सौख्यम् ॥ ८१६ - ८१९ ॥ "लाच लक्ष्मीर्लमम्बरे" इति विश्वशम्भु (श्लो० १०४ ) वचनात् ला- लक्ष्मीः । हे ज! - हे जेतृपुरुष ! आ इति सम्बोधने । नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं असौख्यं बा २ ददते । इदं भोगिनां योगिनां च वचनम् ॥ ४॥ सर्वे ० ॥ ८१९ ॥ १ 'ज - भा-नो !' इत्यर्थान्तरे । २ 'महेन्द्रे हो' इति पाठान्तरम् । ३'ला जा ! इत्यर्थान्तरे' । २० १५ Page #62 -------------------------------------------------------------------------- ________________ [ अर्थाः ८२०-९२७ ] श्रीसमयसुन्दरगणिकृता लाः जाः नो ददते सौख्यम् ॥ ८२०-८२९ ॥ "लंः स्याद् द्रुमशाखायां" इति कालिदासवचनात् लः-द्रुमशाखा तत्र अतन्तिसततं गच्छन्तीति ला:-कपयः हे जाः! नो-न सौख्यं १ असौख्यं वा २ ददते। एवं ले-अम्बरे अटन्तीति लाः-खेटाः । हे ज!-हे जेतृपुरुष! आः इति पादपूरणे । नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं वा २ ददते ॥४॥ एवं नः-अस्मभ्यं १ अस्माकं वा.२ ५ ईसौख्यं इसौख्यं २ वा अददत ॥ ४ ॥ सर्वे० ८॥ पूर्व १२ मीलने ॥२०॥ सर्वे० ८२९ ॥ लाः! ज-अनः ददते सौख्यम् ॥ ८३०-८४१॥ (हे) लाः!-हे इन्द्राः !१ हे खेटाः! २ (वा) जानां-जेतृपुरुषाणां अनः-शकटं जानः सौख्यं असौख्यं च ददते ॥ सर्वे० ४॥ एवं जायाः-जनन्या वा अनः-शकटं जानः सौख्यं १ असौख्यं २ च ददते । सम्वोधनपदद्वयं पूर्ववत् ॥८॥ पूर्व ४ मी० १२। सर्वे० ८४१॥१० ल-अजाः नो ददते सौख्यम् ॥ ८४२-८७७॥ अजन्ति-क्षिपन्तीति अजाः-क्षेपकाः, लस्य-इन्द्रस्य अजा:-क्षेपकाः लाजाः । ये केचन एवंविधाः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं २ वा ददते ॥ ४ ॥ अर्थयोजना स्वयं० । एवं लायाः-लक्ष्म्या अजा:-क्षेपकाः लाजाः-लक्ष्मीतिरस्कारकारिणः पुरुषाः नः-अस्माकं १ अस्मभ्यं २ वा सौख्यं १ असौख्यं २ वा ददते । अर्थयो । पूर्व १५ ४ मी० ८॥ एवं ले-आकाशे अजन्ति-गच्छन्तीति लाजाः-ग्रहाः नः-अस्मभ्यं० इत्यादि । पूर्ववत् ४ कार्याः । पूर्व ८ मी० १२ ॥ एवं लाः-द्रुमशाखाः तासु अजन्ति-गच्छन्तिएकस्याः शाखायाः सकाशात् अन्यस्यां शाखायां कुर्दनेन यान्तीति लाजाः-वानराः नःअस्मभ्यं० इत्यादि ४ कार्याः। पूर्व १२ मी०१६॥ एवं १६ अपि अर्थाः ईसौख्यं १ इसौख्यं वा २ अददत-अदुरित्यर्थः । इत्येवंरीत्या द्विगुणाः कार्या जाताः ॥३२॥ एवं 'ला आदाने' ३० (पा० धा १०५८) इत्युक्तत्वात् लाधातुः । हे जाः! नो-न असौख्यं सौख्यं २ वा ददते इति वैयाकरणानां अवैयाकरणानां च वचनं ॥२॥ एवं राधातुरपि २॥ ४ ॥ पूर्व ३२ मी० ३६ ॥ सर्वेऽपि सङ्कलिताः ॥ ८७७ ॥ ल-अज! अनः ददते सौख्यम् ॥ ८७८-९२७॥ लस्य-इन्द्रस्य अजः-क्षेपकः लाजः १; अथवा लायाः-लक्ष्म्याः अजः-क्षेपकः लाजः २५ २; एवं राजा-कामक्षेपकः ३; एवं राजः-हर्षक्षेपकः ४; रा-रमणी तस्याः अजः-क्षेपकः वा राजः ५, तत्सम्बोधने हे राज! ॥ ५ ॥ अनः-शकटं सौख्यं १ असौख्यं २ वा ददते । ममेति शेषः । अयमर्थः-यो हि कोऽपि इन्द्रमवगणयति तं प्रति कस्यचित् प्रियशकटस्य अप्रियशकटस्य या पुरुषस्योक्तिरियं जाताः ॥१०॥ एवं हे लाज! ५ व्युत्पत्त्यादि पूर्ववत् । , 'ज! भाः' इस्पान्तरेषु । २ 'राया' इति ग-पाठः । अर्थ.६ Page #63 -------------------------------------------------------------------------- ________________ ४२ अर्थरावली [अर्थाः ९२८-९६८ ] "नः पुनर्बन्धबुद्धयोः" इति (एकाक्षर०)वचनात् अन:-अबन्धः सौख्यं १ असौख्यं २ च ददते २ ॥१०॥ इमानि 'प्रियबन्धाऽप्रियवन्धयोर्वचनानि । पूर्व १० मी० २० ॥ (लाजाः! नो ददते सौख्यम् ) एवं हे लाजाः! ५ व्युत्पत्त्यादि पूर्ववत् । नो-बुद्धोऽवगततत्वः सौख्यं १ असौख्यं ५२ ददते । इमानि ज्ञानिमूर्खयोर्वचनानि २॥ १० ॥ पूर्व २० मी० ३०॥ (लाजाः! ना उ ददते सौख्यम् ) हे लाजाः! ५ उ इति आमन्त्रणे । ना-पुमान् सौख्यं १ असौख्यं २ च ददते । अर्थयोजना स्वयं कार्या ॥ १० ॥ पूर्व ३० मी० ४० ॥ (लाजाः! नो दद ! तेसौख्यम्) १० एवं लाजाः ! राजाः! वा ५ यूयं तेसौख्यं-लक्ष्मीकामसुखं नो-न दद ५ । एवं नो न दद ? अपि तु अदद्ध्वमित्यर्थः ॥ १०॥ पूर्व ४० मी० ५० ॥ सर्वे० ॥ ९२७ ॥ ल-अ-अजाः नो ददते सौख्यम् ॥ ९२८-९३३ ॥ "ल इन्द्रे चलने स्मृतः" इति तिलकानेकार्थवचनात् लेन-चलनेन गत्या अस्यवायोः अजा:-क्षेपकाःलाजाः 'विशेषणाद् विशेष्यप्रतीतेः' (इति न्यायात्) लाजा:-अश्वाः १५न:-अस्मभ्यं १ अस्माकं २ वा नो-न सौख्यं १ असौख्यं २ वा ददते । इदं प्रियाश्वानां तद्धिपरीतानां च पुरुषाणां वचनं ॥ ६ ॥ सर्वे० ॥ ९३३ ॥ ल-अ-आ जा! नो ददते सौख्यम् ॥९३४-९३५॥ ले-आकाशे अतन्ति-गच्छन्ति अटन्तीति वा लाः एवंविधाः आः-चन्द्राः लाजाः । हे जाः!-हे जेतारः! पुरुषाः! लाजाः नो-न सौख्यं ददते । इदं विरहिण्या वचनम् । २० एवं नो-न असौख्यं ददते । इदं संयोगिन्या वचनम् ॥ २॥ सर्वे० ॥ ९३५ ॥ राजा नो ददते अः सौख्यम् ॥ ९३६-९६८ ॥ अ-कृष्णः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं २ च ददते । किं० अः? 'राजा' स्वामी ॥४॥ एवं शिवश्वायुरब्रह्म३चन्द्र४अग्नि५वाचकेनाऽपि अशब्देन समं प्रत्येकं ४ अर्थाः कार्याः । यत्र स्वाम्यों न सम्भवति तत्र राजते शोभते इति २५ कर्तव्यम् । ततः पञ्चगुणिताः चत्वारो जाताः २० ॥ पूर्व ४ मी० २४ ॥ सर्वे० ॥९५६ ॥ एवं अर्हसिद्धरवाचकेनाऽपि अनिरुद्ध(३)वाचकेनाऽपि अशब्देन समं प्रत्येक चत्वारः चत्वारोऽर्थाः कार्याः । त्रिगुणिताः जाताः १२ ॥ सर्वे० ॥ ९६८ ॥ , 'प्रियवन्धाबन्धयोः' इति ग-ध-पाठः । २ नो-न ३ वा इति प्रतिभाति । - Page #64 -------------------------------------------------------------------------- ________________ ४३ [अर्थाः ९६९-१००४; १-१४० ] श्रीसमयसुन्दरगणिकृता राजा नः अदतत इ. सौख्यम् ॥ ९६९-९८९॥ इ:-कामः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं अददत-अदात् । किं० इ.? 'राजा' रञ्जयति कामिजनमनांसीति राजा । राजते वा राजा । एवं इ:-कामः नः-अस्माकं सौख्यं अददत ? अपि तु नेति काका व्याख्येयम् । आरक्तविरक्तयोर्वचनमेतत् ।एवं अस्यईश्वरस्य अपत्यं इ:-विनायकः १ एवं अस्य-वायोः अपत्यं इ:-हनुमान् पवनपुत्रत्वात् ५ तस्य २, एवं अस्य-चन्द्रस्य अपत्यं इ:-बुधः ३, एवं अस्य-अग्नेः अपत्यं इ:-अग्निपुत्रः ४ एवं अस्य-गरुडस्य अपत्यं इ:-गरुडपुत्रः ५, एवं अस्य अर्हतोऽपत्यं इ:-गणधरादि: ६ इत्यर्थवाचिनाऽपि इशब्देन समं प्रत्येकं त्रयः त्रयोऽर्थाः कार्याः । जाताः षड्भिर्गुणिताः १८ । पूर्व ३ मी० २१ । अर्ययोजना स्वयं कार्या । अत्र सर्वत्र विसर्गलोपः चित्रादित्वात् न दोषाय ॥ सर्वे० ॥९८९ ॥ राज! आ नः अददत ईः सौख्यम् ॥ ९९०-१००४ ॥ हे राज! हे लाज! वा । पूर्वोक्तार्थपञ्चकमध्ये कस्यापि सम्बोधनम् । आ इति सम्बोधने पादपूरणे वा । ईः-लक्ष्मीः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं अददतददते स्म । इदं तथाविधपुरुषं प्रति लक्ष्मीवाञ्छकानां वचनम् । एवं नः अस्माकं सौख्यं अददत ? अपि तु न इति काका व्याख्येयम् । अर्थाः ३ । एवं भूमिश्मदिरारमोह- १५ ३ महानन्द ४ वाचिनाऽपि ईशब्देन समं अर्थत्रयं २ कार्यम् । जाताः १२ ॥ पूर्व ३ मी० १५॥ सर्वे० १००४॥ . ॥ एँ श्रीसर्वज्ञाय नमः ॥ अध पुनः प्रकारान्तरेण खण्डनया अर्थानाह. राजा अ! नोदद! ते सौख्यम् ॥ १-१४० ॥ अटति भतति घा अः, कायति कामयते वा का, भातीति भं-नक्षत्रं इति 'क्वचित्' (सिद्ध० ५-१-१७१) सूत्रे बृहद्वृत्तिव्याख्यानात् अटति-अतति-सततं गच्छति संसारे इति अः-प्राणी अर्थात् कश्चिन्नरादिः तत्सम्वोधनं हे अअथास्यैवासाधारणविशेषणमाहहे नोदद ! नोदनं नोदः-प्रेरणं भो त्वमिदं कार्य कुर्वित्यादिरूपः तं ददातीति नोददः । 'असाधारणविशेषणात् विशेष्यप्रतीतेः' इति न्यायात् एवंविधः कोऽपि प्रेरणादायका पुरुष-२५ विशेषस्तत्सं० हे नोदद ! ते-तुभ्यं राजा-नृपतिः सौख्यं-सुखं, ददात्विति शेषः । इदमाशीर्वचनम् । अत्र सप्तसु अर्थेषु नोददशब्दः प्रेरणादायको ज्ञेयः। हे अ! नोदद ! तेत्वया सौख्यं दीयतामित्यर्थात् अर्थप्रकरणाद् वा गम्यम् । अत्र युष्मच्छब्दस्य तृतीयैकवचने ते इत्यादेशः । यदुक्तम् Page #65 -------------------------------------------------------------------------- ________________ ४४ अर्थरत्नावली "वैपरीत्य विधानेन, नियमो नेष्यते बुधैः । अतः सर्वविभक्तीनां भवन्ति वसूनसादयः ॥ " इत्यादि । तथा — “गेन्तव्या ते वसतिरलका नाम यक्षेश्वराणां " ( मेघदूते पू० श्लो० ७ ) इत्यादि महाकविश्रीकालिदास प्रयोगदर्शनाच्च । अथवा "ते मे त्वया मयाऽर्थे सातत्येsपि नित्य सहार्थयोरपि” इति अव्ययवृत्तिव्याख्यानात् ते इति त्वयाऽर्थे निपातः । एवमग्रेऽपि सदाऽनुसर्तव्यम् । किं० त्वया ? 'राजा' राजते इति राट्र तेन राजा २ । हे अ ! नोदद ! ते त्वया राजा सौख्यं नीयतामिति क्रियापदमर्धाक्षेपात् लभ्यम् । अत्र ' णीञ् प्रापणे' ( पा० धा० ९०१ ) इत्यस्य धातोर्द्विकर्मकत्वात् कर्मद्वयम् ॥ ३ ॥ हे अ ! नोदद ! ते - तव राजा सौख्यं ददात्विति शेषः । इदमप्याशीर्वचनम् ॥ ४ ॥ हे अनोदद ! ते-तव १० राजा - भवदीयो नृपः सौख्यं, दत्तामिति शेषः ॥ ५ ॥ हे अ ! नोदद ! ते तव राजा सौर्य वर्तते, सौख्यहेतुत्वात् सौख्यकारकत्वात् तदभेदकत्वेन सौख्यमेव, मुखचन्द्र इत्यादि कविशिष्यो(क्षो ?)दाहरणात् || ६ || हे अ ! नोदद ! ते तव राजा - भवदीयो नृपः सौख्यं साक्षात् सौख्यमेव, ममेति शेषः ॥ ७ ॥ एवं नञ्पूर्वेणापि प्रेरणादायकवाचिनोददैपदेन पूर्वविधिना सप्तार्थाः कार्याः । यथा - हे अ ! अनोदद ! - हे अप्रेरणादायक ! तें तुभ्यं राजा१५ नृपतिः सौख्यं-सुखं, ददातु इति शेषः । इत्यादि व्युत्पत्तिरर्ययोजना च स्वयं कार्या । सर्वे० ॥ १४ ॥ २० नोदनं नोदः - प्रेरणं तं दयते - पालयतीति नोददः - प्रेरणापालकः । अत्र हि केनापि कस्मैचित् प्रोक्तम्- भो महानुभाव ! सुपात्राय दानं देहीति प्रेरणा चक्रे । ततस्तेनापि परमहितोपदेशत्वात् तथैवाकारितरां तस्मात् सोऽपि नोदद इत्युच्यते तत्सं० हे नोदद ! अ इति अत्रापि विशेष्यसम्बोधनपदं कार्यम् । यथा - हे अ ! हे नोदद ! - प्रेरणापालक ! तेतुभ्यं राजा - नृपतिः सौख्यं ददात्वित्यादि दिग्मात्रेणापि प्रेरणापाल कवचिनोददपदेन केवलेन नञ्समासपूर्वेण च पूर्ववत् १४ अर्थाः कार्याः । सर्वे० ॥ २८ ॥ अत्र राजा अ ! अनोदद ! ते सौख्यं इत्यत्र पदमध्ये वारद्वयं “ सवर्णे दीर्घः सह " ( सारखते सू० ५२ ) इति सूत्रं स्मरणीयम् । एवमग्रेऽपि सर्वत्र ज्ञातव्यम् ॥ २८ ॥ १ इदं तु तृतीयं चरणं, सम्पूर्ण पद्यं तु यथा सन्तप्तानां वमसि शरणं तत् पयोद ! प्रियायाः सन्देशं मे हर धनपतिक्रोध विश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥७॥” २ 'स्वया गन्तव्येत्यर्थः' इति श्रीमल्लिनाथाः टीकायाम् । ३-४ 'वाचिना द५०' इति ग-ध-पाठः । Page #66 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरगणिकृता ४५ नोदं-प्रेरणं विवक्षितरूपं द्यति-खण्डयतीति सोऽपि नोददः-प्रेरणखण्डकः । केनापि कस्मैचिदुक्तं यदुत भो देवानुप्रिय ! यत्यादिभ्यो दानं देहीति । ततस्तेनारुचित. तदीयवचनेन न कृतं तस्मात् सोऽपि नोददः । ततः हे अ! हे नोदद ! ते-तुभ्यं राजा सौख्यं ददातु इत्यादि प्रकारेण पूर्ववदत्रापि १४ अर्थाः प्रेरणखण्डकवाचिनोददपदेन केवलेन नसमासपूर्वण च कार्याः । सर्वे० ॥ ४३(२१) ॥ नोदनं नोदः-प्रेरणं तेन तत्र दो-दानं यस्य यस्मात् यस्मिन् वा सोऽपि नोददः, यो हि स्वयमदाता सन् परप्रेरणया दानं ददाति सोऽपि नोदद इत्युच्यते । ततः हे अ! हे नोदद ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादिना प्रकारेणापि १४ अर्थाः प्रेरणादानवाचिनोददपदेन केवलेन नपूर्वेण च कार्याः । अर्थयोजनाऽपि स्वयं कार्या । अत्र दो दानवाचको ज्ञेयः । यदुक्तं श्रीविश्वशम्भुनाममालायां (श्लो० ६७) ___"दो दाने पूजने क्षीणे, दानशौण्डे च पालके । देवे दीप्तौ दुराधर्षे” इत्यादि । सुधाकलशोऽप्याह (श्लो० २४-२५) "दो दाने दायकेऽपि च । दाने दातरि दा केचित् विदुर्दा छेदवन्धयोः” इत्यादि । एवमग्रेऽपि यत्र कुत्रापि यदर्थवाचिनोदशब्दस्य कार्य स्यात् तत्र सर्वत्रापि एतस्मात् स्थलात् तदर्थवाची दशब्दोऽनुसर्तव्यः । सर्वे अर्थाः॥५६॥ नोदः-प्रेरणं तेन तस्मात् तस्मिन् वा दः-पूजनं यस्मात् यस्य यस्मिन् वा सोऽपि नोददः । यो हि परप्रेरणया गुर्वादीन् पूजयति (सोऽपि नोददः)। ततः हे नोदद! ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि पूर्ववदत्रापि १४ अर्थाः प्रेरणापूजनवाचिना २० नोददपदेन केवलेन नपूर्वेण च कार्याः । सर्वे० ॥ ७० ॥ नोदे-प्रेरणे दः-क्षीणोऽशक्तो नोददः, यो हि प्रेरणं कर्तुमतीवाशक्तो वृद्धावस्था प्राप्त इत्यर्थः, तत्सं० नोदद! । अ! ते-तुभ्यं राजा सौख्यं ददातु इत्यादिना पुनरपि १४ अर्थाः प्रेरणक्षीणवाचिना नोददपदेन केवलेन नपूर्वेण च कायोः । सर्वे० ॥ ८४ ॥ नोदः-प्रेरणं तेन तस्माद् वा दो-दानशौण्डः, यो हि स्वयं कीकटः सन् परप्रेरणया २५ दानशौण्डो भवति सोऽपि नोदद इत्युच्यते, तत्सं० हे नोदद! अ!-प्राणिन् ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि १४ अर्थाः प्रेरणादानशौण्डवाचिनोददपदेन केवलेन नपूर्वेण च कार्याः । सर्वे० ॥ ९८॥ नोदः-प्रेरणं तेन तस्माद् वा दः-पालकः,' यः सोऽपि नोददः । यो हि स्वयं परमपालयन् त्वममुं प्रतिपालयेति परप्रेरणया परं पालयति सोऽपि नोदद इत्युच्यते, ततस्तत्सं०३० दरिद्रः । उक्तं च अभि० (का० ३, श्लो० २२)-दरिद्री दुर्विधो दुःस्थो दुर्गतो निःस्व-कीरूटी। Page #67 -------------------------------------------------------------------------- ________________ अर्थरत्नावली [ अर्थाः १४१-६२३ ] नोद ! अ ! - प्राणिन् ! इत्यादि विधिना १४ अर्थाः प्रेरणापालकवाचिना नोददपदेन के० नपू० कार्याः । सर्वे० ॥ ११२ ॥ नोदे - प्रेरणे दो- देवो यस्य सोऽपि नोददः । यस्य हि देवोऽपि कार्यावसरे त्वमेवं कुर्विति प्रेरणं करोति एवंविधो यः कोऽपि, अथवा नोदे-प्रेरणे द इव-देव इव यः सः ] ५ यो हि देववत् प्रेरणां विधत्ते तत्सं० हे नोदद ! अ ! - प्राणिन् ! इत्याद्यर्थाः १४ पूर्ववदत्रापि एतदर्थद्वयवाचिना नोददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ १२६ ॥ ( नोदः - प्रेरणं तेन तस्मिन् वा दो- दीप्तिर्यस्य सोऽपि नोददः । यो हि परप्रेरणया दीप्तिमानित्यर्थः । तत्सं० हे नोदद ! अ ! - प्राणिन् ! इत्यादि १४ अर्थाः । पुनरपि प्रेरणदीप्तिवाचिना नोददपदेन के० नञ्पू० कार्याः । सर्वे ० ॥ १४० ॥ ) अथ पुनः प्रकारान्तरेण अर्थानाह राजा अ ! अनोदद ! ते सौख्यम् * ॥ १४१-६२३ ॥ १० ४६ अनः शकटं ददातीति अनोदः - शकटदाता तं अनोदं शकटदातारं प्रति ददातीति अर्धाक्षेपात् मूल्यं यच्छतीति अनोदद इत्युच्यते । अत्र हि केनचित् शकटार्थिना प्रोक्तं यदुत भो लोकाः ! यो मह्यं शकटं ददाति तस्मै अहं मूल्यं यथायोग्यं दद्मि । ततः केनापि १५ तस्मै शकटं दत्तं ततस्तेनापि तस्य मूल्यं दत्तम्, तस्मात् सोऽनोदद इत्युच्यते, तत्सं० हे अनोदद ! अ !- प्राणिन् ! ते तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि ७ अर्थाः शकटदातृदायकवाचिना अनोददपदेन कार्याः । सर्वे० ॥ १४७ ॥ अनः - शकटं ददातीति अनोदः, तमपि दयते - पालयतीति अनोददः । अत्रापि केनचित् पथिश्रान्तेन प्रोक्तम्- यो हि मम श्रान्तस्य निषीदनाय शकटं ददाति तमहं याव२० उज्जीवं पालयामि । यावदहं अयं चाजीवावस्तावदेनं धनधान्यद्रव्याद्यवष्टम्भदानेन निर्वाहयामि । ततः केनापि दत्तमनः तस्य ततस्तेनापि स पालितः, तस्मात् सोऽनोदद उच्यते तत्सं० हे अनोदद ! अ ! - प्राणिन् ! ते तुभ्यं राजा सौख्यं ददातु इत्यादि ७ अर्थाः शकट (दाट) पालकवा चिना अनोददपदेन कार्याः ॥ १५४ ॥ अनः शकटं ददातीति अनोदः - शकटदाता, तमप्यनोदं द्यति-खण्डयतीति अनो२५ ददः । अत्र हि केनापि कारणेन केनापि राज्ञा इति मर्यादा कृता यदुत यः कोऽपि कस्मैचिदपि शकटं दास्यति तमहं हनिष्यामि, ततोऽवगणिततद्वचनेन केनापि शकटं कस्मैचिद् दत्तं, ततो जातप्रबलकोपेन तेन स मारितः, तस्मात् सोऽप्यनोदद इत्युच्यते, तत्सं० हे अनोदद ! हे अ ! - प्राणिन् ! ते तुभ्यं राजा - नृपतिः सौख्यं ददातु इत्यादि अर्थाः ७ शकटदातृमारकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ १६१ ॥ १ '१४०' इति ख- पाठः । २ धनुश्चिह्नान्तर्गतः पाठः ख प्रतौ नास्ति । ३ 'अत्रापि' इति पाठः । ४ 'पालयते' इत्यधिकः ख- पाठः । Page #68 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरगणिकृता अनः - शकटं दयते - पालयति इति अनोदः - शकटपालकः, तं प्रति अर्थाक्षेपात् द्रव्यादि ददातीति अनोददः । अत्रापि मर्यादा कृता-यो मम शकटं पालयति - रक्षति तस्याहं धनादिकं दद्मि । ततः केनापि शकटं पालितं, ततस्तेनापि तस्य धनादि दत्तं, तत् सोऽप्यनोदद उच्यते, तत्सं० हे अनोदद ! | हे अ ! हे प्राणिन् ! ते तुभ्यं इत्यादि ७ अर्थाः । सर्वे ० ॥ १६८ ॥ अनः- शकटं पालयतीति अर्थसामर्थ्याद् धातूनामनेकार्थत्वाद् वा बलाद् रक्षतीति अनोदः, तमपि द्यति - खण्डयति यः सोऽप्यनोददः । अत्र हि केनापि कस्यापि मन्दिरायां निजशकटं रक्षणाय मुक्तमासीत्, ततः कियत्कालान्तरेण शकटस्वामिना तत्पार्श्वाच्छकटं याचितं, ततस्तेन जातलोभेन रक्षितं, न तु दत्तम्, ततस्तेन रुष्टेन स मारितः, तस्मात् सोऽप्यनोदद उच्यते, तत्सं० हे अनोदद ! । हे अ ! - प्राणिन् ! इत्यादि ७ अर्थाः शकटर- १० क्षकमारकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ १७५ ॥ 1 ४७ अनः - शकटं द्यति - खण्डयति इति अनोदः, तमपि दयते - पालयतीति अनोददः । अत्रापि केनापि केलिप्रियेण प्रोक्तम्- भो बलिष्ठ ! यद्येतत् शकटं निजवलेन भङ्गि (भनक्षि ? ) तदाऽहं यावज्जीवं पूर्वोक्तप्रकारेण त्वां पालयामि, ततस्तेन शकटं भग्नं, ततस्तेनापि स पालितः, तस्मात् सोऽप्यनोदद उच्यते तत्सं० इत्यादि ७ अर्थाः शकटखण्डकपालकवा- १५ चिना अनोददपदेन केवलेन कार्याः । सर्वे ० ॥ १८२ ॥ अनः- शकटं द्यति - खण्डयति इति अनोदः - शकटखण्डकः, तमपि द्यति - खण्डय - तीति अनोददः । अत्रापि केनापि शकटप्रियेण निजद्वेषिणं प्रत्युक्तम् - यदि त्वं शकटं भक्ष्यसि तदाऽहं त्वामपि हनिष्यामि । ततस्तेन चटितप्रबलप्रकोपेन तच्छकटं भग्नम् । ततस्तेनापि स मारितः, तत्सं० हे अनोदद! | अ ! - प्राणिन् ! ते - तुभ्यं राजा - नृपतिः २० सौख्यं ददातु इत्यादि ७ अर्थाः शकटभञ्जकमारकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे ० ॥ १८९ ॥ २५ अनः - शकटं ददातीति अनोदः, तस्मै दो- दानं यस्य सोऽप्यनोददः, तत्सं० है अनोदद ! । हे अ !- प्राणिन् ! ते-तुभ्यं राजा सौख्यं ददातु इत्यादि ७ पूर्ववत् कार्याः । अर्थयोजनादिकमपि स्वयं कार्यम् । सर्वे० ॥ १९६ ॥ अनोदः - शकटदायकः, तस्य तस्मै वा दः -पूजनं यस्य सोऽप्यनोदद इत्युच्यते, तत्सं॰ हे अनोदद ! इत्यादि ७ अर्थाः पूर्ववत् कार्याः । सर्वे० ॥ २०३ ॥ अनोदः - शकटदायकः स चासौ दः- क्षीणश्च अनोददः तत्सं० हे अनोदद ! हे अ ! - प्राणिन् ! इत्यादि अर्थाः पूर्ववत् कार्याः । सर्वे० ॥ २१० ॥ ५ ७ १ 'मन्दिरे' इति ख- पाठः । २ 'मन्दिरं मन्दिरा कुटि:' इति श्रीशब्दरत्नाकरे (का० ४, श्लो० ३४ ) ( ३ 'पश्चात्' इति गध-पाठः । Page #69 -------------------------------------------------------------------------- ________________ ४८ अर्थरत्नावली अनोदः-शकटदायकः स चासौ दो-दानशौण्डश्च अनोददः, तत्सं० हे अनोदद!। हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः पूर्ववत् कार्याः । सर्वे० ॥ २१७ ॥ अनोदः-शकटदायकः, स चासौ दः-पालकश्च अनोददः, तत्सं० हे अनोदद! हे अ!-हे प्राणिन् ! इत्यादि ७ अर्थाः शकटदायकपालकवाचिना अनोददपदेन केवलेन ५कार्याः । सर्वे० ॥ २२४ ॥ अनोदः-शकटदायकः, तद्वत् दो-दीप्तिर्यस्य सोऽप्यनोददः, तत्सं० हे अनोदद! हे अ!-हे प्राणिन् ! इत्यादि ७ अर्थाः शकटदायकदीप्तिवाचिना भनोददपदेन केवलेन कार्याः । सर्वे० ॥ २३१॥ अनः-शकटं दयते-पालयतीति अनोदः, तस्मै दो-दानं यस्य सोऽप्यनोददः, १० तत्सं० हे अनोदद ! हे अ!-प्राणिन् ! ते-तुभ्यं राजा सौख्यं ददातु इत्यादि ७ अर्थाः शकटपालकदानवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ २३८ ॥ अनोदाय-शकटपालकाय दः-पूजनं यस्य सोऽप्यनोददः, तत्सं० हे अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः शकटपालकपूजनवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ २४५॥ १५ अनोदः-शकटपालकः, स चासौ दः-क्षीणश्च अनोददः, तत्सं० हे अनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः शकटपालकक्षीणवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ २५२ ॥ अनोदः-शकटपालकः, स चासौ दो-दानशौण्डोऽनोददः, तत्सं० हे अनोदद ! हे . अ!-प्राणिन् ! इत्यादि ७ अर्थाः शकटपालकदानशाण्डवाचिना अनोददपदेन केवलेन २० कार्याः । सर्वे० ॥ २५९ ॥ अनोदः-शकटपालक एवंविधः कोऽपि, तद्वद् दो-दीप्तिर्यस्य सोऽप्यनोददस्तत्सं० हे अनोदद! इत्यादि ७ अर्थाः शकटपालकदीप्तिवाचिना अनोददपदेन केवलेन कार्याः । सर्वे ॥२६६ ॥ . अनोदः-शकटखण्डकः, तस्मै दो-दानं यस्य सोऽप्यनोददस्तत्सं० इत्यादि ७ अर्थाः २५ शकटखण्डकदानवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ २७३ ॥ __ अनोदः-शकटखण्डकः तस्मै तस्य तस्मात् तस्मिन् वा दः-पूजनं यस्य सोऽप्यनोददस्तत्सं० हे अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः शकटखण्डकपूजनवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ २८० ॥ अनोदः-शकटखण्डकः, स चासौ दः-क्षीणः अनोददः, तत्सं० हे अनोदद! इत्यादि ३०७ अर्थाः शकटखण्डकक्षीणवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ २८७ ।। Page #70 -------------------------------------------------------------------------- ________________ ४९ श्रीसमयसुन्दरगणिकृता अनोदः-शकटखण्डकः स चासो दः-पालकः अथवा तस्य दः-पालकः, तत्सं० हे अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः शकटखण्डकपालकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ २९४ ॥ ___अनोदः-शकटखण्डकः कोऽप्येवंविधो वलिष्ठः, तद्वद् दो-दीप्तिर्यस्य सोऽप्यनोददः, तत्सं० इत्यादि ७ अर्थाः शकटखण्डकदीप्तिवा० कार्याः । सर्वे० ॥ ३०१॥ अथ पुनः प्रकारान्तरेण अर्थानाह अनः-शकटं अर्थात् शकटरूपं दैत्यं (तं) द्यति-खण्डयति इति अनोदो-नारायणः। एवं अग्रेऽपि नारायणवाचि अनोदशब्दस्य व्युत्पत्तिः कार्या । तं दयते-पालयतीति अनोददः अर्थान्नन्दगोकुली । तेन हि वाल्यावस्थायां हरिः पालितो-निजगृहे रक्षितः पुत्रवदिति श्रुतिः। सम्बन्धस्तु शास्त्रान्तरादवसेयः। तत्सम्बोधनं हे अनोदद ! हे अ!-प्राणिन् ! ते- १० तुभ्यं राजा सौख्यं ददातु इत्यादि ७ अर्थाः नन्दगोकुलिवाचिनाऽनोददपदेन केवलेन कार्याः । अत्र 'अ' इति विशेष्यं(?) पूर्ववद् गण्यम् । ततः तेआदेशस्यावैषम्यम् । सर्वे० ॥३०८॥ अनोदवत्-नारायणवत् दो-दानं यस्य सोऽप्यनोददस्तत्सं० हे अनोदद ! इत्यादि ७ अर्थाः नारायणदानवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३१५ ॥ अनोदो-नारायणस्तस्य तस्मिन् वा दः-पूजनं यस्य सोऽप्यनोददः, तत्सं० हे १५ अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः नारायणपूजनवाचिना अनोददपदेन के. कार्याः सर्वे० ॥ ३२२ ॥ __ अनोदवत्-नारायणवत् दो-दानशौण्डो यः सोऽप्यनोददः, तत्सं० इत्यादि ७ अर्थाः नारायणदानशौण्डवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३२९ ॥ अनोद एव-नारायण एव दो-देवो यस्य सोऽप्यनोददः, तत्सं हे अनोदद ! २० इत्यादि ७ अर्थाः नारायणदेववाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३३६ ॥ अनोदवत्-नारायणवत् दो-दीप्तिर्यस्य सोऽप्यनोददः, तत्सं० हे अनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः नारायणदीप्तिवाचिना अनोददपदेन के० कार्याः। सर्वे० ॥ ३४३ ॥ अनोदवत्-नारायण इव ददाति अर्थाद् दानं यच्छतीति अनोददः, एवंविधः २५ कोऽपि दाता, तत्सं० इत्यादि ७ अर्थाः नारायणसमदायकवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३५० ॥ अनोदो-नारायणस्तद्वद् दयते अर्थाद् दयावत्त्वेन परप्राणान् रक्षतीति अनोददः, तत्सं० हे अनोदद! इत्यादि ७ अर्थाः नारायणपालकवाचिना अनोददपदेन के० कायोः । सर्वे० ॥ ३५७ ॥ १ अर्थदानं' इति ख-पाठः। अर्ष.. Page #71 -------------------------------------------------------------------------- ________________ अर्थरनावली अनोदो-नारायणस्तद्वत् यति अर्थादरीन् खण्डयतीति सोऽप्यनोददः, तत्सं० हे अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः पूर्ववत् कार्याः । सर्वे० ॥ ३६४ ॥ पुनः प्रकारान्तरेण अर्थानाह- . अ-कृष्णः तन्नोद-प्रेरणं ददातीति अनोददः, तत्सं० हे अनोदद! हे अ!-प्रा५णिन् ! इत्यादि ७ अर्थाः कृष्णप्रेरणदायकवाचिना अनोददपदेन केवलेन कार्याः । एवमग्रेऽपि अनोददशब्दस्य यथासम्भवं व्युत्पत्तिः कार्या । सर्वे० ॥ ३७१ ॥ ___ अ-कृष्णस्तद्वन्नोदं अर्थात् परकृततिरस्काररूपं प्रेरणं द्यति-खण्डयतीति अनोददः तत्सं० हे अनोदद ! इत्यादि ७ अर्थाः कृष्णप्रेरणखण्डकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ ३७८ ॥ १० अ-कृष्णः तद्वन्नोदं अर्थात् प्रेरणं अर्हत्प्रणीतधर्मोद्यमरूपं दयते-पालयतीति अनोददः तत्सं० हे अनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः कृष्णप्रेरणपालकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ ३८५ ॥ ___अनोदो-हरिप्रेरणं भो त्वमिदं कार्य कुर्वित्यादिरूपः, तं ददातीति अनोददः तत्सं० हे अनोदद ! इत्यादि ७ अर्थाः हरिप्रेरणदायकवाचिना अनोददपदेन के० १५ कार्याः । सर्वे० ॥ ३९२ ॥ __ अनोदं-हरिप्रेरणं दयते-पालय[तीति यः सोऽप्यनोददः, तत्सं० हे अनोदद! इत्यादि ७ अर्थाः हरिप्रेरणपालकवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३९९ ॥ अनोदं-हरिप्रेरणं द्यति-खण्डय[ती]ति यः सोऽप्यनोददः, हाज्ञाखण्डकः कश्चिदित्यर्थः, तत्सं० हे अनोदद ! इत्यादि ७ अर्थाः _ज्ञाखण्डकवाचिना अनोददपदेन के० २० कार्याः । सर्वे० ॥ ४०६ ॥ ___ अनोदेन-हरिप्रेरणेन दो-दानं यस्य सोऽप्यनोददः । यो हि स्वयं दानमददत् हरिप्रेरणया ददातीति ततस्तत्सं० हे अनोदद! इत्यादि ७ अर्थाः हरिप्रेरणदानवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ४१३ ॥ अनोदो-हरिप्रेरणं तेन दः-पूजनं त्वमिमं पूजयेति पूजास्वरूपं यस्य सोऽनोददः। २५ यो हि स्वयं गुर्वादीनपूजयन्नपि हरिप्रेरणया पूजयतीति तत्सं० हे अनोदद! इत्यादि ७ अर्थाः हरिप्रेरणपूजनवाचिना अनोददपदेन के० कार्याः । सर्वे०॥ ४२०॥ अनोदं-हरिप्रेरणं तत्र दः-क्षीणः अर्थात् तत्कर्तुमक्षमः, तत्सं० हे अनोदद! इत्यादि ७ अर्थाः हरिप्रेरणक्षीणवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ४२७ ॥ __ अनोदो-हरिप्रेरणं तेन दो-दानशौण्डो यः सोऽप्यनोददः । यो हि स्वयम३० दाता सन् हरिप्रेरणया दानशौण्डो भवति तत्सं० हे अनोदद ! इत्यादि ७ अर्थाः हरिप्रेरणदानशौण्डवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ४३४ ॥ , 'रणेन यो ददा०' इतिख-पाठः। २ 'पूजारूपं' इति ग-ध-पाठः । Page #72 -------------------------------------------------------------------------- ________________ [ अर्थाः ६२४-७५६ ] श्रीसमयसुन्दरगणिकृता अनोदो-हरिप्रेरणं तस्य दः-पालको यः सोऽप्यनोददः, तत्सं० हे अनोदद ! इत्यादि ७ अर्थाः हरिप्रेरणपालकवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ४४१ ॥ अनोदो-हरिप्रेरणं तेन दो-दीप्तिर्यस्य सोऽप्यनोददः, तत्सं० हे अनोदद ! इत्यादि ७ अर्थाः हरिप्रेरणदीप्तिवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ४४८॥ ___एवं “अः शिवे केशवे वायौ” (विश्व० श्लो०५) इत्याधुक्तत्वात् यथा विष्णुयाचिना ५ अशब्देन समं पूर्व ३६४(५१) अर्थेभ्य आरभ्य ४४८ अर्थान् यावत् ये ८४ अर्थाः कृतास्तथा शिवावाचिना अशब्देनापि ८४ अर्थाः कार्याः । यथा अः-शिवस्तद्वन्नोद-प्रेरण-ददातीति अनोददः, तत्सं० हे अनो० हे अ!-हे प्राणिन् ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादिविधिना ८४ अर्थाः पूर्ववत् कार्याः । अर्थयोजनाऽपि स्वयं कार्या । सर्वे०॥५३२॥ एवं अर्हद्वाचिनाऽपि अशब्देन समं पूर्ववत् ८४ अर्थाः कार्याः । अ:-अहेन् १० तद्वन्नोद-प्रेरणं धर्मोपदेशरूपं लोकानां ददातीति अनोददः-अम्बडादिः, तत्सं० हे अनोदद ! हे अ!-हे प्राणिन् ! ते-तुभ्यं राजा सौख्यं ददातु इत्यादि० सर्वे० ॥ ६१६ ॥ अ-विधिः तस्मै तस्य तत्र वा नोदं-प्रेरणं ददाति सोऽप्यनोददः, एवंविधः कोऽपि । अर्थयोजना स्वयं कार्या तत्सं० हे अनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः विधिप्रेरणदायकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ ६२३ ॥ राजा अ! आ-नोद-द! ते सौख्यम् ॥ ६२४-७५६ ॥ आ-विधिस्तद्वन्नोद-प्रेरणं ददातीति सोऽप्यानोददः तत्सं० हे आनोदद ! हे अ!-- प्राणिन् ! ले-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि ७ अर्थाः विधिप्रेरणदायकवाचिना आनोददपदेन केवलेन कार्याः । सर्वे० ॥ ६३० ॥ आवत् नोदं-परकृतं प्रेरणं द्यति-खण्डयति सोऽप्यानोददः तत्सं० इत्यादि ७२० अर्थाः विधिसमप्रेरणखण्डकवाचिना आनोददपदेन के० कार्याः । सर्वे० ॥ ६३७ ॥ ___ आनोदं-विधिप्रेरणं दयते-पालयतीति सोऽप्यानोददः तत्सं० इत्यादि ७ अर्थाः विधिप्रेरणपालकवाचिना आनोददपदेन के० कार्याः । सर्वे० ॥ ६४४ ॥ आनोदं-विधिप्रेरणं द्यति-खण्डयति सोऽप्यानोददः, विध्याज्ञाविराधक इत्यर्थी, तत्सं० हे आनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः विधिप्रेरणविराधकवाचिना २५ आनोददपदेन के० कार्याः । सर्वे० ॥ ६५१॥ आनोदो-विधिप्रेरणं तेन तस्माद् वा दो-दानं यस्य सोऽप्यानोददः, यो हि स्वयमदाता सन् विधिप्रेरणया ददातीति तत्सं० हे आनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः विधिप्रेरणदानवाचिना आनोददपदेन के० कार्याः । सर्वे० ॥ ६५८ ॥ आनोदो-विधिप्रेरणं तेन तस्माद् वा दः-पूजनं यस्य सोऽप्यानोददः, तत्सं० हे ३० १ भाचिना' इत्यधिक. ख-पाठश्चिन्तनीयः। Page #73 -------------------------------------------------------------------------- ________________ ५२ अर्थरत्नावली [अर्थाः ७५७-२१४७५ ] आनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः विधिप्रेरणपूजनवाचिना आनोददपदेन के० कार्याः । सर्वे० ॥ ६६५ ॥ __ आनोदो-विधिप्रेरणं तेन दो-दानशौण्डो यः सोऽप्यानोददः तत्सं० इत्यादि ७ अर्थाः विधिप्रेरणदानशौण्डवाचिना आनोददपदेन के० कार्याः । सर्वे० ॥ ६७२ ॥ ५ आनोदस्य-विधिप्रेरणस्य दः-पालकः सोऽप्यानोददः तत्सं० इत्यादि ७ अर्थाः विधिप्रेरणपालकवाचिना आनोददपदेन केवलेन कार्याः । सर्वे० ॥ ६७९ ॥ ___ आनोदो-विधिप्रेरणं तेन दो-दीप्तिर्यस्य सोऽप्यानोददः तत्सं० इत्यादि ७ अर्थाः विधिप्रेरणदीप्तिवाचिना आनोददपदेन के० कार्याः । सर्वे० ॥ ६८६॥ एवं आचार्यवाचिना आशब्देनापि समं ब्रह्मवाचिआशब्दवत् ७० अर्थाः कार्याः । १० आ-आचार्यस्तद्वन्नोदं-प्रेरणं धर्मोपदेशरूपं ददातीति आनोददः, तत्सं० हे आनोदद ! हे __ अ!-प्राणिन् ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि । सर्वे० ॥ ७५६ ॥ अथ पुनः प्रकारान्तरेण अर्थानाह राजा अ! अनोदद ! ते सौख्यम् ॥ ७५७-२१४७५॥ नोदनं नोदः-प्रेरणं, न नोदः अनोदः, तेन अनोदेन ददातीति अनोददः । यो १५ हि प्रेरणमन्तरेण स्वयमेव दानादि ददातीति तत्सं० हे अनोदद ! हे अ!-प्राणिन् ! ते तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि ७ अर्थाः पूर्ववदत्रापि अप्रेरणदायकवाचिना अनोददशब्देन केवलेन कार्याः । सर्वे० ॥ ७६३ ॥ एवं अनोदेन-प्रेरणमन्तरेण दयते-परान् पालयतीति सोऽप्यनोददः, तत्सं० हे अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः अप्रेरणपालकवाचिना अनोददपदेन २० केवलेन कार्याः । सर्वे० ॥ ७७० ॥ ___ अनोदेन-प्रेरणाभावेन द्यति-शत्रून् खण्डयतीति अनोददः तत्सं० इत्यादि ७ अर्थाः अप्रेरणखण्डकवाचिना अनोदपदेन के० कार्याः सर्वे० ॥७७७ ॥ अनोदेन-प्रेरणाभावेन दो-दानं यस्य सोऽप्यनोददः तत्सं० इत्यादि ७ अर्थाः अप्रेरणदानवाचिना अनोददपदेन के० कार्याः । सर्वे० ।। ७८४ ॥ २५ अनोदेन-प्रेरणमन्तरेण दः-पूजनं यस्य सोऽप्यनोददः तत्सं० इत्यादि ७ अर्थाः अप्रेरणपूजनवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ ७९१ ।। ने विद्यते नोदः-प्रेरणं यस्य यस्मिन् वा सोऽप्यनोदः, स चासौ दः-क्षीणश्च अनोददः तत्सं० इत्यादि ७ अर्थाः अप्रेरणक्षीणवाचिना अनोददपदेन केवलेन कार्याः सर्वे० ॥ ७९८ ॥ ३. अनोदेन-प्रेरणमन्तरेण दो-दानशौण्डो यः सोऽप्यनोददः इत्यादि ७ अर्थाः अप्रेरण० कार्याः । सर्वे० ॥ ८०५॥ Page #74 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरगणिकृता ५३ अनोदः-प्रेरणाभावस्तेन दः-पालकः अनोददः, तत्सं० हे अनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः प्रेरणाभावपालकवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ८१२ ॥ अनोदः-प्रेरणारहितः स चासौ दः-पालकः अनोददः तत्सं० इत्यादि ७ अर्थाः प्रेरणारहितपालकवाचिना अनोददपदेन के० कार्याः ॥ ८१९ ॥ अनोदे-अप्रेरणे दो-दीप्तिर्यस्य सोऽप्यनोददः तत्सं० इत्यादि ७ अर्थाः अप्रेरण-५ दीप्तिवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ८२६ ॥ पुनः प्रकारान्तरेण अर्थानाह (राजा अ! आ-नोद-द! ते सौख्यम् ।) आ-सामस्त्येन नोदे नोदेन नोदनात् या दो-दानं यस्य सोऽप्यानोददः तत्सं० हे आनोदद ! हे अ!-प्राणिन् ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि ७ अर्थाः १० कार्याः। अर्थयोजनाऽपि सर्वत्र स्वयमेव कार्या । सर्वे० ॥ ८३३ ॥ आ-सामस्त्येन नोदात् नोदे वा दः-पूजनं यस्य सोऽप्यानोददः तत्सं० इत्यादि ७ अर्थाः कार्याः । सर्वे० ॥ ८४० ॥ ____ आ-सामस्त्येन नोदे-प्रेरणे दः-क्षीणः आनोददः तत्सं० इत्यादि ७ अर्थाः कार्याः। सर्वे० ॥ ८४७॥ १५ आ-सामस्त्येन नोदे-प्रेरणे दो-दानशौण्डो यः सोऽप्यानोददः तत्सं० इत्यादि ७ अर्थाः कार्याः । सर्वे०॥ ८५४ ॥ आ-सामस्त्येन नोदे-प्रेरणे दो-देव इव यः सोऽप्यानोददः तत्सं० इत्यादि ७ अर्थाः कार्याः । सर्वे० ॥ ८६१ ॥ ___ आ-सामस्त्येन नोदे नोदेन वा दो-दीप्तिर्यस्य सोऽप्यानोददः तत्सं० इत्यादि ७२० अर्थाः कार्याः । सर्वे० ॥ ८६८ ॥ पुनः प्रकारान्तरेण अर्थानाह(अनोदं) अप्रेरणं-प्रेरणारहितं दं-कलत्रं यस्य सोऽप्यनोददः तत्सं० हे अनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः कार्याः । सर्वे० ॥ ८७५ ॥ एते अर्थाः नोदद-अनोदद-आनोददपदैर्नानार्थवाचकैर्जाताः॥ ___ अथ ददाददपदाभ्यामथानाह (राजानः अ! दद! ते सौख्यम् ।) दं-दानं ददातीति ददो-दाता तत्सं० हे दद! हे अ!-प्राणिन् ! राजानो-नृपाः से-तब सौख्यं ददतामिति शेषः इत्याशीर्वचनम् । एवमग्रेऽपि सर्वत्र यथाऽवसरं : ददपदस्य व्युत्पत्तिः कार्या । अर्थयोजना स्वयं कार्या ॥१॥ हे दद! हे अ!-प्राणिन् ! ३० . १ 'नोदेन नोदात्' इति क-पाठः ग-घ-पाठस्तु 'नोदनात् नोदेन वा । Page #75 -------------------------------------------------------------------------- ________________ अर्थरत्नावली ते-तुभ्यं राजानो-नृपाः सौख्यं ददतामिति वन्धुवचनम् ॥ २॥ हे दद ! हे अ!-प्राणिन् ! ते-त्वया राजानो नृपाः सौख्यं नीयन्तां इति क्रियापदमाक्षेपात् सर्वत्र ग्राह्यम् । समर्थनयुक्तिः पूर्वोक्ता स्मरणीया ॥ ३ ॥ हे दद! हे अ!-प्राणिन् ! ते-तव राजानो-भवदीयनृपाः सौख्यं ददतामिति शेषः ॥ ४ ॥ हे दद! हे अ!-प्राणिन् ! ते राजानो-नृपाः ५ सौख्यं प्राप्नुवन्तु इत्यप्याशीर्वचनम् ॥ ५ ॥ (राजा नः अ! दद! ते सौख्यम् ।) हे दद ! हे अ!-प्राणिन् ! नः-अस्माभिर्हेतुभूतैः राजा ते-तव सौख्यं ददातु ॥६॥ हे दद ! हे अ!-प्राणिन् ! ते-तव राजा-त्वदीयो नृपः सौख्यं प्राप्नोतु इत्यप्या शीर्वचनम् । कैः कृत्वा ? नः-अस्माभिः सेवकभूतैरिति गम्यम् ॥ ७ ॥ हे दद! ते-तव १० राजा नः-अस्मभ्यं सौख्यं ददातु ॥ ८॥ हे दद ! हे अ!-प्राणिन् ! ते-त्वया नः-वयं सौख्यं नीयामहे । किं० (त्वया)? 'राजा' नृपेण । व्युत्पत्तिः पूर्ववत् कार्या ॥९॥ हे दद! हे अ!-प्राणिन् ! ते-तव राजा नः-अस्मत् सौख्यं प्राप्नोतु ॥१०॥ हे दद! हे अ!-प्राणिन् ! ते-तव राजा नः-अस्माकं सौख्यं करोत्विति शेपः ॥ ११॥ हे दद ! हे अ!-प्राणिन् ! ते-त्वया न:-अस्माकं सौख्यं दातव्यमिति शेषः । किं० त्वया? 'राजा' नृपेण ॥ १२ ॥ १५ हे दद ! हे अ!-प्राणिन् ! ते-त्वया नः-अस्माकं सौख्यं कर्तव्यम् । किं० त्वया? 'राजा' नृपेण ॥ १३ ॥ हे दद ! हे अ!-प्राणिन् ! ते-त्वया नः-अस्मत् सौख्यं प्राप्यताम् । किं० त्वया ? 'राजा' नृपेण ॥ १४ ॥ हे दद ! हे अ!-प्राणिन् ! ते-तुभ्यं राजा सौख्यं ददातु किं० राजा ? 'नः' बुद्धः । व्युत्पत्त्यादि सर्व पूर्ववत् । “नः पुनर्बन्धबुद्धयोः" इत्येकाक्षरनाममाला ॥१॥ हे दद ! २० ते-तव राजा सौख्यं ददातु । किं० राजा? 'नः' अवगततत्त्वः ॥ २॥' हे दद ! हे अ! प्राणिन् ! ते-तव राजा-त्वदीयनृपः सौख्यं ददातु । किं० राजा ? 'नो' बुद्धः ॥ ४ ॥ एवं नञ्समासपूर्वेणापि अनशब्देनार्थचतुष्टयं पूर्ववत् कार्यम् । यथा-हे दद ! ते-तुभ्यं राजा सौख्यं ददातु । किं० राजा 'अनः' अवुद्धः-अनवगततत्त्वः, मूर्ख इति यावत् । अर्थयो जनादिकमपि सर्व स्वयं कार्यम् ॥४॥ सर्वे पूर्वोक्तमीलने ॥२२॥ हे दद! हे अ!-प्राणिन् ! २५ ते-तुभ्यं राजा सौख्यं ददातु । किं० राजा? 'अनः' वन्धनरहितः । एवं पूर्ववदत्रापि ४ अर्थाः कार्याः॥४॥ जाताः ॥ २६ ॥ हे दद ! हे अ!-प्राणिन् ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु । किं० राजा ? 'अनः' । “नकारः कीर्तितो ज्ञाने” इत्यादि (श्रीवरुचिकृते एकाक्षरनिघण्टके श्लो० २२) वचनात् ज्ञानरहितो जड इति यावत् । इत्यादि ४ अर्थाः पूर्ववदत्रापि कार्याः । पूर्वोक्तमीलने ॥ ३० ॥ एवं नसमासपूर्वेणापि दानदायक. ३. वाचिना ददपदेन समं ३० कार्याः । अर्थयोजनाऽपि स्वयं कार्या । व्युत्पत्त्यादि पूर्ववत् । , तृतीयार्थानिर्देशात् प्रतिभाति यदुतात्र पाठप्रपातः, परन्तु एतदाश्चर्यकारि यत् प्रतिचतुष्टयेऽप्येवम् । २ इत्यादिशब्देन 'नः श्रुतेऽपि परिकीर्तितः' इति ज्ञायते। ३ 'पूर्वोक्तितो ज्ञाने मीलने' इति ख-पाठः, "पूर्वोक्तनो ज्ञाने मीलने' इति गम्पाठः। Page #76 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरगणिकृता यथा हे दद! हे अ!-प्राणिन् ! राजानो-नृपाः ते-तव सौख्यं ददतामित्यादि ३० अर्थाः पूर्वोत्तरीत्या कार्याः । पूर्व३०मीलने जाताः ॥ ६० ॥ पुनः प्रकारान्तरेण अर्थानाहदं-पूजनं ददातीति ददः-धातूनामनेकार्थत्वात् पूजाकारकः अर्थाजिनप्रतिमादिपूजाकृत् कोऽपि भव्यजीवः तत्सं० हे दद! अ!-प्राणिन् ! राजानो-नृपाः ते-तव सौख्यं ५ ददतामित्यादि ६० अर्थाः पूर्ववदत्रापि पूजनदायकवाचिना ददपदेन केवलेन नसमासपूर्वेण च कार्याः । अर्थयोजनाऽपि स्वयं कार्या । सर्वे० ॥ १२० ॥ दो-दानशौण्डस्तद्वद् ददातीति ददः तत्सं० हे दद! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः दानशौण्डदायकवाचिनाऽपि ददपदेन केवलेन नपूर्वकेण (च) कार्याः । सर्वे० ॥ देभ्यो-देवेभ्यो ददाति अर्थात् वल्यादि यच्छतीति ददः, तत्सं० हे दद ! हे अ!-प्राणिन् ! १० इत्यादि ६० अर्थाः देवदायकवाचिना ददपदेन के० नञ् कार्याः । सर्वे० ॥ २४० ॥ देन-दीप्त्या दानादि ददातीति ददः, वत्सं० हे दद ! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः दीप्तिदायकवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ ३००॥ दान्-क्षीणान् दयापरत्वात् दयते-पालयतीति यः सोऽपि ददः, तत्सं० हे दद! हे अ!-प्राणिन् ! (इत्यादि) ६० (अर्थाः) क्षीणपालकवाचिना ददपदेन (केव०) नझपूर्वेण च १५ कार्याः। सर्वे० ॥ ३६० ॥ दान-दानशौण्डान् ददते-पालयति यः सोऽपि ददः-कोऽपि सुराजा तत्सं० इत्यादि ६० अर्थाः दानशौण्डपालकवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ ४२० ॥ दं-कलत्रं दयते-पालयति यः सोऽपि ददः, तत्सं० हे दद! हे अ!-प्राणिन् ! इत्यादि ६० (अर्थाः) कलंत्रपालकवाचिना ददपदेन केवलेन० कार्याः । सर्वे० ॥४८०॥२० दं-दानं द्यति-खण्डयति इति ददः अर्थाद् दाननिषेधकः कोऽपि पापमतिः, तत्सं० हे दद ! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः दाननिषेधकवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ ५४०॥ दं-पूजनं द्यति-खण्डयति सोऽपि ददः अर्थाद् भगवत्पूजानिषेधकः पापिष्ठः कश्चित्, तत्सं० हे दद ! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः पूंजननिषेधकवाचिना ददपदेन के० २५ नपू० कार्याः । सर्वे० ॥ ६००॥ दान्-क्षीणान् द्यति-खण्डयति सोऽपि ददः, कोऽपि महानिर्दयोऽतीव पापिष्ठः, तत्सं० हे दद ! हे अ!-प्राणिन् ! ६० अर्थाः क्षीणखण्डकवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ ६६० ॥ दान-दानशोण्डान् द्यति-खण्डयति यः सोऽपि ददः अर्थाद् यः कोऽपि सु(कु)राजा. १ 'पूजानिषेधकः' इति ग-प-पाठः। Page #77 -------------------------------------------------------------------------- ________________ अर्थग्नावली दानशौण्डान् जनान् विलोक्य दण्डयति इति स हि दद उच्यते तत्सं० हे दद ! इत्यादि ६० (अर्थाः ) दानशौण्डखण्डकवाचिना ददपदेन के० नपृ० कार्याः । सर्वे० ॥७२०॥ द-दीप्ति अर्थात् परेपो द्यति-खण्डयति इति सोऽपि ददः, तत्सं० हे दद ! इत्यादि ६० अर्थाः दीप्तिखण्डकवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ ७८० ॥ ५ दो-देवस्तद्वदरीन् द्यति-खण्डयतीति ददः, तत्सं० हे दद! इत्यादि ६० अर्थाः देव( वत्)खण्डकवाचिना ददपदेन के० नपृ० कार्याः । सर्वे० ॥ ८४०॥ दं-कलत्रं द्यति-खण्डयति सोऽपि ददः-स्त्रीघातकारकोऽधमः, तत्सं० हे दद ! इत्यादि ६० अर्थाः स्त्रीमारकददपदेन के० नपू० कार्याः । सर्वे० ॥ ९०० ॥ दस्य-दानस्य दो-दानं यस्य सोऽपि ददः, तत्सं० हे दद ! इत्यादि ६० अर्थाः दान१० दानवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ ९६० ॥ दो-दानं तेन दः-पूजनं यस्य सोऽपि ददः, तत्सं० हे दद ! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः दानपूजनवाचिना ददपदेन के० नपू० कार्याः । सर्वे ॥ १०२० ॥ दे-दाने दः-क्षीणः ददः, दानं दातुमसमर्थ इत्यर्थः, तत्सं० इत्यादि ६० अर्थाः दानक्षीणवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ १०८० ॥ १५ दे-दाने दो-दानशौण्डो यः सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दानदानशौण्डवाचिना ददपदेन के० नपृ० कार्याः । सर्वे० ॥ ११४० ॥ दस्य-दानस्य दः-पालकः सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दानपालकवाचिना ददपदेन के० नञ्पृ० कार्याः । सर्वे० ॥१२००॥ दे-दाने द इव-देव इव यः सोऽपि ददः, यो हि दानावसरे देव इवोदारचित्तो २० भवति तत्सं० इत्यादि ६० अर्थाः दानदेववाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ १२६० ॥ दो-दानं तेन तत्र वा दो-दीप्तिर्यस्य सोऽपि ददः, तत्सं० हे दद! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः दानदीप्तिवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ १३२० ॥ - दः-पूजनं पूजा तस्य दो-दानं यस्य यस्माद् यस्मिन् वा सोऽपि ददः, तत्सं० २', इत्यादि ६० अर्थाः पूजनदानवाचिना ददपदेन केवलेन नपू० कार्याः । सर्वे० ॥१३८०॥ दे-पूजने दः-क्षीणो यः सोऽपि ददस्तत्सं० इत्यादि ६० अर्थाः पूजनक्षीणवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ १४४० ॥ देन-कलत्रेण सह दः-क्षीणः ददः । यस्य हि स्त्रिया समं अतितीव्र कामं भुञ्जा. नस्य देहः क्षीणस्तत्सं० हे दद! इत्यादि ६० अर्थाः कलत्रक्षीणवाचिना ददपदेन के. ३० नपू० कार्याः । सर्वे० ॥ १५००॥ । Page #78 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरगणिकृता देन-पूजनेन उपलक्षितो दो-दानशौण्डः सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः पूजनदानशौण्डवाचिना ददपदेन के० नपू० कार्याः । सर्वे ॥ १५६० ॥ दस्य-पूजनस्य दः-पालकः ददः, तत्सं० इत्यादि ६० (अर्थाः) पूजनपालकवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ १६२० ॥ दः-पूजनं तेनोपलक्षितो दो-देवो यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः ५ पूजन कार्याः । सर्वे० ॥ १६८० ॥ देन-पूजनेन दो-दीप्तिर्यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः पूजनदीप्तिवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ १७४०॥ देभ्यः-क्षीणेभ्यो दो-दानं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः क्षीणदानवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ १८००॥ दं-कलत्रं तस्मै तस्य तस्मिन् वा दो-दानं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः कलत्रदानवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ १८६० ॥ दं-क्षीणं दं-कलत्रं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः क्षीणकलत्रवाचिना ददपदेन के० नम्पूर्व० कार्याः । सर्वे ॥ १९२० ॥ __दानां-क्षीणानां दः-पूजनं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः क्षीणपूजन-१५ वाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ १९८० ॥ दानां-क्षीणानां दः-पालकः सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः क्षीणपालकवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ।। २०४० ॥ ____दः-क्षीणः दो-दीप्तिर्यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः क्षीणदीप्तिवाचिना पदपदेन के० नपू० कार्याः । सर्वे० ॥ २१०० ।। ___ दवत्-दानशौण्डवत् दो-दानं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दानभौण्डदानवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ २१६० ॥ दस्य-दानशौण्डस्य :-पूजनं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दान- . शौण्डपूजनवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ २२२० ।। दो-दानशौण्डः स चासौ दः-क्षीणः ददः, तत्सं० इत्यादि ६० अर्थाः कार्याः ।२५ सर्वे.॥ २२८० ॥ दो-दानशौण्डस्तस्य वः-पालकः यः सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दानशौण्डपालकवाचिना ददपदेन के० कार्याः । सर्वे ॥ २३४०॥ दवत्-दानशौण्डवत् दो-दीप्तिर्यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दानशौण्डदीप्तिवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ २४००॥ , पूजावाविना इति प-पाठः। अर्थ. ८ २. ३ . Page #79 -------------------------------------------------------------------------- ________________ अर्थरत्नावली दः-पालकः तस्मै दो-दानं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः पालकदानवाचिना ददपदेन के० कार्याः । सर्वे० ॥ २४६० ॥ दस्य-पालकस्य दः-पूजनं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः पालकपूजनवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ २५२० ॥ ५ द-पालकः स चासौ दः-क्षीणश्च ददः, तत्सं० इत्यादि ६० अर्थाः पालकक्षीणवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ २५८० ॥ द-पालकः स चासो दो-दानशौण्डश्च ददः, तत्सं० इत्यादि ६० अर्थाः पालकदानशौण्डवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ २६४० ॥ दः-पालकः दो-देवो यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः पालकदान१.वाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ २७०० ॥ दं-पालक दं-कलत्रं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः कार्याः । सर्वे० ॥ २७६० ॥ दः कोऽपि पालकः तद्वद् दः-दीप्तिर्यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः पालकदीप्तिवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ २८२० ॥ १५ दाय-देवाय दो-दानं यस्य सोऽपि ददः, कोऽपि देवभक्त इत्यर्थः, तत्सं० इत्यादि ६० अर्थाः देवदानवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ २८८० ॥ दानां-देवानां दः-पूजनं यस्य सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः देवपूजनवाचिना ददपदेन के० नञ्पू० कायोः । सर्वे० ॥ २९४० ॥ दवत्-देववत् अर्थात् वैश्रमणदेववत् दो-दानशौण्डो यः सोऽपि ददः। अत्र २० वैश्रमणदेवोपमा च दानशूरत्वात् । स हि दानशूरो भवति । यदुक्तं श्रीस्थानाङ्गसूत्रे चतुःस्थानके-"चत्तारि सूरा पन्नत्ता। तं जहा-खंतिसूरा १ तवसूरा २ दाणसूरा ३ जुद्धसूरा ४; खंतिसूरा अरिहंता, तवसूरा अणगारा, दाणसूरा वेसमणा, जुद्धसूरा वासुदेवा" इत्यादि । तत्सं० इत्यादि ६० अर्थाः देवदानशौण्डवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ ३०००॥ दानां-देवानां दः-पालकोऽर्थादिन्द्रः,अथवा दो-देवोदः-पालको यस्य सोऽपि ददा, तत्सं० इत्यादि ६० अर्थाः देवपालकवाचिना ददपदेन के० नपू० कार्याः सर्वे० ॥३०६०॥ , 'तसिन्' इति ग-ध-पाठः। २ 'पालका तसै दो' इति क-पाठः । ३ छायाः चत्वारः शूराः प्रज्ञप्ताः, सयथा-क्षान्तिशूराः तपःशूराः दानशूराः युदशूराः । शान्तिशूरा महन्तः, सर्पःशूरा भनगाराः, दानधुरा वैश्रमणाः, युद्धशूरा वासुदेवाः । Page #80 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरगणिकृता दो-देवस्तद्वत् दो-दीप्तिर्यस्य सोऽपि ददः, तत्सं० हे दद! हे अ!-प्राणिन् इत्यादि ६० अर्थाः देवदीप्तिवाचिना ददपदेन के० कार्याः । सर्वे० ॥ ३१२० ॥ देन-दीप्त्या दो-दानं सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दीप्तिदानवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ ३१८० ॥ देन-दीप्या दः-पूजनं यस्य सोऽपि ददः । यो हि देवादिपूजां कुर्वन् दीप्तिमान् ५ भवति सोऽपि ददः इत्यादि ६० अर्थाः दीप्तिपूजनवाचिना ददपदेन के० नञ्पू० कार्याः । सर्व० ॥ ३२४० ॥ देन-दीच्या दः-क्षीणः सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दीप्तिपूजनवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ ३३०० ॥ देन-दीप्त्या उपलक्षितो दो-दानशौण्डो यः सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः १० दीप्तिदानशौण्डवाचिना ददपदेन के० नपूर्वेण च कार्याः । सर्वे० ॥ ३३६० ॥ देन-दीया दो-देवो यः सोऽपि ददः । यो हि दीप्त्या कृत्वा देव इव दृश्यते तत्सं० इत्यादि ६० अर्थाः दीप्तिदेववाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ ३४२० ॥ अत्र पूर्वोक्तेषु सर्वेषु अर्थेषु तृतीया-चतुर्थी-प्रथमा-पञ्चमीविभक्तिबहुवचनेषु अस्मच्छ. १५ ब्दस्य नसादेशो विज्ञेयः । यदुक्तं श्रीकालापकमहाव्याकरणे-“युष्मदस्मदोः पदं पदात् पष्ठीचतुर्थीद्वितीयासु वसूनसौ युष्मदस्मदोः पदं पदात् परं षष्ठीचतुर्थीद्वितीयासु बहुत्वे निष्पन्नं यथासङ्ख्यं वसूनसावित्येतावादेशौ वा प्रामोति । पुत्रो युष्माकं पुत्रोऽस्माकं, पुत्रो वः पुत्रो नः । पुत्रो युष्मभ्यं पुत्रोऽस्मभ्यं, पुत्रो वः पुत्रो नः । पुत्रो युष्मान् पुत्रोऽस्मान् , पुत्रो वः पुत्रो नः । युष्मदस्मदोरिति किम् ? पुत्रस्तेषां स्वामी । पदादिति किम् ? युष्माकं २० अस्माकम् । तथाऽत्र सूत्रे षष्ठी-चतुर्थी-द्वितीयास्विति व्यतिक्रमनिर्देशात् कचित् पञ्चमीतृतीया-प्रथमास्वपि वसूनसादयो भवन्ति । तथा च विष्णुवार्तिके ___ "प्रथमायां तृतीयायां, पञ्चम्यां चापि साधितम् । प्रामोति युष्मदादीनां, वसूनसादीन पदं कचित् ॥ १॥" यथा-“एकं दृष्ट्वा धनुःपाणिं, मानुषं समुपस्थितम् । राजसं वलमुत्सृज्य, किं वो भीता इव स्थिताः ? ॥१॥" इदं रावणवाक्यम् । अत्र वो यूयमित्यर्थः। "श्रुतं वश्चित्रगुप्तस्य, भाषितं मनसः प्रियम् ।" , 'करणेषु' इति ग-ध-पाठः। २ 'राक्षस' इति ग-न-पाठः । २५ Page #81 -------------------------------------------------------------------------- ________________ अर्थरनावली [अर्थाः १-४६] अत्र वो युष्माभिरित्यर्थः । एवमग्रेऽपि "गेये केन विनीतौ वां, कस्य चेयं कवेः कृतिः। इति राज्ञा स्वयं पृष्टी, तौ वाल्मीकमशंसतुः॥" अत्र वां युवामित्यर्थः । अत्रोक्ते कर्मणि प्रथमा । "देशे विचरतस्तस्य, लक्षणानि निबोध मे।" इति । अत्र मे इति मत्सकाशादित्यर्थः । इति पञ्चमी"। अत्र यद्यपि उदाहरणे युष्मच्छब्दस्य वसादेश एव तथापि तद्वत् अस्मच्छब्दस्यापि नसादेशो विज्ञेयः । तथा अनेनैव सूत्रबलेनास्मच्छब्दस्यापि तृतीयैकवचने ते इत्यादेशः समर्थनीयः । एवं सर्वत्र यथासम्भवं समर्थना विधेया । सर्वे० ॥ ३४२० ॥ १. एवं यक्षवाचकस्य सूर्यवाचकस्य च राजन्शब्दस्यार्थाः कार्याः। तत एते ४२९५ • अर्थाः पञ्चवारं गुणिताः जाताः २१४७५ ॥ अथ पुनरपि प्रकारान्तरेण अर्थानाह राज-आनः अ ! दद! ते सौख्यम् ॥१-६॥ हे दद!-हे दानदायक! हे अ!-प्राणिन् ! राज्ञः आनो-मुखश्वासो राजानः-राज१५ मुखश्वासः ते-तुभ्यं सौख्यं-सुखं ददातु । अर्थयोजना स्वयं कार्या ॥१॥ हे अ! -हे प्राणिन् ! हे दद!-हे दानदायक! राजानो-राजमुखश्वासः ते-तव सौख्यं दसे ॥२॥ हे अ!-हे प्राणिन् ! हे दद!-हे दानदायक! ते-तव राजानो-भवन्नृपमुखश्वासः सौख्यं दत्ताम् , ममेति शेषः । राज्ञा समं मम संयोगो भवत्विति शेषः । इदं नृपपार्श्ववर्तिसेवक जनं प्रति कामातुरायाः कामिन्या वचनम् ॥ ३॥ राज्ञः आनः-प्राणः बलमिति यावत् २. राजानो-राजप्राणः हे अ!-हे प्राणिन् ! हे दद!-हे दानदायक ! ते-तुभ्यं सौख्यं ददातु । यावद् राजा जीवति तावत् त्वं सुखी भवेत्यर्थः । इदं दानदायकं राजोपंजीविनं सेवकविशेष प्रति निजबन्धुजनवचनम् इत्यादि ३ अर्थाः राजमुखश्वासवाचिराजनशब्दवदत्रापि राजप्राणवाचिराजानःशब्दस्य ददपदेन समं कार्याः । सर्वे० ॥ ६ ॥ राज-आ नः ! दद! ते सौख्यम् ॥ १-४६ ॥ २५. राजभिः-नृपैः कृत्वा आ-शोभा येषां ते राजा:-राजसेव्याः केचन महापुरुषाः हे नः!-हे नर! हे दद!-हे दानदायक! ते-तुभ्यं ते-तव वा सौख्यं ददतामित्याशीर्वचनम् ॥ १-२॥ ते राजाः नः-अस्माकं १ अस्मभ्यं २ वा सौख्यं ददतामित्याशीर्वचः । जाताः ४ ॥ एवं नपूर्वेण ददपदेनापि ४ अर्थाः कार्याः । जाताः ८॥ पूर्व ६ षट् मीलने जाताः १४ ॥ "ऋशब्दः पावके सूर्य, धर्मे दाने धने पुमान्" इति (विश्वशम्भु० 'राजाऽऽभम्याः' इति ग-ध-पाठः। २३५७२' इति ग-पाठः। सेविनं' इति ग-ब-पाठः । Page #82 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरगणिकृता ६१ श्लो० ११) उक्तत्वात् अरं-धर्म १ दानं २ धनं ३ सूर्य ४ आ-सामस्त्येन अजन्तिगच्छन्ति 'गत्यर्थानां ज्ञानार्थत्वात्' प्राप्नुवन्तीति रस्वे कृते राजाः-धर्मिष्ठाः १ गुणिनः २ पुण्याच्याः ३ सूर्यसेवकाश्च ४ हे नः! हे नर ! हे दद!-हे दानदायक ! ते-तुभ्यं १ तव २ या सौख्यं ददताम् । ततः ॥८॥एवं ते राजाः धर्मिष्ठादयः चत्वारः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददताम् । एतेऽपि ८ पूर्व ८ मीलने १६ ॥ एवं नपूर्वेणापि ५ ददपदेन समं १६ अर्थाः कार्याः । जाताः ३२ ॥ पूर्व १४ मीलने जाताः ४६ ॥ राजा ओ नः! दद! ते सौख्यम् ॥ आ-धर्मः । किंविशिष्टः ? राजा-रञ्जको दीप्यमानो वा । व्युत्पत्त्यादि पूर्ववत् । हे नः!-हे नर ! हे दद ! ते-तुभ्यं १ तव २ वा सौख्यं ददातु २ । एवं नञ्पूर्वेणापि ददपदेन २ अर्थो कायौँ । जाताः ४। एवं अंः-अर्हन् । किं० ? 'राजा' स्वामी इत्यादि। प्रकारेणापि ४ अर्थाः कार्याः । जाताः ८॥ एवं राजाः-सिद्धाः व्युत्पत्त्यादि पूर्ववत् इत्यादि प्रकारेणापि ४ अर्थाः कार्याः। जाताः १२॥ एवं आ-आचार्यः। किं ? 'राजा' रखकः इत्यादि प्रकारेणापि ४ अर्थाः कार्याः। जाताः १६ ॥ पूर्व४६मीलने जाताः ६२ अर्थाः॥आ (अः?)-सूर्यः । किं० ? 'राजा' स्वामी दीप्यमानो वा । हे नः!-हे नर ! हे दद!- दानदायक! ते-तुभ्यं १ तव २ वा सौख्यं ददातु २ । एवं अददपदेनापि समं २,१५ एवं ४ । सर्वे० ॥ ६६ ॥ एवं अः-कृष्णः । किं० ? 'राजा' इत्यादिप्रकारेण पूर्ववत् ४ अर्थाः कार्याः । एवं अः-ईश्वरः । किं० ? 'राजा' इत्यादिप्रकारेण ४ । जाताः ७० ॥ एते ७० अर्थाः दानदायकददपदेन केवलेन नञ्समासपूर्वेण च जाताः। एवं दं-पूजनं पूजां ददातीति ददः ॥१॥ दो-दानशौण्डस्तद्वत् ददातीति ददः ॥२॥ देभ्यो देवेभ्यो ददातीति ददः॥ ३ ॥ देन-दीप्त्या देदातीति ददः॥ ४॥ दान् २० -क्षीणान् दयते-दयापरत्वात् पालयतीति ददः ॥५॥ दान-दानशौण्डान् दयतेपालयतीति ददः ॥ ६॥ दं-कलत्रं दयते-पालयतीति ददः ॥ ७॥ दं-दानं द्यतिखण्डयतीति ददः ॥ ८॥ दं-पूजनं द्यति-खण्डयतीति ददः ॥९॥ दान्-क्षीणान्-द्यति खण्डयतीति ददः ॥१०॥ दान-दानशौण्डान् द्यति-खण्डयतीति ददः ॥ ११॥ दंदीप्तिं द्यति-खण्डयतीति ददः ।। १२ ॥ दो-देवस्तद्वत् द्यति-अरीन् खण्डयतीति ददः १५ ॥ १३ ॥ दं-कलत्रं द्यति-खण्डयतीति ददः ॥ १४ ॥ दस्य-दानस्य दो-दानं यस्य सोऽपि ददः ॥ १५ ॥ दो-दानं तेन दः-पूजनं यस्य सोऽपि ददः ॥ १६ ॥ दे-दाने द:-क्षीणो यः सोऽपि ददः ॥ १७॥ दे-दाने दो-दानशौण्डो यः सोऽपि (ददः) ॥ १८ ॥ दस्य-दानस्य दः-पालकः सोऽपि ददः ॥ १९ ॥ दे-दाने द इव-देव इव यः सोऽपि ददः ॥ २० ॥ दो-दानं तेन तत्र वा दो-दीप्तिर्यस्य सोऽपि ददः ॥ २१ ॥३० दः-पूजनं तस्य दो-दानं यस्य सोऽपि ददः॥ २२ ॥ दे-पूजने दः-क्षीणो यः सोऽपि 'मः' इत्यपि सम्भवति । २ '' इति क-पाठः। ३-५ 'ददतीति' इति क-ख-पाठः । | Page #83 -------------------------------------------------------------------------- ________________ ६२ अर्थरनावली ददः ॥ २३ ॥ देन-कलत्रेण सह द:-क्षीणः सोऽपि ददः ॥ २४ ॥ देन-पूजनेन उपलक्षितो दो-दानशौण्डो यः सोऽपि ददः ॥ २५॥ दस्य-पूजनस्य दः-पालकः सोऽपि ददा ॥ २६ ॥ देन-पूजनेन उपलक्षितो दो-देवो यस्य सोऽपि ददः ॥ २७ ॥ देन-पूजनेन दो-दीप्तिर्यस्य सोऽपि ददः ॥ २८ ॥ देभ्यः-क्षीणेभ्यो दो-दानं यस्य सोऽपि ददः ५॥ २९ ॥ दं-कलत्रं तस्मै दो-दानं यस्य सोऽपि ददः॥ ३० ॥ दं-क्षीणं दं-कलत्रं यस्य सोऽपि ददः ॥ ३१॥ दानां-क्षीणानां दः-पूजनं यस्य सोऽपि ददः ॥ ३२॥ दानाक्षीणानां दः-पालको यः सोऽपि ददः॥ ३३ ॥ दः-क्षीणः दो-दीप्तिर्यस्य सोऽपि ददः ॥ ३४ ॥ दवत्-दानशौण्डवत् दो-दानं यस्य सोऽपि ददः ॥ ३५॥ दस्य-दानशौण्डस्य दः-पूजनं यस्य सोऽपि ददः॥ ३६॥ दो-दानशौण्डः स चासौ दः-क्षीणः सोऽपि ददः १०॥ ३७॥ दो-दानशौण्डस्तस्य दः-पालकः सोऽपि ददः ॥ ३८ ॥ दवत्-दानशौण्डवत् दो-दीप्तिर्यस्य सोऽपि ददः ॥ ३९ ॥ दः-पालकः तस्मै दो-दानं यस्य सोऽपि ददः ॥ ४० ॥दस्य-पालकस्य दः-पूजनं यस्य सोऽपि ददः॥४१॥ दः-पालकः स चासौ द:-क्षीणश्च सोऽपि ददः ॥ ४२ ॥ दैः-पालकः स चासौ दः-क्षीणश्च सोऽपि ददः ॥ ४३ ॥ दः-पालकः स चासौ दो-दानशौण्डश्च सोऽपि ददः॥४४॥ दः-पालको दो१५ देवो यस्य सोऽपि ददः ॥ ४५ ॥ दं-पालकं दं-कलत्रं यस्य सोऽपि ददः ॥ ४६ ॥ दःपालकस्तद्वद् दो-दीप्तिर्यस्य सोऽपि ददः॥४७॥ दाय-देवाय दो-दानं यस्य सोऽपि ददः ॥४८॥ दानां-देवानां दः-पूजनं यस्य सोऽपि ददः ॥ ४९ ॥ दवत्-देववत् अर्थात् वैश्रमणदेववद् दो-दानशौण्डो यस्य सोऽपि ददः ॥ ५० ॥ दानां-देवानां दः-पालको यः सोऽपि ददः ॥५१॥ दो-देवस्तद्वत् दो-दीप्तिर्यस्य सोऽपि ददः ॥५२॥ देन२. दीप्त्या दो-दानं यस्य सोऽपि ददः ॥ ५३ ॥ देन-दीप्त्या दः-पूजनं यस्य सोऽपि ददः ॥ ५४ ॥ देन-दीप्त्या दः-क्षीणः सोऽपि ददः ॥ ५५ ॥ देन-दीप्त्या उपलक्षितो दोदानशौण्डो यस्य सोऽपि ददः ॥ ५६ ॥ देन-दीप्या दो-देवो यः सोऽपि ददः ॥ ५७ ॥ अनेनापि भिन्नार्थवाचकेन सप्तपश्चाशत्प्रमितेन ददपदेन केवलेन नङ्समासपूर्वकेण च प्रत्येकं पृथक् पृथक् सप्ततिः सप्ततिः ७० अर्थाः कार्याः । ततः सप्तपश्चाशत् ५७ सप्तत्या २५ गुणिता जाताः ३९९० ॥ ततः दानार्थवाचकददपदनिष्पन्नसप्तत्यर्थ७०मीलने जाताः ४०६० ॥ एते ४०६० अर्थाः पूर्वोक्त २१४७५ अर्थमीलने जाताः २५५३५ अर्थाः ।। सु-सुष्ठु च तत् खं च सुखं-प्रधानवितर्कः तस्य सुखस्य समाहारः सौख्यम् ॥१॥ अत्र खशब्दो वितकें। यदुक्तं श्रीविश्वशम्भुना एकाक्षर(नाम)मालायां (श्लो०२४-२५) “(वाच्यलिङ्गः) खशब्दोऽकें, वितर्के व्योम्नि वेदने । प्रश्ननिन्दानृपक्षेप-सुखशून्येन्द्रिये दिवि ॥१॥ अवसानेऽपवर्गेऽपि परब्रह्मण्यपीरितः ॥" .१ मयोपरमधासु सर्वासु प्रतिषु ४२तमस्थार्थस्य पुनरावृत्तिश्यते । एवं सति तमोऽर्थः कयं भिषोगण्येत ।। Page #84 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरगणिकृता इत्यादि । एवमग्रेऽपि यत्र यत्र स्थाने यदर्थवाचकः खशब्दो विलोक्यते तत्र तत्र एतदुक्तं स्मरणीयम् । सु-सुष्टु च तत् ख-वित् सुखं-प्रधानसंवित् तस्य समाहारोऽपि सौख्यम् ॥ २ ॥ सु-सुष्टु च तत् खं-प्रश्नः सुखं-प्रधानप्रश्न:-मुक्तिः कथं प्राप्यते? संसारात् कथं छुट्यते ? धर्मः केन विधिना आराध्यते ? इत्यादिरूपः तस्य समाहारोऽपि सौख्यम् ॥ ३ ॥ सु-सुष्ठु च तत् खं च-निन्दा सुखं-प्रधाननिन्दा-अयं संसारः असारः, एते ५ कषायाः नरकहेतवः, तस्माद् दूरे त्याज्याः इत्यादि तिरस्काररूपेत्यर्थः, तस्य समाहारोऽपि सौख्यम् ॥ ४ ॥ अथवा सु-पूजनं तस्य खं-निन्दा सुखं तस्य समाहारोऽपि सौख्यम् ॥४॥ सु-सुप्ठु च तत् खं च सुख-विशिष्टसुखं तस्य समाहारोऽपि सौख्यम् ॥५॥ सु-सुष्ठु च तत् खं च सुख-विशिष्टस्वर्गः तस्य समाहारोऽपि सौख्यम् ॥ ६ ॥ सु-सुप्तु च सत् खं-परब्रह्मसुखं तस्य समाहारोऽपि सौख्यम् ॥७॥ सु-सुष्टु च सा ख्या-ज्ञानं . सुख्या तस्याः समाहारोऽपि सौख्यम् ॥ ८॥ सु-सुष्ठ च खं-मोक्षसुखं तस्य भावोऽपि सौख्यम् ॥ ९॥ सुखस्य समाहारो भावो वाऽपि सौख्यम् ॥ १० ॥ अत्र यथापूर्व सुखवाचिसौख्यशब्देन समं २५५३५ अर्थाः जाताः । तथा च वितर्कसमाहारादिपृथक्पृथगर्थवाचिसौख्यशब्दनवकेनापि समं प्रत्येकं पृथक् पृथक् २५५३५ अर्थाः कार्याः । ततः २५५३५ अर्था दशवारं गुणिता जाताः २५५३५० अर्थाः॥ यथा-हे अ!-प्राणिन् ! १५ हे नोदद ! ते-तुभ्यं राजा-नृपतिः सौख्यं प्रधानवितर्कसमाहारं ददातु इत्यादिदिग्मात्रमर्थकरणे अर्थयोजनाऽपि सर्वत्र स्वयमेव विधेया । मया विस्तारभीत्या न सर्वत्र लिख्यते। ततः यथा एते २५५३५० अर्थाः केवलेन सौख्यशब्देन समं जातास्तथा एतावन्त एवार्थाः नसमासपूर्वेणापि सौख्यशब्देन समं कार्याः । यथा हे अ! हे प्राणिन् ! हे नोदद ! ते-तुभ्यं राजा-नृपतिः असौख्यं-दुःखं ददातु इत्यादिपूर्वोक्तप्रकारेण कार्याः । २० ततो द्विगुणिता जाताः ५१०७०० अर्थाः । एते एव अर्थाः काकुवचनेन समं द्विगुणिताः सन्तो जाताः सर्वे ॥ १०२१४०० ॥ यथा हे अ!-हे प्राणिन् ! हे नोदद ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु ? अपि तु नेत्यर्थः । इत्यादि दिगमात्रप्रदर्शनप्रकारेण अन्येऽपि अर्थाः कार्याः । अर्थयोजना तु यत्र न कृता भवति तत्र सर्वत्र स्वयं कार्या तदर्थभिः सद्भिः। मया तु गन्थविस्तरभीत्या न लिखिता ॥ १०२१४०० ॥ अथ पुनः प्रकारान्तरेण शृङ्खलानामप्रश्नोत्तरभेदेन अर्थदर्शनम् "का सन्तापकरो भवेद् विरहिणां ? संहतिरष्ठीवतः का स्यात् ? प्रेरणदानदातृजनयोः सम्बोधनं किं पृथक् ? । रूपं दन्त इति ध्वनेर्वदत भो कीदृक् चतुर्थ्यादिमं ? क स्यान्यायिनरेश्वरस्य विजयो ? विष्णुप्रिया पृच्छति ॥ १॥" ३० Page #85 -------------------------------------------------------------------------- ________________ ६४ अर्थरत्नावली "परब्रह्मार्थिभक्तानां, कीहक् किं ददते प्रभुः ।। राजन्वत्यः प्रजाः प्राहुः, किं पदं वद कोविद ! ॥२॥" राजा नो ददते सौख्यम् ॥ (राजा जानो ! नोद ! ददः ! दते ते असौ सौखी अम्) व्याख्या-विरहिणां जनानां सन्तापकरः को भवेत् ? । उत्तरम्-'राजा' चन्द्रः। अष्ठीवतो-नलकीलस्य संहूतिः का-सम्बोधनं किम् ? । उत्तरम्-हे 'जानो' । तथा प्रेरणं च दानदातृजनश्च प्रेरणदानदातृजनौ तयोः पृथक् पृथक् सम्बोधनं किम् ? उत्तरम्हे 'नोद' हे 'दद !' दं-दानं ददातीति ददस्तत्सं० । दन्त इति ध्वनेः-शब्दस्य चतुर्योदिम-चतुर्थीविभक्तिप्रथमवचनसत्कं रूपं भो पण्डिताः! यूयं वदत-कीहक् स्यात् ? उत्त१० रम् 'दते'। विष्णुप्रिया-लक्ष्मीः पृच्छति-न्यायिनरेश्वरस्य विजयः कस्यात् ? उत्तरम् । 'ते असौ' खड़े। प्रभुः-स्वामी कीदृक् सन् परब्रह्मार्थिभकानां किं ददते ? उत्तरम्'सौखी अं' सुखानां समाहारः सौखं सौखमस्यास्तीति सौखी सन् अं-परब्रह्म ददते । हे कोविद ! त्वं वद राजन्वत्यः प्रजाः किं पदं प्राहुः-प्रवदन्ति ? तदा उत्तरम् । राजेति, राजा-नृपो न:-अस्माकं सौख्यं ददते न्यायित्वात् । राजन्वत्य इति शोभनो राजा यासु १५ ताः राजन्वत्यः, मतौ निपातनात् रूपसिद्धिः । यदाहुः हेमसूरिपादाः-'राजन्वान् सुराज्ञि' (सिद्ध० अ० २, पा० १, सू० ९८) सुराजकेऽर्थे राजन्वान् मतौ निपात्यते । राजन्वान् देशः । राजन्वत्यः प्रजाः इति । इति अर्थद्वयं सर्वमीलने। अथ पदोत्तरनामप्रश्नोत्तरभेदेन अर्थदर्शनम् कृष्णं का व्रजति प्रमोदवशतः ? का सर्वभक्षा मता? ध्वस्तं किं हरिणा ? कलत्रवधकस्याहूतिरावेद्यताम् । कृष्णः पृच्छति-का च कस्य दयिता ? क प्रेम धत्ते शिवा ? कीहक् ना भजते च कं सुसुखिनो जल्पन्ति किं प्राणिनः॥१॥ "राजा नो ददतेऽसौख्यम् ॥” । (रा अजा अनः दद ! ते अ! सा औ खी अम् ) २५ प्रमोदवशात् का स्त्री कृष्णं प्रति याति ? उत्तरम् 'रा' । “रा रमा रमणी बाला" इति (विश्वशम्भु० श्लो० १०१) वचनात् रमा, लक्ष्मीरित्यर्थः । सर्वभक्षा का मता? उत्तरम् 'अजा' गलस्तनी । हरिणा-नारायणेन किं ध्वस्तम् ? उ० 'अनः' शकटम्, शकटनामा दैत्य इत्यर्थः। कलत्रवधकस्य-स्त्रीखण्डकस्य सम्बोधनं कथ्यताम् । १० हे 'दद' ! "दं कलत्रं" इति (सुधा० श्लो० २५) वचनात् दं-कलत्रं धति-खण्डयतीति १० ददस्तस्सं० हे दद।। कृष्णः पृच्छति-का कस्य दयिता । ७० हे अ!-हे कृष्ण! प्रम Page #86 -------------------------------------------------------------------------- ________________ श्री समय सुन्दरगणिकृता લ सा-लक्ष्मीः ते तव । शिवा-पार्वती क्क - कुत्र प्रेम धत्ते ? ० 'औ' ईश्वरे । कीदृक् पुमान् कं भजते - सेवते ? उ० 'खी अं' । खी - ज्ञानवान् । " अः स्यादर्हति" इति वचनात् जैनमते अं- अर्हन्तं वैष्णवमते अं-कृष्णं वा । सुसुखिनः - अत्यन्त सुखभाजो जनाः किं वदन्ति ? उ० 'राजा नो ददतेऽसौख्यम्' । राजा - यमो नः - अस्माकं असौख्यं ददते, अपहरणात् ॥ अर्थद्वयम् ॥ २ ॥ अथ पुनः प्रकारान्तरेण अर्धानाह ( राजाः नोदद ! ते सौख्यम् ) - हे नोदद ! - हे प्रेरणादायक ! ते तुभ्यं राजाः -२ :- सूर्यः अ[ज]:-ब्रह्मा अः कृष्णः, ततो द्वन्द्वे कृते राजाः सूर्य-ब्रह्म-कृष्णाः, एते त्रयोऽपि देवाः सौख्यं ददतामिति शेषः । असौख्यं वा ते तव ददतां इति शापवचनम् ॥ २ ॥ हे नोदद ! - प्रेरणखण्डक ! राजा - १० चन्द्रः अः- ईश्वरः आः - स्वयंभूः । ततो द्वन्द्वे कृते राजाः ते तुभ्यं तव वा सौख्यं असौख्यं वा ददताम् ॥ २ ॥ अर्थयोजना स्वयं कार्या । सर्वे० ॥ ४ ॥ पूर्वद्वयमीलने ॥ ६ ॥ पुनः पूर्वोक्त १०२१४०० मीलने १०२१४०६ ॥ पुनः पूर्वोक्त १००० सहस्रार्थमीलने जाताः १०२२४०६ ॥ संवति १६४९ प्रमिते श्रावणसुदि १३ दिन सन्ध्यायां 'कश्मीर' देशविजयमुद्दिश्य १५ श्रीराजश्रीरामदास वाटिकायां कृतप्रथमप्रयाणेन श्री अकव्बर पातिसाहिना जलाल (लुद्दी)दीनेन अभिजात साहिजातश्री सिलेमसुरत्राणसामन्तमण्डलिकराजराजिविराजितराजसभायां अनेकविधवैयाकरणतार्किक विद्वत्तमभट्टसमक्षं अस्मद्गुरुवरान् युगप्रधानखरतर भट्टारकश्री जिनचन्द्रसूरीश्वरान् आचार्यश्री जिन सिंहसूरिप्रमुख कृतमुखसुमुखशिष्यत्रात सपरिकरान् असमानसन्मानबहुमानदानपूर्व समाहूय अयमष्टलक्षार्थी ग्रन्थो मत्पार्श्वद् वाचयां - २० चक्रेऽवक्रेण चेतसा । ततस्तदर्थश्रवणसमुत्पन्नप्रभूतनूतनप्रमोदातिरेकेण सञ्जातचित्तचमत्कारेण बहुप्रकारेण श्रीसाहिना बहुप्रशंसापूर्व 'पठतां पाठ्यतां सर्वत्र विस्तार्यतां सिद्धिरस्तु' इत्युक्त्वा च स्वहस्तेन गृहीत्वा एतत् पुस्तकं मम हस्ते दत्त्वा प्रमाणीकृतोऽयं ग्रन्थः । अतः सोपयोगित्वात् श्रीसाहीनपि समुद्दिश्य अर्थमाहरोजा नः ददते सौख्यम् ॥ रा-पतिरथन्यायेन श्रीः तया उपलक्षितः अः - अकारः श्रीअः तथा अजो-ब्रह्मा सोऽपि पर्यायेण कः " को ब्रह्मा" इति (विश्वशम्भु० श्लो २१) उक्तत्वात् । ततः श्रीअपूर्वः कः श्री अकः । तथा 'अः शिवे केशवे वायौ” इत्यादि श्रीविश्वशम्भु ( श्लो० ५ ) वचनप्रामाण्यात् अः - वायुः, स च पर्यायेण "वो चाते वरुणे रुद्रे” इति सुधाकलश ( श्लो० ३९ ) वचनात् वः । ततः पूर्वमीलने श्रीअकवः । “यमक श्लेषचित्रेषु बवयोर्डलयोर्न मित्र" हृति २० १ अयं पाठः ख- पुस्तके नास्ति । २ रा-अ-अज-अ-भाः इति सन्धिविशेषे । अर्थ. ९ २५ · Page #87 -------------------------------------------------------------------------- ________________ ६६ अर्थरत्नावली ( वाग्भटालङ्कारे श्लो० २० ) उक्तत्वात् वकारस्थाने बकारो गण्यः । ततः श्रीअकबः । ततः अः (?) अपरनामा आ-अग्निः, स तु पर्यायेण "रो ध्वनौ । तैक्ष्ण्ये वैश्वानरे कामे " इति ( काव्यकल्पलतायां तृतीयप्रताने चित्रप्रपञ्चे ) श्री अमरकविवचनात् रः । ततः सर्वमीलने सन्धौ च राजाः - श्री अकबरः नः - अस्मभ्यं सौख्यं - सुखं ददते । प्रजानामिति : ५ शेषः । प्रजानां च सुखदानं न्यायित्वात्, परमकृपापरत्वात् शुल्कादिमोचनकत्वात्, षड्रदर्शनीसन्मानदायकत्वात्, शत्रुञ्जयादिमहातीर्थरक्षाकारकत्वात्, श्रीजैनादिधर्मभक्तत्वात्, सर्वसम्मतत्वाच्च । अत्र श्रीसाहेरेव पद्यवन्धेन स्वकृतैव मया वर्णना लिख्यते न्यायो नीवृति सर्वतः प्रकटितः शुल्कं त्वया त्याजितं तीर्थस्थानवत्पथाश्च विहिताः षड्रदर्शनी प्रा (प्री ? ) णिता । गोरक्षादिकृते अमारिपटहो यद्दापितस्तत्प्रभो ! धर्मात् ते विजयः सदैव समरे लोकेऽपि धर्माज्जयः ॥ १ ॥ - शार्दूल० न्यायो नीवृति रामचन्द्रनृपतेर्दानं च कर्णप्रभोः > श्रीमद्विक्रमभूपतेरुपकृतिः श्रीपाण्डवानां जयः । सत्कीर्तिश्च नलस्य शस्तगुण इत्येकैक एवाभवद् दृश्यन्ते भवति प्रभो ! क्षितितले सर्वेऽपि ते साम्प्रतम् ॥ २ ॥ -,, संसारे यदपूर्व, वस्तु समस्तं तदस्ति ते द्वारि । अकबर ! परं त्वपूर्वी, न्यायो नो दृश्यते क्वापि ॥ ३ ॥ - आर्या दाने देवतरुः परोपकरणे श्रीविक्रमाधीश्वरो धैर्ये ‘मेरु’गिरिस्तथा जलनिधिर्गम्भीरतायां हरिः । ऐश्वर्ये सुमतौ बृहस्पतिरसौ देशोपमा दृश्यते नो जीवप्रतिपालने तव भुवि श्रीपातसाहिप्रभो ! ॥ ४ ॥ - शार्दूल० स्वमानरक्षणात् तुष्टो, रत्नराशिरदात् तव । त्रयोदश सुरलानि, विषं च तव वैरिणाम् ॥ ५ ॥ - अनु० अत्रत्या रक्षिताः सर्वे, साहिनाऽनिमिषास्ततः । स्तम्भा (१) न स्थातुमिच्छन्ति, दैत्यभीताः सुरा अपि ॥ ६ ॥ " दत्तं श्रीजिनचन्द्राणां श्री अकब्बर साहिना । सप्तभीतिहृते मन्ये, अमारिदिन सप्तकम् ॥ ७ ॥” १ कहयथाश्च' (?) इति ख- पाठः । अहो साहेरियं शक्ति-र्यद्गुरोरुपदेशतः । asमरपदं येन, स्वेच्छा सञ्चारिणामपि ॥ ८ ॥ Page #88 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरगणिकृता इत्यादि । सर्वसम्मीलने जाता अर्थाः १०२२४०७ ॥ ___ अत्र अष्टलक्षेभ्योऽर्थेभ्यो यत् साधिकं लक्षद्वयमधिकं जातमस्ति तत् ये अर्था अष्टलक्षार्थीमध्ये केचन न सम्भवन्ति अर्थयोजनया वा न मिलन्ति तत्र स्थाने स्थाप्यम् । ततोऽष्टलक्षार्थी सम्पूर्णा अविघटा अविसंवादिनी च ज्ञेया । जाताः सर्वे अर्थाः अष्टौ लक्षाः ॥ ८०००००॥ ॥ अथ प्रशस्तिः ॥ वर्धमानो जिनो जीयाद्, वर्धमानो गुणवजैः । तीर्थ यदीयमद्यापि, जागर्ति जगतीतले ॥१॥-अनु० श्रीगौतमाद्या गणधारिवर्या यच्छन्तु मे वाञ्छितमच्छवुद्धयः। यद्वाक्यमुक्ताफलदामराम कुर्वन्ति कण्ठे कृतिनः प्रकामम् ॥ २॥-इन्द्रवंशा (?) श्रीहरिभद्रमुनीन्द्र-प्रमुखा मां पूर्वसूरयः पान्तु । . हृन्मञ्जूषामध्ये, यद्गुणरत्नानि धार्यन्ते ॥ ३ ॥-आर्या श्रीमद्देवाचार्याः, पूर्वाचार्याः प्रभूतगुणवर्याः । समभूवन् भवसागर-तारणवरतरणिचरणयुगाः ॥४॥-आर्या तस्य पट्टमलट्चक्रे, नेमिचन्द्राख्यसूरिराट् । यद्वचोऽमृतपानेन, प्रापुर्निजरतां नराः ॥५॥-अनु० तदनु द्योतविद्योती, सूरिझद्योतनोऽभवत् । उद्यद्विहारविख्यातः, प्रद्योतन इवाद्भुतः ॥ ६ ॥-अनु०. यकः शोधयामास वै सूरिमन्त्रं गिरीन्द्राव॑दस्याद्भुते शृङ्गभागे। विधायाष्टमं सन्नमन्नागनाथ...... स्ततो वर्धमानाभिधः सूरिरासीत् ॥७॥-भुजङ्गप्रयातम् श्रीमहर्लभराजराजसदसि 'श्रीपत्तने' पत्तने . • वादं श्वेतपटैः प्रभूतकपटैः साकं सदा लम्पटैः। कृत्वा यः प्रकटीचकार वसतेर्मार्ग मनोहारिणं सूरिभूरिजयो जिनेश्वरगुरुर्जातो जगद्विश्रुतः ।। ८॥-शार्दूल. १ 'सागरतारण' इति ख-पाठः, प्रो. पिटर्स रिपोर्टनाम्नि अन्ये चतुर्थविभागे (पृ० ६९) तु 'सागरतरणे परतरणचर' इति पाठः। २ 'समतं भागनाथ' इति ख-ग-घ-पाठश्चिन्तनीयः। , Page #89 -------------------------------------------------------------------------- ________________ अर्थरनावली 'संवेगरङ्गशाला', येन कृता जगति लोकहितहेतुः । जातः श्रीजिनचन्द्रः, सूरिस्तत्पदृसमचन्द्रः ॥ ९॥-आर्या अतिचङ्गनवाङ्गीवृत्तिकार ! खरतरगणनायक! सुगुणधा(धी?)र! यशसा युतं ! जय चिरमभयदेवसूरीश्वर! सुरकृतचरणसेव! १०-आर्यागीतिः कृत्वा समीपेऽभयदेवसूरे र्येनोपसम्पद्रहणं प्रमोदात् । पपे रहस्यामृतमागमानां सूरिस्ततः श्रीजिनवल्लभोऽभूत् ॥ ११ ॥-उपजातिः जिग्यिरे येन योगिन्य-श्चतुःषष्टिर्यतीन्दुना। सूरिः श्रीजिनदत्तोऽभूत् , तत्पदाम्बुजभास्करः ॥ १२ ॥-अनु० ततस्तनुभृतां प्रियः समजनिष्ट शिष्टक्रियः प्रणष्टतिमिरोत्करः सुजिनचन्द्रसूरीश्वरः। कवित्वसुममालिको न(व?)रमणीमनोज्ञालिको नमन्निखिलनायकः प्रवलसौख्यसन्दायकः ॥ १३ ॥-पृथ्वी जिनपतिसूरिजिनेश्वर-सूरीश्वरजिनप्रबोधजिनचन्द्राः । तत्पद्देऽनुक्रमतो--ऽभूवन भूपीठविख्याताः ॥ १४ ॥-आर्या .. यस्यादेशात् 'खरतर'वसत्याख्यचैत्यं प्रचक्रे .. तेजःपालो विपुलविभवोऽपि स्वयं तत्र चैत्ये । यः प्रातिष्ठत् त्रिभुवनगुरोः शान्तिनाथस्य बिम्ब सोऽभूच्छ्रीमज्जिनकुशलराट् सूरिराजीतुरापाट् ॥ १५ ॥-मन्दाक्रान्ता नमानेकविवेकसेकविलसत्क्ष्मापालजम्बालज प्रत्यग्रप्रतिवोधवन्धुररविः प्रत्यर्थिभूभृत्पविः । यः 'कूर्चालसरस्वती'ति सुतरां ख्याति क्षितौ प्राप्तवान् स श्रीमजिनपद्मसूरिसुगुरुर्जातस्ततस्तारकः ॥ १६ ॥-शार्दूल. सञ्चारुचरणनीरज-चञ्चरतरचञ्चरीककरणिरभूत् ।। “सं श्रीमज्जिनलब्धिः, सूरिः सौभाग्यगुणलब्धिः ॥ १७ ॥-आयो तदनु विगतच(त?)न्द्राः पश्चिमाम्भोधिमन्द्राः __कुशलकुमुदचन्द्रा प्रत्तभव्याङ्गिभद्राः। । मुद्रितोऽस्याः पूर्वार्धः श्रीजिनदत्तसूरिग्रन्थमालायां (सूर्यपुरे)। 'सुर'शब्दो मास्ति ग-घ-प्रत्योः । Page #90 -------------------------------------------------------------------------- ________________ श्रीसमयसुन्दरंगणिकृता प्रणमदमरचन्द्रा निर्जितश्लोकचन्द्रा इह भुवि जिनचन्द्राः सूरिराजीसुरेन्द्राः ॥ १८॥-मालिनी यद्दीक्षिताः समभवन् पंदिनः सुशिष्याः श्राद्धाश्च सपतयोऽर्पितवासयोगात् । प्राप्तोदयः प्रवरलब्धिसमृद्धिसिद्धेः पात्रं ततोऽजनि जिनोदयसूरिराजः ॥ १९ ॥-वसन्ततिलका रेजिरे राजराजास्या, राजराजिनमस्कृताः। श्रीजिनराजसूरीन्द्रा, भव्यराजीवभास्कराः॥२०॥-अनु० श्रीम जेसलमेरुदुर्ग'नगरे 'जावाल'पुर्या तथा श्रीमद्देवगिरौं' तथा 'अहि'पुरे 'श्रीपत्तने' पत्तने । भाण्डागारमबीभरद् वरतरैर्नानाविधैः पुस्तकैः स श्रीमज्जिनभद्रसूरिसुगुरुर्भाग्याद्भुतोऽभूद् भुवि ॥ २१ ॥-शार्दूल. ततः क्रमाच्छीजिनचन्द्रसूरिः, समुद्रसूरिर्जिनहंससूरिः । माणिक्यसूरिर्गुणरतसूरिर्जातस्ततः सारविचारसूरिः ॥ २२ ॥-उप० तदीयपंदपूर्वाद्रि-प्रकाशनरविप्रभाः। · श्रीजिनचन्द्रसूरीन्द्रा, जयन्ति जयिनोऽधुना ॥ २३ ॥-अनु० येभ्यो मुदाऽदायि युगप्रधान-पदं प्रभुश्रीमदकव्यरेण । प्रभूतभाग्योदयसुप्रसिद्धा, जयन्तु ते श्रीजिनचन्द्रसूरयः ॥ २४ ॥-उप० (1) श्रीसाहिवाक्याद् गुरुभिः प्रमोदाद, ये वर्यमाचार्यपदे प्रतिष्ठिताः । जामधशोराशिविराजमाना, जयन्ति ते श्रीजिनसिंहसूरयः ॥ २५ ॥-उप० २. तचारुचरणाम्भोज-चञ्चरीकमनाः सना । गणिः सकलचन्द्राख्यो, विख्यातो मुख्यशैक्षकः ॥ २६ ॥-अनु० तच्छिष्योऽभ्यस्विकृत्यर्थ, गणिः समयसुन्दरः। वाचकः संव्यधान वृत्ति-मर्थरमावलीमिमाम् ॥ २७ ॥-अनु० श्रीजितसिंहमुनीश्वर-वाचकवरसमयराजगणिराजाम् । महिरीकगुरूणा-मनुग्रहो मेऽत्र विज्ञेयः॥ २८ ॥-आर्या १५ पतिनाति प्रो-पाठः। . 'पद्' इति क-पाठः । Page #91 -------------------------------------------------------------------------- ________________ अर्थ रत्नावली मत्सरेणाहतो मूखों-ऽसहमानः परोन्नतिम् । सच्छास्त्रं दूषयत्येव, वारिकुम्भमरिष्टवत् ॥ २९ ॥-अनु० मात्सर्यमुत्सार्य विचार्य सम्यक् ज्ञात्वा प्रयासं मम दुष्करं च । कृत्वा प्रसादं कवयो गुणज्ञाः प्रमाणयन्तु स्फुटमेतदथान् ॥ ३० ॥-उप० यदत्र शास्त्रे मतिमान्द्यदोष- -- - वशादशुद्धं किमपि स्फुटं स्यात् । विशोधयन्तूग्रधियः प्रसद्य - तृणं यथा निर्मलसौधकुण्डात् ॥ ३१ ॥-उपेन्द्र० श्रीविक्रमनृपवर्षात् , समये रसजलधिरागसोम(१६४६)मिते ।। श्रीमल्लाभ'पुरेऽस्मिन् , वृत्तिरियं पूर्णतां नीता ॥ ३२ ॥-आर्या अर्थरत्नावली वृत्तिः, कविकण्ठावलम्विनी । वाच्यमाना चिरं नन्द्याद्, यावच्चन्द्रदिवाकरौ ॥ ३३ ॥-अनु० १५ इति श्रीमत्खरतरगच्छाधिराजश्रीजिनमाणिक्यसूरिपट्टालङ्कारश्रीअकबरसाहि जलालदी(लुद्दी)नप्रदत्त युगप्रधानपदविरुदश्रीश्रीश्रीमजिनचन्द्र सूरिशिष्यमुख्यपण्डितप्रवरसकलचन्द्रगणिमणिशिष्यवाचकसमयसुन्दर. गणिविरचिता अर्थरत्नावलीनाम्नी अष्टलक्षार्थी . सम्पूर्णा ॥ श्रीः॥ 4.COM or: " . M . PADAACADDARADABAD , 'काव्ये' इति प्रो-पाठः। Page #92 -------------------------------------------------------------------------- ________________ श्रीशुभतिलकोपाध्यायविरचितं ॥ गायत्रीविवरणम् ॥ ॐ नमः ॥ श्रीजिनाय नमः ।। चिदात्मदर्शसान्त-लोकालोकविहायसे ।। परिवाग्वर्तिरूपाय, प्रणम्य परमात्मने ॥ १॥-अनु० गम्भीरार्धामपि श्रुत्वा, किश्चिद् गुरुमुखाम्बुजात्। परेपामुपयोगाय, 'गायत्रीं' विवृणोम्यहम् ॥ २॥-अनु० इमां ह्यनादिनिधनां, ब्रह्मजीवानुवेदिनः ।। आमनन्ति परे मन्त्रं, मननत्राणयोगतः ॥ ३ ॥-अनु. गायन्तं त्रायते यस्माद्, गायत्रीति ततः स्मृता । आचारसिद्धावप्यस्या, इत्यन्वर्थ उदाहृतः ॥ ४ ॥-अनु० मन्त्रश्च स प्रमाणको टिसण्टङ्कमाटीकते यः सर्वपार्षदो भवति अहमित्यादिवदिति सर्वदर्शनाभिप्रायेण गायत्री व्याख्यानायोपक्रम्यते । सा चेयं सूत्रतःॐ भूर्भुवःस्वस्तत् सवितुर्वरेण्यं भगदि वस्यधीमहि धियोऽयो! न:! प्रचोदयात् अस्य व्याख्या-0मिति परमेष्ठिपञ्चकमाह । कथमिति चेदुच्यते-अर्हन्त इत्याद्यक्षरं १५ अः। अशरीरा इति सिद्धास्तदाद्यक्षरं अः । आचार्या इत्याद्यक्षरं आ । उपाध्याया इत्या." धक्षरं उः। मुनीत्याद्यक्षरं अस्वरम् सन्धिवशात् ओम् । पदैकदेशेऽपि पदसमुदायोपचारादेवमुक्तिः। तदेवासाधारणगुणसम्पदा विशिनष्टि-भूर्भुवःस्वरिति । भूरित्यव्ययं भूलोंके । भुव इति भूलोके । स्वरिति स्वाके । त्रयाणां द्वन्द्वे भूर्भुवःस्वः । अधस्तिर्यगूलरूप लोकत्रयं तत् तनोति-ज्ञानात्मना व्यामोति भूर्भुवःस्वस्तात् । प्रसिद्धा धर्हत्सिद्धानां सर्वद्रव्यपर्याय. २० पारे वाग्वृति.' इति प्रतिभाति । २ 'मुपकाराय' इति ख-पाठः । ३ 'मनादि' इति ख-पाठः। 'पर' इति क-पाठः। ५ 'गायितं गायितं यस्मात्' इनि ख-पाठः। ६ स एवं प्रमाणकोटिमाटीकते' इतिख-पाठः । • भई मिस्यस्य भः । [भ] सिद्धा अकर्मका इति तेषामपि अः। भाचार्याणां ना। उपाध्यायानां उः । जातं भो इति । मुनीनां मकारे ॐइति । पदे.' इति ख-पाठः । ८उक्तंच "भरिहंता भसरी आयरिया उपझाया मुणिणो। पंचक्खानिप्पनो ॐकारी गंध परमेही।" ९ विशेषणतया विशिनष्टि । भूरित्यव्ययं भूवाचकम् । भुव इति पाताललोके' इति स-पाठः। Page #93 -------------------------------------------------------------------------- ________________ ७५ गायत्रीविवरणम् विषयेण केवलज्ञानात्मना लोकत्रयव्याप्तिः ज्ञानात्मनोः स्यादभेदात् , शेषत्रयस्यापि श्रद्धानविषयतया "संबगयं समत्तं" इति (विशेषावश्यक गा० २७५१ ) वचनात् सामान्यरूपतया ज्ञानाद् वा । अत एव सवितुर्वरेण्यं-सहस्ररश्मेः सकाशात् प्रधानतरं, तदुयोतस्य देशविपयत्वात् प्रस्तुतपञ्चकसम्बन्धिनो भावोयोतस्य सर्वविषयत्वात् । आहुश्च ५ पूज्याः (श्रीभद्रबाहुस्वामिनः आवश्यकनियुक्तौ लोगस्साधिकारे)-"चंदाइञ्चगहाणं" इत्यादि । न चाचार्यादित्रयस्य कैवलिकज्ञानलम्भो नास्तीति वाच्यम् । तेषामपि कैवलिकज्ञानोपलब्धानां भावानां सामान्येन ज्ञानसद्भावादित्युक्तं भर्गोदे इति । भर्ग इति ईश्वरः । उरिति ब्रह्मा दयते-पालयति जगदिति दो-विष्णुः 'कचिद्' (सिद्ध०५-१-१७१) इति डे रूपम् । लोके हि जगद् ब्रह्मोत्पादयति रजोगुणाश्रितः, विष्णुः स्थापयति सत्त्व१० गुणाश्रितः। ईश्वरः संहरति तामसभावाश्रितः इति । भर्गश्च उश्च दश्चेति भर्गोदः, द्वन्द्वैकवद्भावात् , तस्मिन् । किंविशिष्टे ? 'वसि' वसतीति वस् विचि रूपं तस्मिन् वसि। क वसि इत्याह-'अधीमहि' अस्य (-विष्णोः ) अपत्यं इ:-कामः तस्य मह्यो-भूमयः इमह्यःकामिन्यस्ता अधिकृत्य अधीमहि-स्त्रीषु तिष्ठमाने, ख्यायत्तात्मनीत्याशयः । प्रतीतं चैत दीश्वर-ब्रह्म-विष्णुषु कामिनीपरवश(क)त्वम् । पार्वत्यनुनयार्थमीश्वरस्य ताण्डवाडम्बर१५ श्रुतेः । ब्रह्माणमधिकृत्य वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयत्" । विष्णोस्तु गोपादिवल्लभोपदर्शकतत्तद्वचनश्रवणात् । पठ्यते च "राधा पुनातु जगदच्युतदत्तदृष्टि मन्थानकं विदधती दधिरिक्तभाण्डे । तस्याः स्तनस्तबकलोलविलोचनालिदेवोऽपि दोहनधिया वृषभं निरुन्धन् ॥"-वसन्त० सम्पूर्णा गाथा तछाया च यथा "सम्वगयं सम्मत्तं, सुत्ते चरित्ते न पज्जवा सम्धे । देसविरई पदुच्चा, दोण्ह वि पडिसेहणं कुजा ॥" सर्वगतं सम्यशवं श्रुते चरिग्रेम पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् । २ 'भंत भाई' इति ख-पाठः। ३सममा गाथा तछाया चैवम् "चंदाइशगहाणं, पहा पयासेइ परिमियं खिन । केवलियनाणलंभो, लोगालोगं पयासे ह॥" चन्द्रा-ऽऽदित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् । केवलिकज्ञानळाभो लोकालोकं प्रकाशयति ॥ . 'तमोगुणान्वितः' इति ख-पाठः। ५ वरादिषु' इति ख-पाठः। ६ ईश्वरेण हि कामाम्धेम पा. त्याः पुरो नाव्यं कृतं, बझा' इति ख-पाठः।. Page #94 -------------------------------------------------------------------------- ________________ गायत्रीविवरणम् ७३ इत्यादि । शिष्यं प्रति शिक्षामाह-हे नः!-नर! नृशब्दस्थामन्त्रणे रूपम् । सबहुमानं ह्यामन्त्रितः शिष्यः प्रस्तुतार्थश्रवणे उत्साहितो भवति, अतो विशेषणमाह-'धियोऽयो !' इति। 'युक् मिश्र[व]णे' (सिद्ध० धा०) इत्ययं परैरमिश्र[वणे चेत्यधीयते, अतो यौति-पृथग्भवतीति युः। विचि छान्दसत्वाद् गुणाभावः। न युरयुः तस्यामन्त्रणं हे अयो!-अपृथग्भूत! कस्याः? 'धियः' वुद्धितः । यतः त्वं बुद्धेरपृथग्भूतो बुद्धिमान्-प्रेक्षापूर्वकारी, अतस्त्वं ५ शिष्यसे । तदन्यत्र हि रक्त-द्विष्ट-मूढ-पूर्वव्युद्राहितादावुपदेशानहत्वात् अन्धकारनृत्तानुकारी प्रयास इति । पुनर्युत्पाद्यस्यैव विशेषणान्तरमाह-'प्रच!' इति । प्रकृष्टं चरतीति प्रचः-प्रकृष्टाचारो मार्गानुसारिप्रवृत्तिरितियावत् 'क्वचिद्' (सिद्ध० ५-१-१७१) इति डे रूपम् । यथा वा प्रचः-हंस इति, प्रकृष्टाचारे झुपदेशसाफल्यं, आचारपराङ्मुखाणां शास्त्रसद्भावप्रतिपादने प्रत्युत प्रत्यवायसम्भवात् । किम् ? 'उदयात्' उदयं प्राप्तम् । अनन्य- १० सामान्यगुणातिशयसम्पदा प्रतिष्ठितमाराध्यत्वेन परमेष्ठिपञ्चकं कर्तृभूतमिति । अयमिह तात्पर्यार्थः-ईश्वर-ब्रह्म-विष्णुषु उपलक्षणत्वादन्येष्वपि कपिल-सुगतादिषु दैवतेषु मध्ये भो पुरुष! ज्ञानवन् ! प्रकृष्टाचार! परमेष्ठिपञ्चकमेव पूर्वदर्शितदिङमात्रगुणातिशययोगादाराध्यतया प्रतिष्ठितम् , अतस्तदेवाराधनीयं, तदेव चोपासनीयं, तदेव शरणतया प्रति. पत्तव्यं, तदाज्ञामृतरस एवास्वादनीयः, तद्व्यतिरिकाराध्यान्तरस्यासद्भावात् । भावेऽपि १५ (च) वस्तुतस्तत्त्वानुपपत्तेः, तदोषाणां लेशत इहैव निर्णीतत्वात् , तद्व्यवच्छेदेन चाराध्यतायामतिप्रसङ्गः । उक्तं च “कामानुपक्तस्य रिपुप्रहारिणः, प्रपश्चिनोऽनुग्रहशापकारिणः। __ सामान्यपुंवर्गसमानधर्मिणो, महत्त्वकृप्तौ सकलस्य तद् भवेत् ॥" इति । इह चाधीमहि वसीति विशेषणेन तेषां रागसूचनं, सोहचर्याद् द्वेष-मोहावप्यवसेयौ, २० तेषामायुधादिसद्भावात् पूर्वापरव्याहतार्थागमाद्यभिधानाच्च, यदुक्तम् "रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषद्दारणहेतिगम्यः । मोहः कुवृत्तागमदोषसाध्यः ॥" इत्यादि । आचार्यादीनां न सर्वथा रागादिक्षय इति चेत् ? न, तेषामप्याप्तोपदेशेन रागादिक्षयार्थ प्रवृत्तेस्तथाविधरागाद्यसद्भावात् तदत्यन्तक्षयस्य च भावित्वात् भाविनि भूतवदु-२५ पचारात् वीतरागितैवेति, भावाचार्यादिभिरेवानाधिकार इति सर्व समञ्जसम् । इत्यार्हताभिप्रायेण मन्त्र व्याख्या ॥ 'विशेष्यसे' इति ख-पाठः। २ 'पुनः शिष्यस्यैव' इति ख-पाठः। ३ श्रेण गुणा' इति ख-पाठः। ४ 'तथाहि-कामा०' इति ख-पाठः। ५ "विशेषणे द्वेषस्योपलक्षणं भायुधादिसद्भावेन द्वेषस्यापि तेषां सद्भावात् । इति जनमताभिप्रायेण व्याख्या ॥॥' इति स-पाठः। तर्करहस्यदीपिकाऽनुसारेण (पृ. १५) भवशि चरणं वेवम्-"मो पल्प देवः स स चैवमहम्"। . अर्थ. १. Page #95 -------------------------------------------------------------------------- ________________ ७४ श्रीशुभतिलकोपाध्यायकृतम् (ॐ भूर्भुवःस्वस्तत् ! सवितुर्वरेण्यं भर्गोदेऽव स्य धीमहिधियो यो नः प्रचोदयाऽत् !) अथाऽक्षपादाः [स्वं चेदनी(दिनः)?] स्वं देवम्-ईश्वरं प्रणिदधानाः प्रार्थनापुरःसरमेवमभिदधते-ॐ भूर्भुवःस्वरित्यादि । ओमिति सर्व विद्यानामादिबीजं संमग्रागमोपनिषद्भूतम् , अशेषविघ्नविघातनिघ्नम् , अखिलदृष्टादृष्टफल सङ्कल्पकल्पद्रुमोपममित्यस्य प्रणिधानस्यादावुपन्यस्तं परममङ्गलम् । न चैतद्व्यतिरिक्त अन्यत् तत्त्वमस्ति वस्तुत इति । हे भूर्भु. वःस्वस्तदिति लोकत्रयव्यापिन् !, आक्षपादानां हि शिवः सर्वगत इति । तथा सवितुःभास्वतो वरेण्य !-प्रधानतर!, सर्वज्ञत्वात् । वरेण्यं इति अनुनासिकस्तु 'अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः' (सिद्ध० १-२-४१) इति लक्षणवशात् । यथा "सामं साम ध्रुवं तावद्, दधि दधि मधु मधु । श्रूयन्ते सुध्रुवामत्र, न यावन्मधुरा गिरः॥" विशेष्यमाह-हे भर्ग! उदे ! इति । उत्कृष्ट इ:-कामो यस्य स उदिः तस्यामन्त्रणं (हे) उदे !। अर्वाचीनावस्थापेक्षया विशेषणमिदम् । प्रार्थनामाह-अव स्य इति क्रियापदद्वयं यथासङ्ख्यमुत्तरपदद्वयेनाभिसम्बध्यते । तत्र अव-रक्ष पालय वर्धयेतियावत् । किमित्याह१५ धीं-मति कर्मपदम् । धीवुद्धिः ज्ञानं तत्त्वाधिगम इत्यनान्तरम्। धियः ई:-श्रीः धीः तां, धीयुक्तां वा श्रियम् , ईश्वरतः प्रार्थना ज्ञानस्य "ईश्वरात् ज्ञानमन्विच्छेत्” इति वचनात् । तथा स्य-विनाशय । 'पोंच अन्तकर्मणि' (सिद्ध० धा०) इत्यस्य रूपम् । किमित्याहअहिधियः कर्मतापन्नाः । अहिः-सर्पः तस्येव धियः क्रूरताद्याः परापचिकीर्षादिवार्ताः । नः-अस्माकं, बुद्धिं वर्धय क्रूरताद्याः कुंवुद्धीश्च विध्वंसयेत्यर्थः । पुनर्विशेषणान्तरमाह-हे २० यो:-मिश्रित! सम्बद्ध ! 'युक् मिश्रणे' (सिद्ध० धा० ) इत्यस्य विचि रूपम् । कया इत्याह-'प्रचोदया' 'चुदण् सञ्चोदने' (सिद्ध० धा०) ततः चोदनं चोदः [स]-शृङ्गारभावसूचनं, प्रकृष्टश्चोदो यस्याः सा प्रचोदा अर्थात् पार्वती तया सहेति वाक्यशेपः । अर्वाचीनावस्थापेक्षया, पार्वतीपीनपयोधरप्रणयीत्याकूतम् । परमपदावस्थायां तु प्रचोदया अयो!-अमिश्रित ! इति व्याख्येयम् । “पडिन्द्रियाणि पडू विषयाः पडू वुद्धयः सुखं २५ दुःखं शरीरं चेत्येकविंशतिप्रभेदभिन्नस्य दुःखस्यात्यन्तोच्छेदो मोक्षः” इति नैयायिकवच नप्रामाण्यात् । तथा उदे ! इति प्राचीनविशेषणमपि । उत्क्रान्त ए:-कार्मादित्युदिस्तस्यामन्त्रणं उदे ! इति योज्यम् । तथा अत् ! इति विशेषणम् । अत्ति-भक्षयति जगदिति अत् सृष्टिसंहारकत्वात् । उक्तं च (श्रीहारिभद्रीये पडूदर्शनसमुच्चये श्लो० १३) . 'अथवाऽक्षः' इति क-पाठः । २ 'समस्तागमानामुपनिषद्भूतम्, अतोऽस्य प्रणिधानं परममङ्गलस्वादादौ उपन्यस्तं न चैः' इति ख-पाठः। ३ 'तत्त्वान्तरं' इति ख-पाठः। ४ 'यथा' इति ग-पाठः। ५ वर्णेस्या दिना विशेष्य.' इति स्व-पाठः। ६ 'धीमिति कर्म' इति क-पाठः। ७ 'कुबुद्धीविनाशय, पुनः' इति ख-पाठः। ८ 'स्थायर्या' इति ग-पाठः। ९ 'दिति सिद्धिस्तस्याः' इति ख-पाठः। Page #96 -------------------------------------------------------------------------- ________________ गायत्रीविवरणम् "अक्षपादमते देवः, सृष्टिसंहारकृत् शिवः । विभुर्नित्यै सर्वज्ञो नित्यबुद्धिसमाश्रयः || ” - अनु० 7 इति नैयायिकाभिप्रायेण मन्त्रव्याख्या ॥ २ ॥ अथ वैशेषिकाभिप्रायेणाप्येवमेव, तैरपि शिवस्य देवतयाऽभ्युपगमात् । नवरं परमपदावस्थास्वरूपमेवम् - "बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां ५ नवानां विशेषगुणानामत्यन्तोच्छेदो मोक्षः” इति ॥ ३ ॥ तन्मते ॐ भूर्भुवःस्वस्तत् । सवितुर्वरेण्यं भर्गोदेवस्य धीम ! हि धियो यो ! नः प्रचोदयात् । अथवा साङ्ख्याः स्त्रं देवं - कपिलं प्रणिदधाना इदं वदन्ति - हे 'धीम !' धीःबुद्धिः तां 'माह (ग) मानशब्दयोः' (सिद्ध० धा० ? ) शब्दयति - प्ररूपयति इति धीमः - १० भगवान् कपिलस्तस्यामन्त्रणम् । ॐ भूर्भुवः स्वस्तदिति पूर्ववत् । "अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म, आत्मा कपिलदर्शने ॥" ७५ २० इति वचनात् । सवितुर्वरेण्यमित्याक्षपादपक्षवत् । कपिलमेवोपयोगसम्पदा विशेषयतिभर् इति । 'डुभृंग पोषणे च' (सिद्ध० धा० ) । विभर्तीति भर् - पोषकः । विचि गुणे १५ 'च रूपम् । कस्येत्याह-' गोदेवस्य' । गोशब्देनात्र खुरककुदसास्नालाङ्गूलविपाणाद्यवयवसम्पन्नः पशुरुच्यते । अनेन च विधेयता लक्ष्यते । ततो गोरिव विधेयानि - वश्यानि देवानि - इन्द्रियाणि यस्य स तथा तस्य, जितेन्द्रियस्येत्यर्थः । न च गोर्विधेयता कवीनां न रूढिः, “गौरिवैति_विधेयताम्" इत्यादि लक्ष्यदर्शनात् । धीमेति व्याख्यातमेव । 'हि' स्फुटम् । 'घियो यो !' इति । हे बुद्धितत्त्वात् पृथग्भूत!, प्रकृतिपुरुषविवेकदर्शनात् २ "निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्षः” इति वचनात्, प्रकृतिवियोगे च बुद्ध्यादीनामपि विगमात् कारणाभावे कार्याभावात् । धिय इति पदं पुनरावृत्त्या पञ्चम्यन्तं प्रचोदयेत्यनेन सम्बध्यते । ततश्च धियो - बुद्धितत्त्वात् नः - अस्मानपि प्रचोदय- प्रेरय, व्यपनयेत्यर्थः । षष्ठ्यन्तं वा धिय इति । षष्ठी च " कर्मणि शेषजा" यथा- 'भाषाणामश्नीयात्' । तथा " न केवलं यो महतां विभाषते" इत्यत्र । ततश्च नः अस्माकमपि धियं प्रकृति - २५ हेतुकां व्यपनयेति भावः । स्वयं मुक्तोऽस्मान् मोचयेतेतियवत् । 'अत्' इति । अदिति दान्तमव्ययं आश्चर्यार्थम् । तथाच अदिति आश्चर्य रूप ! तत्कारणेऽनिवृत्तत्वात् तस्यामन्त्रणं हे अद् ! | 'विरामे वा' (सिद्ध० १-३ - ५१ ) इति दस्य तः । इति साङ्ख्याभिप्रायैः ॥ ४ ॥ १ 'वैशेषिकाभिप्रायेण व्याख्या' इत्यधिकः ख- पाठः । ३ 'वा ततो माषाणामश्रीयादिस्यादिवत् धियं' इति ख- पाठः । २ 'बुद्धितत्वं तन्मिमीते - शब्द०' इति ख- पाठः । ४ 'भावः' इति ख- पाठः । ५ लोकोऽयम् । Page #97 -------------------------------------------------------------------------- ________________ श्रीशुभतिलकोपाध्यायकृतम् अथवा वैष्णवाः स्वं देवं-हरि प्रणिदधाना इंदमुद्गिरन्ति-भूर्भुवःस्वस्तदित्यादि । ओमिति प्राग्वत् । भूर्भुवःस्वस्तदिति लोकत्रये व्यापिन् ! "जले विष्णुः स्थले विष्णु-विष्णुः पर्वतमस्तके। सर्वभूतमयो विष्णु-स्तस्माद् विष्णुमयं जगत् ॥ १॥" ५ इति वचनात् । अथवा भूरित्याश्रयो भुवः-पृथिव्याः। स्वस्तदिति "स्वर्गे परे च लोके स्वर" इत्यमरकोश(श्लो० २८४४)वचनात् स्वः-परलोकस्तं तनोतीति स्वस्तत्-परलोकहेतुः "गतिमिच्छेजनार्दनात्" इति वचनात् भवेत्यध्याहारात् न इत्यग्रे तनपदस्यह सम्बन्धनाद् अस्माकमाराधकानां परलोकः सुखावहो भवेदिति हृदयम् । तथा सवितुर्वरेण्यमिति । सवितुः-जनकात् वरेण्य !-प्रधानतर !, प्रजानामायतिसुखं पालनात् पितुरप्यधिकतरप्रे१० मन्नित्यर्थः । अनुनासिकस्तु प्राग्वत् । तथा भर्गोदेवेति । भर्गश्च उश्च तयोरपि देवः, पूज्यत्वात् , बाणाहवादी पार्वतीपतेः पराजयश्रवणात् , ब्रह्मणस्तु हरेनोभिपुण्डरीकजन्मतया प्रसिद्धेः । तथा स्य इति त्यदस्तदर्थस्यामन्त्रणेऽसौ प्रयोगः । ततश्च हे स्य!-हे स! स्मृतिपथप्रविष्टत्वादेवं विशेषणोपन्यासः । “संस्कारप्रबोधसम्भूतमनुभूतार्थविपयं तदित्या कारं संवेदनं स्मरणम्” इति स्मृतिलक्षणात् । अनेन प्रणिधानकतानता ध्वन्यते, तथा १५ मतुब्लोपादभेदोपचाराद् वा धियः-पण्डिताः । 'अर्ह मह पूजायां' (सिद्ध० धा० ) इति धातोः क्विवन्तस्य मह इति रूपम् । महतीति महः-पूजकः, आराधक इतियावत् । धियां महः धीमहः-तथाविधविद्वजनपर्युपासकपुरुषस्तस्मिन्नाराधके यका धी:-बुद्धिर्ज्ञानं तस्य अयुः-अपृथग्भूतस्तस्यामन्त्रणं हे अयो!, सद्गुरुसेवातत्पराणां बुद्धिगोचर इत्यर्थः। न ह्यनुपासितसद्गुरूणां लोकायतिकादीनां परमात्मा ज्ञानगोचरतामञ्चति । यो न इत्य२. न्तरा अकारप्रश्लेषात् हे अ!-विष्णो ! न इति योजितमेव । प्रचोदयादिति प्रकृष्टः चोदः-शृङ्गारभावसूचनं यस्याः सा प्रचोदा, प्रचोदा चासौ या च-लक्ष्मीः प्रचोदया, तां अतति-सातत्येन गच्छति (इति) प्रचोदयात् , तस्यामन्त्रणं हे प्रचोदयात् ! यद्वा पूर्व नः इति न योज्यते, सामर्थ्यादेवास्माकमिति प्रतीतेः । ततश्च आनःप्रचोद इति ज्ञेयम् । हे (अ! हे ) अनःप्रचोद !' अनः-शकटं तत् प्रचोदयति-प्रेरयति इति अनःप्र२५ चोदस्तस्यामन्त्रणम् । शैशवे हि विष्णुना चरणेन शकटं पर्यस्तमिति श्रुतिः। ततः 'समानानां तेन दीर्घः' (सिद्ध० १-२-१) इति सन्धौ आनःप्रचोदेति भवति । ननु च योपदात् परे आनःप्रचोदपदे यवानःप्रचोद इति भवितव्यं कथमत्र योनःप्रचोदेति ? नैवं कातन्त्रे ‘पदात् एदोत् परः पदान्ते लोपमकार' इति सूत्रे एदोझ्यामिति सिद्धे यत् परग्रहणं तदिष्टार्थ । तेन क्वचिदाकारोऽपि लुप्यते, ततोऽत्राकारलोपात् . 'येण व्याख्या' इति स-पाठः। २ 'अथ' इति ख-पाठः । ३ 'एवमाहुः' इति ख-पाठः । ४ 'इत्यादि वचनात्' इति क-पाठः। ५ भतः परं पाठो नास्ति ख-प्रत्याम्, वैष्णवाभिप्रायिणी व्याख्यापरिसमाः । Page #98 -------------------------------------------------------------------------- ________________ गायत्रीविवरणम् सिद्धं योनःप्रचोदेति । न चैवंप्रकाराः प्रयोगान लभ्यन्त इति वाच्यम् । “बन्धुप्रियां वन्धुजनोऽऽजुहाव" इति (कुमार० स० १, श्लो० २६) महाकवि(कालिदास)प्रयोगदर्शनात् ।। अथवा स्वस्तदिति विशेषणमेव, प्रचोदेति पुनः क्रियापदम् । अन इति कर्मपदं, अन्तरा. त्मसारथिना प्रवर्तनीयत्वात् अन इवानः-शरीरं तत् प्रचोद । 'चुदण् सञ्चोदने' (सिद्ध धा०) इत्यस्य चुरादेर्णिचो अनित्यत्वात् तदभावे हौ रूपं, सञ्चोदनं च नोदनमिति, धातु- ५ पारायणकृता तथैव व्याख्यानात् , ततश्च प्रचोद-प्रकर्षेण नुद-स्फेटय । नह्यमुग्धकायक' लिमनुत्सृज्य क्वचिदपि परमसुखलाभः । उक्तं हि वेदे-“अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशतः। न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति"। इति वैष्णवाभिप्रायः ॥५॥ (ॐ भूर्भुवः खस्तत्! सवितुर्वरेण्यं भर् गोदेवस्य धीम! हि धियोयो नः प्रचोदयाऽत्) ___ यदि वा सौगताः स्वं देवं-वुद्धं भट्टारकं प्रणिदधाना एवमाहुः-ॐ भूर्भुवःस्वरि.१० त्यादि । ओमिति प्राग्वत् । हे भूः!-आधार ! भुवो-भव्यलोकस्य स्वः-परलोकं तनोतिविस्तारयति प्रज्ञापयतीतियावत् स्वस्तत् । आत्मनाऽस्तित्वेऽपि परलोकाभ्युपगमात् "आत्मा नास्ति पुनर्भवोऽस्ति" इति वचनात् । “आत्मानास्तित्वं च-पञ्चेमानि भिक्षवः! सेंज्ञामात्रं प्रतिज्ञामात्रं संवृतिमात्रं व्यवहारमात्रम् । कतमानि पञ्च ?, अतीताद्धा अनागताद्धा प्रतिसंख्यानिरोधः आकाशं पुद्गलाः" इति वुद्धोक्तिप्रामाण्यात् , अत्र पुद्गल इत्यात्मा, १५ सवितुः-तैपनस्य वरेण्य !-प्रधान !, रविवान्धवत्वात् सप्तमस्य बुद्धस्य शाक्यसिंहाभिधानस्य । भर् गोदेवस्येति । विभीति भर्-पोषकः । कस्येत्याह-'गोदेवस्य' गोभिर्भूता. र्थगर्भाभिर्वाग्भिः दीव्यति-स्तौतीति गोदेवस्तस्य । यदि नामासंवेदयताऽपि डिम्भेन भग. वते वुद्धाय कल्पितः पांशुमुष्टी राज्यं फलितस्तदा किं नामाश्चर्य भावसारस्तुतिपराणां मनीपितसिद्धिविधाने । तथा हे 'धीम!' धियं-ज्ञानमेव मिमीते-शब्दयति प्ररूपयतीति २० धीमः । बहिराकाराणामविद्यादर्शितत्वादवस्तुत्वेन ज्ञानाद्वैतस्य तन्मते प्रमाणत्वात् । उक्तं . च मुनीन्द्रपादोपजीविभिः "ग्राह्यग्राहकनिर्मुक्तं, विज्ञानं परमार्थसत् । नान्योऽनुभाव्यो बुद्ध्याऽस्ति, तस्या नानुभवोऽपरः ।। ग्राह्यग्राहकवैधुर्यात् , स्वयं सैव प्रकाश्यते । वाह्यो न विद्यते ह्यर्थो, यथा वालैर्विकल्प्यते ।। वासनालुठितं चित्त-मर्थाभासे प्रवर्तते ।" . प्रेक्ष्यतां चतुर्दशं पृष्ठम् । २ छान्दोग्योपनिषदि (भ० ८, ख० १२) प्रारम्भे उल्लेखोऽयम्, परन्तु तत्र एतद्वाक्यद्वयस्य पूर्वापरीभावः । ३ 'अथ' इति ख-पाठः। ४ 'भास्मनस्तु पुनर्भावो.' इति ख-पाठचिन्तनीयः। ५ 'तन्मानं' इति ख-पाठः। ६ 'धश्चाकाशं' इति ख-पाठः। श्वेर्वरेण्य !' इति ग-पाठः । . साक्षिरूपेण उदाहृतं पथयमकमिदं श्रीगुणाकारसूरिभिः षड्दर्शनसमुच्चयटीकायां तर्करहस्यदीपिकाभिधायाम्। Page #99 -------------------------------------------------------------------------- ________________ ७८ श्रीशुभतिलकोपाध्यायकृतम् इत्यत्र वहु वक्तव्यं, तत् तु ग्रन्थगौरवभयान्नोच्यते, गमनिकामात्रफलत्वात् प्रयासस्य । 'हिं' स्फुटम् । हे यो ! - पदैकदेशे पदसमुदायोपचारात् हे योगिन् ! “बुद्धे तु भगवान् योगी” इत्यभिधानचिन्तामणिशेष ( श्लो० ७९ ) वचनात् योगी - वुद्धस्तस्यामन्त्रणम् । अस्माकं धियो - बुद्धीरभिप्रेततत्त्वज्ञानं प्रति चोदय- व्यापारय । 'अत्' इति अतति - सातत्येन गच्छ५ तीत्यत्, गत्यर्थानां ज्ञानार्थत्वात् सर्वज्ञ इत्यर्थः । इति वौद्धाभिप्रायः ॥ ६ ॥ १. अतस्ते वेदवाक्यप्रामाण्यात् वैश्वानरं गुरुतया पर्युपासते इति तत्प्रणिधानार्थं वेदस्तुतिगर्भ इदं पठन्ति —– ॐ भूर्भुवः स्वरित्यादि । तत्र सुखावबोधाय पदविभागः क्रियते - ॐ भूर्भुवः स्वस्तत् । सवितुः । व । रे । आण्यं । भर्गोदे । वस्य । धीमहि । धियः । अयः । नः । प्रचोदयात् । जैमिनीयाः पुनः सर्वज्ञं देवतात्वेन न प्रतिपन्नाः, किन्तु नित्येभ्यो वेदवाक्येभ्य एव तेषां तत्त्वनिश्चयः, साक्षादतीन्द्रियार्थदर्शिनः कस्यचिदपि तन्मते अभावात् । यदुक्तम्"अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते । वचनेन हि नित्येन यः पश्यति स पश्यति । ” अधुना अक्षरार्थः कथ्यते - धियो- बुद्धयो नः - अस्माकं भवन्त्विति वाक्यशेषः । १५ किम्भूता भवन्तु ? 'अयः' अयन्ति - गच्छन्तीत्ययो - गामिन्यः । क्वेत्याह-'रे' अग्नौ | अग्निशब्देनात्र तदाराधनादि ग्राह्यम् । अतश्चान्याराधनादावस्मन्मतयः प्रवर्तनशीला भवन्त्वित्ययमर्थः सम्पन्नः । किंविशिष्टे रे ? 'भर्गोदे' अवतीत्यूः - दाहकः । अवतेः श्रीसिद्ध हैमधातुपाठे दहनार्थतया पठितत्वात् भर्गः - ईश्वर ऊः - दाहको यस्यासौ भर्गोः - कामः, यंत् कालिदासः (कुमारसम्भवे स० ३, श्लो० ७२ ) - , "क्रोधं प्रभो ! संहर संहरेति, यावद् गिरः खे मरुतां चरन्ति । तावत् स वह्निर्भवनेत्रजन्मा, भस्मावशेषं मदनं चकार ॥" १० २५ तं ददात्याराधकेभ्य इति भर्गोदस्तस्मिन् । अग्नितर्पिणां शास्त्रे सम्पत्सम्प्रात्यभिधानात् सम्पदां च कामभोगहेतुत्वात् । तथाच शिवधर्मोत्तरसूत्रम् " पूजया विपुलं राज्य - मग्निकार्येण सम्पदः । तपः पापविशुद्धार्थ, ज्ञानं ध्यानं च मुक्तिदम्" ॥ इति । पुनः किंविशिष्टे ? ' धीमहि धियः - पण्डिताः महाः - पूजका यस्य स तथा तत्र । १ 'प्रायेण मन्त्रव्याख्या' इति ख- पाठः । २ श्रीमल्लिषेणसूरिकृतायां स्याद्वादमञ्जय ( पृ० ८७) साक्षिरूपेण उल्लिखिते पद्ये पूर्वार्धमिदम् उत्तरार्धं तु यथा - नित्येभ्यो वेदवाक्येभ्यो यथार्थस्व विनिश्वयः; इदमुराधे समस्ति श्रीहारिभद्रीये षड्दर्शनसमुच्चये (अ०६, लो० २ ), परन्तु तत्र पूर्वार्धमेवम् - " तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः " इति । ३ पथपूर्वकोऽयं पाठः क-प्रतौ नास्ति । ४ 'किंभूते' इति - पाठः । ५ 'तस्मिन्' इति ख- पाठः । Page #100 -------------------------------------------------------------------------- ________________ गायत्रीविवरणम् ७९ किं स्वच्छन्देनास्मन्मतयः पावकतर्पणादौ प्रवर्तन्ताम् ? नेत्याह-प्रचोदयादिति चोदनं चोदया, चोदनेत्यर्थः । 'णिवेच्यासश्रन्थघट्टवन्देरन:' ( सिद्ध० ५ -३ - १११ ) इत्यनेन अनप्राप्तावपि शलिप्रत्ययादिति बाहुलकादः, णेर्लुक्प्रसङ्ग इति चेन्न । णिलुकोऽनित्यत्वात् । तथा च धातुपारायणं-भीप्यादिभ्योऽनापवादे (?) अप्रत्ययेऽपि णेलुकि भीषादीनां सिद्धवद् विधानाण्णिलुकोऽनित्यत्वज्ञापनार्थ, तेन “चिन्तया सुप्रकम्पया ” इत्यादि सिद्धम् । इति । ५ चोदना च क्रियां प्रति प्रवर्तकं वचनं यथा - " अग्निहोत्रं जुहुयात् स्वर्गकामः " ( तैत्तिरीयसंहितायाम् ) इति । व्याचकार च षड्दर्शनसमुच्चयकारः“चो (नो ? ) दनालक्षणो धर्म-चोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः स्वः कामोऽग्निं यथा यजेत् ॥” इति ( षड्दर्शनसमुचये अ० ६, श्लो० ४ ) । प्रकर्षेण चोदयः प्रचोदयोऽस्मिन्नस्तीति । १. 'अत्रादिभ्यः' (सिद्ध०७-२-४६ ) इति बहुवचनस्याकृतिगणज्ञापनार्थत्वात् अप्रत्यये प्रचोदयो- 'वेदस्तस्मात्, वेदोपदेशमाश्रित्येत्यर्थः । 'गम्ययपः कर्माधारे' (सिद्ध० २ - २ - ७४ ) इति पञ्चमी । किंविशिष्टाद् वेदात् ? 'सवितुः व' वशब्दस्य " कादम्वखण्डदलितानि व पङ्कजानि ” इत्यादिषूपमानार्थस्य रूढत्वादादित्यादिवत्, समस्तार्थसार्थप्रकाशकतया भास्करतुल्यादित्यर्थः । तस्माद् वेदादस्मन्मतयः अन्याराधनादौ प्रवर्तन्ताम् । अत्र १५ यत्तदोर्नित्याभिसम्बन्धाद् यतो विद्यते, किं तत् ? 'ॐ' ओमित्यक्षरं, छन्दसामादिभूतत्वात् तस्य । किंविशिष्टम् ? ‘भूर्भुवः स्वस्तत्' भुवनत्रयव्यापि । न हि किञ्चिदभिधेयसमाविष्टं त्रस्तु गुरुसम्प्रदाययुक्त्याऽन्विष्यमाणं अत्रान्तरे शब्दपर्यायैर्नावाप्यते, सर्वैरपि प्रवादिभिरविगा - नेनास्य सकलभुवनत्रयकमलाधिगमबीजत योपवर्णितत्वादिति परिभावनीयमेतत् । अत एव चास्यासाधारणं विशेषमाह - आण्यमिति । आण्यते-उच्चार्यते स्मर्यत इति आण्यं - प्रणि- २० धेयम् । कस्येत्याह- 'वस्य' उः - ब्रह्मा, उः - शङ्करश्च, अः - कृष्णः । सन्धिवशात् वं- पुरुषत्रयं तस्यापि ध्येयमिति भावः । वस्येति कर्तरि षष्ठी 'कृत्यस्य वा' (सिद्ध० २-२ -८८ ) इति लक्षणात् । यद्वा वेदात् । किंविशिष्टात् ? सवितुः - उत्पादयितुः प्रतिपादयितुरितियावत् । किं तदिति व्याप्यमाह - ओमित्यादि । शेषं पूर्ववत् । नवरं वशब्दो वाक्यालङ्कारे ज्ञेयः । रे आण्यमित्याकारलोपः प्राक्तनवाचोयुक्तेरेवावसेयः । तदयं समुदायार्थ:- यस्मिन् वेदे २५ आदावखिलजगत्रयव्यापी देवत्रयेणापि प्रणिधेयः प्रणव उद्गीयते यश्च समस्तार्थप्रकाशनैकभास्करस्तस्य वेदस्योपदेशमाश्रित्य कामसम्पत्कारणे विद्वज्जनाभ्यर्चनीये चान्याराधने आस्माकीना वुद्धयः प्रवर्तनशीलाः सन्तु । इति भट्टदर्शनाभिप्रायेण व्याख्या ॥ ७ ॥ १ 'देवस्तस्मात् देवापदेश:' इति ख- पाठः । २ 'वेति उपमार्थं सवितुः सर्वार्थप्रकाशकत्वेन सूर्यसमानात् तस्माद्' इति ख- पाठः । ३ 'लोकत्रयव्यापि । तर्हि किञ्चि०' इति ख- पाठः । ४ 'मत्रो कारशब्दस्य पर्यायो नैवाप्यते सर्वैरपि प्रवादिभिरप्यविगाने नास्य०' इति ख- पाठः । ५ 'वान्तरमाह' इति स्व-पाठः ६ 'पुरुषोत्तमः ' इति ख- पाठः । ७ 'वः तस्य वस्य तेनापि ध्येयमित्यर्थः रे भाण्यमित्या' इति ख- पाठः । ८ 'प्रवर्तन्तामिति भट्टदर्शनेन मनग्याख्या' इति ख- पाठः । - Page #101 -------------------------------------------------------------------------- ________________ श्रीशुभतिलकोपाध्यायकृतम् . अथवा सामान्येन सर्वप्रवादिसंवादिस्वरूपस्य परमात्मनः प्रणिधानमिदम्-ॐ भूर्भुः वाखस्तदित्यादि । ओमिति प्राग्वत् । भूर्भुवःस्वस्तदिति हे सर्वव्यापिन् ! । वेदेऽप्युतम्-"पुरुष एवेदं" इत्यादि । सवितुर्वरेण्यमित्यत्रानुनासिकश्चोक्तनीत्या । भर्गोदेवेति भर्गश्च उश्च उश्च तेषामपि देव आराध्यः । न च वाच्यं तेषामाराध्यो नास्तीति, तेषामपि ५ सन्ध्यावन्दनादिश्रवणात् । तथा "पञ्चाशैकोनके कोष्ठे, अकारादिप्रविस्तरे । तत्र मध्यस्थितं देवि!, शिवं परमकारणम् ॥ अष्टवर्गान्तगं बीजं, कवर्गस्य च पूर्वकम् । वह्निनोपरि संयुक्त, गगनेन विभूपितम् ॥ एतद्देवि ! परं तत्त्वं, योऽभिजानाति तत्त्वतः। संसारवन्धनं छित्त्वा, स याति परमां गतिम् ॥" इत्यादिवचनप्रामाण्यात् । स्य-अन्तय । कमित्याह-'धीम्' धीः-चित्तं तत्र य इ:कामस्तं, मनःकामे हि ध्वंसिते ध्वस्तावेव वाकायकामौ, तथा अहि धियः-क्रूरताद्याः ताः अप्यपनय, चं विनाऽपि समुच्चयस्य गम्यमानत्वात् "अहरहर नयमानो, गामश्वं पुरुष पशुम् । वैवस्वतो न तृप्यति, सुराया इव दुर्मदी ॥" इत्यादाविव तथासत्त्वम् । तथा योनि सचित्तादिकां चतुरशीतिलक्षसङ्ख्यावच्छिन्नां वा करोतीति योनयति इति ण्यन्तात् क्विपि णिलुकि च योन्-संसारः तस्मात् योनः-संसार महोदधेः प्रचोदय-अपनय, अस्मानिति शेषः । कामक्रोधादिभावशत्रुध्वंसनपूर्वमस्मान्मुक्ति २० प्रापयेत्यभिप्रायः । प्रचोदयेत्यनेनैव कामादिविध्वंसनमर्थापन्नं मुक्ततायास्तन्नान्तरीयकत्वात् नार्थः 'स्यधीमहि धियः' इत्यनेन चेत्, न, मुत्यर्थिना पूर्व कामादिपराजयो विधेय इत्युपायोपेयभावज्ञापनार्थत्वाददोपः । तथा अत् इति सौगतपक्षवत् साङ्ख्यपक्षवद् वेति सर्वदर्शनाभिप्रायतो मन्त्रव्याख्या ॥ ८ ॥ अथासौ गायत्री सर्ववीजाक्षरनिधिरिति द्विजप्रवादमाश्रित्य कतिचिन्मन्त्राक्षर२५ बीजानि प्रदर्श्यन्ते, तद्यथा-ओमिति वीजाक्षरमक्षपादपक्षदर्शितप्रभावदिङमात्रं च भर्गोदे इत्यनेन ध्यानकार्यापेक्षं वर्णसूचनम् । तथाहि-भर्ग इतीश्वरस्तेन च श्वेतवर्णो लक्ष्यते . 'भथ सर्वदर्शनसंवादिस्वरूपस्य परमेश्वरस्य' इति ख-पाठः। २ 'परमेश्वरस्य' इति ग-पाठः। ३ 'पूर्ववत्' इति स्व-पाठः।' ऋग्वेदे पुरुषसूक्ते। ५ 'पुरुष एवेद, सर्व यद्भूतं गा भव्यम् । उतामृतत्वस्येशानी यदनातिरोहति' इति । ६ 'मिति पूर्ववत् भर्गश्च०' इति ख-पाठः। . 'गच्छेत्' इति ग-पाठः। ८ 'विनाशय' इति व-पाठः। ९ 'धी:-बुद्धिः' इति ख-पाठः। १. 'ताचाः ता भपि विनाशय' इति स्व-पाठः। " 'पायोविधेयः इत्युपायोपपज्ञापनार्थवाददोषः' इति ख-पाठः। १२ 'दर्शनेषु मना' इति ख-पाठः। १३ कानिचिन्मनाक्षराणि दृश्यन्ते' इति ख-पाठः। Page #102 -------------------------------------------------------------------------- ________________ गायत्रीविवरणम् शान्तिकपौष्टिकादौ । उरिति ब्रह्मा । स च पीतवर्ण धनति स्तम्भादौ पीतरक्तयोः कविरूम्यैक्यात् रक्तवर्णस्यापि ग्रहणं वश्याकर्षणयोः। द इति कृष्णस्तेन च कृष्णवर्णो गम्यते धूम्रत्वेऽपि सादृश्यादेवमुक्तं, वो द्वेपोच्चाटनावसानेषु इत्यादिरन्योऽपि, श्रीमतोऽस्य बीजाक्षरस्य प्रणिधानविधिर्यथाऽऽम्नायमवसेयः ॥ यदि वा ओमित्यनेन "चट्टकला अरिहंता, निउणा सिद्धा य लोटकल सूरी। उवज्झाय विसुद्धकला, दीहकला साहुणो सुहया" ॥ इति (भत्तिभरस्तोत्रगतदशम )गाथोक्तरहस्येन परमेष्ठिपञ्चकमेव महानन्दार्थिना (जनेन) ध्येयमिति ॥ अथवा भूरित्यनेन पृथ्वीतत्त्वमुच्यते । भुइत्यनेन भुवनं जलतत्त्वम् । वइत्यनेनं वह्नितत्त्वम् । स्वस्तत्सवि इत्यनेन वाय्वाकाशतत्त्वे । तत्र स इत्यनेन समीरणतत्त्वम् ।। विरित्यनेन वियत्तत्त्वम् । स्वर्-ऊर्ध्वलोकं मुखमस्तकरूपं तनोति-व्याप्नोति इति स्वस्तत्, तच्च तत् सविता चेति समासः ।। "तत्त्वपञ्चकमिदं विनियोगात् स्मर्यमाणमघजातिविघाति । कल्पवृक्ष इव भक्तिपराणां पूरयत्यभिमतानि न कानि? ॥" अथवा रेण्यं धीमहि इति हि हकारे (रे)रेफे च धी इति ईकारे च ण्यं इति बिन्दौ च १५ योजिते (ही) मायावी, तदप्यचिन्त्यशक्ति, सर्वमन्त्रेषु सार्वभौमायितत्वात् । इदमेव मायावीजं मुद्गादिकं (?) महिधियोयोनः इति नात्परस्य विसर्गस्य क्रमाद् योजने नम इति भावातू तदन्तो महामन्त्रः “वर्णान्तः पार्श्वजिनः” इत्यादिवचनप्रामाण्यात् , तथा वरेण्यमिति । वस्थाऽकारात् परे रगतैकारे ऐमिति विन्दौ च वाग्वीजं, ऐं। अधीमहीत्यत्रातिपक्षे इ:-काम उक्तः, अतस्तद्रबीजमपि (स्मरवीज) खचितसकलीकाररूपं निरूपितम् । तथा वैष्णवपक्षे या २० इति लक्ष्मीर्व्याख्याता ततस्तेन लक्ष्मीबीजमुपक्षिप्तं रिव(ख)चितश्रीस्वरूपम् । अथवा महि इति हि व्यञ्जनहकारे सवितुरिति सस्वरसकारे ओमित्योंकारे च योजिते हसोम् भवति । ततो वाग्वीजस्मरबीजप्रमुखप्रस्तुताक्षराणां संयोगे श्रीपद्मावती-त्रिपुरादिमहादेवताराधनाः परममन्त्राः सर्वार्थसिद्धिनिबन्धनं भवन्ति विविधानुस्मर्यमाणा इति । तथा स्व इति , 'कक्षयति' इति स्व-पाठः । २ छाया वृत्तकला अर्हन्तो निपुणाः सिद्धाश्च लोहकलाः सूरयः । उपाध्याया विशुद्धकला दीर्घकलाःसाधवः सुखदाः ।। ३ श्रीमानतुङ्गसूरिकृते भत्तिभरेत्यपरनामके पश्चपरमेष्ठिस्तवे 'सरणं' इति पाठान्तरम्। इति स-पाडा ५ 'इति वायुतत्वम्' इति ख-पाठः। ६ 'धना महासिद्धि' इति व-पाठः । अर्थ. ११ 'चाकाशः' Page #103 -------------------------------------------------------------------------- ________________ ८२ श्रीशुभतिलकोपाध्यायकृतम् स्वराः । भर्ग उरिति ऊकारादूष्माणः । सवितुरिति द्वादशसङ्ख्या सूचनम् । तत ऊष्माणः सवितृस्वरान्तास्तक्षकस्यापि विपोर्मिहृत इति रहस्यम् । महि इति मस्थाकारात् परे हि हकारे रे च ण्यमिति बिन्दौ च योजिते सिद्धचक्रस्यादिवीजं सर्वदेवतानामेकलीला गृहं प्रणव तुल्यफलं सम्पत्सम्पादननिपुणं अर्हमिति बीजाक्षरं सूचितम् । इत्यनया दिशा अन्यदपि विद्वद्भिः ५ स्वप्रज्ञाऽनुसारेण वाच्यम् । “सांयोगिका अमी अर्थाः” इति चोक्तेः, किमाह ? सर्वेषामपि मन्त्राक्षराणां संयोगिकत्वात्, संयोगमात्रस्यैव चाभिधेयत्वात् । तथा चाभिधीयते - " अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् । अधना पृथिवी नास्ति, संयोगाः खलु दुर्लभाः ॥” - इति । एवं रक्षादियन्त्राण्यपि वाच्यानि । यथा - अत्र मायावीजमुक्तं तदुपरि यन्त्रन्यासः १० (क्रियते । तथा वश्यादिभावाः ( प्रयोगाः ) अपि ज्ञेयाः । यथा भर्गो इति गोशब्दात् गोरोचना महि इति मनःशिला देव इति वा वह्निशिखं अरुगे पद (१) मित्यर्थः । प्रचोदयादिति वाद्दलानि एभिः सवितुरिति विशब्दाद् विशेषको विलेपनं वा । यो इति योशब्दात् योनिमतीनां स्त्रीणां न इति नशब्दान्नराणां नरेन्द्राणां च प्रियताकरम् । तथा प्रचोदयादिति प्रकारात् प्रदीपनानां विषाणामसाध्यतानिदानमित्यादि । अधीमहीति अकारादजा१५ मेषशृङ्गी तस्याः प्रचोद इति वा दलानि - पत्राणि भा ? भर्गोदेवेति गोशब्दात् गोधूमसकवः भा ? मदीति मात्- मधु धूलिः भा २ सवितुरिति सात् सर्पिषा सह भर्गो इति भात् भक्षयेत् । वरेण्यमिति वात् बलवीर्यकरं प्रचोद प्रात् प्रभञ्जनहरं इत्याद्यौषधिविधयोऽ-प्यत्र ज्ञेयाः ॥ २० चक्रे श्रीशुभ तिलको - पाध्यायैः स्वमतिशिल्पकल्पनया । व्याख्यानं गायत्र्याः, क्रीडामात्रोपयोगमिदम् ॥ १ ॥ १ अतः परं पुष्पिकां विहाय पाठो नास्ति ख- प्रतौ। Page #104 -------------------------------------------------------------------------- ________________ श्रीविवेकसागरविरचितः ॥ हरिशब्दार्थ गर्भितः श्रीवीतरागस्तवः ॥ इन्द्रे - भा-श्व-शुक-वा-हि-पवन-स्वर्णा- शुं- लोकान्तैरेभारि --- कपीन्दु पीतं - गरुड - श्री शुक्र-विष्ण्व-र्कजैः । सूत - स्कन्द - शनी-श-वंश-वरुण - प्राणाऽग्नि भीताऽसि तै रर्थैस्त्वां हरिजैः क्रमाज्जिनपते ! त्रिंशन्मितैः स्तौम्यहम् ॥ १ ॥ - शार्दूल ● भज भक्तिविनम्रनरेशहरिं १ भज कर्ममहीरुहभङ्गहरिम् २ | भज सिद्धिपुरीपथपान्धहरिं ३ भज योगिमनः सहकार हरिम् ४ ॥ २ ॥ - * पादाकुलकम् भज वाणिफणिह (क्ष) तवादिहरिं ५ भज भीमभवानिलहा निहरिम् ६ । भज पापरंजनजनाशहरिं ७ भज सौवशरीररुगस्तहरिम् ८ ॥ ३ ॥ भज शोकतटाकतपोऽर्कहरिं ९ भज चिद्विदिताङ्गिसमस्तहरिम् १० ॥ भज दर्पमतङ्गजराजिहरिं ११ भज पारगतं तिमिरौघहरिम् १२ ॥ ४॥ जयन्त्रित हैपी हरिं १३ भज वादिकदम्बकको हरिम् १४ ॥ भज चम्पकसून विशेषहरिं १५ भज मारसरीसृपजग्धिहरिम् १६ ॥ ५ ॥ भज दत्तनमज्जननैकहरिं १७ भज लोकदनुद्भवशास्तिहरिम् १८ ॥ भज तं नरकक्षयकारहरिं १९ भज रूपरमापरिभूतहरिम् २० ॥ ६ ॥ भज केवलकाञ्चनसिद्धिहरिं २१ भज हांसहिमप्रभ शीलहरिम् २२ । भज सौख्यविधातृ तृतीयहरिं २३ भज मोहविपाभ्यवहारहरिम् २४ ॥ ७ ॥ भज जन्मपवित्रितहारिहरिं २५ भज संयमनीरधिवासहरिम् २६ । भज रक्षित सर्वजनौघहरिं २७ भज कर्मसमिद्दहनै कहरिम् २८ ॥ ८ ॥ भज दुस्तरसंसृतिसङ्गहरिं २९ भज नेत्रविकारविनाश हरिम् ३० । भज शारदचन्द्रसमानयशोघनसारसुगन्धितभूवलयम् ॥ ९ ॥ जिनवर ! परमार्हतस्तवस्ते व्यरचि मया गुरुसोमसुन्दरास्य (?) । प्रवितर सुविशालराजराजद्गुणं मम वर्यविवेकसागरं त्वम् ॥ १० ॥ दुई X *** 奴 १ भेकः । २ रविप्रवृत्तिकरः । ३ भवान्तरम् । ४ सूर्यः । ५ पीतवर्णः । ६ स्वर्वैयौ अश्विनीकुमारकौ । ७ पारदः । ८ स्वामिकार्तिकेयः । ९ वागेव फणिनः- सर्पास्तैर्गमिता वादिन एव हरयो-मेका येन । १० अकारान्तोऽपि वर्तते शब्दोऽयम् । ११ इन्द्रियम् । १२ दैत्यः | १३ तृतीयः शनिः सुखकारकोऽस्ति इति रत्नमालायाम् । वृत्तरत्नाकरेऽस्य लक्षणमेवम् - मात्रासमकं नवमालगन्तम्, उपचित्रा नवमे परयुक्ते, अष्टाभ्यो भाद् गावुपचित्रा जान्हावथाम्बुधेर्विश्लोकः, तद्युगलाद् वानवासिका स्यात्, बाणाष्टनवसु यदि लश्चित्रा । यदतीतकृतविविषलक्ष्मयुतैर्मात्रासमा दिपादैः कलितम् अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु 'पादाकुलकम्' ॥ १० १५ २० Page #105 -------------------------------------------------------------------------- ________________ ५ १० १५ ॥ श्री ऋषभजिनस्तुतिः ॥ कामक्रीडाच्छन्दोनिबद्धा सारङ्गशब्दार्थसङ्कलिता च । ( सावचूरिः । ) श्रीनाभेयं योगिध्येयं देहज्योतिःसारङ्गं ( १ ) सर्वश्रेयः श्रेयः पद्यागत्यामाद्यत्सारङ्गम् (२) । कर्मक्षोणी जन्मश्रोणी श्रेणीध्वंसे सारङ्गं (३) नौम्युत्कण्ठाव्याप्तस्वान्तः सौवस्थाम्ना सारङ्गम् (४) ॥ १ ॥ अर्हद्वृन्दं लृप्तानन्दं चंश्चच्चक्षुः सारङ्गं (५) “विश्वासत्यव्याधादित्यच्छायाभेदैः सारङ्गं (६) । क्षामाक्षेमं दक्षक्षोणी कौमुद्यामुत्सारङ्गं (७) "श्रेयोरत्याः कण्ठाश्लेषे स्तोष्ये नन्दत् सारङ्गम् (८) ॥ २ ॥ 'स्तोम्यध्वान्तं ध्वस्तध्वान्तं श्रीसिद्धान्तं सारङ्गं (९) भैव्याम्भोजेष्वाविर्भूतानन्दाम्भोरुट्सारङ्गम् (१० ) । अज्ञानाली पाथोदाली शत्या (?) दृप्यत्सारङ्गं (११) दारूणां भीरूणां वक्षोवृक्षे सारङ्गम् ( १२ ) ॥ ३ ॥ १ श्रीनाभिराजसुतम् । २ साधुध्यानगम्यम् । ३ शरीरकान्तिस्तया सुवर्णोपमम् । ४ सकलकल्याणसमीचीन मार्गगमनविषये बलवत्सारङ्गमिव सारङ्गम् - अश्वम् । ५ कर्माणि अष्टौ तान्येव क्षोणी- पृथिवी जन्तो:- जन्मवतो या श्रोणिर्गुह्याकारा तद्ध्वंसने सारङ्गं - हस्तिनम् । ६ अहं उत्कण्ठाव्याप्तखान्तः - हर्ष - पूरितमनाः श्रीनाभेयं जिनम् । ७ स्वकीयबलेन सारङ्गं - सिंहम् । ८ अहं अर्हद्वृन्दं स्तोध्ये - स्ववीमि । 'कीदृशम् अईन्दं - जिनसमूहं ? क्लृप्तानन्दं - सम्पादितहर्ष रचितप्रमोदम् । ९ देदीप्यमाननयनाभ्यां मृगम् । १० सर्वमृषावादपर्वकालीनसूर्यप्रभाभेदने सारङ्गमिव सारङ्गं - राहुतुल्यम् । ११ कृशीभूतदुरितम् । १२ दक्षा:- प्रवीणास्त एव क्षोणीकौमुद्यः - पृथ्वीचन्द्रज्योत्स्नास्तासां मुदः - हर्षास्तेषां सम्पादने सारङ्गमिव सारङ्ग-चन्द्रम् । १३ माङ्गल्यरत्याः - कल्याणकामस्त्रिया आलिङ्गने नन्दत्-माद्यत् सारङ्गमिव सारङ्गं - कन्दर्पम् । १४ नुवीमि अध्वान्तं - प्रकाशरूपं सिद्धान्तं स्तौमि सारङ्गं - सूर्यम् । १५ भव्यकमलेषु प्रकटीभूत प्रमोदजलरुहपालीषु सारङ्गं - हंसम् । १६ अज्ञानसमूहजलधरश्रेणीहरणविषये हृप्यत्-माधत् सारखं - वायुम् । १७ अभिवन्दितणाम् । १८ भयकाष्ठानाम् । १९ पञ्जरवृक्षे सारङ्गं - शुकसदृशम् । Page #106 -------------------------------------------------------------------------- ________________ श्रीमहावीरजिनस्तवः जनाध्यक्षं दक्षं यक्षं सुप्छुच्छायासारङ्गं ( १३) साव्या वाण्या गाम्भीर्येण यस्तोद्गर्जत्सारङ्गम् (१४)। अर्हत्सर्पद्वाक्योद्गदर्जत्पर्जन्याम्भःसारङ्गं ( १५) वन्दे ब्रीडाकामक्रीडाकासारश्रीसारङ्गम् (१६) ॥ ४ ॥ इति श्रीऋषभजिनस्तुतिः कामक्रीडाऽऽण्या। श्रीगुणविजयगणिगुम्फितः ॥ श्रीमहावीरजिनस्तवः ॥ (सारङ्गशब्दार्थमयः) चन्द्रा-ऽदित्य-मरोल-दन्ति-पेवनैः सिंह क्षमाभृद्-घनैः वीणा-कम्बु रमासमुद्भव रसा-कर्पूर-शर्वो-दकैः। लक्ष्मीकान्त-कुंठार-खंग-कुसुमैर्दी-ऽऽपंगा कार्मुकै निर्ग्रन्था-ऽलि पेयोरुहा-ऽगुरु- पिकैर्वह्नय-ऽश्व-कार्तस्वरैः॥१॥-शार्दूल. रैमण-चित्रक-लोचन-कलर्वदन चित्र-भुजङ्गम चन्दनः । कुल-सुवास-महोदधिनन्दिनी-Iमदसप्रमदैर्वनिविश्रुतैः ॥ २ ॥-दुत० श्यामा-भेक रथाङ्ग रत्न-गरुडैः कीर-प्लवङ्गो ऊँचल प्रेसद्वर्णनभोउम्बुपैः सुफलवद्वाक्-सारिका-संञ्जनैः। घेणी रांग-कुरङ्ग-कुर्कुट लंसद्वंशस्फुरद्वाहनै__ रथैवीरविभुं नभोरस(६०)मितैः सारङ्गजैः संस्तुवे ॥ ३ ॥-शार्दूल. भविककुमुदवोधनसारङ्गं कोविदकोकनयनसारङ्गम् । सुकृतसरोवरतटसारङ्गं दुष्कृततरुभञ्जनसारङ्गम् ॥ ४॥-पादाकुलकम् कुनयरजोहरणे सारङ्गं कितवकरटिदारणसारङ्गम् । निश्चलतानिर्जितसारङ्गं कुगतिदहनतर्जनसारङ्गम् ॥५॥ सुसरतातर्जितसारङ्गं चारुनिरञ्जनतासारङ्गम् ।। सुन्दररूपविजितसारङ्गं सर्वसहनगुणतासारङ्गम् ॥ ६ ॥ १ अहं जैनाधिष्ठायकं दक्षं-प्रवीणं यक्षं शोभनकान्त्या प्रवालसदृशम् । २ स्वकीयया वाचा। ३ गम्भीरत्वेन । ४ निराकृतगर्जायमानमेघसदृशम् । ५ जितविस्तारिवचनरूपगर्जारवयुक्तजलधरजलपाने सारङ्ग-चातकम् । ६ लज्जायुतकामकेलितडागलक्ष्मीशोभाकारि सारङ्ग-कमलम् । ७ सर्वगुर्वक्षरमयं कामक्रीडाख्यं पञ्चदशवर्णात्मकं छन्दः ('एकन्यूनौ विद्युन्मालापादौ चेलीलाखेलः' इति लक्षणात्मकं लीलाखेलापरनामकम् )। Page #107 -------------------------------------------------------------------------- ________________ १५ २० २५ ८६ श्रीगुणविजय गणिगुम्फितः श्वासपराजितवंरसारङ्गं दुर्मदविधिवदने सारङ्गम् । दुरितमलापनयनसारङ्गं मन्मथभस्मकरणसारङ्गम् ॥ ७ ॥ कुमतिलतालवने सारङ्गं करपङ्कजसमतासारङ्गम् । समवसरणसञ्चितसारङ्गं त्रिभुवनभवनसुभगसारङ्गम् ॥ ८ ॥ निर्मलतागङ्गासारङ्गं भ्रूमञ्जुलताजितसारङ्गम् । शमर सरलाकर सारङ्गं सज्जनमनपङ्कजसारङ्गम् ॥ ९ ॥ अद्भुतपरिमलसुखसारङ्गं देवसमुद्गाहितसारङ्गम् । कण्ठचमत्कृत कलसारङ्गं दुर्नयविततगहनसारङ्गम् ॥ १० ॥ दमितकरणचञ्चलसारङ्गं मुक्तरजत मणिगणसारङ्गम् । निर्वृतिमृगनयन सारङ्गं कुमतकुरङ्गहननसारङ्गम् ॥ ११ ॥ त्रिभुवनवर्ति सुजनसारङ्गं सिद्धिवधूलोचनसारङ्गम् । शशिसोदरसुन्दरसारङ्गं सौवरमादर्शितसारङ्गम् ॥ १२ ॥ कीलितकोपविषमसारङ्गं वाणीशीतलतासारङ्गम् । पावित निजनिरुपमसारङ्गं मृगमदजैत्रवदनसारङ्गम् ॥ १३ ॥ निजवशनिर्मितमतिसारङ्गं सुरपतिभिर्विनुतं सारङ्गम् । विदलित मोहविपुल सारङ्गं देवीकृतवापीसारङ्गम् ॥ १४ ॥ गगनचलित गुरुवृषसारङ्गं ज्ञातकुले निर्जरसारङ्गम् । रोषभुजङ्गद मनसारङ्गं ज्ञानमहाभूरुहसारङ्गम् ॥ १५ ॥ स्वीयवशीकृतमनसारङ्गं लेश्यागुणगालितसारङ्गम् । 'दानावर्जितभविसारङ्गं निगदितनियत निपुणसारङ्गम् ॥ १६ ॥ केलिकृते रक्षितसारङ्गं जनरञ्जनलोचनसारङ्गम् । लुश्चितभुजगसदृश सारङ्गं धर्मकथालापितसारङ्गम् ॥ १७ ॥ अङ्गरजोमृगमदसारङ्गं मोहरजनिबोधनसारङ्गम् । स्वरमाधुर्यमथितसारङ्गं वीरं भजत सुकृतसारङ्गम् ॥ १८ ॥ इत्थं वीरजिनः स्तुतो नवनवैः सारङ्गशब्दोद्भवैः सद्भावैः समयं गुणादि विजयेनानन्दरोमोद्गमम् । हर्षोत्कर्षवशेन पेशलतरैर्भावैः सुरैः सन्नत श्चित्तप्रीतिकरं परं पदमयं दद्यान्मुदा देहिनाम् ॥ १९ ॥ - शार्दूल० 欢 १-२ मनसः स्थाने 'मन' प्रयोग श्चिन्तनीयः । 34 逛 ३ ' गुणविजयेन' इत्यर्थः । Page #108 -------------------------------------------------------------------------- ________________ पण्डितश्रीलक्ष्मीकल्लोलगणिकृतं परागशब्दाष्टोत्तरशतार्थनिवद्धं ॥ साधारणजिनस्तवनम् ॥ 200ccooooor श्रीदेवेन्द्रनरेन्द्रमौलिमुकुटोघृष्टांघ्रियुग्मं जिनं नत्वाऽकुर्मि 'पराग'शब्दविविधार्थोत्पत्तिमालां च याम् । पापं पिण्ढि तदीयपुण्यवशतो यन्मामकीनं विभो!ऽभिध्यातीतफलापवर्जनसुधाविष्वाणकारस्करः॥१॥-शार्दूल. वाजवायुजितपद्मपरागपूरं हृन्मन्दिरस्थखपरागहतप्रचारम् । प्रोद्दीप्तकाञ्चनपैरागसवर्णवर्ण त्वज्जापरागरसिकः स्तुतिमानये त्वाम् ॥ २॥-वसन्त. देवाऽपराग ! निकृतिप्रततिप्रतान च्छेदे कुठार ! सुपरागसमाङ्गगङ्गम् । त्वां संश्रयाम्यनिमिपाधिपचापराग संसारमुक्त! भुवि विस्तृतसम्पराग! ॥ ३ ॥-,, स्वामिन् ! जय त्वमनिशं सपरम्पराऽऽग मादिप्रकाशक! चिरं गतपापराग!। यश्चाप्युवक्थ ऋपिराजिषु पुष्पराग वृत्तिं विघट्टितमणीवकचापराग!॥४॥-, पूर्वापरस्वरविपर्ययतः पराग! तत्वावबोधमिहिरोद्गमने पराग!। त्वं किं परागमयसे मयि मुक्तिदाने क्लप्तापरागसि जितारिरथ प्रसीद ॥५॥-, तृष्णापरागविरतं निरतं क्रियायां । __ लीलापरागतिचरन्तमघं हरन्तम् । विश्वाऽपरागपतिशुद्धय शोऽभिरामं वन्दे प्रियंवद ! परागणनीयशीलम् ॥ ६ ॥-, . परः-उस्कृष्टः भगः-गिरिः, मेरुरित्यर्थः। २ व्यपगतराग!। ३ पारग!' इलमा यमाहारस्प्रम्। परेरणा Page #109 -------------------------------------------------------------------------- ________________ श्रीलक्ष्मीकल्लोलगणिकृतम् भूवाः परागपुरुषेषु कृपां दधानो मायापरागवनितावधवैनतेयः । यः कोपरागरहितस्त्वमसीन ! तेन सेवे भवन्तमपैरागमशैलवज्रम् ॥ ७॥-वसन्त० ध्वस्तोपरागपरभागविभूपिताङ्गं सूरापरागमसमीकृतकर्मधर्मम् । पुण्यापरागजनदत्तभवं भजेयं देवाऽपरागणितलक्षणसञ्चयं त्वाम् ॥ ८॥-, .. सेवाऽपरागणितसौख्यकरं श्रयामि हृत्तापरागहरणं करणं गुणानाम् । । प्रोद्यत्परागतिगतं शरणं जनाना. मिष्टार्थसाधनसुपर्वपैरागकल्पम् ॥ ९॥-, तेजोविराजितपरागसमीपराग द्वेषच्छिदं धनहयद्विपरागहीनम् ।। गेमे(ये) सति द्रुतपराग! नमस्करोमि . गेस्थे(ये?) जयेऽकलितपापपरागमाशु ॥ १० ॥-, • गेस्थेजिते जननमृत्युजरापरागं मां देहि तच्छिवपदं विलसत्परागम् । रान्नेहतस्मरपरागपकोपराग रिक्तं परागणधरस्थितिकार्यकारिन् ! ॥ ११ ॥-, पस्था(?)ङ्गदेवकृतचन्दनसत्परागो यो द्वापरागमगिरोऽस्ति न जञ्जपूकः । गेयं विधाय कृतदुष्कृतसम्पराग__ मीडे प्रतीतमपरागमभिख्यया तम् ॥ १२ ॥-, गेपानगे जितपुनर्भवभापराग रास्थानके तमुदिते भुषने पराग!।. .. गेशे कृते निहतमोहमहापराग! . . गेस्थे पणे कुरु सुखं शमधीपराग! ॥ १३ ॥-, पररानिकसिदान्तपर्वतभेदने पद्धमिव वनम् । २ मोक्षगतिप्राप्तम् । कल्पवृक्ष । Page #110 -------------------------------------------------------------------------- ________________ साधारण जिनस्तवनम् severeरणोद्यमिनं नमामि गेसो स्थिते खलपरागभयप्रमुक्तम् । गन्ने कृतेऽर्पित परागधराधव ! त्वां पेहे स्थिते शुचिप गपवित्र कीर्तिम् ॥ १४ ॥ - वसन्त० गेस्थे भवे सकलजन्तुकृतापराग ! गेदे निवर्हित पाय महत्पराग ! | गेशे विधेहि सुखमुज्झितदुष्पराग ! गेवे सति त्रिजगदङ्गिकृपापराग ! ॥ १५ ॥ -,, सौपराग समधैर्य ! सुवर्यवीर्य ! पेसे परागशिवभीरुमभिष्टुत्रे त्वाम् । ये नीकृते धनवधूप्रभुता पराग रामोदिते शुचिपरागरदालिकान्ते ! ॥ १६ ॥ -,, रित्रां कृतेनुचितदेह परागलेपरित्रां गते जय परागभवाधिक श्रीः । उन्नेति रःसुविहिते जनतापराग गेधे कृते गलितमोहमदापराग ! ॥ १७ ॥ -,, परांगनायास्तु पवे पराग, सङ्गेन मुक्तं मनसा नतोऽस्मि । पेवे कृते देव नमत्पराग !, संत्यक्तरक्तास्थिपराङ्गसङ्ग ! ॥ १८ ॥ - उपजातिः प्राप्तापरागाधभवाब्धितीरं वन्दे पराऽगारविमुक्त चिन्तम् । तृष्णापरागर्वरुषा निषूदनं, वशापरागाद्यगुणोपपन्नम् ॥ १९ ॥ -,, दिव्यापरागर्जनतामतीतं, सेवापरागस्त्यमुखर्षिवन्द्यम् । परागभस्तिच्छवितोऽधिकप्रभं, परागजाविः कृतसद्गतिं श्रये ॥ २० ॥ - इन्द्रवंशा परागतार्थप्रतिपादनात् प्रियं, जनंपरा (जनापरा) गर्ह्यवचः परम्परम् । परागलद्दूषणधोरणीद्धं, परागदाधिनमहं नवीमि ॥ २१ ॥ - उपेन्द्रवंशा परागरुत्मत् स्थितिमूर्त्तिसेव्यं, परागरुद्रव्यसुधूपयोग्यम् । परागमाचारविचारणीयं, पराऽगदंकारमहं भजामि ॥ २२ ॥ - उपेन्द्रवज्जा माद्यत्परागम्य पदप्रदान- दक्षं परागर्वगुणं श्रयध्वम् । सुरूपरागोत्थविकारतर्जकं, जरापरागत्वर भीतिवर्जितम् ॥ २३ ॥ - इन्द्रवंशा अर्थ. १२ ८९ १० १५ १५ Page #111 -------------------------------------------------------------------------- ________________ ५ १० १५ ९० श्रीलक्ष्मीकलोलगणिकृतम् परागजावारिविशुद्धवंशः, परागरिष्टस्थितिभेददर्शी । सेवापरारि(?गा)नतचक्रमाज्जः, कृपापराऽगालिदवाक्य ! जीयाः ॥२४॥ - उपजातिः यो दीपरागाङ्गिसमात्मवोधनो, विलापरागादिविमुक्तचेताः । निःस्वापराऽगास्वतरस्वरूपः, सुरापरागाह्यगुणः सुसेव्यः ॥ २५ ॥ -,, अपूर्वरार्णा (गा ) ङ्गपरागजात - शीलं पराऽगन्धवचः प्रकाशम् । परागतिप्राप्त ! परागतिज्ञ, स्तोष्ये परागोपगतिं प्रतीतम् ॥ २६ ॥ -,, वन्दे परागर्भगतिव्यतीतं, सदापर। गाढतपःप्रवृत्तम् । क्रूरापराङ्गारकशोणपाणिं, परां गरीयःपदवीं श्रयन्तम् ॥ २७ ॥ -,, श्रीमद्वाचकचक्रवर्तिसुगुरुश्रीहर्ष कल्लोलसच् छिष्यः पण्डित मण्डली बहुमतः श्रीलक्ष्मिकल्लोलकः । सैवेदं रचयाञ्चकार सुपरागार्थाष्टयुक्तं शतं तेनानोतु कृती जनः शिवसुखं पुण्येन लब्धोदयम् ॥ २८ ॥ - शार्दूल० इति परागशब्दाष्टोत्तरशतार्थनिबद्धं साधारणजिनस्तवनम् । महामहोपाध्यायचक्रवर्तिश्रीहर्षकल्लोलगणिक्रमकमलमरालायमानेन पण्डितलक्ष्मी कल्लोलगणिना रचयाश्च ॥ Page #112 -------------------------------------------------------------------------- ________________ पण्डितश्रीगुणविनयगणिगुम्फितः ॥ 'सव्वत्थ'शब्दार्थसमुच्चयः ॥ प्रणम्यैश्चाहतः सर्वान् , शर्ववद् गोविलासिनः। सवत्थेति वरे शब्दे, क्रियतेऽर्थसमुच्चयः॥ सर्वाणि अस्त्राणि हस्तेषु येषां ते सर्वास्त्राः-सुभटाः 'दीर्घहस्वौ मिथो वृत्तौ' (सिद्ध० ५ अ० ८, पा० १, सू० ४) इति इस्वः ॥१॥ सर्वे च ते अर्थाश्च सर्वार्थाः ॥२॥ सार्वो-भगवान् तद्वत् तिष्ठन्ति इति सार्वस्थाः-गणधराः। 'इस्वः संयोगे' (सिद्ध ८-१-८४) इति इस्वः ॥ ३॥ सा-श्रीः तद्धेतुत्वात् सा अर्वणि-हये तिष्ठतीति '{अवस्था सा चासौ अवस्था चेति }१० सार्वस्था-अच्छुप्ता देवी ॥४॥ सद् वस्त्रं येषां ते सद्भस्त्राः-दौषिकाः ॥५॥ व्यथां अर्हन्तीति व्यथ्याः-परपीड्याः-कातराः तैः सह वर्तन्त इति सव्यथ्याः-निर्बलबला भूपालाः ॥ ६॥ सर्वान् त्रायन्त इति सर्वत्राः-गुरवः ॥ ७ ॥ आसन् 'आस उपवेशने' (पा० धा० १०२१) भावक्किबन्तः, सव्ये-वामभागे अर्थात् शकटस्य आस् सव्यास् , ततः त्रस्यन्तीति सव्यास्त्राः-निस्थामानो वृषभाः 'अन्यतोऽपि घ' (कातने सू० ६३६) इति डप्रत्ययः॥८॥ सह व्यथैः-अपार्थकैः प्रयोजनैः निर्वर्तन्त इति सव्याः ॥९॥ विशिष्टया अर्थ इति संज्ञया सह वर्तन्त इति सव्याः -योगाः, नैयायिकमते हि द्रव्या-२० दीनां त्रयाणां अर्थ इति संज्ञा ॥ १० ॥ सद्भिः व्यस्ताः-खण्डिताः सव्यस्ताः-खलाः ॥११॥ सार्वत्राः सार्वमित्यर्थः वन्दे इति क्रिया देवमनुष्य० इत्यत्र 'बहुलम्' (सिद्ध०५-१-२) इति वचनात् अन्यत्रापि द्वितीयार्थे सप्तम्यर्थे च त्राप्रत्ययः ॥ १२ ॥ शर्वो-महेशः तस्य अस्त्राणि, प्राकृतत्वात् पुंस्त्वम् ॥ १३ ॥ गायकवाड पौर्वात्यमन्दिर(Oriental Institute)सत्कायाः प्रवेराधारेण पाठान्तराणि सूचितानि पण्डितवर्यः श्रीयुतलालचन्द्रैः । तेषु यानि विशेषेणोपयुक्तानि तेषां समावेशो मूलमागे निर्दिो मया {}एतचिन, भवशिष्टानि प्रायः सनिवेक्षितानि टिप्पणीषु.. २५ Page #113 -------------------------------------------------------------------------- ________________ पण्डितश्रीगुणविनयगणिगुम्फितः सन्-प्रधानः { यो ) विः-पक्षी अर्थाद् गरुडः, स एवास्त्रं विघातकत्वाद् येषां ते सद्व्यस्त्राः-सर्पाः ॥ १४॥ सार्वः-अर्हन् तस्य अर्थाः-वाच्याः सार्वार्थाः-अतीता-ऽनागत-वर्तमानकालभाविनः पदार्थाः खलु भगवत एव वाच्या भवन्ति, नान्यस्य ॥ १५ ॥ ५ सार्वस्य-अर्हतः वाक्ये अर्थाः-हेतवः सार्वार्थाः अनन्ताः॥ १६ ॥ . सर्वार्थाः-समस्तद्रव्याणि जिनैर्दीक्षासमये परित्यक्ताः ॥ १७ ॥ सर्वार्थाः समस्तेभ्यः पापेभ्यो ये अर्थाः-निवृत्तयः उपरमा इति यावत् ते आश्रिता . जिनेरिति ॥ १८॥ सर्वे च ते अर्थाश्च-अभिधेयाः सर्वार्थाः भगवतां वाच्या भवन्ति ॥ १९ ॥ १. सर्वार्थाः-समयप्रकाराः व्याख्या भगवद्भिरेव विधातुं शक्यन्ते, सुरनरतिरश्चां स्वस्वभाषाऽनुगतत्वाद् अर्हद्वाणीनामिति ॥ २० ॥ सर्वार्थाः-न्यक्षसांसारिकवस्तूनि श्रीजिनैः परित्यक्ताः ॥ २१ ॥ __ अत्र सप्तस्वर्थेषु "अर्थो हेतौ प्रयोजने ॥ निवृत्तौ विषये वाच्ये प्रकार-द्रव्यवस्तुषु ।" इत्यनेकार्थः (है. का०२, श्लो० २२४-२२५) सर्वेषां गुणानां अर्थनं-प्रार्थनं येषां ते १५ सर्वार्थाः-जिनाः ॥ २२ ॥ श्रव्याः-श्रवणार्हाः धर्मोपचयहेतुत्वाद् अर्था यासु ताः श्रव्यार्थाः-भगवद्वाण्यः॥२३॥ 'पूलड प्रसूतौ' ( ) सवनाः सव्याः ते च अर्था विद्यन्ते येषां ते सव्यार्थाः, यतोऽर्थाः सर्वेऽपि भगवद्भिरेव पूर्व प्रादुष्कृताः सूत्राणि च गणभृद्भिरिति ॥२४॥ 'पूश क्षेपे' ( ) सवानार्हाः-निन्द्याहीः सव्याः-आन्तरवैरिणः तेषां विधाताय २० अर्थो येषां ते सव्यार्थाः ।। २५॥ सवन-मोक्षलक्ष्म्या सह सन्धानम् ॥ २६ ॥ यद्वा सवनं-कर्मशत्रूणां पीडनम् ॥ २७॥ यद्वा सवनं-करुणया आत्मन आर्दीभावः ॥ २८ ॥ यद्वा सवनं-कर्मसेनाया मथनम् ॥ २९ ॥ २५ यद्वा सवनं-त्रिजगदैश्वर्यविधानम् ॥ ३०॥ यद्वा सवनं-विशुद्धभावे गमनम् , तत् कर्तुमर्हाः सव्याः, ईदृविधा अर्थाः-सम्यग्ज्ञानादयो हेतवो { विद्यन्ते } येषां ते सव्यर्थाः ॥ ३१॥ अत्र षट्स्वर्थेषु 'घुनज् सन्धा-क्केद-पीडनमथे' ( ) 'षुच् षुल् चैश्वर्य-प्रसवयोः (. ) इति धातुप्रयोगाः। । 'निन्दाही' इति पानन्तरम् । २ 'पुनस् सन्धा० मन्थेषु' इति पाठान्तरम् । Page #114 -------------------------------------------------------------------------- ________________ सन्वत्थशब्दार्थसमुच्चयः सन् - विद्यमानोऽङ्के वस्तः- छागो येषां ते सवस्ताः - श्री कुन्थुस्वामिनः ॥ ३२ ॥ सवनं-मेरुशिखरेऽभिषवः तदहः सव्याः, अर्थ्यन्ते मोक्षलक्ष्म्या ये तेऽर्थ्याः, पश्चात् कर्मधारये सव्यार्थ्याः ॥ ३३ ॥ सर्वेषु ज्ञानादिषु आस्था । - यत्तो । येषां ते सर्वास्थाः ॥ ३४ ॥ सर्वाणि वस्तूनि ज्ञानस्यास्थायामालम्बने विद्यन्ते येषां ते सर्वास्थाः ॥ ३५ ॥ ५ सर्वेषां देवादीनां व्याख्यानावसरे द्वादशसङ्ख्या आस्थाः-सभा येषां ते सर्वास्थाः ॥ ३६ ॥ सर्वषां मोक्षसुखानां आस्था-अपेक्षा येषां ते सर्वास्थाः ॥ ३७ ॥ “आस्था यत्नालम्बनयोरास्थानापेक्षयोः” इति ( है मेऽनेकार्थे का० २, श्लो० २२५ ) चतुर्वर्थेषु आस्थाशब्दः पृथगर्थः । सवः - यागः विधेयतया विद्यते येषां ते सविनः - यागकर्तारो मिथ्यात्विनः, तैर्न स्तूयन्त १० इति सव्यस्ताः 'अन्यतोऽपि च' (कात सू० ६३६) इति डः, सद्द्दष्टिभिरेव खल्वर्हन्तः स्तूयन्त इति ॥ ३८ ॥ सन्- बन्धुरो विः - पक्षी हंसः, सः अस्तः- क्षिप्तो गत्या यैस्ते सव्यस्ताः ॥ ३९ ॥ संविः - प्रधानकान्तिः, भावक्विवन्तः । तत्र आस्था-यत्नो येषां ते सव्यास्थाः ॥ ४० ॥ सद्विः-चारुगतिः एकसमयेन इतो मोक्षगमनात् तत्र अर्धो येषां ते सद्व्यर्थाः ॥ ४१ ॥ १५ शस्य - श्रेयसो वी:- व्याप्तिस्तत्र आस्था-अपेक्षा येषां तै शव्यास्थाः ॥ ४२ ॥ ९३ सताम् - आभवं विद्यमानानां कर्मणां या वी:- तिरस्कारः सा एव अर्थो येषां ते सद्व्यर्थाः ॥ ४३ ॥ शस्य- सुखस्य वी:- प्रयोजनं सा अर्थ्यते यैस्ते शव्यर्थाः ॥ ४४ ॥ अत्र पञ्चस्वर्थेषु 'वील् कान्ति-गति - व्याप्ति-क्षेप - प्रयोजन - खादनेषु' ( इति धातुप्रयोगे भावक्किबन्तरूपाणि । शस्य - शुभस्य व्रीः- वरणं 'बीगू वृत्याम्' ( ते शत्र्यर्थाः ॥ ४५ ॥ 1 'वीः' इति पाठान्तरम् । २ 'विः' इति पाठान्तरम् । इत्यपि पाठः । सति मोक्षे वान्ति - गच्छन्तीति सद्वाः ॥ ४६ ॥ यद्वा सतः कर्मरिपून् वान्ति - हिंसन्ति इति सद्वाः 'आतो० विचू' (कातन्त्रे सू० ६५४) २५ अर्थ्यन्त इति अर्थ्याः । पश्चात् कर्मधारयः सद्वार्थ्याः 'दीर्घ ह्रस्वौ मिथो वृत्तौ' (सिद्ध० ८ - १ - ४ ) इति ह्रस्वः ॥ ४७ ॥ )30 ) भावक्विवन्तः, तत्र अर्थो येषां ३ 'प्रजननं' इति पाठान्तरम् । ४ 'प्रजनन' Page #115 -------------------------------------------------------------------------- ________________ ९४ पण्डितश्रीगुणविनयगणिगुम्फितः ___ सन्तो मोक्षे गत्वराः 'षट् गतौ' (सिद्ध० धा०) विप् , विशिष्टा ई:-कान्तिः भावक्किबन्तः तस्यैवार्थो येषां ते व्यर्थाः, पश्चाद् विशेषणद्वयकर्मधारयः सद्व्यर्थाः ॥ ४८ ॥ सर्वेषां दुःखानां असनं-तिरस्करणं सर्वास् 'असूय क्षेपे' ( ) भावकिबन्तः तत्र तिष्ठति सर्वासस्थाः 'सुपि स्थः' (पाणिनीये ३-२-४) इति कः ॥ ४९ ॥ ५ सति विद्यमानस्य लोकालोकाकाशस्य केवलज्ञानेन वसनं 'वंस् आच्छादने, 'वसल स्तृतौ' ( ) भावक्किबन्तः, तां तन्वन्तीति सद्वस्ताः, 'तनु(यी) विस्तारे' (सिद्ध० धा० ) 'अन्यतोऽपि च' ( कातन्त्रे सू० ६३६) इति डः ॥ ५० ॥ सति निरुपद्रवे स्थाने वसन् वस्-निवसनं तया तंसयन्ति-भूषयन्ति स्वात्मानमिति सवस्ताः “तसिक्यलङ्कृतौ” ( ) डप्रत्ययः ॥ ५१ ॥ १. सत्सु-सप्तसु क्षेत्रेषु वपति धर्मबीजमिति सद्वाः डप्रत्ययः, स्तूयन्ते लोकैरिति स्ताः 'ष्टुञ् स्तुतौ' (सिद्ध० धा) डप्रत्ययः पश्चाद् विशेषणकर्मधारयः ॥५२॥ __ सत् कर्मणां विशरणं 'षद विशरणे' विप् तया वन्द्यन्ते-स्तूयन्त इति सद्धाः 'वदिङ् अभिवादनस्तुत्योः' ( ) डप्रत्ययः। अश्नन्ति-भक्षयन्ति देहमिति अशो-रोगाः क्विप् ताः त्रासयन्ति-निवारयन्ति इति 'त्रसक् निवारणे' ( ) पश्चात् कर्म१५ धारयः सद्-वस्त्राः 'अन्यतोऽपि च' (कातन्त्रे सू० ६३६) इति डः॥ ५३॥ सद्भिः उश्यन्ते-वाश्यन्त इति सद्वशः विप्, ताम्यन्ति-खिद्यन्ते संयमार्थमिति ता डप्रत्ययः पश्चात् कर्मधारये सद्वशताः ॥ ५४॥ __ सतः-व्याख्यानार्हपदार्थान् वदन्तीति सद्वाः, स्त्यायन्ति-सङ्घातयन्ति गुणानिति स्ताः डप्रत्ययः पश्चाद् विशेषणद्वयकर्मधारयः॥ ५५ ॥ २. सन्-रुचिरो यो वाट्-शब्दनं 'वाश् शब्दे' ( ) भावक्किबन्तः तेन स्तूयन्त इति सद्वाशताः ॥५६॥ सतां-श्रवणार्हाणां भव्यानां पुरोवचनं वः डप्रत्ययः, तेन अर्थ्यन्ते ये ते सद्वार्थ्याः॥५७॥ सन्-रम्यो {यो} वो-महेशः तद्वद् अर्थ्यन्ते ये ते सद्वार्थ्याः॥ ५८ ॥ सन् यो वो-वातः तद्वद् अप्रतिबद्धत्वं अर्थ्यते यैस्ते सद्वार्थ्याः ॥ ५९॥ २५ - श्रव्याः-प्राप्याः विषयतया अर्था येषां ते श्रव्यार्थाः 'श्रु गतो' ( ), 'ये गत्यर्थास्ते प्राप्त्यर्धाः' इति वचनात् ॥ ६०॥ 7:-गुर्थः तद्वद् विशिष्टा या ई. कान्तिः सा अर्थ्यते यैस्ते सव्याः ॥ ६१ ॥ से-परोक्षे अतीन्द्रियतया विविधा ये अर्थास्ते सव्यर्थाः, ते अर्हद्भिःप्रणीता इति ॥६२॥ 1 'वस भाच्छादनम्' इति क-पाठः। २ 'लौकिकै.' इति पाठान्तरम् । Page #116 -------------------------------------------------------------------------- ________________ सम्वत्थशब्दार्थसमुच्चयः श्रवणार्हाः श्राव्याः-ज्ञेयाः 'श्रु गतौ' 'ये गत्यर्थास्ते ज्ञानार्थाः' इति तेऽर्थाः येषां ते श्रव्याथाः ॥ ६३ ॥ श्राम्यन्ति-तपस्यन्ति संयमानुष्ठानेन इति श्राः डप्रत्ययः, तान् अवति नरकपातात् इति श्रीः-धर्मः 'अव रक्षणे' (सिद्ध० धा०) किप ऊब वृद्धिश्च तं यन्ति-जानन्तीति श्राव्यः । 'ईल् गतौ' ( ) अर्यन्त इति अर्थ्याः पश्चात् कर्मधारयः श्राव्यर्थ्याः॥६४॥५ श्राम्यन्ति-खिद्यन्ते कृपया परदुःखवीक्षणेन इति श्राः 'श्रम भ्यत्रिइर् तपःखेदयोः' ( ) डप्रत्ययः । अविः-मेषः तस्य अर्थो येषां ते अव्यर्थाः, तदङ्गोद्भवाया ऊर्णायाः साधुरजोहरणदशोपयोगित्वात् पश्चात् श्राश्च ते अव्यर्थाश्चेति श्राव्यर्थाः-साधवः ॥ ६५ ॥ शाम्यन्तीति शाः 'शम् उपशमे' डप्रत्ययः, विगतोऽर्थो-द्रव्यं येभ्यस्ते तत्परित्यागकर्तृत्वाजिनानामिति व्यर्थाः, पश्चात् कर्मधारये शव्यर्थाः ॥ ६६ ॥ स्यन्ति-नाशयन्ति दुःखानीति साः 'पोय नाशे' ( ) डः । अर्वो-वधः कर्मरिपूणां 'अर्व वधे' ( ) अव् स एवार्थों येषां ते अर्वार्थाः, पश्चात् साश्च ते अर्वाथाश्चेति सार्वार्थाः ॥ ६७ ॥ सा-लक्ष्मीस्तां विशेषेण अर्थयन्ते-याचन्त इति साव्यर्थाः, 'अर्थत्कङ् याचने' ॥ ६८॥ श्रवणं श्रवः श्रव् तत्वानां आकर्णनं स विद्यते येषां ते श्रविणो-भव्याः तैः अर्यन्ते ये १५ ते श्रव्याः ॥ ६९ ॥ सति-मोक्षे वसतीति सद्वस्ता-श्रीजिनः, 'वस निवासे' ( ) तृच ॥ ७० ।। शलन्ति-शिवं गच्छन्ति इति शाः 'शल्ज् गतौ' ( ) डः, उः-सुखम् , ई-केवललक्ष्मीः व्यौ ते-अयं ते यैस्ते व्यर्थ्याः शाश्वते व्यर्थ्याश्चेति शव्याः ॥ ७१ ।। शलयन्ते-श्लाघन्ते यान् लोका इति शाः 'शल्क् श्लाघे' डः, वीः-विशिष्टं ज्ञानं २० 'ईल गतो' तस्या अर्थो येषां ते व्यर्थाः, शाश्वते व्यर्थाश्चेति शव्यर्थाः ॥ ७२ ।। __ सन्यन्ते-सेव्यन्ते लोकैरिति साः 'पन् सम्भक्तो' डप्रत्ययः अवनं अवः-तत्त्वार्थशब्दनं 'उङ् शब्दे' अच् । स विद्यते येषां ते अविनः-सभ्याः, तैः अर्थ्यन्ते ये ते अव्यर्थ्याः, साश्च ते अव्यर्थ्याश्च साव्याः ॥७३॥ सनन्ति-ददति सर्वेषां अभयदानमिति साः, षण् दाने' ( ) डे रूपम् , अवनं २५ अवः अच् , एकेन्द्रियादिजन्तूनां रक्षणम् १, मोक्षगमनम् २, प्रीतिकारिणी कान्तिः ३, धर्मप्रीतिः ४, तृप्तिः ५, तत्त्वानामवगमनम् ६, मोक्षपुरीप्रवेशः ७, धर्मस्य श्रवणम् ८, विजगत्स्वामित्वम् ९, शिवसुखयाचनम् १०, विशुद्धा क्रिया ११, तत्त्वश्रवणेच्छा १२, तपोदीप्तिः १३, धर्मस्य प्राप्तिः १४, संयमस्त्रिया आलिङ्गनम् १५, कर्मरिपूणां हिंसनम् १६, ''इस्यधिकोऽपि पाठः । Page #117 -------------------------------------------------------------------------- ________________ पण्डित श्रीगुण विनयगणिगुम्फितः दारुणपापदारूणां दहनम् १७, शुभो भावः १८, निर्मलाध्यवसायस्य वृद्धिः १९ एवं ॥९२॥ स विद्यते येषां ते अविनः - साधवः तैः अर्थ्यन्ते ये ते अव्यर्थ्याः, पश्चात् साश्च ते अव्यर्थ्याचेति सान्यर्थ्याः, 'अव रक्षण - गति - कान्ति-प्रीति-नृत्यवगमन-प्रवेश- श्रवण-स्वाम्यर्थयाचन-क्रियेच्छा -दीश्यवाश्यालिङ्गन - हिंसा - दहन - भाववृद्धिषु' १९ एवम् ॥ ९२ ॥ ९६ ५ शीयन्ते - तीक्ष्णीकुर्वन्ति स्वशेमुपीशास्त्रीं विविधशास्त्रशाणोलेखेनेति शदः, 'शब्द शातने' विपू, विध्यन्ति - ताडयन्ति कर्मशत्रू निति व्याः 'व्यधौ ताडने' ( ) डः, तिष्ठन्ति धर्ममार्ग इति स्थाः, पश्चाद् विशेषण (त्रय) कर्मधारये शद्व्यस्थाः - साधवः ॥ ९३ ॥ सदन्ति-विसीदन्ति पापकारणेनेति सदः 'परज्जौश् विपादे' ( ) क्विपू, विगतः 1. इ:- कामो येभ्यस्ते वयः, अः - कृष्णः तेन स्तूयन्त इति अस्ताः, डः, पश्चाद् विशेषणत्रय१० कर्मधारये सद्व्यस्ताः - श्री ने मिस्वामिनः ॥ ९४ ॥ शवा विद्यन्ते यस्मिन् भूभागे स शवी - स्मशानादिभूभागः तत्र आ - समन्तात् देवादिभिरक्षोभ्यत्वेन तिष्ठन्तीति शव्यास्थाः - साधुविशेषाः, द्वादशप्रतिमावोदारो हि तत्रैव किल निवसन्तीति ॥ ९५ ॥ सा-लक्ष्मीः तां अवन्तीत्येवंशीलाः, शीलार्थे णिनिः, साविनः, अश्नन्ति - अशुभतृ१५ णानि अदन्तीति अशः, तदपनेतृत्वाद् थाः - भयाद् रक्षितारः "थो भीत्राणे" इत्येकाक्षरनाममालावचनात् । पञ्चात् विशेषणत्रय कर्मधारये साव्यश्थाः- श्रीजिनाः ॥ ९६ ॥ A सत्-सत्यं वाचि विद्यते येषां ते अव्यभिचारिवचनत्वात् सद्वाः 'क्वचित् (डः )' (सिद्ध० ५ - १ - १७१ ) इति डः, अतन्ति - सातत्येन गच्छन्ति प्राप्नुवन्त्यात्मानमिति अदः - दुःख१० व्यूहाः 'अत सातत्यगमने' 'ये गत्यर्थास्ते प्रात्यर्था:' इति वचनात् क्विपू, तेषां दलीकरणे था इव-अद्रय इव ये ते अत्थाः “थो भीत्राणे भवेऽद्री” ( ) इति ( एकाक्षर० ) वचनात् पश्चात् सद्वाश्च ते अत्थाश्च सद्वात्थाः ॥ ९७ ॥ सन्तः सुरासुरादिलोकैः पूजिताः । “सच्छोभने प्रशस्ते स्याद् विद्यमाने च सत्यपि । सत्यपूजितयोश्व" ( ) इत्यनेकार्थवचनात् वौति सिद्धिशिलालक्षणे उप२५ रितनाकाशे आ - समन्तात् तिष्ठन्ती (ति) - व्यास्थाः, “विः खगे खेऽपि" ( इति वचनात् सन्तश्च ते व्यास्थाश्च सद्व्यास्थाः- श्रीजिनाः ॥ ९८ ॥ > श्रीः - अतिशायिनी प्रभा १, गभीरार्था सरस्वती २, त्रिजगदैश्वर्यकमला ३, ज्ञानादि) वचनात् तां अवन्तीपश्चात् श्याविनश्च ते अर्ध्याश्चेति सम्पत् ४, "श्रीः प्रभा भारती- लक्ष्मी - सम्पत्सु " इति ( त्येवंशीलाः श्याविनः, अर्थ्यन्ते मोक्षार्थिभिरिति अर्थ्याः १ श्री अमरचन्द्रसूरिकृतायां काव्यकल्पलताभिधायां कविशिक्षायां तृतीये प्रताने पञ्चमे स्तबके ११०जमे पृष्ठे पाठो यथा + "थो भीत्राणे महीधे दं परम्यां दा दातृ-दानयोः" - २ 'रितलाकाशे' इति पाठान्तरम् । Page #118 -------------------------------------------------------------------------- ________________ सव्वत्थशब्दार्थसमुच्चयः याव्यर्थ्याः- श्रीजिनाः, 'सर्वत्र ०१ (सिद्ध०८-२-७९) रलुक्, 'अधो म-न-यां' (सिद्ध०८२-७८) यलुक् ॥ १०२ ।। शीः- सिद्धि शिलाशय्यायां शयनं अप्रच्युतित्वेनावस्थानमित्यर्थः तां अवन्ति- इच्छन्ति इत्येवंशीलाः श्याविनः, 'अव इच्छायाम्' (सिद्ध० धा० ) ते च ते अर्ध्याश्चेति श्याव्यर्थ्याः ॥ १०३ ॥ शीः- कर्मरिपूणां हिंसनं तां अवन्ति-जानन्तीत्येवंशीलाः श्याविनः 'अव गतौ' (सिद्ध० धा०) । आ-ब्रह्मा तद्वत् सम्यग्ज्ञानादित्रयविधातृत्वेन स्तूयन्त इति 'क्वचित् ० ' ( सिद्ध० ५ - १ - १७१ ) इति डे आस्ताः पश्चात् कर्मधारये श्याव्यास्ताः ॥ १०४ ॥ त्सरुः-खड्गमुष्टिः सा अर्थ्यते यैस्ते त्सर्व्यर्थ्याः शूराः, तैः किल वैरिमण्डलमण्डलाग्रमुष्टीरुत्सार्य तस्यैव तैः कृत्वा प्रतिघातः क्रियत इति ॥ १०५ ॥ स्वः- स्वर्गस्तस्य प्रात्यर्थं विशिष्टोऽर्थो येषां ते स्वर्व्यर्थाः - सरागसाधवः ॥ १०६ ॥ स्वर्वतां - शोभनहयानामर्थो येषां ते स्वर्थाः सन्नृपाः “यस्याश्वास्तस्य मेदिनी” ( इति वचनात् ॥ १०७ ॥ ) स्वरो:- अध्वरस्य विधाने अर्थो येषां ते स्वर्वर्थाः - याज्ञिकाः ॥ ११२ ॥ स्वरु (वद् ) - वज्रवदक्षोभ्या अर्था येषु ते स्वर्वर्थाः - श्री जिनागमाः ॥ ११३ ॥ ९७ स्वः- :- स्वर्गः उपलक्षणत्वात् समस्तोऽपि परलोकः स व्यस्तो यैस्ते स्वर्ग्यस्ताः - लोकाय - तिकाः ॥ १०८ ॥ १५ शरुः - कोपः सोऽस्तो यैस्ते शर्वस्ताः - क्षीणकषायाः साधवः ॥ १०९ ॥ शरोः - वज्रस्य धरणे अर्थो येषां ते शर्वर्थाः पुरन्दराः ॥ ११० ॥ शरूणां शराणामभिवैरिप्रक्षेपणे आस्था-यत्नो येषां ते शर्वास्थाः - वीराः “शरुः कोपे शरे वज्रे" ( है मे का० २, श्लो० ४५० ) इत्यनेकार्थोक्तेः ॥ १११ ॥ ५ १० स्वरुवद्-वाणवत् प्रतिवादिप्रत्यर्थिप्रतिघातकत्वेन विजयिनः कलियुगेऽर्थो येषां ते स्वर्वर्थाः - नवाङ्गीवृत्तिकारिणः श्रीअभयदेवसूरयः "स्वरुः स्याद् यूपखण्डके । अध्वरे कुलिशे बाणे" ( है मे का० २, श्लो० ४५४-४५५ ) इत्यनेकार्थोकेः ॥ ११४ ॥ शावाः- बालाः शावेत्युपलक्षणं तेन तरुणप्रवयसामपि ग्रहणं ते विद्यन्ते यस्मिन् गच्छे २५ सशावी - श्रीमद्बृहत्खरतरगच्छः तस्य पालने आस्था-यत्लो येषां ते शाव्यास्था: - श्रीजिनचन्द्रसूरयः, 'ह्रस्वः संयोगे' ( सिद्ध० ८ - १ - ८४ ) इति ह्रस्वः ॥ ११५ ॥ २. सेत्यनेन वीत्यनेन च स्वगुरु-कविनाम सूचितं तत्र सेत्यनेन तुलादण्डमध्यग्रहणन्यायेन उभयपार्श्वस्थयोर्जयो {र्मयो} ग्रहणं, तथा (च) 'जय सोमा' इत्यागतम् । तेषां शिष्येण वीत्यनेन च तन्यायेनैव गुण- नययोर्ग्रहणम् । तथा च 'गुणविनय' इति सिद्धम् । तेन ३० गुणविनयेन प्ररूपिता ये अर्था ( -हेतव ) स्ते सन्यर्थाः तत्त्वोद्बोधका भवन्ति ॥ ११६ ॥ अर्थ. १३ Page #119 -------------------------------------------------------------------------- ________________ ९८ पण्डितश्रीगुणविनयगणिगुम्फितः सा लक्ष्मीः तद्धेतुत्वात् - सा आः-ब्रह्मा तेन वीयते-जन्यते या सा आवी:-ब्रह्मपुत्री 'वीलू प्रजनने' ( ) विप, पश्चात् सा चासौ आवीश्च सावीः तथा प्रकटिता ये अर्थास्ते साव्योः ॥११७ ॥ सरस्वत्या हि मन्मुखद्वारा अमी 'सवत्थशब्दस्यैतावन्तोऽर्थाः प्रकाशिता इति कवि५गर्वपरिहारः, यदहं विदधाम्यर्थजातं तत्र श्री भगवत्या वाग्देवतायाःप्रसाद इति ध्येयम् ॥ इति श्रीप्रमोदमाणिक्यगणिशिष्यश्रीजयसोमगणिशिष्यपण्डितगुणविनयगणिभिरमी अर्थाः स्वबुद्ध्योत्प्रेक्षिता इति यत्किञ्चिदिहायुक्तमिवाभाति तदपि प्राकृतशैल्या सर्वमपि सङ्गच्छते न दोषलवोऽप्याशय इति विज्ञप्तिरस्ति ॥ श्रीरस्तु ॥ "दिति' इति पालन्तरम् ।. Page #120 -------------------------------------------------------------------------- ________________ श्रीमदरत्नशेखरसूरिसन्डब्धं ॥ परवाया'शब्दार्थनिरूपणम् ॥ "सुअणा १ पवरतुरंगा २ सारहिणो ३ नाणिणो ४ अ वाइवरा ५ । सूआरा ६ जूआरा ७ गणिआ ८ वरगायणा ९ विप्पा १० ॥१॥ धणिवरकुविंदभवणा ११ कणा सुभिक्खम्मि १२ गिम्हि जलहितडा १३ । ५ धुत्ता १४ दुन्नयसत्ता १५ धम्मिअचित्ता य धम्मम्मि १६ ॥२॥ वेअविऊ १७ अ दयालू १८ वेला असुहा १९ पडो २० महासुहडो २१ । असई २२ सुतंतुवाओ २३ महवाओ २४ पाउसि जवासो २५ ॥३॥ मज्जवसणी २६ अ अंतिमजलहि ठिई २७ मच्छसंकुलतडागा २८ । अणुकूलपवणपोआ २९ अयवालगिहा ३० य जलहिमुहा ३१ ॥४॥ १. परपत्थणापरमणा ३२ निच्चदरिद्दा ३३ महासमुद्दा ३४ य । हलवाहगा ३५ य वहगा ३६ कुंभारा ३७ गिरिणई ३८ मरुभू ३९ ॥५॥ कम्हारमही ४० सिद्धा ४१ महदुमा ४२ निवठिई ४३ सयपई ४४ अ । भेरीओ ४५ फलिअसाली ४६ मंतिवरा ४७ धुत्तमित्ती ४८ अ ॥ ६॥ तिपढमनरगा ४९ निवकन्नगा ५० य राया ५१ य जायगा ५२ सुगिहा ५३ । १५ सुहडा कुविआ ५४ तिसिआ ५५ वणउद्देसा य केरिसया ५६ ॥७॥ पागयभासाइ इहं वण्णचउक्केण चेव पइपसिणं । पञ्चत्तरं पयच्छसु जइ अइछेयत्तणं वहसि ॥ ८॥" ईपद् विमृश्य तयोक्तम्-‘परवाया' इति । तत्र सुजनाः परवाचः प्राणान्तेऽप्यन्यथाऽकरणात् , प्रकृष्टगिर इत्यर्थः १ । प्रवराश्वाः-परवाजाः प्रकृष्टवेगाः ‘क-ग-च-ज-त-द-प-य-वां प्रायो लुग्' (सिद्धहैमे अ० ८, पा० १, सू० १७७) इति जलुक्, 'अवर्णो यश्रुतिः' (सिद्ध०८-१-१८०) इति अवर्णस्य यः २। सारथयः-प्ररवाजाः, प्रकृष्टरवेण आजः-क्षेपः प्रेरणमर्थाद् वृपयोर्येषाम् ३ । ज्ञानिनः-परावायाः अवायः-निश्चयः, 'दीर्घ-इस्वो मिथो वृत्तौ' (सिद्ध०८-१-४) २५ इति इस्वः ४। वादिवरा:-परवादा: ५। सूपकाराः-परपाकाः, 'पो वः' (सिद्ध० ८-१-२३१) इति पस्य वः ६ । , श्रीरतशेखरसूरिसूत्रितस्य श्राद्धप्रतिक्रमणसूत्रस्य अर्थदीपिकाऽऽस्यस्वोपज्ञविवरणान्तर्गत मिदम् । Page #121 -------------------------------------------------------------------------- ________________ १०० औरतशेखरसूरिसन्हब्धम् द्यूतकारो:-परपाताः, पाशकपातनादि ७ । गणिका:-परव्याजाः, व्याज:-कपटम् ८ । वरगायनाः-प्रारवायाः प्रकृष्ट आरवस्य आयः-विस्तारो येषाम् ९ । विप्राः-परव्यादाः परं-श्रेष्ठं विशेषेण अदन्तीति 'कर्मणोऽण्' (सिद्ध०५-१-७२) १०। धनिवरकुविन्दावासाः-परावायाः, आवायः-कुविन्दशाला ११ । सुभिक्षे कणाः-परवाताः प्रकृष्टसमूहाः १२। ग्रीष्मजलधितटा:-परवाताः, वातः-वायुः १३ । धूर्ताः-परव्याचाः, 'व्यचत् व्याजीकरणे' (सिद्ध० धा०) व्यचनं व्याचः-वचनम् १४ । दुनेयसत्त्वाः -परापायाः, अपाय:-अनर्थः १५ । धार्मिकचित्ता धर्मे-परबादाः, 'वद स्थैर्ये' (सिद्ध० धा०) प्रकृष्टस्थैर्याः १६ । वेदविदः-परवाकाः वाक्-ऋग्-यजुःसमूहात्मकं वाक्यम् १७ । दयालुः-परपाता, परान् पातीति शीलार्थे तृन् १८ । अशुभवेला परपाता, पातः क्रान्तिसाम्यादिः १९ । पटः-परव्याता, 'व्यंग् संवरणे' (सिद्ध० धा०) परं व्ययति-आच्छादयतीति तृन् २०। १५ महासुभटः-परपायाः, पररक्षकशस्त्रः २१।। असती-परव्यागाः, प्रकृष्टविरुद्धापराधाः २२ । सुतन्तुवायः-परवाता, 'वेंग् तन्तुसन्ताने' (सिद्ध० धा०) प्रकृष्टं वयतीति तृन् २३ । महावाता-(परवाता ?), 'वांक् गतौ (गतिगन्धयोः?)' (सिद्ध० धा०) तृन् २४ । प्रांवृषि यवासः-परपाता, 'मैं (ओ) शोषणे' (सिद्ध० धा०) तृन् ,२५ । मद्यव्यसनी-परपाता, प्रकृष्टं पिवतीति तृन् २६ । अन्त्याधिस्थितिः-परव्यापा, प्रकृष्टविस्तारा २७ । मत्स्यसङ्कुलतडागाः-परवाकाः, वकसमूहो बाकम् २८ । अनुकूलपवनाः पोताः-परव्यायाः, 'व्ययी गती' (सिद्ध० धा०) प्रकृष्टगमनाः २९ । अजापालगृहाः-प्ररपाजाः, प्ररपन्तीत्यचि प्ररपा:-अजा यत्र ३० । २५ अब्धिमुखाः-पराबायाः, प्रकृष्टः अपामायः-लाभो यत्र ३१ । परप्रार्थनापरमनसः-परव्यजाः, परेषु विशेषेण आजो-गतिर्येषाम् ३२ । नित्यदरिद्रा:-परापायाः, परं-दूरमपगतमयो-भाग्यं येभ्यः ३३ । महाऽब्धयः-परापायाः, परा भृशार्थे परापां-भृशापाम् आयो येषु ३४ । हालिका:-परवापाः प्रकृष्टोप्तयः ३५ । वधकाः-परपापाः ३६ । कुम्भकारा:-परापाकाः, आपाकः-मृद्भाण्डपाकस्थानम् ३७ । गिरिनदी-परवापू (१) (टुक्षु) रु(कुं)क् शन्दे' (सिद्ध धा०) अचि प्ररवा आपो यत्र ३८॥ Page #122 -------------------------------------------------------------------------- ________________ परवायाशब्दार्थनिरूपणम् १०१ मरुभूः-परापाऽगा दूरमपगतवृक्षा ३९ । काश्मीरमही-परवाक्, वाक्-सरस्वती ४०।। सिद्धाः-परापाकाः, प्रकृष्टमपगतमकम्-अघं येभ्यः ४१ । महाद्रुमाः-परपादाः, पादाः-मूलानि ४२। नृपस्थितिः-परवाक्, परान्-शत्रून् वाजति-अवक्षिपतीति क्विप् ४३ । शतपदी-परपाद्, बहुत्वात् प्रकृष्टांहिः ४४।। भेर्यः-परव्यावाः 'उंड् (कुंड गुंड्- धुंड् डुङ्) शब्दे' (सिद्ध० धा०) 'युवर्णवृदृवशरणगमृद्ग्रहः' (सिद्ध०५-३-२८) इति अलि अवः-शब्दः, परान् (अवान्-) शब्दान् व्ययतिआच्छादयतीति 'आतो डोऽह्यावामः' (सिद्ध०५-१-७६) इति डे परव्योऽवो यासाम् ४५। फलितशालयः-परवाचाः, वचाः-शुकास्तत्समूहो वाचम् ४६ । मन्त्रिवराः-परावापाः, आवापः-अरिचिन्तनम् ४७ । धूर्तमैत्री-परापाता, आपातः-तत्कालः ४८। त्रयः प्रथमनरकाः-परापाकाः, परेभ्यः-परमाधार्मिकेभ्य आप्यत इति परापम् अर्कदुःखं येषु ४९। नृपकन्याः-परवायाः, 'त्रीश वरणे' (सिद्ध० धा०) प्रकृष्टो वायो यासाम् ५०। १५ राजानः-परपायाः, परः पाय:-रक्षा येपाम् ५१ । याचकाः-परव्याताः, 'अत सातत्यगमने' (सिद्ध धा०) अतनम् आतः, परेषु विशेपेण आतो येपाम् ५२। सुगृहाः-परव्यायाः, परेभ्यो विशिष्टा आया-ध्वजधूमादयो येषु ५३ । कुपिताः सुभटा:-परावापाः, परे-शत्रौ अवापः-प्राप्तिर्येषाम् ५४ । तृपिताः-(परपायाः), परं-केवलं पिवन्तीति परमते 'तन्व्यधी(श्वसातः) (सिद्ध० ५-१-६४) इति णे परपायाः ५५ । चनोद्देशाः-परन्यायाः, प्रकृष्टो वीनामायः-आगमनं येषु ५६ । वाजः पक्ष-मुनि-निस्वनेष्वपि वाजं सर्पि-रि-यज्ञा-ऽन्नेषु, पाकः शिशु-दैत्ययोरपि, पततीति वा ज्वलादि(दुनीभूग्रहास्तोर्णः)' (सिद्ध०५-१-६२) इति णे पातः, पतती २५ त्यचि पतः-पक्षी, तत्समूहः पातम् , व्याजोऽपदेशेऽपि, अगोऽधेऽपि, “अजश्छागे हरे विप्णी, रघुजे वेधसि स्मरे' (हैमेऽनेकार्थे का० २, श्लो० ८०) उप्यतेऽस्मिन्निति वापः क्षेत्रेऽपि, पापः पापिष्ठेऽपि, अगः शैलसरीसृपा-ऽर्केप्वपि, पादोऽशु-तुर्याशा-इंहि पर्यन्ताद्रि-पूजास्वपि, आवापः पात-भेदा-ऽऽलवाल-प्रक्षेप-भाण्डपचन-वलयेप्वपि आपातः पातेऽपि, बको रक्षोभेद-श्रीद-शिव-मल्ली(-बकोटे)ष्वपि, "पदं स्थाने विभक्त्यन्ते, शब्दे वाक्यैकवस्तुनोः ॥ त्राणे पादे पादचिहने, व्यवसाय-प्रदेशयोः।" Page #123 -------------------------------------------------------------------------- ________________ १०२ श्रीरत्रशेखरसूरिसन्दृष्यम् (हैमेऽनेकार्थे का० २, श्लो० २४१-२४२)। मङ्खमते पदं चरणन्यासा-ऽक्षचिहनयोरपि, वचा औषधि-शारकयोः, वपा विवर-मेदसोः, व्रजोऽध्व-गोष्ठ-सङ्केषु, व्यजा ऊपाकपणाय रजुवद्धघट्यादिनिक्षेपमार्गे प्रेरणदण्डे च, 'वज व्रजण मार्गणसंस्कारगत्योः' (सिद्ध० धा०) 'मार्गण संस्कारेऽपि' इत्यन्ये, एतयोरचि वजः व्रजः, वदपचादिभ्योऽचि ५ वदः पच इत्यादि २७, बकादीनां व्रता(पदा)दीनां च यथायोग समूहाद् यणि बाकं पादमित्यादि, एवं १४९, तथा 'पां पैं उवेंग (ओबैं?) व्यग् वेंग् 'वद व्यक्तायां वाचि' (सिद्ध० धा०) कण्ठमते 'पद स्थैर्ये' अव रक्षणादि १९ अर्थेषु, 'अक अग कुटिल(लायां) गतो' (सिद्ध० धा०) 'वज व्रज अयि वयि पयि पदिंच गतौ' (सिद्ध० धा०) 'वांक गति-गन्धनयोः' (सिद्ध० धा०) 'वींक् प्रजन-कान्त्य-ऽसन-खादनेषु (च) (सिद्ध० १. धा०) अन्ये असनस्थानेऽशनमाहुः, 'पीड्च् पाने' (सिद्ध० धा०) 'वीच् वरणे' (सिद्ध० धा०) 'पतण गतौ वा' (सिद्ध० धा०) एषां घञि पायः वा इत्यादि ४४, 'ईड्च गतौ' (सिद्ध० धा०) 'वातण गतिसुखा-ऽऽसेवनयोः' 'सुखासवनयोः' इत्येके एपां 'यु-यवर्ण(वृदवशरणगमृद्ग्रहः) (सिद्ध०५-३-२८) इत्यलि अयः वातः ‘वचण वदि (विद!)ण भाषणे' (सिद्ध० धा०) 'संदेशने' इत्येके, 'आप्Mण लम्भने' (सिद्ध० धा०) १५ एषां युजादित्वात् णिजभावपक्षे पनि वाकादि 'व्ययण वित्तसमुत्सर्गे' (सिद्ध० धा०) 'गतौ' इत्येके, पदिण (दणि?) गतौ, (सिद्ध० धा०) अनयोर्णिजनित्यत्वेऽनदन्तत्वेन घनि व्यायादि १४, 'बूंगा (व्यक्तायां वाचि)' (सिद्ध० धा०) 'वचंक् (भाषणे)' (सिद्ध० धा०) वक्तीतिशीलः विपि वाक् २ ओवे 'वांक् गतिगन्धने (?न योः)' (सिद्ध० धा०) तृनि वाता २ पात्याद्यादन्तसप्तकात् 'तन्व्यधी' (सिद्ध०५-१-६४) इति णे पायादि २०७ 'अज गतौ' अद् अत् आप् अक् अग् णिचोऽनित्यत्वे वा णः, एपां विपि अवाज इत्यादि १०, 3ग् डे परवः १९ अर्थेष्ववधातोरचि अवः, परश्चासाववश्च परावः, परं पित्रतीति क्विपि परपाः, एवं पात्याद्यादन्तैरपि अग्रे आयादि योज्यम् २८, अदर्जाजादिभ्योऽयाऽवोऽश्वाऽविअजातादि (१) २९, आङ् पूर्वपात्यादिवदपचादिसकर्मधातुभ्यः 'कर्म णोऽण' (सिद्ध० ५-१-७२) इत्यणि परवायाः परवादाः परपाचा इत्यादि ५६, पूर्वोक्त२५ धातूनां यथाप्राप्त णिचि शेषाणां तु सर्वेषां णिगि विपि पात् वात् इत्यादि, पायः वायः इत्यादि ७८, एवं ३६१, एषामाचष्टे इत्याद्यर्थे णिजि विपि पुनः ३६१, एवं ७२२ प्रश्नोत्तराण्यत्र, प्रकर्षेण राजत इति क्वचिड्डे प्ररः, अनेनापि सर्वरूपाणि रूपाष्टकवर्ज स्युः, तथा च १४३६, पूर्वोत्तरपदयोर्मिथो यथाऽर्ह परावर्ते विशेषखण्डने च न सङ्ख्या । , 'सुखसेवनयोः' इति महोपाध्यायभीमेघविजयगणिप्रणीतायो चन्द्रप्रभायां (हैमकौमुद्यां) ४५९तमे पृष्ठे । Page #124 -------------------------------------------------------------------------- ________________ पण्डितगुणरत्नमुनिवरकृताः ॥ नमस्कार - प्रथम-पदा -ऽर्थाः ॥ 101 (नमोऽर्हद्भ्यः) नमो अरिहंताणं । नमोऽर्हद्द्भ्य इति मुख्योऽर्थः ॥ १ ॥ ( नमोऽरि-हन्तृभ्यः) अरयः: - वैरिणस्तेषां हन्तारः अरिहन्तारः - सर्ववैरिविनाशकाः, चक्रवर्तिन इत्यर्थः, तेभ्यो नमोऽस्तु इति तत्सेवकवचः ॥ २ ॥ ( नमोऽरि-हन्तृभ्यः) अथवा अरा विद्यन्ते यत्र तत् अरि-चक्रं, तेन हन्तारो - वैरिविनाशकाः, चक्रवर्तिन इत्यर्थः, तेभ्यो नमोऽस्तु ॥ ३ ॥ (न-मोदाsरि ह त्राणम्) हो - जलं तस्य त्राणं- रक्षणं, सरोवरमित्यर्थः, तद् वर्तते किम्भूतम् ? मोदो - हर्षः तस्य अरिरिव अरिः शोकः, न विद्यते मोदारिः- शोको यस्मात् तत् नमोदारि । नखादिगणान्नञोऽवस्थानम् । “प्रक्रियां नातिविस्तरां " ( सारखतादौ ) इत्या- १० दिवत् ॥ ४ ॥ (नम ओ अरि-हं त्राणम्) अरि-चक्रं हन्ति - गच्छति प्राप्नोति इति अरिहं - चक्रधरं, विष्णुम् | 'नम' इति क्रियापदं पञ्चम्या मध्यमपुरुषैकवचने । किम्भूतं विष्णुम् ? त्राणं-शरभूतं तत्सेवकानाम् । 'ओ' इति सम्वोधने ॥ ५ ॥ ( नमोदलि ह-तानं) हो - जलं तस्मात् तानो - विस्तारः उत्पत्तिः यस्य तत् हतानं - कम- १५ लम् । (तद्) वर्तते । किम्भूतम् ? 'नमोदलि' नमः - प्रह्वीभावः तेन उत्-प्रबला उद्धता अॅलिनः - भ्रमरा यत्र एवंविधम् । अनुस्वाराभावः चित्रत्वात्, रलयोरैक्यं च तस्मादेव ॥६॥ (नमोदरि हन्ताऽऽनम् ) नमो अरि० । नर्म-नमत् उदरं नमोदरं, नमोदरं विद्यते यस्य तत् नमोदरि, बुभुक्षाक्रान्तोदरं भिक्षाचरवृन्दमित्यर्थः । तद् वर्तते किम्भूतम् ? 'हन्ताणं' हन्तशब्देन भिक्षा उच्यते । देशीभापया हन्त - भिक्षा, तया आनं-जीवनं यस्य २० ( तत् ) हन्तानम् ॥ ७ ॥ (न मोअ - लिह - त्राणम्) मोअशब्देन प्रश्रवणम् । 'अँणहारे मोअनिंबाइ' इति १ ‘नखादयः' इति सिद्ध है मे ( ३-२-१२८) । २ 'अलयः' इति ख- पाठः । ३ श्रीदेवेन्द्रसूरिकृतस्य प्रत्याख्यान भाष्यस्य पञ्चदशगाथायाश्चतुर्थं चरणमिदम् । सम्पूर्णा गाथा तच्छाया चैवम् - ५ "खाइमे भत्तोसफळाइ साइमे सुंठिजीर अजमाई | महु-गुढ तंबोलाइ, अणाहारे मोभनिवाइ ॥” खादिमे भक्तोषफलादि स्वादिमे शुण्ठिजीर काजाजादि । मधु-गुड-ताम्बूलादि अनाहारे प्रश्रवणनिम्बादि ॥ Page #125 -------------------------------------------------------------------------- ________________ १०४ पण्डितगुणरत्नमुनिवरकृताः प्रश्रवणस्य लिहः - पानकारी । 'लिहींकू आस्वादने' (सिद्ध० धा०) तस्यैवंविधकष्टकर्तुरपि त्राणं शरणं न स्यात् । ज्ञानं विनेत्युपस्कारः । " सोपस्कराणि सूत्राणि भवन्ति” इति न्यायः ॥ ८ ॥ (न मौकलि-हा - SSनम् ) मौकलिः - 5:- वायसः । 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८) ५ इत्यकारः । तस्य हन्ता - घातकः, तस्य आनं जीवनं न स्यात् । लोके हि एवं रूढिः - वायसस्य भक्षकश्विरजीवी स्यात् । तत्रायं अर्थो न समर्थः । तस्य हननेऽपि अधिकं जीवनं नैवेत्यर्थः ॥ ९ ॥ (न- मोदाssरि भन्राणम्) 'हंताणं' भानि - नक्षत्राणि तेषां त्राणं- रक्षणं यस्य, सर्वनक्षत्रत्राता, चन्द्रः इत्यर्थः । 'पश्यत' इति क्रियाऽध्याहारः । चन्द्रं किम्भूतम् ? 'नमोदारि' १० नो-बुद्धिः मोदो - हर्षः आरः- प्रापणम्, आरो विद्यते यस्य स आरी, बुद्धिमोदयोः आरी । शुभे चन्द्रे हि शुभा बुद्धिः हर्षश्च प्राप्यते । 'आरि' इत्यत्रानुस्वाराभावो न दोषाय, चित्रत्वात् । 'ख-ध-थं-ध-भां हः ' ( सिद्ध० ८-१-१८७ ) इत्यादौ भकारस्य हकारः क्वचित् आदावपि भवतीति वचनात्, बाहुलकाच्च ॥ १० ॥ (न-मोदाsहं त्राणं) त्राणं - सत्पुरुषशरणं वर्तते । किम्भूतम् । 'नमोदार्ह' नो- ज्ञानं १५ मोदो - हर्षः तयोः अर्ह योग्यम् ॥ ११ ॥ (नृ-मोदर्ह तानम्) तानं - वस्त्रम् । लोके हि तानकयोगाद् वस्त्रनिष्पत्तिः । कारणे कार्योपचारात् तानं - वस्त्रम् । किम्भूतम् ? 'नमो अरिहं' नृणां - मनुष्याणां मा-शोभा, तस्या उदहं भृशं योग्यम्, मनुजशोभाकारि इत्यर्थः ॥ १२ ॥ ( नमोदरी हन्त आ-नम् ) ' हन्त' इति खेदे । नमं-नमत् कृशम् उदरं यस्याः सा नमो२० दरी - कृशोदरी, स्त्री इत्यर्थः । सा 'आनं' आ-समन्तात् नं- बन्धनम् । स्त्रियः सर्वत्र बन्धनरूपा इति ॥ १३ ॥ (नम अर्हदाज्ञाम्) 'अरिहंताणं' अर्हदाज्ञां प्रति नम - प्रह्वीभवेति शिष्यस्य कथनम् ॥ १४ ॥ ( न मोपरि हन्ता) मः- शिवः । 'शिव' शब्देन मोक्षो ज्ञेयः । तस्य उपरि हन्ता - गन्ता २५ न वर्तते कश्चित् जीवः, मुक्तेरुपरि अलोकसद्भावेन कस्यापि गमनाभावात् । ' हन्ता' इत्यत्र 'हनंकू हिंसा - गत्योः' (सिद्ध० धा० ) इति गत्यर्थः ॥ १५ ॥ ( न म उअ इह अ-तानम् ) इह-जगति अं- परब्रह्म तस्य तानं - विस्तारं त्वं 'अ पश्य' (सिद्ध० ८ - २ - २११ ) । सर्वस्मिन् जगति ब्रह्मैवास्तीति वेदान्तिमतम् । न मः - १ 'भक्तिक' इति क-पाठः । २ 'बाहुलकाद् चा' इति ख- पाठः । ३ ' गमनं नास्ति' इति ख- पाठः । ४ उभ पश्येत्यस्यार्थे श्री हेमचन्द्रसूरिभिः प्राकृतव्याकरणस्य स्वोपज्ञवृत्तौ निर्दिष्टा गाथा तच्छाया च यथा"उभ निश्चल निष्कंदा भिसिणीपत्तम्मि हइ बलाभा । निम्मक- मरगय- भाषण-परिद्विआ सङ्घ- सुत्ति व्व ॥" पश्य निश्चळ निःस्पन्दा बिसिनीपात्रे राजति बलाका । निर्मलमरकत भाजनपरिस्थिता शङ्खशुक्तिरिव ॥ Page #126 -------------------------------------------------------------------------- ________________ नमस्कारप्रथमपदार्थाः १०५ विधाता, "मश्चन्द्रे (च) विधौ शिवे" (श्रीमुधाकलशप्रणीतायामेकाक्षरनाममालिकायां श्लो० ३४), विधाता-जगत्कर्ता कोऽपि तन्मते न वर्तते इत्यर्थः ॥ १६ ॥ (न मा ऊ अ-रि हा-sतानम्) न विद्यते रा-द्रव्यं यस्य तत् अरि, निद्रव्यं कुलमित्यर्थः । तत् किम्भूतम् ? 'हंताणं' हो-निवासः तस्य अतानं-लाघवं यस्य तत् । निर्धनस्य गृहलाघवं स्यात् । तानो-विस्तारः, अतानं-लाघवम् । 'न मा' इति निषेधद्वयं प्रकृत-५ मर्थ ब्रूते । 'अ' इति पूरणे ॥ १७ ॥ (नमोत्परिघं ता-ऽऽ-नम्) तः-तस्करः तस्य आ-समन्तात् नं-बन्धनम् । किम्भूतम् ? 'नमोत्परिघं' नमन्-आरतः परतोऽपि द्वारादिषु मिलन् उत्-प्रबलः परिधः-अर्गला यत्र तदेव चौरबन्धनं स्यात् ॥ १८ ॥ (न मा ऊ अरि-ह सन्तानम्) अरी-प्राप्नुवन् हकारो यत्र । एतावता सकारः १० तस्मात् अन्तानं इति योज्यते । तदा स(सा?)न्तानं इति स्यात् । ततः सन्तानं मा-लक्ष्मीः च ऊः-रक्षणं न स्यात् , दुर्गतिपातत इति ॥ १९॥ (नमोऽर्हद्भ्यः ) अर्हन्तः-सामान्यकेवलिनः तेभ्यो नमः ॥ २० ॥ (नमोऽहंदुभ्यः) अर्हद्भ्यः-पूज्येभ्यो मातापित्रादिभ्यो नमः ॥ २१ ॥ __(नं ओ अर्हन्तं अत णं) 'ओ' इति सम्बोधने । नं-बुद्धिम् अर्हन्त-प्राप्नुवन्तं वुद्धि-१५ निधानं मन्त्रिणम् । 'अत सातत्यगमने' (सिद्ध० धा०)। अत-जानीहि । 'गत्यर्था ज्ञानार्थाः' इति । 'स्वराणां स्वराः' (सिद्ध०८-४-२३८) इत्याकारः । ‘णं' वाक्यालङ्कारे ॥ २२ ॥ ___(नमोऽर्हतः) अर्हतः-स्तुत्यान् सत्पुरुषान् नमः, स्नुग्-द्विषाहः शत, शत्रुः स्तुत्ये इति ॥ २३ ॥ __ (नं अर्हतः उअ) नं-ज्ञानम् अर्हतः-प्राप्तान् श्रुतकेवलिनः । 'उअ पश्य' (सिद्ध०२. ८-२-२११) ॥ २४ ॥ (न-मा-ऊ-अरिहं ता अण) नं-ज्ञानं तस्य मा-प्रामाण्यम् । ऊः-धारणं तस्य अरिहं-योग्यं । ज्ञानप्रामाण्यवादिनं जनं त्वं अण-बद । 'अण-रण(वण-व्रण-बण-भणभ्रण-मण-धण-ध्वण-ध्रण-कण-कण-चण शब्दे)' (सिद्ध० धा०) इति दण्डकधातुः। ता-तावत् प्रक्रमे । अन्तेऽनुस्वारः प्राकृतत्वात् ॥ २५ ॥ (नमः अहीं-ऽन्त-अणं) अर्हः-प्राप्तोऽन्तो यः। एवंविधा 'अण' त्ति अनन्तानुबन्धिनो यस्य तम्, पदैकदेशे पदसमुदायोपचारात् । सम्यग्दृष्टिपुरुषं क्षायिकसम्यक्त्ववन्तं प्रति नमः ॥२६॥ (नम उत-लिहं त्राणं) त्राणं-भोजनभाजनमण्डनयोग्यं वस्तु, तं नम-अन्तर्भूतणि१ 'पितृप्रभृतिभ्यः' इति ख-पाठः। २ अन्न पूर्वापरीभावः ख-पुस्तके । अर्थ. १४ Page #127 -------------------------------------------------------------------------- ________________ १०६ पण्डितगुणरत्नमुनिवरकृताः गर्यत्वात् प्रह्वीकुरु, मण्डयेति भोजनकारिवचः । तत् किम्भूतम् ? उतं - सम्बद्धं लिहं - भोजनं यस्मात् ( तत् ) ॥ २७ ॥ (नमकोऽर्ह तार्णम्) ताण - तृणसमूहो वर्तते । किम्भूतम् ? नमं-नमत् कुटीरप्रायं यत् ओको- गृहं तस्यार्हैः तृणैराच्छाद्यते गेहमिति ॥ २८ ॥ ५ ( न मोदाs - रि-हं तृणम्) तृणं वर्तते । किम्भूतम् ? 'मोदारिहं' मोदो - हर्पः तत्प्रधाना अरयस्तान् हन्ति - हिनस्ति मोदारिहम् । 'न' इति निषेधे । तृणमुखास्ते वैरिणो जीवन्तीत्यर्थः ।। २९ ।। (न-मोदा-रि हन्त ऋणम्) ऋणं वर्तते । ' हन्त' इति खेदे । किम्भूतम् ? 'नमोदारि' नं- बुद्धिः मोदो - हर्पः तस्य अरिः - वैरिभूतं वर्तते । ऋणे सति बुद्धि-हर्षो नश्यत १० इत्यर्थः ॥ ३० ॥ (नं मोsरिभा - ऽतः णं) अरिभं रिपुनक्षत्रं तत्र अतो- गमनं यस्य सः । 'अत सातत्य' गमने' (सिद्ध० धा० ) । एवंविधो मः - चन्द्रः । नं- वन्धनं, विग्रहमित्यर्थः तम् । " णकारो निष्फले प्रकटे च" ( ) इति वचनात् णं - निष्फलम् । करोतीत्यध्याहारः । " अरिहन्ता प्रथमैकवचनस्य व्यत्ययोऽप्यासाम् ” ( ) इति वचनादपभ्रंशापेक्ष१५ या 'स्यम् - जस्-शसां लुक्' (सिद्ध० ८-४- ३४४ ) इति लुक् । एवमन्यत्रापि ज्ञेयम् ॥ ३१ ॥ (न मोsरि-भं आक: अ-णं) भशब्देन राशिरप्युच्यते, भवनमपि, ततो अरिभं-रिपुभवनम् । यदा मः- चन्द्रो न आकः-न प्राप्तः तदा अणं सफलं, कार्य स्यादिति शेषः । पष्ठभवने चन्द्रस्त्याज्य इत्यर्थः ॥ ३२ ॥ ( नमोदरि - हं ता अनः ) ता - तावत् अनः - शकटं वर्तते । किम्भूतम् ? 'नमो अरिहं' १० नमो दरिहं नर्म-नमस् नीचैर्भवत् पुनः उत्-उच्चैर्भवत् एवंविधं यत् अरि-चक्रं ताभ्यां हन्ति - गच्छति । शकटं हि चक्राभ्यां चलतीति ॥ ३३ ॥ ( न मो - रि-हन्ता णं) मः - ईश्वरो वर्तते । किम्भूतः ? 'अरिहन्ता' अरं - शीघ्रम् इःकामः तस्य हन्ता, 'णं' अलङ्कारे ॥ ३४ ॥ ( न ओजोऽर्ह ता - sणः ) ता - शोभा तत्प्रधानोऽणः - शब्दः साधुशब्दो यशः । 'न ओ२५ जोऽर्ह' ओजो - बलं तस्य योग्यं न, वलेन यशो न स्यादित्यर्थः । मकारोऽलाक्षणिकः । 'अणं' इत्यत्र 'लिङ्गमतन्त्रं' (सिद्ध० ८-४-४४५ ) इति क्लीवत्वेन न दोषः ॥ ३५ ॥ ( नामू: अरमिभा - ऽन्ता - ऽणः ) अरम् - अत्यर्थम् । इभान्तः - हस्तिविनाशी सिंहः तस्य अणः-शब्दः, सिंहनाद इत्यर्थः । तं त्वं अय-प्राप्नुहि । इति सुभटस्योच्यते । यतो अमूः वन्धनं न स्यात् । 'स्वराणां स्वराः' (सिद्ध० ८ -४ - २३८ ) इत्यकारः ॥ ३६ ॥ १ 'भय'धातोरात्मनेपदिश्वात् चिन्त्योऽयं प्रयोगः । Page #128 -------------------------------------------------------------------------- ________________ नमस्कारप्रथमपदार्थाः (नमोऽजारि-हन्तृभ्यः) "अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे" (हमे का० २, श्लो० ८०) इत्यनेकार्थवचनात् अजः-ईश्वरः सोऽरिर्यस्य सः अजारिः-कन्दर्पः, तस्य हन्तृभ्यो-नीरागेभ्यो नमः ॥ ३७॥ (न मा ओ! अ-लिहं त्राणम्) कस्यचिद् धनवतो धर्मपराङ्मुखस्योच्यते । 'लिहीक् आस्वादने' (सिद्ध० धा०) लिहनं लिहः वाहुलकाद् भावे कः । न विद्यते लिहो यस्य । (सद् ) अलिहम्-अभक्ष्यत्वं अज-क्षिप, त्यजेत्यर्थः। अवतेवृद्ध्यर्थात् क्विपि । औस्तस्यामन्त्रणे हे ओ! धनवृद्ध! मा-लक्ष्मीः त्राणं न भवतीति, विरतिरेव त्राणं स्यादिति अभक्ष्यार्थ त्यजेत्यर्थः ॥ ३८ ॥ (न मोचः अज-लिह-तानाम्) अजः-छागः तं लिहन्ति भक्षयन्तीति अजलिहाः। एवंविधास्ताः-तस्करास्तेषां मोचो-मोक्षो न स्यात् । 'ते कर्मभिः न मुच्यन्ते इत्यर्थः । मोचनं. मोच इति णिगन्तादच् ॥ ३९ ॥ (न मोचा लिह-ता न) मोचा-कदली वर्तते । किम्भूता ? लिहो-भोज्यं तस्य ता-शोभा यस्याः सा । भोज्ये सारभूता । न नेति निषेधद्वयं प्रकृतार्थम् ॥ ४० ॥ (न मा अही-ऽन्ता णं) अर्हा-पूजा तस्या अन्तो-विनाशो यस्यां सा अन्तिा । ईदृशी मा-लक्ष्मीः न भवति । लक्ष्मीः सर्वत्र पूजां प्राप्नोतीत्यर्थः । 'ण' अलङ्कृतौ ॥ ४१ ॥ १५ (न मोऽजा-रि-हन्ता न) मातीति मः 'क्वचिड्डः' (सिद्ध०५-१-१७१) प्रमाणवेदी पुरुषः। किम्भूतः ? अजः-परमात्मा तस्य अरिः-निषेधकः, प्रतिवादीति यावत् , तस्य हन्ता-निवारकः । परमेश्वरं यो न मन्यते तं निवारयति प्रमाणवेत्ता पुरुषः, सर्वज्ञं स्थापयतीत्यर्थः । नद्धयं प्रकृत्यर्थे ॥ ४२ ॥ __ (नमोऽजा-ऽह-ता-अणं) अजः-सर्वज्ञः तस्य अर्हः-पूजा तस्य तां-शोभा अणति-वदति २० उपदिशति यः तं पुरुषं (प्रति) नमोऽस्तु । पूजास्थापकः पूजाहेः स्यादित्यर्थः ।। ४३ ॥ (न मोह -ऽन्ता-sगः) “अन्तः स्वरूपे निकटे, प्रान्ते निश्चय-नाशयोः। अवयवेऽप्यथाऽर्हन् स्यात् , पूज्ये तीर्थकरेऽपि च ॥" . .. इति (हैमे का० २, श्लो० १७१) वचनात् मः-शिवोऽस्ति किम्भूतः? 'अन्तिाणा' ५५ अर्ह-सर्वेषां योग्यम् अन्तः-स्वरूपं तस्य अण- उपदेष्टा । 'अण शब्दे' (सिद्ध० धा०)। "मश्चन्द्रे (च) विधौ शिवे" (सुधा० श्लो० ३४) इत्येकाक्षरनिघण्टुः। ईश्वरः सर्वपदार्थयथास्थितवादी न स्यात् , तदुक्ततत्त्वव्यभिचारात् ॥ ४४ ॥ , 'कर्ममुक्तिर्न सावित्यर्थः' इति न-पाठः । २ 'भलकारे' इति स्न-पाठः । "अन्तः स्वर Page #129 -------------------------------------------------------------------------- ________________ १०८ पण्डितगुणरत्नमुनिवरकृताः (नमोऽजा-अरिहं ता-ऽणं) अजः-छागः तेन, 'ऋक् गतौ' (सिद्ध० धा०) इयति अजारीः-छागवाहनो यह्निः शीलार्थ इन् । तं 'हिंट गति-वृद्धयोः' (सिद्ध० धा०) हाययतिवर्धयतीति अजारिहः-चद्विवर्धकोऽग्निहोत्री तं पुरुष नमोऽस्तु इत्युपहासः । तं किम्भूतम् ? 'ताणं' तां-शोभाम् अणति ताणः, वयं अग्निहोत्रिण इत्यभिमानी ॥ ४५ ॥ ५ (न मोचांअलि हन् अतणं)"मोचा शाल्मलि-कदल्योर्मोचा शिौ" इत्यनेकार्थः (हैम० का० २, श्लो० ७३)। मोचा-शाल्मली तां त्वं न अत । 'अत सातत्यगमने' (सिद्ध धा०) मा गच्छेति । यतः 'अलिहन्' अलीनां-भ्रमराणां हन्-गमनं णं निष्फलं वर्तते । 'हनं हिंसागत्योः' (सिद्ध० धा०) विचि रूपम् । भ्रमराणां भ्रमणं निष्फलं, सौरभरहितत्वात् । ततस्त्वं मा गच्छेति मित्रस्योक्तिः ॥ ४६ ॥ १. (नमोऽरि-हतेभ्यः) अरयो-वैरिणः अष्टविधकर्माणि । यदुक्कं (आवश्यकनियुक्ती गा० ९२०) "अढविहं पि अ कम्मं अरिभूअं होइ सबजीवाणं । ___ तं कम्ममरिं हंता अरिहंता तेण वुच्चंति ॥" इति तैर्हतेभ्यः कर्मपीडितेभ्यो नमोऽस्तु । इति उपहासनमस्कारः॥ ४७ ॥ १५ (न मोचं अर्हत्-त्राणम्) 'अरिहं' अर्हन्-तीर्थकरः तस्य त्राणं-शरणं न मोच-न मोच्यमिति ॥ ४८ ॥ (न मोचं अर्हत्-त्राणम्) अर्हन्-तीर्थकरः तस्य त्राणं-शरणं न मोच्यम् ॥ ४९ ॥ • (न मोचं अरि-ह-त्राणम्) अरि-अष्टविधं कर्म हतवन्तः ते अरिहाः-सिद्धाः तेषां त्राणं शरणं न मोच्यम् ॥ ५० ॥ २. (न मः मोदा-ऽरि-हतानाम्) मोदारिः-शोकः तेन हतानां-पीडितानां न म:शिवं न स्यात् ।। ५१॥ (न मोदोऽरि-हतानाम्) अरिहतानां-बाह्यवैरिपीडितानां न मोदः-हर्षो न स्यात् ॥५२॥ (नमः अरि हतेभ्यः) अरि इति अव्ययं सम्बोधने । हतेभ्यो-निन्द्येभ्यो नम इत्युपहास्यम् ॥ ५३ ॥ २५ (नमोऽगा-रि-हा-ऽन्ता-ऽणं) अगाः-पर्वताः तेषां अरिः-इन्द्रः तस्य हो-निवासः स्वर्गी| तस्य अन्तः-स्वरूपं, “अन्तः स्वरूपे निकटे" इति (हैमे का० २, श्लो० १७१) वचनात् । १ 'नमो० अरिभिर्हतानाम्-अष्टविधकर्मपीडितेभ्यो नमः-उपहासनमस्कारः' इति ख-पाठः । २ छाया अष्टविधमपि च कर्म भरिभूतं भवति सर्वजीवानाम् । तं कारिं हन्ति भरिहन्तारस्तेनोच्यन्ते ।। ३ 'जिनः' इति ख-पाठः । , Page #130 -------------------------------------------------------------------------- ________________ नमस्कारप्रथमपदार्थाः १०९ तं अणति वदति यः तं प्रज्ञापनादिसिद्धान्तवेदिनं नमः -प्रणतोऽस्मीत्यर्थः । 'अवर्णो यश्रुतिः' (सिद्ध० ८-१ - १८० ) न यकारवा हुलकात् इति अगारिरित्यत्र ॥ ५४ ॥ ( नमोऽर्ह त्वमत णम् ) णं- ज्ञं पण्डितं पुरुषं त्वम् अत - जानीहि । 'अत सातत्य - गमने' (सिद्ध० धा० ) । 'गत्यर्था ज्ञानार्थाः ' । किम्भूतम् ? नमोऽर्ह - प्रणामयोग्यम् ॥५५॥ (न-म-उ अर्हदृणम्) 'अरिहंताणं' अर्हन्- तीर्थकरः तस्य ऋणं कर्म तीर्थकर नामकर्मे - ५ त्यर्थः । किम्भूतम् ? 'नमो' नो-ज्ञानं मः- शिवं तयोः कः - प्राप्तिः यस्मात् । यत् कर्म - युदिते परमज्ञानं मोक्षश्च प्राप्यते एवेत्यर्थः ॥ ५६ ॥ ( नमोत्तरी : हा - sन्ता) 'नमोत्तरी : ' नमा नमन्ती उत्-ऊर्ध्वं गच्छन्ती एवंविधा तरीः-नौः। किम्भूता ? ' हान्ता' हं जलं तस्य अन्तः - प्रान्तो यस्याः एवंविधा न स्यात् । क्षणं नमति क्षणाच्चोद्धं याति तया नावा जलप्रान्तो न स्यात्, जलप्रान्ते न गम्यते १० इत्यर्थः ॥ ५७ ॥ (नृ-मोऽरि हताऽऽनः ) ना - पुरुषः तस्य मो - मस्तकः । किम्भूतः ? 'हतानः ' "हः शूलिनि करे नीरे” (सुधा० श्लो० ४५) इति ह: - - ईश्वरः तस्य ता - शोभा तां आनयतिवर्धयति (इति) हतानः । नरमस्तको हि ईश्वरशोभाकरः तदाभरणं शिवस्य वर्तते । 'अरि' सम्बोधने ॥ ५८ ॥ ( नम अजं हताऽनम् ) अजं - विष्णुं नम-प्रह्वीभव । किम्भूतम् ? 'हतानः' हतः अनः - शकटदैत्यो येन तम् । 'इ-जे-राः पादपूरणे' (सिद्ध०८-२-२१७ ) इति सूत्रात् इकारमुक्तो रेफः पादपूरणे ॥ ५९ ॥ ( न मा अजोऽरिहन्ता णम्) अजो - रघुतनयः अरिहन्ता - सर्ववैरिविनाशी अभूत् । 'णं' अलङ्कारे । 'मा' 'न' इति निषेधद्वयं प्रकृतार्थम् ॥ ६० ॥ ३० (नृ-मोदं रह तानम् ) 'नमो अरहंताणं' अयमपि पाठोऽस्ति । ताना एकोनपञ्चाशत् । तानं - गीततानं रह - जानीहि । 'रहुण गतौ' (सिद्ध० धा० ) । गत्यर्थाश्च ज्ञानार्थाः । तानं किम्भूतं ? 'नृमोदं' नृणां पुरुषाणां मोदो यस्मात् ॥ ६१ ॥ (न मोचय अर्हदाज्ञाम् ) अनेन पदेन अनुयोगचतुष्टयं व्याख्यायते । अरहंताणं अर्ह दाज्ञां न मोचय । मोचा - शाल्मली मोचां करोति मोचयति । मध्यमपुरुषैकवचने मोचयेति २५ सिद्धम् । शाल्मलितुल्यामसारां जिनाज्ञां मा कुरु । तत्त्वरूपां तां जानीहि । इति चरणकरणानुयोगः ॥ ६२ ॥ ( नमः अर्हन्नकं त्राणम्) 'अरहं' अर्हन्नकं - साधुं त्राणं- शरणभूतं नमस्कुरु । पदैकदेशे पदसमुदायोपचारात् अरहं अर्हन्नकम् । इति धर्मकथानुयोगः ॥ ६३ ॥ १] अनेन विप्रहेण 'नमो' इति पदस्य कर्मविशेषणत्वे संशीतिः, नपुंसकत्वे ह्रस्वेन भाव्यम् । २ 'तरस्वरूप' इति ख- पाठः । ३ 'मईकः' इति क-पाठः । १५ Page #131 -------------------------------------------------------------------------- ________________ ११० पण्डितगुणरत्नमुनिवर कृताः 1 ( न मोच-र-हन्ता ऋणम्) ऋधातोस्तप्रत्यये 'ऋहीघाधा (त्रोन्दनुदविन्तेर्वा ) ' (सिद्ध० ४-२-७६) इति ऋणप्रयोगः । ऋणं क्षीणं पुरुषं मोचः- शिग्रुः तस्य 'र' शब्देन रसो हन्ताघातकोभवति । क्षयरोगी पुरुषः शिग्रुरसेन नीरोगः स्यादिति तात्पर्यम् । पदैकदेशे पदसमुदायोपचारात् 'र' शब्देन रसः । नेयं स्वमतिकल्पना श्रीजिनमभसूरिरपि, 'पंउमाभवासुपूज्जा' ५ इत्यस्यां गाथायां चतुरनुयोग व्याख्यानयद्भिरेवं व्याख्यातम् — “ पर इति पौषः । मा इति माघः । भ इति भाद्रपदः । तत्र अव इति अवमरात्रे सतीत्यर्थः । असु इति असुभिक्षं - दुर्भिक्षं स्यात् । पु इति पुहवी । लोगो पुहवी सोवा तस्य ज्या ज्यानिः - हानिः स्यादित्यर्थः” । इति द्रव्यानुयोगः ॥ ६४ ॥ ( न मोडलि - हन् त्राणम्) 'नमो अरिहंताणं' अलिः - वृश्चिकराशिः तत्र 'हनंकू हिंसा - १. गत्योः' (सिद्ध० धा० ) हन्ति - गच्छतीति विचि अलिहन्-वृश्चिकराशिगतो मः - चन्द्रः त्राणं-विपद्रक्षको न भवति । वृश्चिकराशौ चन्द्रस्य नीचत्वाद् दौर्बल्यम् । इति गणिताअनुयोगः ॥ ६५ ॥ ( नमः अलि-हा-ऽन्तेभ्यः) “अलिः सुरा- पुष्पलिहोः" इति (हैमे अनेकार्थे का० २, श्लो० ४८०) वचनात् अलि:- सुरा तां जहाति अलिहं-सुरावर्जकम् । सुराया उपलक्षणत्वात् १५ मांसाद्यपि ग्राह्यम् । मद्यादिवर्जकं अन्तः - स्वरूपं येषां तानि अलिहान्तानि - श्राद्धकुलानि तेभ्यो नमः - उद्यमो भवतु । श्राद्धकुलानि उदितानि सन्त्वित्यर्थः ॥ ६६ ॥ ( नमः अरे हं अताणम्) कश्चिच्छेवो वक्ति - हं - अहं रे - रामविषये नमो-नमस्कारम् अताणं-अतनवम्, कृतवानित्यर्थः । ' र ' शब्देन राम उच्यते एकाक्षरनाममालायाम् । अतनवमिति ह्यस्तन्युत्तमैकवचनम् । अकारः पादपूरणे ॥ ६७ ॥ २० ( नमः अरे हं अताणम्) कश्चिज्जैनो वक्ति - अहं रामे नमः नातनवम् । अकारो निषेधे । “अ-मा-नो-नाः प्रतिषेधवाचकाः” इति माला ॥ ६८ ॥ ( नमोsर - भन्ता णम्) नमो अरहताणं नं- बन्धनं । 'मींगूशू हिंसायां' (सिद्ध० धा० ) मीनाति - हिनस्ति । उप्रत्यये नमो- बन्धच्छोटकः, बन्दिमोक्षकरः स वर्तते । किम्भूतः ? 'अरहन्ता' रो - नरः, न रः अरः- अमर्त्यः, देव इत्यर्थः । अरान् देवान् भनक्तीति अर१५ भन् - दैत्यः । तेभ्यः 'तायृङ् सन्तान - पालनयोः' (सिद्ध० धा०) तायते इति ताः क्विपि । 1 १ सम्पूर्ण गाथा तच्छाया चैत्रम् "पउमाभ-वासुपूज्या, रक्षा ससि पुष्कदंत ससिगोरा । सुन्वय- नेमी काळा पासो मल्ली पिगंगाभा ॥" पद्मप्रभ-वासुपूज्यौ रतौ चन्द्र (प्रभ) - पुष्पदन्तौ शशिगौरी । सुव्रत नेमी काली पार्थो मल्लिः प्रियवाभः ॥ ३ सुधाकलशीयां (छो० ३७) प्रोकं चरः कामे तीक्ष्णे वैश्वानरे २ रतयोरैक्येन भरिस्थाने मलिः । नरे । रामे वज्रे च ।" Page #132 -------------------------------------------------------------------------- ________________ नमस्कारप्रथमपदार्था 'खोः प्वय् व्यञ्जने लुक्' (सिद्ध० ४-४-१२१ ) इति यलोपे अरहन्ता । बन्दिमोक्षकरोमन्त्रमण्यादिः पदार्थो दैत्यभयवारको भवति । 'णं' पूरणे ॥ ६९ ॥ (न-मोऽरहन् त्राणम्) 'न' शब्देन ज्ञानं तच्च पञ्चसङ्ख्यम् । एतावता नं पञ्चसङ्ख्याया मं- ज्ञानं यस्य स नमः - पञ्चमज्ञानवान् केवली । 'मांङ्क मान - शब्दयोः' (सिद्ध० धा० ) । मीयते इति मं - ज्ञानम् । बाहुलकाद् भावे डप्रत्यये सिद्धम् । केवली किम्भूतः ? ' अरहन्' ५ अरा-देवाः तान् हन्ति - गच्छति प्राप्नोति अरहन् । देवस्य सेव्य इत्यर्थः । त्राणं- षङ्काय १११ रक्षकश्च ॥ ७० ॥ (न-मा-ऊ अ-र-हा-न्तेभ्यः) अकारं रियन्तीति डे अराः । 'रिंतु गतौ' अकारप्रापकाः । हकारोऽन्ते येषां ते हान्ताः, अकारादयो हकारान्ता वर्णा इत्यर्थः । 'नमो' नं-ज्ञानं माशब्दः 'माक्रू मान- शब्दयोः' (सिद्ध० धा० ) इति तयोः औ: - अवगमनं भवति । अव - १० धातुरवगमनार्थेऽपि वर्तते । अवनं ऊः भावे विपू । 'अरहंताणं' इत्यत्र चतुर्थी ज्ञेया । वर्णभ्यो ज्ञानं शब्दावगमश्च स्यादित्यर्थः ॥ ७१ ॥ 1 1 ( नमोदरा - भक् त्राणम्) त्राणशब्देन बृहत्पूपिकोघ्यते जैनमुनिभाषया । ये लोके मण्डका इति प्रसिद्धाः ते साधूनां त्राणका इति । त्राणानां समूहो त्राणम् । समूहार्थे अणू । त्राणं किम्भूतम् ? नम-नमत् उदरं यस्याः सा नमोदरा - बुभुक्षा तां भनक्कीति क्विपू १५ 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८ ) इत्यकारः ।। ७२ ।। (न मौक-रहः ता-ऽऽनः) "मूको दैत्याऽवागदीनेषु" इत्यनेकार्थसङ्ग्रहः (हैमे का० २, श्लो० ३० ) मूकानां समूहो मौकम् । 'पष्ठ्याः समूहे' (सिद्ध० ६-२-९) इत्यण् । 'रह त्यागे' (सिद्ध० धा० ) मौकं रहति मौकरहो न स्यात् । कः ? तां - लक्ष्मीं आनयतीति तानः । धनोपार्जकः दीनसमूहवर्जको न स्यात् । दीनसमूहं प्रीणयतीति स दीनैः सेव्यत इ- २० त्यर्थः ॥ ७३ ॥ ( नमो-गा ण-रहन्तः) "णः प्रकटे निष्फले व प्रस्तुते ज्ञान- बन्धयोः” इति (सुधा० ) एकाक्षैरनाममाला (श्लो० २२ ) वचनात् णो- बन्धः, कर्मवन्ध इत्यर्थः । तं रहन्तः - त्यजन्तः पुरुषाः 'नमोगाः स्युः । नमः - नमस्कारं गच्छन्ति प्राप्नुवन्तीति नमोगाः - नमस्कारार्हाः स्युः ॥ ७४ ॥ (न-मोचः ण-रहन्तः) णं - ज्ञानं रहन्तः - प्राप्नुवन्तः पुरुषाः 'नमोचः' स्युः । नमन्तीति डे नाः - प्रणामकारिणः तान् मोचयन्ति संसारात् नमोचः, णिगन्सात् क्किए । 'रहु गतौ' (सिद्ध० धा० ) रहन्त इत्यत्रानुस्वाराभावश्चित्रत्वात् ॥ ७५ ॥ (न माऊ: अरहन्तः णं) 'णसि कौटिल्ये' (सिद्ध० धा० ) नसनं नः कौटिल्यम् । अरहन्तः-अप्राप्नुवन्तः पुरुषाः णं प्रकटं यथा स्यात् तथा अवन्ति - दीप्यन्ते इति विपि ऊः । ३० १ नमोः इति ख पाठः । २ 'भवनमोः' इति ख- पाठः । ३ 'क्षरवचनात्' इति ख- पाठः । २५ Page #133 -------------------------------------------------------------------------- ________________ ११२ पण्डित गुणरत्नमुनिवरकृताः प्राकृतत्वाजस्लुक् 'स्यम्-जस्-शसां लुक्' (सिद्ध० ८-४-३४४) अपभ्रंशे 'व्यत्ययश्च' (सिद्ध०८-४-४४७) इति भाषाव्यत्ययात् प्राकृतेऽपि ॥ ७६ ॥ - (न मोऽरि-हन्ता आः न) मृदं करोति णिजि अचि मः-कुम्भकारोऽस्ति । किम्भूतः? अरि-चक्रं तेन अंहते-दीप्यते अरिहन्ता । सेल्क् न न भवतीति वेत्यर्थः । आः पाद५ पूरणे ॥ ७७॥ (नः मोक-रहन्तानाम्) मोक-कायिकी रहन्ताण-त्यजतां परिष्ठापयतां साधूनां नो भवति अविधिना त्यजतां नः-कर्मबन्धः, विधिना त्यजतां तु नो-ज्ञानं स्यादिति विवक्षयार्थद्वयम् ॥ ७८॥ . अथ चतुर्दशस्वप्नवर्णनम्-(नम-करी ऋण-हन्ता णं) नमः-प्रहीभावः, सौम्यत्वमिति १. यावत् , तेन अवति-दीप्यते । अवधातुरेकोनविंशत्यर्थेषु । तत्र दीप्यर्थोऽप्यस्ति । नमश्चासौ करी-हस्ती । सौम्यो गज इत्यर्थः । सोऽदुःखहेतुत्वात् ऋणं-दुःखं, कारणे कार्योपचारात् हन्ति-विनाशयति । अणमित्यत्र 'स्वराणां स्वराः' (सिद्ध०८-४-२३८) इत्यात्वम् । 'हन्ताणं' इत्यत्र 'पदयोः सन्धिर्वा' (सिद्ध०८-१-५) इति सन्धौ ‘अधोम-न-याम्' (सिद्ध०८-२-७८) यलोपे सिद्धिः ॥ ७९ ॥ १५ (नम ! उअ रथ-तानं) रह-रथं तानयति-विस्तारयति स्थानात् स्थानान्तरं नयति, 'नवाऽखित्कृदन्ते रात्रेः' (सिद्ध० ३-२-११७) इति मोऽन्ते रथंतानो-वृषभः तं 'उअ पश्य' (सिद्ध० ८-२-२११)। नमेति हे नम! नमतीति नमः तत्सम्बुद्धिः ॥ ८॥ (न-मोक्-करिहन्ता आनाम्) 'णहीच बन्धने' (सिद्ध० धा०) नह्यते इति भावे ड. प्रत्यये नं-बन्धनं तस्योपलक्षणादन्याऽपि पीडा ग्राह्या । तस्मान्मोचयति नमोग् णिगन्ताद् २० विच् करिहन्ता-सिंहः । नमोक् चासौ करिहन्ता च स तथा । केषाम् ? 'आणम्' ? 'अपी असी गत्यादानयोश्च' (सिद्ध० धा०) इति चानुत्कृष्टशोभार्थादपेर्डे प्रत्यये अ:-शोभमानः, पुण्यवान्नर इत्यर्थः । तेषां एवंविधः सिंहो दृष्टः । पीडाहरः स्यादित्यर्थः ॥ ८१ ॥ (नमोदर-हं ता-ऽऽनम्) ता-लक्ष्मीः तस्याः आनं वर्णच्युतकादसनं वर्तते । किम्भूतम् ? 'नमोदरह' नम-नमत् उदरं हं-जलं यत्र तत् तथा । 'एकार्थ चाने च' (सिद्ध० ३२५१-२२) इति समासः। आसने स्थिता लक्ष्मीः स्वं जलेन सिञ्चति इति लक्ष्म्या अभिषेकः। स्वप्ने दृष्ट इति तथा वर्णितम् । वर्णच्युतिश्च नैषधस्यादिकाव्ये (स० १, श्लो० १)-"तथाssद्रियन्ते न बुधाः सुधामपि" इत्यत्र सुधाशब्देन वसुधां व्याकुर्वता टीकाकारेण महाकविना दर्शिता ॥ ८२॥ . 'हरेस्यर्थः' इति ख-पाठः। २ सम्पूर्ण पद्यमेवम् "निपीय यस्य क्षितिरक्षिणः कया-स्तथाऽद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकीर्तिमण्डलः, स राशिरासीन्महसां महोगवलः ॥" Page #134 -------------------------------------------------------------------------- ________________ नमस्कारप्रथमपदार्थाः गंज-वृषभ-सिंह-पद्मा-सन-स्रक्-चन्द्र-तपन-पताकाः । कुम्भा-ऽम्भोजसरो-ऽम्बुधि-विमान-रत्नोच्चयाऽग्नयः स्वप्नाः ॥-गीतिः (इति) चतुर्दशस्वप्मनामानि, तत्र चत्वारि व्याख्यातानि । अथ स्रक् व्याख्यायते (नम-ऊ-अलि हन्त-आः नम् ) ह-जलं तस्मात् तन्यते-विस्तरति उत्पद्यते इति यावत् हन्तं-कमलं कर्मकर्तरि डः कमलस्योपलक्षणादन्यान्यपि पुष्पाणि गृह्यन्ते। 'आसिक् ५ उपवेशने' (सिद्ध धा०) आसनं आस् । कमलादिपुष्पाणाम् आः-स्थानम् , एवंविधो यो नो-वन्धो रचनाविशेषः सकपः तत् हन्तानं क्लीवत्वं प्राकृते लिङ्गस्यातन्त्रत्वात् । किम्भूतम् ? 'नमो अरि' रलयोरक्यं । नमः-प्रह्वीभावः परितो भ्रमणं तेन ऊः-शोभमाना अलयो यत्र तत् । अवतेः शोभावाचिनः विपि ऊः॥ ८३ ॥ __(न मोऽरिहन्ता न णं) मः-चन्द्रो वर्तते । किम्भूतः ? 'णसि कौटिल्ये' (सिद्ध० धा०) १० नसते इति नः 'क्विप् । 'अभ्वादेः (अत्वसः सौ ) (सिद्ध०१-४-९०) इति न दीर्घः, भ्रादित्वात् । न नः-न कुटिलः, पूर्ण इत्यर्थः । एवंविधश्चन्द्रोऽरिहन्ताऽस्तु । 'ण' इत्यत्रानुस्वाराभावश्चित्रत्वात् ॥ ८४ ॥ ___ अथ सूर्यः । ( नमो अर्-अहस्तानम् ) अहर-दिनं तनोति-करोति अहस्तानो-दिनकरः । अरा विद्यन्ते यत्र तत् अरि-चक्रं तद्वदाचरति वृत्तत्वादाचारे क्यनि विपि तयो-१५ लोपे अर , अर् चासौ अहस्तानश्च वृत्तो दीप्यमानश्च सूर्यस्तं नमः ॥ ८५ ॥ (नमोदन रंह तानम् ) तानोद्भवत्वात् तानं-वस्त्रं, कारणे कार्योपचारात् । तानं किम्भूतम् ? 'नमोदन्' नम-नमनं सर्वदिक्षु प्रसरणं तेन अवते-कान्तिमद् भवति । क्विपि न मु दण्डं श्रयति । णिजि क्विपि पदस्य उलोपे दन् । न मु च तद् दन् च नमोदन् । एतावता ध्वज इत्यर्थः । 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८) इत्योकारः। तं २० ध्वजं त्वं रह-जानीहि । 'रहण गतौ' (सिद्ध० धा० ) 'गत्यर्था ज्ञानार्था' इति वचनात् ज्ञानार्थत्वम् । चान्द्रमते णिचोऽनित्यत्वाणिजभावे रहेति सिद्धम् । अनुस्वारस्तंदसत्त्वं चित्रत्वाददुष्टम् ॥ ८६ ॥ अथ कुम्भः। (न मा ओ कलः! हा-न्तं अण) ओ कलः! कलशं श्रयति णिजि क्विपि सम्बोधने । ओ कलः! 'ओ' इति सम्बोधनपदम् । हे कलशाश्रयिन् ! पुरुष! त्वम् । 'हिंट २५ गतिवृद्धयोः' (सिद्ध० धा०) हयनं हो-वृद्धिः तस्या अन्तं-विनाशं न-मा अण-बद । कलशाश्रयिणः पुरुषस्य वृद्धिरतो न स्यात् । कामकुम्भो हि कामितकरः, तेनैवमुच्यते । नकार-मकारी निषेधवाचकौ । एकनिषेधेऽर्थसिद्धी द्वितीयनिषेधः "द्विर्वद्धं सुबद्धं भवति" इति न्यायादवगन्तव्यः। लोकप्रधानत्वापेक्षया च निषेधद्वयं 'मा' 'न' करि २ इत्यादि ॥८७॥ १ क-प्रतो नास्त्यत्रायं पाठः गजादिको व्याख्यातान्यन्तकः, किन्तु चतुर्दशस्वम नामप्रान्तकः समस्ति ९३तमस्यार्थस्य प्रारम्भे । २ 'शोभाचात्' इति क-पाठः। ३ 'किपि' इति ख-पाठः। ४ 'सद.' इति ख-पाठः । ५ 'म' इति स्व-पाठः। अर्थ. १५ Page #135 -------------------------------------------------------------------------- ________________ पण्डितगुणरत्नमुनिवरकृताः अथ पद्मसरः । (न मोद् र हान्ताः न) रो वर्तते । किम्भूतः १ 'हान्ताः' हकारोऽन। यस्य । एतावता सकारः। तेन असति-शोभते इति हान्तास् । एतावता सरः इति जातम् । अजानि-कमलानि श्रयतीति णिचि विपि तल्लोपे अन्त्यस्वरादिलोपे । 'पदस्य' (सिद्ध २-१-८९) इति जलोपे च 'अब्' इति जातम् । 'अन्त्यव्यञ्जनस्य' (सिद्ध०८-१-११ ५ इति प्राकृते वकारस्यापि लोपे अम् इति स्थितम् । एतावता पद्माश्रितं सर इत्यर्थः। किम्भूतम् ? मोदयति मोद्, एवंविधं न न । प्रकृतार्थे द्वौ निषेधौ । हर्षकारकमेवेत्यर्थः ॥ ८८॥ अथ सागरः । (नम-ऊ-जलध्यन्तः-आनन्) नमं नमनं-सर्वत्र प्रसरणं तेन ऊः-शो. भमान एवंविधो जलध्यन्तः-समुद्रः। अन्तशब्दः स्वरूपे । किम्भूतः ? "टुनदु समृद्धी' १० (सिद्ध० धा०) आपूर्वः नद् । आनन्दयति-समृद्धि प्रापयति सेवकान् , रलाकरस्यात् । विचि 'आनन्' इति सिद्धम् ॥ ८९ ॥ अथ विमानः । (नम ओ अ-र-ह-अन्त ! ऋणम्) अन्तशब्देन 'पदैकदेशे पदसमुदायोपचारात्' निशान्तं-गृहम् । "रः कामे तीक्ष्णे वैश्वानरे नरे" इत्येकाक्षर(सुधा० श्लो. ३६) वचनात् रो-नरः न रः अरः । अरो-देवः । अरान्-देवान् हन्ति-गच्छति प्रामोति १५ देवाश्रितत्वात् अरहम् , एवंविधं अन्तं-निशान्तं अरहन्तम् , अमरविमानमित्यर्थः । तस्य सम्बुद्धौ हे अरहन्त ! त्वं ऋणं-दुःखं नामय-पराकुरु । 'नम' इत्यत्रान्तर्भूतो णिगर्थः । 'ओ' इति 'हे'इत्यर्थे ॥ ९ ॥ (नः म-ऊत-र-अहर-अन्त-गण) “मश्चन्द्रे (च) विधौ शिवे" इति (सुधा० श्लो. ३४) वचनात् मः-चन्द्रः तेन ऊतं-कान्तं मोतं, चन्द्रकान्तमित्यर्थः । र:-अग्निः तत्तुल्यं, २० तथा अहर्-दिनं । अहः करोति णिजि क्विपि अहः-सूर्यः तद्वदन्तः-स्वरूपं यस्य, सूर्य कान्त इत्यर्थः । एतावता चन्द्रकान्ते वह्निवर्णसूर्यकान्तादीनि रत्नानि । उपलक्षणादन्यान्यपि रत्नानि ग्राह्याणि । तेषां गणः-समूहोऽस्ति । 'क-ग-च-ज-(त-द-प-य-वां प्रायो लुक्) (सिद्ध०८-१-१७७) इति गलुक् । 'पदयोः सन्धिर्वा' (सिद्ध०८-१-५) इति सन्धिः । यथा चक्काउ चक्रवाकः । 'णिश समाधी' (सिद्ध० धा०) नेशति-समाधिं करोति चित्त२५ स्वास्थ्य निर्मापयतीति डे नः॥ ९१॥ अथाग्निः । (नम ओ अज-रथं त्रि-अणम्) अजः-छागो रथो-वाहनं यस्य सः अज. रथो-वह्निः तं व्यणं त्रयोऽणाः शब्दा यस्य सः, 'त्रिविधोऽग्निरिति कविसमयः । 'ओ' इति सम्बोधने । तं नम-प्रणमेति स्वप्नाः १४ ॥ ९२ ॥ (नमो अरहंताणं) नं-ज्ञानं । अरहन्ताणम्-अत्यजतां पुरुषाणां उख् भवति । 'उख ३० नखेति गत्यर्थो दण्डकधातुः। 'ओखणं ओम्' विचि सिद्धम् । अन्त्यव्यञ्जनलोपे ओ 'चकाओ' इति ख-पाठः। २ 'निर्मातीति' इति ख-पाठः।।दक्षिण-गार्हपत्या-हवनीयस्थानीयः।। Page #136 -------------------------------------------------------------------------- ________________ नमस्कारप्रथमपदार्थाः ११५ गतिर्भवतीत्यर्थः । गतिः सैव या सद्गतिः । यथा “कुले हि जातो न करोति पापं" इत्यत्र कुलं तदेव यत् सत्कुलमिति ॥ ९३ ॥ (नं ओ तर हन् ! तां नः) हंसं अणति-श्रयति वाहनतया णिजि क्विपि हन् । 'ओ' इति सम्बोधने । हे हन् !-हे सरस्वति! नः-अस्माकं नं-ज्ञानं तां-शोभां च तर-देहि । तधातुः दाने वर्तते (अन्यथा विपूर्वोऽपि दाने न प्रवर्तेत) उपसर्गाणां धात्वर्थद्योतकत्वात् । ५ तृधातौ दानार्थोऽस्तीति ॥ ९४ ॥ __ (नम् ओ अर अहर अन्त ! णं) अन्तशब्देन (पदैक)देशे समुदायोपचारात् हेमन्त इति । अहर्-दिनं नमतीति नमं-कृशं हे हेमन्तऋतो! त्वं नम-कृशं दिनं अर-प्रामुहि । 'ण' अलङ्कारे । हेमन्ते दिनलघुता इति प्रसिद्धम् ॥ ९५॥ (नमः अरे ह-तानाम् ) "ः तीक्ष्णे" इति (विश्वशम्भुनाममालायां श्लो० १०१). वचनात् रं-तीक्ष्णं उष्णमिति यावत् । न रं अरं-अतीक्ष्णः, शिशिर ऋतुः इत्यर्थः, तस्मिन् अरे-शिशिरऋतावित्यर्थः । अपभ्रंशे इकारः । 'व्यत्ययोऽप्यासाम्' इति व्यत्ययः स्याच्च । ह-जलं तस्मात् तन्यन्ते-विस्तारं यान्ति हतानि-जलरुहाणि, पद्मानीत्यर्थः । तेषां नमो नमनं-कृशता भवति । शिशिरे हि कमलानि हिमेन शुष्यन्तीति प्रसिद्धम् ॥ ९६ ॥ (नम् उ सुरभू हान्ताम् णं) हकारोऽन्ते यस्य स हान्तः । सकार इत्यर्थः। तेन अस-१५ ति-शोभते हान्तास् । एवंविधो रभूशब्दः । पुनः किम्भूतः ? 'उ' 'अ' उकारेणासति-शोभते उ अप् 'अन्त्यव्यञ्जनस्य' (सिद्ध०८-१-११) इति पलोपः । उरह(हः) इति शब्दः स सकारयुक्तः क्रियते तदा सुरह इति जातम् । कोऽर्थः ? सुरभिः-वसन्तऋतुः तमाचष्टे स्तौति इच्छति वा यः पुरुषः स सुरभ् णिजि तलोपे सिद्धम् । क्विप् लोपश्च । उ अरहु इत्यत्र अन्त्यव्यञ्जनलोपः। सुरभूशब्देन वसन्तस्तावकः पुरुष इत्यर्थः । “णः प्रकटे २० निष्फले च" इति (सुधा० श्लो० २२) वचनात् णं-प्रकटं यथा स्यात् तथा नम् स्यात् नमतीति नम्-प्रतीभावः, उद्युक्तः सर्वकर्मणीत्यर्थः ॥ ९७ ॥ __ (न मोदः रहा-ऽन्तानः ) "रः तीक्ष्णे" (विश्व० श्लो० १०१ ) इति वचनात् । र:-उष्णः, ग्रीष्मऋतुरित्यर्थः । किम्भूतः ? हं-जलं अन्तं आनयतीति हान्तानः, ग्रीष्मे जलशोषः स्यादित्यर्थः। मोदयतीति मोदः। एवंविधो न । ग्रीष्मः (प्रायः) परिताप-२५ करत्वान्न मोदकृत् ॥ ९८॥ (नमोरः हन्तानः) उ अर । कोऽर्थः । त्वरः 'रह त्यागे' (सिद्ध० धा०) रह्यतेत्यज्यते इति भावे डप्रत्यये रो-निन्द्यः, न रः अरः, उत्तम इत्यर्थः । ऋतुषु अरः-उत्तमः ऋत्वरः, सर्वऋतुप्रधान इत्यर्थः। स क इति विशेषणद्वारेणाह-'हन्तानः' है-जलं तानयतिविस्तारयति हन्तानः । वर्षा ऋतुरित्यर्थः । किम्भूतः? 'नमः' नमति-प्रह्वीकरोति ३० 'प्रसिद्धिः' इति ख-पाठः। २ हैमेऽनेकार्थे (का. १, श्लो. ") अपि। ३ 'व्यत्ययः' इति सिद्ध०(८-४-४४७)। Page #137 -------------------------------------------------------------------------- ________________ ११६ पण्डितगुणरत्नमुनिवरकृताः स्वोपमान् सर्वजनान् करोति अन्तर्भूतणिगर्थत्वात् नम् । सर्वव्यापारप्रवर्तक इत्यर्थः ॥९९॥ (नम अरहा-ऽन्त! न) 'अरहन्त०' आपो-जलं । 'रह त्यागे' (सिद्ध० धाः) रहन्तित्यजन्ति मुञ्चन्तीति अरहो-मेघाः तस्य अन्तो-विनाशो यस्मात् सः अरहान्तो-घनात्ययः, शरद् इत्यर्थः । हे अरहान्त !-हे शरत् ! त्वं । न निषेधे । 'नम' इति क्रियापदम् । मा ५ नम-मा कृशीभव । शरदोऽतिरमणीयत्वादेवमुक्तिः ॥१००॥ इति पडू ऋतवः सम्पूर्णाः ॥ अथ नव ग्रहा वर्ण्यन्ते । तत्र सूर्यचन्द्रौ पूर्व, तत्रापि चन्द्रः प्रथमः सिद्धान्तवेदिनां मते । (नमोऽरभं त्राणम्) "रः तीक्ष्णे" इति (विश्व० श्लो० १०१) वचनात् रः-तीक्ष्णः, न रः अरः, शीत इत्यर्थः । अरा-शीता भा-कान्तिः यस्य स अरभः-शीतगुः तं नमो ऽस्तु । चन्द्रं किम्भूतं? त्राणं-शरणं, सर्वनक्षत्राणां ग्रहाणां च नायकमित्यर्थः ॥ १०१॥ १० अथ सूर्यः। (नमो रभं ता-ऽऽ-नम्) रा-तीक्ष्णा भा-कान्तिः यस्य स रभः, सूर्य इत्यर्थः। रभाय-सूर्याय नमः। 'व्यत्ययोऽप्यासाम्' (आसां) विभक्तीनां व्यत्ययोऽपि स्यादिति वचनात् चतुर्थ्यर्थे द्वितीया । चः पूर्वोक्तार्थसमुच्चये । किम्भूताय रभाय ? 'तानाय । “तकारस्तस्करे युद्धे” (सुधा० श्लो० २३) इत्येकाक्षरवचनात् ताः-चौराः तेषां आ-समन्तात् नो-वन्धनं यस्मात् स तानः तस्मै । सूर्योदये हि चौराणां वन्धनं भवति ॥ १०२ ॥ १५ अथ भौमः । (न मौ अर! हन्ताऽऽन !) हे अर! । अरः किम्भूतः ? 'आनः' आकारस्य नो-वन्धो यत्र, एतावता आरः-कुजः । किम्भूतः ? 'हन्तः' हो-जलं तस्य अन्तो यस्मात् स तथा, एवंविधो न, जलदाता इत्यर्थः । किम्भूतः सन् ? 'मोः' "मश्चन्द्रे (च) विधौ शिवे' इति ( सुधा० श्लो० ३४) वचनात् मः-चन्द्रः तं अवति-प्रामोतीति विपि मौः । चन्द्रयुक्तो हि भौमो वर्षाकाले वृष्टिदः ॥ १०३ ॥ २. अथ बुधः । (न मौजोरै० भं तानः) मो-ब्रह्मा । सः अवति-देवतात्वेन स्वामीभवति । विपि मौः। स्वाम्यर्थे अवधातुः । ततो मौः-रोहिणीनक्षत्रं, तस्मात् जायते इति मौजोबुधः । “श्यामाङ्गो रोहिणीसुतः" इति (अभिधान० का० २, श्लो० ३१) वचनात् 'रिहं' राः-धनं, तदेव भं-भवनं, धनभवनमित्यर्थः, तत्र गत इति शेपः । 'तानः' तां-लक्ष्मी'. आनयतीति तानः। एवंविधो न ? किन्तु एवंविध एवेति काकूक्त्या व्याख्येयम् । धन२५ भवनस्थो हि वुधो लक्ष्मीप्रद इति ज्योतिर्विदः। रैशब्दस्य 'एत ऐत्' (सिद्ध०८-१-१४८) 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८) इतीकारः ॥ १०४ ॥ .. अथ गुरुः। (नमः अद-ल-हन्ता आ-नः) "लश्चामृते" इति (सुधा० श्लो०३९) वचनात् ल:-अमृतम् , अदनम् अदो-भोजनम्, अदे-भोजने ल:-अमृतं येषां ते अदला-देवाः, तान् हन्ति-गच्छति आचार्यतया प्रामोति अदलहन्ता-सुराचार्यः, जीव इत्यर्थः । किम्भूतः। १ सोद्यमान्' इति ख-पाठः । २ 'उमाङ्गो' इति स्व-पाठः । ३ "वृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः" इति अभिधान०(का. २, श्लो. ३२)। Page #138 -------------------------------------------------------------------------- ________________ नमस्कारप्रथमपदार्थाः ११७ 'आनः' आ-समन्तात् नो-ज्ञानं यस्मात् स आनः-ज्ञानदाता। किम्भूतः सन् ? 'नमः' नो-बुद्धिः पञ्चमं भवनं तत्र 'मदुङ् स्तुति-मोद-मद-स्वप्न-करन्ति-गतिषु' मन्दते-गच्छति नमः डप्रत्यये सिद्धम् । लग्ने हि पञ्चमभवनस्थो गुरुर्ज्ञानदाता स्यादिति ॥ १०५ ॥ ___ अथ शुक्रः । (नम उन्द-ल-भं तानम्) 'तानः' तकारस्य पोडशव्यञ्जनत्वात् तशब्देन पोडश उच्यन्ते । 'अपी असी गत्यादानयोश्च' (सिद्ध० धा० ) इत्यत्र चानुकृष्टदीप्त्यर्थात ५ असूधातोः विपि असू इति रूपम् । असो-दीप्तयः, किरणा इति यावत् । ततः ता:-पोडश असः-किरणाः तेषां नो-बन्धो योजना यस्य स तानः-शुक्रः। सन्धी, दीर्घ 'अन्त्यव्य. ञ्जनस्य' (सिद्ध०८-१-११) इति सलोपे प्राकृते रूपसिद्धिः । व्यञ्जनैश्च सङ्ख्याप्रतिपादनं ग्रन्थप्रसिद्धम् । यदुक्तं आरम्भसिद्धौ"विद्युन्मुख १ शूली २ शनि ३ केतू ४ का ५ वज्र ६ कम्प ७ निर्घाताः ८। १० डा ५ ज ८ ढ १४ द १८ ध १९ फ २२ व २३ भ २४ सङ्ख्ये रविपुरत उपग्रहा धिष्ण्ये ॥१॥" इत्यादि । “पोडशाचिर्दैत्यगुरुः” इति (अभिधान० का० २, श्लो० ३४) वचनात् तानः-पोडशकिरणः, शुक्र इति यावत् । तं शुक्रं नम, धातूनामनेकार्थत्वात् भजस्वेत्यर्थः । किम्भूतं ? ऊ अरहं । 'उन्दैप क्लेदने' (सिद्ध० धा०) उनत्ति-रोगैः क्लिन्नो भवति उन्दः तस्य । “लश्चामृते” इति (सुधा० श्लो० ३९) वचनात् लः-अमृतं तं भव-१५ तेऽन्तर्भूतणिगर्थत्वात् 'भूङ् प्राप्तौ' ( ) धातोः प्रापयति डे रूपं उन्दलभः तम् , रलयोरैक्यम् । रोगार्तस्य हि शुक्रोऽमृतदाता । सञ्जीवनीविद्या शुक्रस्यैवेति तद्विदः। अथवा "भश्चालिशुक्रयोः" इति (सुधा० श्लो ३३) वचनात् भ:-शुक्रः । अरः-शीघ्रगामी चासौ भश्च अरभः तं नम-सेवस्व । उ इति सम्बोधनम् । किम्भूतं भम् ? 'तानं' शुभकायाणि तानयति-विस्तारय(ती)ति तानः तम् । शुक्रो हि शीघ्रगामी अनस्तमितः शुभा, शुभ-२० कार्याय भवति ॥ १०६ ॥ अथ शनिः । (नमोऽरं हन्ता आनम् ) "आरः क्षितिसुतेऽर्कजे" इति विश्वप्रकाश(रवर्गे २२)वचनात् आरः-शनिः । 'स्वराणां स्वराः' (सिद्ध०८-४-२३८) इति प्राकृते अर इति जातम् । अथवा अरः कथम्भूतः? 'आनः' अकारस्य नो-वन्धो यत्रेत्यनया व्युत्पत्त्या आर इति जातम् । आरं-शनि नमोऽस्तु इत्युपहासनमस्कारः। यतो हन्ता- २५ जनपीडकः तस्मात् हे आर! त्वां नमोऽस्तु इत्यर्थः ॥ १०७ ॥ अथ राहुः । (न-म उदरहः तानः) 'उअरह' उंदरेण हीयते उदरहो-राहुः । राहुस्तु उदरहीनः, शिरोमात्ररूपत्वात् , तस्य । किम्भूतः? 'नमः' 'नशौच अदर्शने' (सिद्ध धा०) नश्यतीति डे नः । एवंविधो मः-चन्द्रो यस्मात् सः, उपलक्षणात् सूर्योऽपि । 'नमः उ भर-भं तानं' इत्यपि पदच्छेदः। २'उदरे' इति ख-पाठः । Page #139 -------------------------------------------------------------------------- ________________ ११८ पण्डितगुणरत्नमुनिवरकृताः राहुस्तु चन्द्रसूयौँ प्रस्यति(सते ?) इति राहोश्चन्द्रनाशः । पुनः किंविशिष्टः? 'तान' तोयुद्धं तस्य नो-बन्धो रचना यस्मात् स तथा । राहुसाधनापूर्व (सूर्यशशिभ्यां ) युद्ध क्रियते इतीदं विशेषणं युक्तिमत् ॥ १०८॥ अथ केतुः। (न मा उदरह-त-ऋणम् ) उदरहो-राहुः । पूर्ववद् व्याख्या । तस्य तः५ पुच्छं केतुः । “तकारस्तस्करे युद्धे कोडे पुच्छे च" (सुधा० श्लो० २३) इत्येकाक्षरवचनम् । केतुस्तु राहुपुच्छत्वेन ज्योतिर्विदां संम्मतः । यतः-"तत्पुच्छे मधुहायां आपदुःखं विपक्षपरितापः” (नीलकण्ठ्यां ?)। अत्र तत्पुच्छ इति राहुपुच्छं, केतुरित्यर्थः इति ताजिके । हे उदरहत] ! त्वं ऋण-ऋणवदाचर । मा निषेधे । ऋणं यथा दुःखदायि तथा केतु रपि उदितः सन् जनपीडाकरः, तत एवमुच्यते । त्वं मा ऋण । नकारोऽपि निषेधार्थे । १५ "द्विर्वद्धं सुबद्धं भवति" इति निषेधद्वयम् । विशेषेण निषेधाय इति ॥ १०९ ॥ अथ नव रसा वर्ण्यन्ते । तत्र पूर्व शृङ्गाररसः। (नमोदरि ! हन्त अण) यथा कश्चित् कामी कुपितकामिनीप्रसत्तिकृते वक्ति । हे नमोदरि! हे कृशोदरि! त्वं अणवद । हन्तेति कोमलामन्त्रणे । नम-नमत् कृशं उदरं यस्याः सा नमोदरी-क्षामोदरी तस्याः सम्बोधनम् ॥ ११०॥ इति नमस्कारप्रथमपदार्थाः ॥ १. पं० हर्षकुलगणिपादकृताः पं० समयकलशस्य लघुशिष्येणालेखि(पत)। 'प्रसिदः' इति ख-पाठः। २ भवशिष्टरसाष्टकस्य व्याख्या न विद्यते सत्र को हेतुरिति विचार्यतां विच. क्षणः। इति श्रीपरमगुरुथी जिनमाणिक्यसूरिशिष्यपण्डितविनयसमुदगुरुराजपादुकाप्रसादासादिताधिगमनपण्डितगुणरलमुनिना लिखितम् । श्रीः श्रीः शुभं भवतु' इति ख-पाठः । Page #140 -------------------------------------------------------------------------- ________________ क-परिशिष्टम् मलधारिगच्छीयश्रीसुधाकलशमुनिप्रणीता ॥ एकाक्षरनाममाला ॥ श्रीवर्द्धमानमानम्य सर्वातिशयसुन्दरम् । 'एकाक्षरनाममाला' कीर्तयामि यथाश्रुतम् ॥१॥ अ: पुल्लिङ्गः शार्ङ्गधारिण्यस्वल्पार्थेऽव्ययः पुनः । विरञ्चावाश्च पुल्लिङ्ग आ वाक्ये सरणेऽव्ययः ॥ २॥ आः सन्तापेऽव्यये क्रुध्यामव्ययोधृतौ स्मृतौ । इ: कामे पुल्लिङ्ग इ वोऽव्ययः कोपोक्तिखेदयोः॥३॥ ईः पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने । प्रकोपे सन्निधौ चैव पुल्लिङ्ग उपध्वजे ॥ ४ ॥ दोपोक्तौ मत्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा । प्रश्ने चाङ्गीकृतौ रोपे पुल्लिङ्ग ऊस्तु रक्षणे ॥५॥ ऊमव्ययः प्रकोपोक्तौ प्रश्ने ऋर्देवमातरि । अध्यय मा तु कुत्सायां वचनेऽपि तथैव च ॥६॥ स्त्वजे दानवाञ्छायां लश्च स्याद् देवमातरि । टूर्वारायां भवेदेस्तु विष्णावस्तु वृपध्वजे ॥७॥ ओरूर्ध्वलिङ्ग आहूतावव्ययः स्यादनन्त औः । सम्बोधने चाव्यय औ परब्रह्मण्यमः शिवे ॥ ८ ॥ कः सूर्यमित्रवायग्निब्रह्मात्मयमकेकिषु । प्रकाशवयोश्चापि कं नीरसुर(ख)मूर्धेसु ॥९॥ कुर्भृकुत्सितशब्देषु पापीयसि निवारणे । ईपदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥ वितर्काश्चर्य निन्दासु किंशब्दः स्यात् कियानपि । ग्वमिन्द्रियस्वर्गशून्यभूपाकाशसुखेषु च ॥ ११ ॥ १'शालिनम्' इति ख-टि-पाठः । २ 'यथाक्रमम्' इति ख-टि-पाठः। ३ 'पुल्लिाशा.' इति ख-पाठः। ४ 'प्यतौ' इति ख-पाठः। ५ 'चाव्ययः' इति ख-पाठः। ६ 'व्यय उ स्वव्यय.' इति ख-पाठः। 'कृते' इति ख-पाठः। ८ 'ऋश्च' इति ख-पाठः। ९ 'ऋर्वा.' इति ख-पाठः। १०-११ 'भो' इति स्व-पाठः।.. Page #141 -------------------------------------------------------------------------- ________________ १२० श्रीसुधाकलशमुनिप्रणीता संविदि शून्यखण्डे च वर्तते खश्च भास्करे । गो गन्धर्वे गणेशे च गीते गं गश्च गातरि ॥ १२ ॥ गौर्वाणीचाणभूरश्मिवज्रवर्गाक्षिवारिषु ।। दिशि धेनौ श्रुतैश्वर्या गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥ घुः कुम्मे हनने घोषान्तर्भावकिङ्किणीष्वपि । ङो विषये भैरवे चै चस्तरौ चन्द्रचोरयोः ॥ १४ ॥ चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः । अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे ॥१५॥ पक्षान्तरे समूहार्थे हेताववधृतावपि । अन्वान्व(च)ये तथा तुल्ययोगितायां च कीर्तितः ॥ १६ ॥ छः सूर्ये छेदके ख्यातस्तथा संवरणे भवेत् । छं च छन्दसि तडिति निर्मले च तथा स्मृतः ॥१७॥ जश्च जेतरि जनने विगते जिस्तु जेतरि । जूर्विहायसि जवने पिशाच्यां विगतेऽपि च ॥१८॥ झो नक्तं गायने नष्टे घर्षरध्वनिनामनि । चारुवाश्चोरयोझस्तु म्यूहिते गूढरूपके ॥ १९ ॥ टः पृथिव्यां ध्वनौ वायौ करङ्केटं पुनर्भुवि । चकोरेऽन्दे तथा ठस्तु घेण्टे शून्ये बृहद्ध्वनौ ॥ २०॥ चन्द्रस्य मण्डले रुंद्रेऽथो वृपाङ्के ध्वनावपि । बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥ २१ ॥ ढो ढकायां समाख्यातस्तथा ढा निर्गुणे ध्वनौ । णः प्रकटे निष्फले च प्रस्तुते ज्ञानवन्धयोः ॥ २२ ॥ तकारस्तस्करे युद्ध क्रोडे पुच्छे च ता श्रियाम् । तुः स्थाव पूर्वे निवृत्तौ च पूर्वसादवधारणे ॥ २३ ॥ विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे। भूधरे च तथा भारे दो दाने दायकेपि च ॥ २४ ॥ दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः । दं कलत्रं तथा धं च धीरे च धनदे धने ॥ २५ ॥ चापि' इति ख-पाठः। २'घः' इति ख-पाठः। 'चैव' इति क-पाठः। 'न्यूने' इति ख-पाठः। ५'घटे' इति ख-पाठः। ६ 'रुद्रे डो' इति ख-पाठः। 'ध' इति स्व-पाठः। ८ 'धने' इति स-पाठः ।. . Page #142 -------------------------------------------------------------------------- ________________ १२१ एकाक्षरनाममाला धस्तु चित्रेऽश्ववारे च धीवुद्धाविषुधावपि । गुह्यकेशे विरची धा तथा धूभोरकम्पयोः ॥ २६ ॥ धूर्ते धुरा कम्पने च नो बुद्धौ ज्ञानबन्धयोः। अस्मानस्सभ्यमसाकमेषां स्थाने भवेच्च नः॥ २७ ॥ निषेधार्थेऽव्ययो नो च नकारस्तु नरस्तु ना। निः श्रुते नेतरि ख्याती नुः स्तुतावव्ययस्तु नौ ॥२८॥ निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु । कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥ अधोभावोपरमयोः सन्निधानेऽव्ययो मतः। नुः प्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः॥३०॥ तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि । प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥ फकारो निष्फले जल्पे पुष्करे भयरक्षणे । झंझावाते फले फेने फूत्कारे फूस्तथोदितः॥३२॥ घेकारो वरुणे पद्मे कलहे विगतौ तथा । भश्चालिशुक्रयो वे भश्च दीप्तौ भये च भीः ॥३३॥ भं धिष्ण्ये भूभुवि स्थाने मश्चन्द्रे तु विधौ शिवे । मौलौ च बन्धने मूः स्यात् मा माने वारणेऽव्ययः ॥ ३४॥ 'अस्मच्छब्दे द्वितीयायां मा च पठ्यां च मे पुनः । मा मातरि तथा लक्ष्म्यां यस्तु वाते यमेऽपि च ॥ ३५॥ धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् । खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे॥ ३६॥ रामे वजे च शब्दे स्यात् रा द्रव्ये कनके पुनः। आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७॥ भये शब्दे च री भ्रान्तौ लकारश्चलने पुनः । ला दाने लूश्च लवने लश्च लौश्च विडोजसि ॥ ३८ ॥ लश्चामृते दिशायां च लीः श्लेपे वलये तथा । वो वाते वरुणे रुद्रे सान्त्वने वाऽव्ययः पुनः ॥ ३९ ॥ 'नुः स्तुतौ च प्रकीर्तितः' इति ख-पाठः। २'क्षेपे' इति ख-पाठः। ३ 'दाहकर्मणि' इति स-पाठः। 'फफा वाते' इति ख-पाठः। ५'य: कुम्मे वरुणे' इति ख-पाठः । ६''इतिस-पाठः। 'मारणे' इति ख-पाठः। ८'यस धातरि सूर्ये स्यात्' इति व-पाठः। १ 'खूब'इति-पाठः 'चाव्या इति स-पाठः। अर्थ. १६ Page #143 -------------------------------------------------------------------------- ________________ १२२ श्रीसुधाकलशमुनिप्रणीता पंदार्थ उपमाने च विकल्पे च समुच्चये । विः श्रेष्ठेऽतीते नानार्थे वै हेतौ पादपूरणे ॥ ४० ॥ द्वितीयायाश्चतुर्थ्याश्च पष्ठ्या युष्मदहुत्वके । वश्वासां तु विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥ आकाशे विहगे विश्च शं श्रेयसि सुखेऽव्ययः । शा तु शान्ते च सारायां शीः शये हिंसनेऽपि च ॥ ४२ ॥ शुश्चन्द्रे षः सदारः स्यात् तथेष्टे प्रसवे तु पूः। सः सूर्ये च परोक्षे च सं शङ्का वाऽव्ययस्तु सः॥४३॥ सङ्गार्थे शोभनार्थे च प्रकृष्टार्थसमर्थयोः। प्रथमान्तर्तदः स्थाने स्मृतौ लक्ष्म्यां च सोच्यते ॥ ४४ ॥ हः शूलिनि करे नीरे, क्रोधगर्भप्रभापणे । निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥४५॥ अव्ययो हा स्मृतः शोके तथा दुःखविषादयोः । हि हेतौ पादपूर्ती च विशेपे चावधारणे ॥४६॥ स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये । विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥ हुमव्ययः परिप्रश्ने वितर्के वचने तु हो । हे कुत्सायां तथा हेतु हेतौ सम्बोधने तु हौ ॥४८॥ राक्षसे क्षस्तथा क्षेत्रे शब्दा ये यक्षरादयः । स्वरान्ता व्यञ्जनान्ताश्च ज्ञेया ग्रन्थान्तरात् तु ते ॥ ४९ ॥ मलधारिगच्छभर्तुः, सूरेः श्रीराजशेखरस्य गुरोः । शिष्यः सुधाकलश इत्येकाक्षरमालिकामतनोत् ॥ ५० ॥ ( आर्या) एवाथ' इति स्व-पाठः। २ 'विश्वे' इति ख-पाठः। ३ 'शस्तु' इति ख-पाठः। 'राखायो' इति क-पाठः। ५ 'सकोचेऽव्ययस्तु सम्' इति ख-पाठः। ६ 'स्तदः' इति स्व-पाठः। 'क्रोधे' इतिस-पाठः। ८'शुभये काये च भाषणे' इति ख-पाठः। ९'हेतौ हुतो' इति ख-पाठः। Page #144 -------------------------------------------------------------------------- ________________ श्रीविश्वशम्भुप्रणीता ॥ एकाक्षरनाममालिका ॥ ध्यात्वा नत्वा निरीक्ष्यान्तःकरणे कर्मसाक्षिणि । क्रियते नूतना नाममालैकाक्षरवाचिका ॥१॥ यतयो ये परं पारं शब्दाम्भोधेगेता यतः । एषा तेषामतो मान्या महाभावमनीषिणाम् ॥ २॥ खमेवार्थ स्वयं रान्ति यतोऽकारादयः खराः । स्वराभावे ककारादि व्यञ्जनं व्यर्थमेव हि ॥३॥५ न क्षरत्यक्षरं तेन स्वर एव तदुच्यते । व्यञ्जनानि स्वराश्चैव वर्णशब्देन वर्णिताः॥४॥ अः शिवे केशवे वायौ ब्रह्मचन्द्राग्निभानुपु । आः स्वयम्भूस्तथोक्ते स्यादव्ययं कोपपीडयोः॥५॥ एपामपत्ये कामे स्याद् इ: सम्बोधनकोपयोः । इः कुत्सार्थेऽपि कामेऽपि निषेधे नयनभ्रमे ॥६॥. ईः रमा मदिरामोहे महानन्दे शिरोभ्रमे । स्त्रीलिङ्गोऽयमुणाद्यन्तो नान्तोऽसाल्लोपनं सुपः॥७॥ ईय? योऽत्र जसा रूपं स्यादमा रूपमीञ् शसि । ईशब्दो द्रव्यपर्यायेऽव्ययं वृद्धैः प्रदर्शितम् ॥८॥१० उशब्दः शङ्करे तोये तोयधौ धरणीधरे । अवसाने वितर्केऽपि वचनावसरेऽव्ययम् ॥९॥ एतदर्थे निषेधेऽपि निर्णीतो दीर्घ ऊरपि । ऊ मान्तमव्ययं कोपे स्वार्थेऽप्यू च प्रकीर्तितः ॥१०॥ रक्षार्थवाचकावेतों व्याख्यातौ लघुदीर्घकौ । ऋशब्दः पावके सूर्ये धर्मे दाने धने पुमान् ॥११॥ आ अरौ अर एतानि अरं चारौ च ऋन् शसि । ऋदी? देवमाता स्याद् ऋभवस्तेन ते सुराः १२ स्त्रीलिङ्गोऽयं धने वह्नौ वासवे वरुणालये । ऋ रौ रो रूपमेतस्य सन्धिसामान्यसाधनम् ।। १३ ॥१५ लहवो लघुसंवादे शक्तौ सर्पिपि मातरि । लघ्वक्षरेपि ल क्लीवे दीर्घलुर्देवमातरि ॥ १४ ॥ वाराह्यां वर्तते दीर्घः सौदामिन्यामिदं द्वयम् । सर्प मत्रे तथा तवे लद्वयं लुकि वर्तते ॥१५॥ केऽपि दीर्घ न मन्यन्तेऽनुकृतौ मन्वते परे । कामसम्बोधने स्यादे तत ए ब्रह्म केवले ॥ १६ ॥ . एशब्देनोदिता चण्डी गोचरी गोपनेऽव्ययम् । ऐ स्वर्णेऽपि च पुंल्लिङ्गः शम्भुश्रीपतिवायुषु १७ सारदायां स्वरे सूर्ये मूच्छोयामैरपि स्मृतः । ओशब्दो रक्षणे शेषे सूत्रे पुंसि श्रुतावपि ॥१८॥ १. औः समुद्रे जलेऽनन्ते पीडने पुंसि भाषणे । अं मान्तो ब्रह्मसंवादे परब्रह्मप्रवाचकः ॥ १९ ॥ व्यसने व्याधिते व्याधी ज्ञानविज्ञानवन्दने । अः सान्तः शङ्करे सूर्ये दानादानप्रदीप्तिषु ॥२०॥ सत्तायां क्षेपणे खेदे तथाऽऽश्चर्ये च निन्दके । को ब्रह्मात्मप्रकाशार्ककेकिवायुयमाग्निषु ॥ २१॥ कं मौलिसुखतोयेषु कशब्दः सर्वलिङ्गकः । सर्वनामगणोक्तो यस्तस्य रूपं त्रिलिङ्गकम् ॥ २२॥ कुः स्त्रियां भुवि कुत्सायामव्ययं कुप्रकीर्तितम् । कः का किं शब्दयोर्मान्तः कं कान्तौ कामवाचकम् २५ पाच्यलिङ्गः खशब्दोऽर्के वितर्के व्योम्नि वेदने । प्रश्ननिन्दानृपक्षेपसुखशून्येन्द्रिये दिवि ॥२४॥ पुनः कर्मसाक्षिणमिति विभक्तिविपरिणामः । कर्मसाक्षिणो भगवतोऽधिष्ठानभूतस्य अन्तःकरणस्याधिष्ठातृमाहारम्यादेव कर्मसाक्षित्वं ज्ञापयितुमत्र सप्तमी । तेन च तदधिष्ठातृप्रेरणाबलादेव मया नूतना नाममाला करप्यत इति भावः । उक्तं च-"शब्दाम्भोधिर्यतोऽनन्तः कुतोऽप्यगमदव्ययात् । सरस्वत्याः प्रसादेन कविनाति यत्पदम् ॥ प्रसिदमप्रसिदं वा सम्प्रमाणं च साधवः ॥" इति । २ ख-'सानुपु । ३ ख-'सर्वर्पिमातरि'। ४ ख-'ते तथा'। ५ क-स्वेदे। Page #145 -------------------------------------------------------------------------- ________________ श्रीविश्वशम्भुप्रणीता अवसानेऽप्यवर्गेऽपि परब्रह्मण्यपीरितः । गस्तु गातरि गन्धर्वे शब्दसङ्गीतयोरपि ।। २५ ।। गौर्गणेश पशुस्वर्ग वज्राशा भूदकेऽक्षिणि । वाण्यां किरणवाणास्त्रे पुंलिङ्गोऽयमुदीरितः || २६ ॥ आवन्तो गाऽवनीवाची गैः पुमान् शब्दगीतयोः । इरन्तो गीर्गिरौ वाण्यां धातुवद् गाश्व गायकः ॥ मारणे मरणे घाते घण्टायां किङ्किणीरवे । शक्तौ सभैरवे देवे घो मैत्रेऽन्यार्थवाचकः ।। २८ ।। ५ पुण्ये प्रवाहे पाखण्डे घं च घोरे घु रौरवे । धिरिदन्तो घृते दीप्तौ घाऽऽवन्तो भूमिवाचक: २९ ङः शून्ये दानवाञ्छायां निन्दायामाधिसादरे । सौदामिन्यां नदे सूर्ये सिन्धौ तल्लिङ्गवाचकः॥ ३० ॥ चः पुंसि चेतने चन्द्रे चौरेऽहौ चारुदर्शने । इदन्तश्विः स्त्रियां बुद्धौ ज्ञाने चारे च पावके ॥ ३१॥ वाऽन्वाचयसमाहारेतरेतरसमुच्चये । समासा ( ना ? ) र्थेऽव्ययं चायमावन्तश्वा दिवि स्मृतः ॥ ३२ ॥ छः सूर्ये सोमनैर्मल्ये छेदे स्वच्छे च ज्ञातरि । छन्दानुवर्तिनि प्रोक्तइछाऽऽवन्तो निम्नगागिरोः ३३ १. छोऽस्त्रियां लोहधारायां छोऽस्ति पुंसि परश्वधे । वानरे हरिणे छागे छिः पुंसि प्रोच्यते छले ३४ जो जेता जं च जीवेऽपि जुर्वेगे नभसि स्वके । जायाजनन्योजऽऽबन्तः शय्यायामपि जारके ३५ स्त्रियां जूर्गतिवाची स्याजापे शापेऽपि जिः पुमान् । हखो दीर्घोऽपि शब्दो जरायां दुर्गतावपि ३६ जी रेफान्तस्तदर्थः स्त्री जूर्जुनौ जुव इत्यपि । प्रादुर्भावे जैवे जः स्याद् दाम्पत्ये जंच जन्मनि ३७ झशब्दः खपतौ शून्ये तथोर्ध्वक्षेपणेऽपि झः । विनष्टे विवरे भृङ्गे स्त्रियां झा तडिति स्मृता ३८ १५ वने च भुवने झं स्यादेकान्ते सङ्गते च झम् । स्रवद्रव्ये भगे भोगे विलासे सुन्दरी च झा ॥३९॥ अकस्माद्दर्शने शोके मूढास्त्रमोचने च झुः । झ इदन्तः स्त्रीलिङ्गो झिः सर्वधातुध्वनौ च झी:४० झीरौ झिर इत्येवं रूपं हानौ जरार्थकः । जो ज्ञाने गायनेऽज्ञाने घर्घरध्वनिते च नः ॥ ४१ ॥ itsदुमण्डले मत्रे वाच्याज्ञा विन्मुनीन्दुजाः । निषेधे चञ्चले जुः स्यान्निर्माणे जीरिति ध्वनिः।। टः स्थिरे ताडने त्रासे 'विश्वासेऽश्वे च पुंस्ययम् । टाऽऽवन्तो घटिकावाची पृथिव्यां टं करङ्कके ॥ १० भूषायां च मणौ मेद्रे दुः स्याद् भ्रष्टे टि पक्षिणि । पारस्त्रैणे टिशब्दोऽस्ति फटायां टा जटास्वपि ॥ मुद्रोर्मिमहिला स्त्री टीवन्तः पटहेऽपि टम् । ठो महेशे महामन्त्रे मत्रिभूपाधिताण्डवे ।। ४५ ।। आसने शयने शून्ये तथाऽऽकाशे जलाशये । घटे चक्रे च मुद्रायां कुण्डले भागवत्कचे ॥ ४६ ॥ 'ठीबन्तो मत्स्यसङ्घाते ठावन्तः कर्णकोटरे । विलये विजये देवसेवने ठुः "प्रियार्पिते ॥ ४७ ॥ नखोच्छन्नकुचे काव्यां ठुः स्त्री कृत्रिमरोदने । ठेरेदन्तो वृथाहास्ये सूर्ये ठौर्ना श्रुतौ स्त्रियाम् ॥४८॥ १५ वञ्चके वेपकारे ठु हुं विन्दौ जलबुदुदे । ठशब्देऽन्येऽपि शब्दार्थास्तेनायं ठेति विस्मृतः ॥ ४९ ॥ डो भयङ्करनादेषु चन्द्रे चञ्चलयोषिति । जिह्वायां कुण्डलिन्यां डा चण्डिका भूतनाथयोः ॥५०॥ धातुवद् डू हिंसायां वघे क्षेपे च डौर्द्वयोः । डूईवा डुव इत्येव डौडवात्मपरस्य च ॥ ५१ ॥ भ्रान्ते सर्ववधे बाले बलहीने वृथाकुले । पुंसि दुर्व्यर्थवाचाले सर्पे शापे च डूः स्त्रियाम् ॥ ५२ ॥ कालक्षेपे तथा दण्डे डीः पुंसि व्योमगामिनि । उत्पाते राजकीये डः फेने दानेऽल्परोदने ॥५३॥ १२४ १ ख'तो' । २ क- 'वाम्बाय' । ६ क - 'सर्पे सिद्धी' । ४ ख 'नवे जः स्यादपत्ये' । बिलासा' । ६ क- 'झरार्थकः ' । ७ ख - 'दाने' | ८ ख- 'विश्वासे चैष' । १० क - 'ठाऽऽबन्तो' । ११ ख- 'प्रियार्जिते' । १२ ख- 'सन्त्यर्थास्ते नोच्यन्ते' | ५ ख - 'भागे ९ क- 'टाssवन्तः' । १३ ख - 'सर्ववधू ० ' । Page #146 -------------------------------------------------------------------------- ________________ १२५ एकाक्षरनाममालिका व्रणे वा पुंसि डं प्राहुः क्षुद्रजन्ती वृथोदिते । मुस्तापत्रे करे डी स्त्री डोरोदन्तोऽन्त्यजे नरि॥५४॥ ढो ढका निर्गुणे लास्ये गोमुखे ढं नपुंसके । ढीर्वा शुनी समाख्याता पक्षिभेदे त्रियां ढि वा ५५ प्रहारे चायुधे ढः स्याद् घाते ढोऽपाठि पण्डितैः । श्वापदे दुर्जने मूढे वाद्यभेदे ढ उच्यते ॥५६॥ कर्णभेदेऽप्यतिस्थूले गुदवातध्वनौ च दुः। प्राभृते वेदनायां दा ढः स्वभावे विमत्सरे ॥५७॥ णो निर्गुणे जपे योग्ये दुष्टे क्रोडे च तस्करे । पशुपुच्छे स्त्रीयां णा स्त्री बृहन्माने च णुः पुमान्॥५ सम्प्रत्यये तथा खार्थे णः कोणे चैकचक्षुपि । क्षीरे रणे धने धान्ये णीः पुमान् णीर्णियौ णियः॥ समे खरे चये चौरे रणे णिश्चोभयात्मकः । तः प्रेते निष्फले शान्तौ पौनःपुन्येऽव्ययं च तु॥ रङ्गे रागे तुलादण्डे भीते तूर्यध्वनौ च ता। पूजायां तिः स्त्रियां तोके मतो माने महाधने॥६॥ अविलम्बे जले क्लीबे तः सूनौ तन्तुवायके । तौ च तौरे तदर्थेऽस्ति तोऽवसाने वयत्यपि॥६२॥ तौः तायौ ताय इत्येव रूपं स्त्रीपुंसयोरपि । हस्वदीपों तु भूभेदे प्रश्ने धान्येऽव्ययं द्वयम् ॥ ६३॥1. थो मिथ्यावाचके श्रान्ते शोकेऽथारब्धवस्तुनि । निमग्ने चाथ गम्भीरे स्तोकार्थे पुंनपुंसकम्॥६४॥ मरुदेशे प्रदेशेऽपि थाऽऽबन्तश्छलयोपिति । देवकूटे कपाये स्त्री दृढे परिवृढेऽपि था ॥६५॥ थुः पुंसि पर्वते द्रोणे व्रणे थुनिन्दिते पुमान् । निष्ठीवने बले भूते थाऽऽवन्तो भोजने भुवि ॥६६॥ दो दाने पूजने क्षीणे दान्ते शौण्डे च पालके । देवे दीप्तौ दुराधर्षे दोर्भुजे दीर्घदर्शके ॥ ६७ ॥ दयायां दमने दीने दन्दशूकेऽपि दः स्मृतः । वधे च वन्धने बोघे वाले बीजे बलोदिते ॥६८॥१५ विदोऽपि पुमानेप चालने चीवरे वरे । दाऽऽवन्तो दिवि गङ्गायां कुले काले कृते च दा॥६९॥ उपमायां च नैवेद्य निर्नाथा वनिता च दा । दै स्त्रियां देवकन्यायां दीवन्तो देवतर्पणे ॥७॥ धो विधाता धनं धर्मो धो गुह्ये गुह्यकेश्वरे । धश्चाश्वाधारभूतेऽपि वह्नौ वा देवधार्यके ॥ ७१ ॥ देशभेदे भृते भीतेऽधस्तथोपरि वर्तते । धं च षण्ढे च पारुष्ये धूर्वध्वां धुरि च स्मृतः॥७२॥ भारे धेनौ च धाऽऽदिष्टा धीवुद्धौ धातुवत् स्त्रियाम् । ध्याने धेनौ धरायां च धैरैदन्तः पुमानयम् ॥१० धृतौ पत्यावपि प्रोक्तो धुश्च धूर्तोऽतिधृष्टकः । वचने धं च तत् सेना धा स्त्रियां च तथाऽधिके ७४ धिः सेमये सुधावार्थी लोहे 'चोरेऽपि चेष्यते । धोशब्दः केनिपातेऽप्सु प्राहुः पदविचक्षणाः ७५ नो नरे च सनाथेऽपि नोऽनर्थेऽपि दृश्यते । नृशब्दोऽपि नरे नाथे ना नरौ नर इत्यपि ॥७६॥ ननो इति निपातौ द्वौ नू दीर्घोऽपि तथोदितः। पृच्छायां नु वितर्के निर्निनिशब्दौ तथाऽव्ययम्।। नीवन्तो लक्ष्मवाच्यः स्यान्निर्नेतरि नियौ नियः।नुः स्तुतौ दीर्घहस्वः स्त्री नूनश्चि तरणौ स्त्रियाम्७८९५ नूशन्दः पातके पुंसि वायौ क्लीवे नु वारिणि । नं ब्रह्मणि तथाऽनन्ते सानन्दे नं च नन्दने ७९ पः सूर्ये शोषणे वहौ पाताले वरुणेऽनिले । परित्राणे क्षमे क्षेत्रे निपाते(ने) पङ्कसङ्कले ॥८॥ उचदेशे स्थले पं स्यात् पूः पवित्रे पुवौ पुवः। पूः पृथिव्यां वधूवत् स्यात् पौरपि स्त्री यथा च नौः ८१ पाऽऽवन्तः पीच पालक्ष्मीपर्यायौ धातुवञ्च पाः। पाशब्दार्थे पुमानेष षष्ठ्यांप: पोस्तथा च पाम्।। ख-शुधिः '। २ ख-पोते'। ३ ख-कर्णरोगे'। क-'प्रोते'। ५ ख-शाम्ते'। क-भाते। ख-याने।८क-अकोदिते।९ख-'सम'। १० ख-'धौरपिक -प्रदर्शने'। Page #147 -------------------------------------------------------------------------- ________________ १२६ श्री विश्वशम्भुप्रणीता भानुवत् पण्डिते पुः स्यात् पटहे पुरुपोत्तमे । पिः पुंसि पण्डिते रागे सागरे सादरे दरे ॥८॥ फः स्फारदर्शने देवे न्याये ज्ञाने च नीरधौ । फचायतनवीजे फं फले फं निष्फले ध्वनी ॥४॥ फाऽऽवन्तो मृगमारीचे फा फणा फं फणे च फाः । चक्रवर्तिनि फंक्लीवे लामे लोभे विपर्यये । मूतौ मदने फं चार्के माहेन्द्र जालके च फम् । फंभार्यायोपितोः फी स्यात् पूर्ववत् सुखाकुले ८६ ५ यो दन्त्योष्ठ्यस्तथौष्ठ्योऽपि वरुणे वारुणे वरे । शोपणे पवने गन्धे वासोवृन्दे च वारिधौ॥८७।। वन्दने वदने वादे वेदनायां च या स्त्रियाम् । झञ्झायाते तथा मन्त्रे सर्वमत्रेऽमृतार्थकः॥८८॥ बी गतार्थे विशेपार्थे विनिपातश्च खादने । जनने पूजने कान्तौ तद्रूपं बीवियो वियः॥ ८९ ॥ बीवन्तो बी नदीनाथे यावन्तो या च वासने । धातुवद्या च शब्दार्थे व वे वो वदिति स्मृतः ।। भास्करे भा स्वरेऽपि स्याद् भायां भा भोगयोपिति । पितृभ्रातृपितृव्येषु भोऽतिभीते भयाकुले९१ १. भं नक्षत्रे भगे भोगे भीती भीः स्त्री भियौ भियः । भूः पुमान् वेदनायुक्त भूर्भूमिः स्त्री भुवौ भुवः।। भाऽऽवन्तो धातुवचापि भाषितार्थे भवाशयोः। वधूवद् भूर्धने भूः स्त्री भू सत्तायांद्वयोरपि।।९३॥ मो मत्रे मन्दिरे माने सूर्य चन्द्रे शिवे विधौ । मायाविनि वृथामत्रे मारणप्रतिदानयोः ॥९४ ॥ मं मौलौ मोघवृत्तौ च माऽऽवन्तः स्त्री माऽम्बयोः । भुवि माने च मात्रामा मा निपातो निषेधकः दीर्घहस्खौ मु-मू शब्दो बन्धनार्थे त्रिलिङ्गको । मीरीदन्तः प्रतीदाने हिंसायां मीमियौ मियः ॥ ५५धातुवन्मा धने माने वन्धने मौर्यथाऽस्ति गौः । स्त्रीसयोर्मिते मिः स्यात् प्रेरणे मैस्तथा रणे ९७ यः सूर्ये तारके चन्द्रे या रैमामातृधात्पु । वायुवेगे जले यं स्याद् याचके योऽतिकुत्सिते ॥९८॥ यो यातरि रुजालने शयने या च वाहने । युक्तो च या च यात्रायां यो यथार्थे स्त्रियां च या।। धातुवद् या च शब्दार्थे गमने निधनेऽशने । यामाहुर्यागाद्यङ्गे च यं संसारे सरित्पतौ ॥१०॥ रः सूर्येऽनौ धने कामे रंजले रङ्गवेगयोः। रा रमा रमणी बाला रं(:) तीक्ष्णे कर्कटे ढे॥१०१॥ २. रैशब्दोऽर्थे जले स्वर्णे रेऽर्थे रन्ध्रे च रं स्मृतम्। रोदने वेदने च्छेदे रा दाने धातुवत् स्मृतः १०२ रु-रौशब्दौ पुमांसौ द्वौ शम्भुशब्दार्थवाचको । री रणे रु भये क्लीवं री च नारी पतिव्रता १०३ मेरोः परिश्रमे भानौ रुः पुंसि रसने स्त्रियाम् । महेन्द्रे लोऽमृते गत्यांला च लक्ष्मीर्लमम्बरे १०४ लिः पुंसि लावशब्दे लीर्धातुवल्लवने त्रिषु । लं क्लीवे लोपनेऽपि स्यादपूर्णे लं प्रकीर्तितम् १०५ ला दाने धातुवल्लं च लानादाने ल आलये । आश्लेपे लं सुखे वादे दृश्ये लौश्चेति भापितः १०६ २५ लूधातुवच्छेदने लौ स्त्री ला लीलाविलासयोः । उपालम्भे तथा लाभे लोभेऽपि लैर्दयापरे १०७ शः सूर्ये शोभने शीते शं सुखे शा रमाम्बयोः।आशीर्वादे च शीवन्तःशःशशाङ्केऽच्छवारिणि ॥ रश्मी शेने तथा स्वच्छे शो महेशे महार्णवे । षोऽतिरोपेऽपवर्गे षोऽप्यक्षरे सानुवेधसोः ॥१०९॥ नार्या श्लेषे सुखे षं स्यात् पण्डितेऽपि षमादृतम् । पडूमिरहिते षं स्याजालके भेपजे च षम् ११० सुखे दुःखे समे पोर्ना पुरनित्ये नृपोत्तमे । वृषस्यन्ती सती पा स्त्री नभोनक्षत्रयोरपि ॥ १११ ।। १ क-'पीडिते रावे'। २ ख- रुपाकुले'। ३ ख-'मृगात्मकः'। ४ ख-'मा भास्करे भास्वरे स्याद'। ५ ख-'म'। ६ ख-'रमाऽर्थयोः'। ७ क-'रमायां नृमातृषु'। ख-'यामाहयोगियोगा। ९ ख-रो नादे'। १० क-रौ'। ११ ख-दरे'। १२ ख-शस्ते'।। Page #148 -------------------------------------------------------------------------- ________________ अनुयोगचतुष्टयव्याख्या । १२७ सः सोमे सोमपानेऽपि सूर्ये पक्षिणि तापसे । वृपे च सः सदानन्दे सा स्त्रियां संवने घने११२ यौवनेपि समासे च वस्तुवृन्दे समाहृतम् । पूजायां सु निपातोऽस्ति सर्वधूवच्च मातरि॥११३॥ सोमसूः सूः सुवी पुंसि प्रसवार्ता नितम्बिनी । सं सिः पुंसि परोक्षेऽपि सा च देवी सरस्वती। हं हर्षे चैव हिंसायां हीरे हारे हरौ च हः । हौस्त्यागे च रणे ज्याधः क्षः क्षं क्षेत्रे क्षये गृहे११५ ___ इति श्रीविश्वशम्भुप्रणीता एकाक्षरनाममालिका समाप्ता।। शके १७२३ दुर्मतिनामसंवत्सरे माघशुद्धदशम्यां गुरुवासरे तहिने बरवोपनामक केशवसूनुबाळकृष्णाख्येन लिखितम् ॥ श्रीकृष्णार्पणमस्तु ।। श्रीजिनप्रभसूरिविरचिता अनुयोगचतुष्टयव्याख्या। श्रीप्रवचनाय नमः। इह प्रवचने चत्वारोऽनुयोगाः, तद्यथा-चरणकरणानुयोगो १, धर्मकथानुयोगो २, गणितानुयोगो ३, द्रव्यानुयोगश्च ४ । तत्राद्यः कालिक श्रुते ओघनिर्युक्त्यादौ च प्ररूप्यते । द्वितीय ऋषिभाषितोत्तराध्ययनपष्ठाङ्गादौ । तृतीयः सूर्यप्रज्ञप्त्यादौ । चतुर्थो दृष्टिवादे । श्रीवज्रस्वामिनं यावदपृथक्त्वानुयोग आसीत्, एकस्मिन्नेव सूत्रे चतुर्णामपि अनुयोगानां तदा व्याख्यानात् । ततोऽर्वाग् आर्यरक्षितादारभ्य पृथक्त्वानुयोगः, प्राक् १५ कथितप्रतिनियतसूत्रेषु पृथक् पृथक् तेषां प्ररूपणात् । तत्राभियुक्तविद्वच्छिष्याणां कथमेकत्रैव सूत्रे चत्वारोऽनुयोगाः पूर्वैर्व्याख्यायन्ते स्मेति तत्कौतूहलपूरणार्थ चतुर्दशपूर्ववित्श्रीभद्रबाहुस्वामिप्रणीतावश्यकनियुक्ति(३३६)गाथायां अपृथग्विभागोपदर्शनवास्तवार्थायां चत्वारोऽपि ते यथाप्रज्ञं लेशतो दर्यन्ते । सा चेयं गाथा "पउमाभवासुपूजा रत्ताससिपुप्फदंत ससिगोरा। ' सुव्वयनेमी काला पासो मल्ली पियंगाभा ॥" . अत्र प्रथमपादे गणितानुयोगः, तत्र 'पर' इति पौषः, पौरादित्वात् औकारस्य अनु आदेशे आद्याक्षरद्वयेन पौषः, 'मा' इति माघः, 'भ' इति भाद्रपदः, आनायादेषां सितपक्षेऽकारप्रश्लेषात् 'अव' इत्यवमराने तिथिहासे 'लुक्' (सिद्ध०८-१-१०) इत्यकारलोपे पउमाभ(व) इति सिद्धम् । सम्प्रति फलमाह'असुपूज्जा' इति । ( 'सु' इति सुभिक्षम् ) असु-दुर्भिक्षम् , 'पू' इति पुहवीलोगा पुहवीसो वा तस्या 'जा' इति ज्यानिः-विनाशः। तथा चाहुः ( ख-'समाख्याते'। , Page #149 -------------------------------------------------------------------------- ________________ १२८ श्रीजिनप्रप्रसूरिविरचिता "पोसे मह भदवए सुद्धे पक्खम्मि जा तिही पडइ । तत्तिहितुल्ले मासे निवमरणं अहव दुन्भिक्खं ॥" अन्ये त्वेवमाहुः ( ) "भाद्रपदपौषमाघे सितपक्षे पतति या तिथिस्तस्याः । द्विगुणदिनैर्नृपमरणं यदि वा दुर्भिक्षमतिरौद्रम् ॥" इति गणितानुयोगः॥१॥ अथ द्वितीयपादे धर्मकथानुयोगः प्रतीयते'र' इति रटति-शोचति त्रस्यतेऽस्मादिति त्रासो-भयजनकः, त्रासहेतुत्वात् वा त्रासः "नवलोदकं पादरोगः" ( ) इतिवत् , स चासौ असिः-असिपत्रनामा पुष्पदो-वृक्षः १० त्रासासिपुष्पदः 'लुक्' (सिद्ध०८-१-१०) इत्यकारलोपे त्राससिपुष्पद इति सिद्धम् । अथवा सि इति सिंबलिनामा रुक्खो “सालेत्यादि रूक्षागमौ पुष्पदः" इति (अभि०का० ४, श्लो० १८०) वचनात् पुष्पदशब्दो वृक्षवाची, तस्य अन्ते-समीपे तत्तले स्थित इति गम्यम् । सामर्थ्यात् नरके इति गम्यते । आर्षत्वाद् विभक्तिलुक् प्राकृतत्वात् 'ता' इति द्विर्भावः । कोऽसौ रटति इत्याह-'ससिगोरा' शशिनामा गोराट्-पृथ्वीपतिः 'अन्त्य१५व्यञ्जनस्य' (सिद्ध० ८-१-११) इति दलुक् । आख्यानकं चोपदेशमालावृत्तितो ज्ञेयम् । तथा च तत्सूत्रम्-"नरयत्थो ससिराया" ( गा० २५६ ) इत्यादि । भ्रातुः प्रतिवचनं चेदम्-"को तेण जीव" (गॅा० २५७) इत्यादि । “जावाऽऽऊ सावसेसं" छापा पौषे माघे भाद्रपदे शुद्ध पक्षे या तिथिः पतति । तत्तिथितुल्ये मासे नृपमरणमथवा दुर्भिक्षम् ॥ २इस्थादिशब्देन अनोकह-गच्छ-पादप-नगा ज्ञेयाः । सम्पूर्ण पचं स्वेवम् "वृक्षोऽगः शिखरी च शाखिफलदावदिहरिदुर्दुमो जीर्णो दुर्विटपी कुटः क्षितिरुहः कारस्करो विष्टरः । नन्यावर्तकरालिको तरुवसू पर्णी पुलाक्यद्धिपः सालानोकहगच्छपादपनगा रूक्षागमा पुष्पवः।" ३-४ एसयाथाद्वितयं तच्छाया चैवम् "नरयस्थो ससिराया बहु भणई देहलालणासुहिमो। परिमोमि भए भाउम! तो मे जाएह तं देहं ॥ २५९॥" [नरकस्थः शशिराजो बहु भणति देहलालनसुखितः। पतितोऽस्मि भये भ्रातः तन्मे यातय तं देहम् ॥] "कोण जीवराहुएण संपयं जाइएण हज गुणो।। जइसि पुरा जायंतो तो नरए नेव निवदंतो॥२५७।" [कस्तेन जीवराधकेन साम्प्रतं पीडितेन भवेद् गुणः । यद्यसि पुरा यातयनू तदा नरके नव निपतन् ।। Page #150 -------------------------------------------------------------------------- ________________ अमुयोगचतुष्टेयव्याख्या १२९ (गा० २५८) इत्यादि । इति धर्मकथानुयोगः ॥२॥ अथ तृतीयपादे द्रव्यानुयोगः प्रतन्यतेस च द्विधा प्रसिद्धः समयविदाम्-प्रमाणोपपत्तिभिर्वस्तुव्यवस्थापन, रूप्यस्वर्णसिद्ध्यादिप्ररूपणं च । तद् द्वितयमपि दृष्टिवादे प्रकटितम् । तद्दिङ्मानं चेदम् 'सु' इति सूतेः विपि सू-उत्पादः, व्ययो-विगमः, 'णे' इति नैयत्यं नैत्यं वा ध्रौव्यमिति ५ यावत् 'हस्वः संयोगे' (सिद्ध० १-४-८४) इति कृते सुबय 'ऐत एत्' (सिद्ध०८४-३४३) इति कृते एतेषां 'मी' इति मीलनं-युक्तं ततश्चोत्पादव्ययध्रौव्यात्मकं वस्तु सत् इति प्रतिज्ञा । हेतुमाह-'काला' कलनं कालः प्रतीयमानत्वं तस्मात् कालात् , तथैव सम्प्रतीयमानत्वात् इति । अन्यथाऽनुपपन्नत्वैकलक्षणो हि हेतुः प्रमाणम् , अतोऽन्तायैव साध्यसिद्धेर्न दृष्टान्तरूपा वहिाप्तिरुपन्यस्ता । तत्र घटे मृत्पिण्ड-स्थासक-कोश-कुशूला-१. दिपर्यायाणां विनाशो घटाक्ष(ख्य)पर्यायोत्पादो मृद्रव्यं चान्वयीति त्रयात्मकसिद्धेर्दिक् । एवमुत्फण-विफणावस्थानुयायि सर्पत्वम् , दुग्ध-दध्याद्यनुवृत्ति गोरसत्वम्, कटक-कुण्डलादिपर्यायेष्वनुगामि स्वर्णद्रव्यत्वम् , धर्मा-ऽधर्मा-ऽऽकाशादिषु द्रव्येष्वपि तत्तदवच्छेदकोपाधिसम्बन्धात् त्रयात्मकं वस्तु भावनीयम् । आत्मनि तु ज्ञानदर्शनादिगुणहर्षामौदासीन्यसुरनरतिर्यङ्नरकादिपर्यायापगमेऽ-१५ प्यात्मद्रव्यैक्यात् तत् सुप्रतीतमेव । नहि निराधारावुत्पादव्ययपर्यायौ व्यवस्थितेष्वेतेषु, तस्मात् अन्वयि द्रव्यमेष्टव्यम् , कूटस्थनित्यस्य निष्प्रमाणकत्वात् बन्धमोक्षाधसङ्गतेश्च । • "द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः। व कदा केन किंरूपा दृष्टा मानेन केन वा ? ॥"3 इति वचनात् । अथ द्वितीयप्रकारेण द्रव्यानुयोगः प्र(क)च्यते 'सुध' त्ति शुल्वम् , अकारप्रश्लेषात् अयः-श्लेषणः टङ्कणः । 'ने' इति नेपाली-कुनटी • नेत्राञ्जनं च खापरीया । 'मी' इति मिडोहरः तस्स 'इ' इति इन्द्रियं-बीजम् । 'मी' पारद इत्यर्थः । 'क' इति कन्दः-सूरणः । “अर्शोन्नः सूरणः कन्दः" इति (अमर० का० २, . श्लो० १५७) वचनात् । आलं-हरितालम् । 'अ' इति अशनिः-वनः-स्वरुः सन्धौ ‘सुव-२० यनेमी काला' । तथा च पूज्या: , "जावा सावसेसं जाव य थोवो पि अस्थि बसाओ। ताव करिज-पहियं मा ससिराया व सोहहिसि ॥ २५८॥" . यावदायः सावशेषं यावच स्तोकोऽप्यस्ति व्यवसायः (चित्तोस्साहः)। तावत् कुर्यादात्महितं मा शशिराजेव शोचिष्यति ॥] आईतमतप्रभाकरकार्यालये (पुण्यपत्तने) मुद्रिते पुस्तके तु८, १, १५८ इति सूत्राङ्कः । पचं वियते तत्त्वार्थाधिगमसुत्रस्य श्रीसिद्धसेनगणिकृतटीकायां (पृ. ३७८)। अर्थ, १७ , Page #151 -------------------------------------------------------------------------- ________________ ५ १० श्रीजिनप्रभसूरिविरचिता "खरटम हा समतुलं वज्जीखीरेण भावियं बहुसो । निग्गीवोयरपकं हवेइ कंदुज्जलं सुव्वं ॥” आम्नायस्त्वयं रहस्यकल्पद्रुमेऽस्माभिः प्रकटितः । इति द्रव्यानुयोगः ॥ ३ ॥ अथ चरणकरणानुयोगस्य दिग् दर्श्यते 'प' इति पडिलेहण 'आ' इति आदिः सन्धौ पा । अनेन"पेडिलेहणा पमज्जण भिक्खायरिलोयभुंजणा चेव । पत्तगधुवणवियारा थंडिलआवस्सयाई च ॥” इति ( विचारसारे गा० २५१ ) गाथोक्तप्रतिलिखना दिदशविधचक्रवालसमाचारी सूच्यते इति प्रतिलेखनादिसमाचारी । 'सोम' इति सौम्यत्वं प्रशान्तवाहितारूपम्, तदुभयमपि अल्लियंति - सेवन्ते पासोमल्ली । एतेन विशेषणेन क्रियाशुद्धिर्भावशुद्धिश्च क्रमेणोक्ता । तथा 'पियंगा' प्रियाणि-अभीष्टानि सूत्रार्थ पाठावबोधाभ्यां अङ्गानि - आचारादीनि द्वादश येषां ते प्रियाङ्गाः । एतेन पदेन ज्ञानसम्पन्नत्वमभिहितम् । एवंविधा 'भा' इति भावसाधवो भवन्ति । इति चरणकरणानुयोगः ॥ ४ ॥ व्याख्यातमस्यां गाधाया- मनुयोगचतुष्टयम् । तुष्टये कौतुकवतां, श्रीजिनप्रभसूरिभिः ॥ अथवा सकाऽपीयं गाथा प्रत्येकं चतुर्भिरनुयोगैर्व्याख्यायते'पउमाभवासुपूज्जा' इति गणितानुयोगप्रथमपादः पूर्वं व्याकृतः । द्वितीयपादस्त्वेवं ज्ञेयम्- 'पुष्पदंत'त्ति आर्षत्वाद् विभक्तिलिपि पुष्पदन्तयोः - सूर्यचन्द्रयोः आकारप्रश्लेषात् २० ‘अससि' इति अस्वश्रियोः, न विद्यते स्वा - आत्मीया श्रीर्ययोस्तौ अस्वनियौ तयोः । यदा किल सूर्यस्य स्वा श्री रक्तवर्णत्वलक्षणा न भवति, किन्तूदये चन्द्रवत् श्वेता- निस्तेजस्का वा, तथा चेन्दोः स्वा श्रीर्न भवति, किन्तु शशी रुधिररको दृश्यते तदा 'गौरा' इति तदा गवि - पृथिव्यां राजानः 'रत्ताससि' इति रक्तं - सुभटरुधिरं आस्ये-मुखे यस्य स रक्तास्यः, तथाविधोऽसि:-खड्गो येषां ते तथा भवन्ति राजानः, परस्परं युध्यन्ते इत्यर्थः । अयमपि २५ गणितानुयोगः । तथा सह और्वेण - पातालकलशलक्षणेन वडवानलेन वर्तन्ते ये ते सौर्वाः, असाधारण विशेषणात् समुद्रास्तैश्च सागरोपमा लक्ष्यन्ते, तैः अयनं - सङ्ख्यापरिज्ञानं ययोवर्तते । तौ कौ ? 'अमी' इति प्राकृते द्विधा व्युत्पत्तिः, सिद्धावस्थया साध्यावस्थया व । तंत्र सिद्धावस्थामाश्रित्य 'अमी' इति कोऽर्थः । अमू, द्विवचनस्य प्राकृते बहुवचनम्, अम् १-२ छाया १५ १३०' खरट (?) महासमतुल्यं वज्जी (?) क्षीरेण भावितं बहुशः । निर्गीवोदरपकं भवति कन्दोज्वलं ......॥ प्रतिलेखना प्रमार्जनं भिक्षावरीलोचभुअनाश्चैव । पात्रकधावनविचारा स्थण्डिलावश्यकानि च ॥ Page #152 -------------------------------------------------------------------------- ________________ अनुयोगचतुष्टयव्याख्या । चकारकवद् विपरिवर्तमानौ । 'काला' इति कालौ-अवसर्पिण्युत्सर्पिण्याख्यौ, तथाहि-प्रथमोऽरकः सुषमसुषमाख्यः, तस्य मानं चतस्रः सागरोपमकोटाकोटयः इत्यादिषिशतिकोटा कोटिसागरोपमप्रमाणं कालचक्रमिति एपोऽपि गणितानुयोगः । तथा 'पासो' पाशः प्रासो वा पाश इव पाशः-बन्धनाद्यनर्थहेतुत्वात् प्रासः-कुन्तः, स इव वा प्रजानां मारणाधनर्थहेतुत्वात् । कोऽसौ पाशः प्रासो वा इत्याह-'भा' इति भानि-ग्रहा भौमादयः ।५ कथम्भूताः सन्तः ? 'मल्ली' 'मं मसं' वा चन्द्रं, अल्लियन्ति-प्रविशन्ति मल्ली चन्द्रमण्डलमेदिन इत्यर्थः । न केवलं तथाभूता एव अनर्थप्रदाः, किन्तु "पियंगा' इत्यपि पिकः-कोकिलस्तद्वदङ्गं-मूर्तिर्येषां ते पिकाङ्गा:-कृष्णाः प्रतिभासमाना इत्यर्थः । तेऽपि हि ज्योतिः. शास्त्रे प्रजानां राज्ञां च पाशवत् प्रासवच्चानर्थकरा एव स्युः। इति गणितानुयोगपक्षः॥ अथ चरणकरणानुयोगःप्रकृष्टा उमा-कीर्तिर्येपां ते प्रोमाः, स्वचरितैः यशस्विन इत्यर्थः । भयोऽस्त्येपामिति अभ्रादित्वाद् अप्रत्यये भयाः-प्राणिनः एकेन्द्रियादिपञ्चेन्द्रियान्ताः, तेषां असवः-प्राणास्तेषां पानं-रक्षणं तत्र ऊर्जः-वलं येषां ते तथा । अरक्ताः-नीरागाः, साहचर्यात् निर्द्वपाश्च ततो विदोपणकर्मधारयः। शशी-कर्पूरः, पुष्पं-श्वेतपुष्पम् । पुष्पशब्दो हि निर्विशेपणः । श्वेतकुसुममेव वक्कि, तथा च कालिदासः १५ "पुष्पं प्रवालोपहितं यदि स्यान्-मुक्ताफलं वा स्फुटविद्रुमस्थम्।" इति (कुमारसम्भवे स. १, श्लो. ४४) काव्यम् । ___ तद्वदन्ता येषां ते तथा । एतेन तेषां देशनाकुशलत्वं ध्वन्यते । तदैव हि दशनद्युतिप्राकट्यसम्भवः । अत एवाह-'ससिगोरा' शशिवत् निर्मलतया गवां-वाणीनां रा-दीप्तिर्येषां ते शशिगोराः । एतेन भापासमितत्वमुक्तम्। तच्च शेषसमितीनामुपलक्षणम् । २० ततो विशेषणकर्मधारयः। (सुष्टु-शोभनानि) व्रतानि-अहिंसादीनि तेषां नेमिरिव नेमिःचक्रधारा, प्रकर्षकोटिरिति यावत् । शोभनवतनेमिर्येषां ते तथा। तथा इ:-कामस्तत्र विषये काल इव कालाः-यमतुल्याः इकालाः । चतुर्थपादः पूर्ववत् । एवंविधा भावसाधवो भवन्ति । इति चरणकरणानुयोगः ॥२॥ अथ धर्मकथानुयोग:_ 'रत्ताससिपुप्फदंतससिगोरा' इति द्वितीयः पादः पूर्ववत् । कथं शशी-राजा आ रटतीत्याह -'पउमाभवासुपुजा' 'पउमा' पद्मा-लक्ष्मीस्तस्या भवाः-उत्पत्तयः अर्थात् अर्थागमाः। मम 'सुपुज्जा' सुतरां पूज्या आसन् , तेप्वेवादरात्, न पुनर्देवगुर्वादिषु । पुनः कथं रटति ? 'सुबयनेमीकाला' इत्यादि, शोभनव्रतानां-अहिंसादीनां नेमिः-उपचारात् परमकोटिस्तां कालयति-क्षिपति सुनतनेमीकाला 'अंगाभा'-शरीरराढा, मम प्रिया-वल्लभा आसीत्, न ३० , पतदुसरा पथा-"ततोऽनुकुर्याद् विवादस्य तस्यास्वान्नौष्ठपर्यस्तरुचः सितस्य ॥" Page #153 -------------------------------------------------------------------------- ________________ १३१ श्रीजिनप्रभसूरिविरचिता पुनस्तपोनियमादिक्रिया । “आभा राढा विभूषा श्रीः” इति हैमनाममाला ( का०६, श्लो० १४८) । इयं च देहलालना । 'मल्लीपासो' मयि लीयते-सम्बध्यते मल्ली पाश इव पाशः-कर्मवन्धः । तथा चार्षम् "विभूसावत्तियं भिक्खू कम्मं बंधई" (दशवैकालिके अ. ६, श्लो. ६६) इत्यादि । ५ इति धर्मकथानुयोगः ॥ ३ ॥" अथ द्रव्यानुयोगः-- 'सुबयनेमीकाला' इति पूर्ववत् उत्पादव्ययध्रौव्यात्मकं सत् तथैव प्रतीयमानत्वात् इत्यस्य पादस्यार्थः । एतच्चायं प्रत्यभिधीयते तं प्रतिपादयति-हे 'पउमाभवासुपुजा' 'प' इति परमेष्ठी-ब्रह्मा, उमाया 'भ' इति भर्ता उमया वा भाति उमाभ:-रुद्रः, 'वासु' इति १० वासुदेवः, ते पूज्या यस्य स तथा, तस्य सम्बोधनं 'हे पउमाभवासुपुजा !' गोयमा! इति तदामन्त्रणे सो अदन्तस्य आर्षे आत्वम् , स च नैयायिको वैशेषिको वा, हरि-हर-ब्रह्मणामेकमूर्त्तित्वात्। तथा हे 'रत्ता!' रक्तः रक्तपटो-वौद्धः, तथा चागमे-“तवन्निय'त्ति ( ) तन्नामतृतीयवर्णो लोहितस्तद्वरणपटयोगात् प्राकृते तवन्निओ तस्यामन्त्रणं हे रत्ता!। तथा 'स' इति साङ्ख्यः, तथाऽकारप्रश्लेपात् असिः-खड्गः पुष्पदन्तौ-सूर्यचन्द्रौ पौष्प१५ दन्ताः- तद्वंशजत्वात् राजन्याः, तेषां हि मूलतो द्वावेव वंशो सूर्यश्चन्द्रश्च, ततो ऽसिप्रधानाः पौष्पदन्ताः असिपौष्पदन्ताः-युद्धप्रवृत्ताः क्षत्रियाः, 'शशू हिंसायाम्' 'इकिस्तिव् स्वरूपार्थे' (सिद्ध० ५-३-१३७) इति शशिः-हिंसा यज्ञादो पशुपक्षिवृक्षौपध्यादिशशिना. गां-स्वर्ग राति-यजमानेभ्यो ददाति तथोपदेशदानात् ससिगोरा-मीमांसकाः । अथवा शशिः-हिंसा तद्विपयां गां-वाचं उपदेशं वा राति शशिगोरः-आलम्भ्याध्या२० यार्थव्याख्याता असिपौष्पदन्त इघ हिंसापरायणत्वात् यः शशिगोरस्तस्यामन्त्रणम् । ततश्च भोः परवादिन् ! 'पास' पश्य -अन्तस्तत्वेन त्रयात्मकं वस्तु विलोकय । कथम्भूतः सन् पश्य? 'ओमल्ली' 'ओम्' इत्यभ्युपगमे, तं अल्लियइ-आश्रयति 'ओमल्ली', स्याद्वादमभ्युपगम्य इत्यर्थः । भो भो एकान्तवादिनो भवतां 'पियंगाभा' वर्तते प्रिया प्रेयसी तस्या अङ्गानि स्तन-वदन-नयन-जघनादीनि तेषां आभा सादृश्यम्-दृष्टान्त इत्यर्थः। २५ यथाहि-रागिणः प्रेयसीनां नाम तथा रूपाण्यङ्गानि कनककलश-पूर्णेन्दु-नलिनदल-चक्रादिरूपतया स्वानुरागमात्रात् मन्यन्ते तथा भवन्तोऽप्यनन्तधर्मात्मकतया सदसन्नित्या. नित्यामिलाप्यानभिलाप्यसामान्यविशेषरूपमपि कृत्स्नं वस्तु तदेकान्तरूपतया मन्वानाः स्वपक्षपातित्वमात्रमेवाभिव्यञ्जन्ति, न पुनयोंक्तिकतामिति भावः॥ द्वितीयप्रकारेणाऽपि लेशतो द्रव्यानुयोगः प्रदर्यते यथा-'प' इति पारदः, 'उ' इति ३. उंगयबीयाणि, 'मा' इति माक्षिकम् , 'भ' इति भर्म-हेम, 'व' इति बहुफली, 'आ' इत्या विभूषाप्रत्ययिकं भिक्षुः कर्म बन्नाति । Page #154 -------------------------------------------------------------------------- ________________ अनुयोगचतुष्टयव्याख्या काशवल्ली, सन्धौ । 'सु' इति सुनाली, 'पुजा' इति 'प' इति प्रज्ञा तस्या ऊर्ज-वलं यस्याः सकाशात् सा पुजा, मं मूकब्राह्मी । 'रत्ता' इति रकदुग्धिका, 'ससि' त्ति शशिरेखा-वांकुची, "पुप्फदंत' त्ति केतकी निर्यासः, 'स' इति सर्पः-अहिस्तेन च अहिखरावीजानि लक्ष्यन्ते, 'सि' इति सिंगियविसं, 'गोरा' इति अम्बचंगेरी 'सु' सुरदाली-देवदाली, 'वयनेमी ति प्रतस्य नेमिरिव नेमिः-लज्जालुका लक्ष्यते, 'का' इति कंटकारिका-लघुरिंगिणी, 'ला' इति ५ लांगली, 'पा' इति पन्नगनामोपलक्षिता नाइ-नाइणी इति द्वयम् , 'सोमल्ली' इति सोमवल्ली, "पियंगाभा' इति पिकाङ्गाभं-कोकिलादेहवर्ण, 'अ' इति अभ्रकम् इत्यर्थः । एतेषां वस्तूनां गुरूपदेशयुक्त्या मीलने पीतसिद्धिर्भवति। इति द्विधाऽपि द्रव्यानुयोगः । अथवा अग्रेतनगाथया सह बीजाक्षरमप्यत्रास्ति "वरकणगतवियगोरा सोलस तित्थंकरा मुणेयवा। एसो वण्णविभागो चउवीसाए जिणवराणां ॥” (आ० नि० गा० ३७१) अत्र वर्णोऽक्षरं-लोकेश्वराख्यं, तस्य विभागो नादबिन्दुकलाशिरइन्द्रेषु यथासङ्घयं श्वेतकृष्णारुणनीलस्वर्णवर्णजिनन्यासः । अस्य नाभौ ध्यानादनाख्येयं सर्वातिशायि फलमिति । अयमपि द्रव्यानुयोगः। अस्माभिः प्रतिपादं प्रागल्याख्यातोऽनुयोग एकैकः । सकलायां गाथायां चतुरनुयोगी तु पृथगधुना ॥१॥ अस्माभिलिखितं दृष्ट्वा प्राचीनपत्रपतिषु ।। तन्मे कृपां विधाय शोधनीयं च विद्वद्भिः ॥ २ ॥ ग्रंथाग्रं० १४०। Rangooooomers छाया परकनकतपितगौरा: पोदश तीर्थकरा ज्ञातव्याः। एष वर्णविभागचतुर्विशस्या जिनवराणाम् ।। अर्थ. १८ Page #155 -------------------------------------------------------------------------- ________________ गोशब्दकाव्यम् गोश्रावः किमयं गेवाश्रयगता किं सुच! गो वीक्षसे ? गोमध्ये ! चरणेन गां लिखसि किं गोस्त्रीनिभे ! देहि गाम् । गावो यान्ति गृहेषु वासरमणेर्गावश्च दूरं गताः गांवस्त्वद्विरहे ममासुहरणे एरेहि यावो गृहम् ॥ नेत्रजलं २ गोकुल.३ दिशं ५ पशु०५ भुवं ६ अप्सरःसरशे! .वाचं. सुरभयः ९ किरणाः १. बाणाः । गौरदके रशि स्वर्गे दिशि पशी रश्मी, वने भूमाविषौ गिरि" इति हैमेऽनेकार्थसनहे (श्लो..)। वृत्तिा-काचिदाना बनान्तरे गवाश्रये-गोकुले गता सती गोधावं-नेत्रजलं मुमोच। तस्मिन् अवसरे केमषिद् गोपेन सा पृष्टा-सुन!-शोभने भूदी यस्याः सा सम्बोधने हे सुभु ! अयं गोश्रावः किम् । पुनः गो-पृथ्वी कि बीक्षसे तथा हे गोमध्ये गो-वघ्रं तन्मध्यमिव मध्यं यस्याः सा तत्सम्बोधनं हे गोमध्ये!-कृशोदरि!चरणेन गोपृच्ची फिलिखासि। अधुना हेगोत्रीनिमे !-स्वर्गीयनीसाशे! गां-बाणी देहि,वाचं दरवाबासरमणे:-सूर्यस्ख गाव:-किरणा दूरं गताः, तस्मात् समं गावो गृहं यान्ति । पुनः ए: कामस्य गाव:-बाणाः, मम भसुपरणा:प्राणहरणा जावासति। वद्विरहे जाते सति सम्प्रति त्वं भागछ, भाषा यावः-गृहं गच्छावः। Page #156 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्र लालभाइ-जैनपुस्तकोद्धार-ग्रन्थाङ्के ॥ सप्त स्मरणानि ॥ (विविधविबुधवरविरचितवृत्तिविभूषितानि) प्रथमं 'पञ्चपरमेष्ठिनमस्कार'स्मरणम् । (व्याख्यायमलसमलङ्कृतम्) श्रीसिद्विचन्द्रगणिकृता व्याख्या श्रीगणेशाय नमः । श्रीनाभेयः श्रियं दद्यात् , सुरासुरनमस्कृतः । विमानेकपपञ्चास्यो, दधद् विश्वजनीनताम् ॥ १॥-(अनुष्टुप) अकबरसुरत्राण हृदयाम्बुजपट्पदः । भानुचन्द्रश्चिरं जीयाद्, गुरुर्मे वाचकाग्रणीः ॥२॥-(अनु०) अष्टोत्तरशतानां यो---ऽवधानानां विधायकः । दधानः पुंस्फहमेति, बिरुदं शाहिनाऽर्पितम् ॥३॥ (अनु०) तेन वाचकचन्द्रेण, सिद्धिचन्द्रेण सर्वदा । बुद्धिवृद्ध्यै वितन्द्रेण, बालानामल्पमेधसाम् ॥ ४ ॥ (अनु०) शश्चत् सप्तस्मरणानां, वृत्तिरेपा विधीयते । तत्र तावनमस्कार, एव व्याख्यायते मया ॥५॥ (अनु०) -त्रिभिर्विशेषकम् ..मग इति प्रसिबिरधना। २ 'खरफहमिति' इति प्रतिभाति । Page #157 -------------------------------------------------------------------------- ________________ सप्त स्मरणानि । श्रीसर्वज्ञाय नमः । नमो अरिहंताणं ॥१॥ [नमोऽर्हद्भ्यः ] नमो अरिहंताणमिति । नमो-नमस्कारः । केभ्यः ? 'अर्हद्भ्यः शक्रादिकृतां पूजा सिद्धि५ गति चाहन्तस्तेभ्यः । उक्तं च ( आवश्यकनियुक्तौ नमस्कारनियुक्तौ ४०६तमे पत्राङ्के) "अरिहंति वंदणनमं-सैंणाई अरिहंति पूया[इसकारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वुचंति ॥१॥"-(आर्या) श्रीहर्षकीर्तिसूरिकृता व्याख्या श्रीगुरुभ्यो नमः । ऐं नमः । प्रणिपत्य जिनं वक्ष्ये, सप्तस्मरणेषु विवरणं किश्चित् । यसान्मन्दमतीना-मपि भवति सुखेन तद्बोधः॥१॥-(आर्या) यतः पर्वदिनेषु सकलश्रेयोऽर्थ क्षुद्रोपद्रवादिदोषनिवारणार्थ च कारणादौ सुखशान्त्यर्थ च सप्त मिलिता(नि) एव सर्यन्ते-गुण्यन्त इति सप्त स्मरणान्युच्यन्ते । तेष्वादौ चतुर्दशपूर्वाणामादिभूतं अनाद्यनन्तं च पञ्चपरमेष्ठिनमस्काररूपं प्रथमसरणमादौ व्याख्यायते-'नमो अरिहंताणं' १५ इत्यादि । अत्र पाठत्रयम्-अरहंताणं, अरिहंताणं, अरुहंताणं । तत्र अर्हन्ति सुरेन्द्रादिकृतां पूजां इत्यर्हन्तः तेभ्योऽहयः, अरीन्-रागद्वेषादीन् मन्तीति अरिहन्तारः तेभ्योऽरिहन्तृभ्यः, न रोहन्ति-नोत्पद्यन्ते दग्धकर्मवीजत्वात्-पुनः संसारे न जायन्ते इत्यरुहन्तः तेभ्योऽरुहद्भ्यो नमोनमस्कारोऽस्तु । प्राकृतत्वात् चतुर्थ्यर्थे षष्ठी ॥१॥ ... भस्याष्टोत्तरशतमिता अर्थाः कृताः श्रीविनयसमुद्रगणिशिष्यपण्डितभीगुणरत्नमुनीश्वरैः । २ 'भरहताणं,' 'भरुहंताणं' इत्यपि पाठी। ३ छाया अर्हन्ति बन्दननमस्यने महन्ति पूजासस्कारम् । सिदिगमनस्य चाहाः महन्तस्तेनोच्यन्ते। भगवतीसूत्रस्य श्रीअभयदेवसूरिसूत्रिते विवरणे (तृतीये पत्रा)तुपाठोऽयम्-"सणाणि भरिइंति २५ पूयसकारं । सिद्धिगमणं च भरहा भरहता तेण वुच्चन्ति ॥" ५ ख-प्रत्यामस्या मूलस्मरणप्रारम्भे 'श्रीअमृतविजयगणिगुरुभ्यो नमः' इस्युलेखः ॥ ( 'भरुहंताणं अरिहंताणं' इति ख-पाठः । • सन्तुल्यतां यदुकं आव० नम० (४०५ तमे पप्राके) "भविहं पिय कम्म भरिभूयं होह सम्बजीवाणं । तं कम्ममरिं हंता, अरिहंता तेण वुचंति ॥१॥" [भष्टविधमपि च कर्म भरिभूतं भवति सर्वजीवानाम् । तेषां कोरीणां हन्तारः अरिहन्तारस्तेनोच्यन्ने ॥] - संयोजनीयोऽयं विशेषो यो बरीवर्ति भगवतीसूत्रस्य श्रीअभयदवसरिकृत विवरणे"भविद्यमानं वा रहा-एकान्तरूपो देशः अन्तव-मध्यं गिरिगुहादीनां सर्ववेदितया समखवाखोमगत Page #158 -------------------------------------------------------------------------- ________________ नवकारस्मरणम् । नमो सिद्धाणं ॥२॥ [नमः सिद्धेभ्यः] सि० व्या०-नमो-नमस्कारः। केभ्यः ? 'सिद्धेभ्यः' सितं-प्रभूतकालेन बद्धं अष्टप्रकारं कर्म शुक्लप्यानाग्निना ध्मातं-भसीकृतं यैस्ते निरुक्तिवशात् सिद्धास्तेभ्यः इति 'बहुव्रीहिः । यदुक्तं ( आव० नम० ४३८तमे पत्राङ्के) "दीहकालरयं जंतु, कम्मं से सिअमट्ठहा (जंतुकम्मं सेसि०)। सि धंतं ति सिद्धस्स, सिद्धत्तमुवजायइ ॥१॥"-( अनु०) ह० व्या०-(नमो० इति । ) तथा नमः सिद्धेभ्यः । 'पिञ् बन्धने (पाणिनीयधातुपाठे १४७८ ) सितं-बद्धं प्रस्तावादष्टविधं कर्म तद् धमिति ध्मातं-शुक्लध्यानामिना दग्धंमसीकृतं यस्ते निरुक्तिवशात् सिद्धाः । यद्वा सिद्धिगतिनामधेयं स्थान प्राप्ताः सिद्धाः। यद्वा सिद्धाः ।। -सुनिष्ठितार्या मोक्षप्राप्त्या अपुनर्भवत्वेन सम्पूर्णाास्तेभ्यः 'सिद्धेभ्यो नमः ॥२॥ नमो आयरियाणं ॥३॥ [नम आचार्येभ्यः] सि० व्या०-नमो-नमस्कारः। केभ्यः ? 'आचार्येभ्यः' स्वयं पञ्चविधाचारवन्तोऽन्येषामपि तत्प्रकाशकत्वात् आचारे साधवः आचार्यास्तेभ्यः इति 'तत्पुरुषः । यथा ( आव० नम० १५ ४४८ तमे पत्राङ्के विशेषावश्यकेऽपि गा० ३१९० ) ___ "पंचविहमायारं, आयरमाणा तहा भासंता । आयारं दंसंता, आयरिआ तेण वुचंति ॥१॥"-(आर्या) "अनुयोगदाचार्यः" इति हैमः ( अभिधानचिन्तामणौ का० १, श्लो० ७८ )॥३॥ प्रच्छन्नत्वस्याभावेन येषां ते भरहोऽन्तरः अतस्तेभ्योऽरहोऽन्तीः , अथवा अविद्यमानो रथः-स्पन्दनः सकलपरिग्रहो-२० पलक्षणभूतोऽन्तश्च-विनाशो जराघुपलक्षणभूतो येषां ते अरथान्ता अतस्तेभ्यः, अथवा 'बरहंताणंति कचिदप्यासकिमगच्छद्भ्यः क्षीणरागत्वात् , अथवा अरहयभ्य:-प्रकृष्टरागादिहेतुभूतमनोशेतरविषयसम्पर्केऽपि वीतरागरवादिकं । स्वं स्वभावमत्यजदुभ्य इत्यर्थः।" १ छायादीर्घकालरजः(पं) यत् तु कर्म तत् शेषितमष्टधा (अथवा दीर्घ रजः जन्तुकर्म तस्यासितमध्धा.)। २५ सितं मातमिति सिद्धस्य सिद्धस्वमुपजायते ॥ "मातं सितं येन पुराणकर्म यो वा गतो निवृतिसौधमूर्ति । ख्यातोऽनुशास्ता परिनिष्ठितार्थो यः सोऽस्तु सिदः कृतमालो मे." २ छाया पञ्चविधमाचारमाचरन्तनाथा प्रभाषमाणाः । बाचारं दर्शयन्त आचार्यास्तेनोच्यन्ते। ४ 'पयासंता' इति पाठः भग०विवरणे। Page #159 -------------------------------------------------------------------------- ________________ सप्त स्मरणानि । __ ह० व्या०-(नमो० इति) तथा नम आचार्येभ्यः । स्वयं ज्ञानादिपञ्चविधाचारवन्तोऽन्येपामपि तत्प्रकाशकत्वाद् आचारे साधव आचार्याः तेभ्यः। योग्यः कुशलो हितश्च साधुरुच्यते॥३॥ नमो उवज्झायाणं ॥४॥ [नम उपाध्यायेभ्यः] ५ सि० व्या०-नमो नमस्कारः । केभ्यः ? 'उपाध्यायेभ्यः' उप एत्य-समीपमागत्य येभ्यः सकाशादधीयन्त इत्युपाध्यायास्तेभ्यः इति 'तत्पुरुषः' । यदुक्तं (आव० नम० ४४८ तमे पत्राङ्के, विशेषावश्यकेऽपि गा० ३१९७) “बोरसंगो जिणक्खा-ओ सज्झाओ कहिओ बुहेहिं । तं उवइसंति जम्हा, उवज्झाया तेण वुचंति ॥१॥"-(आर्या) १. "उपाध्यायस्तु पाठकः" इति हैमः ( अभि० का० १, श्लो० ७८)॥ ४ ॥ ह. व्या०—(नमो० इति) तथा नम उपाध्यायेभ्यः । उप-समीपमागत्य येभ्यः सकाशादधीयत इत्युपाध्यायाः । अथवा उप-समीपे अध्यायो-द्वादशाझ्याः पठनं सूत्रतोऽर्थतश्च येषां ते उपाध्यायाः तेभ्यः उपाध्यायेभ्यो नमः ॥ ४ ॥ भा-मर्यादया चारः-विहार आचारस्तस्मिन् इति भग० विवरणे । १५ - २ विशेपश्चायम् "आ-मर्यादया तद्विषयविनयरूपया चर्यन्ते-सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकातिभिरित्यचार्याः । उक्तंच "सुत्तत्थविक लक्खण-जुत्तो गच्छस्स मेढिभूमो य। गणतत्तिविप्पमुक्को, अत्थं वाएइ आयरिभो ॥१॥ [ सूत्रार्थविद् लक्षणयुक्तो गच्छस्य मेधिभूतश्च । गणतप्तिविप्रमुकः अर्थ वाचयति भाचार्यः ॥] अथवा आ-ईषद् अपरिपूर्णा इत्यर्थः चारा-हेरिका ये ते आचाराः, चारकल्पा इत्यर्थः, युक्तायुक्तविभागनिरूपण निपुणा विनेयाः अतस्तेषु साधवो यथावच्छास्त्रार्थोपदेशकतया इत्याचार्या भतस्तेभ्यः"। प्रतीकोऽयं कस्यचित् कोशस्येति प्रतिभाति । ४ 'हितेषु' इति क-पाठः । २५ '५ छाया द्वादशाङ्गो जिनाख्यातः स्वाध्यायः कथितो खुधैः । तमुपदिशन्ति यस्मात् उपाध्यायास्तेनोच्यन्ते ।। ६ 'स्यार्थश्च' इति क-पाठः । इदमर्थद्वयं तु 'इण् गतौ' (पा०१०४५) 'इङ अध्ययने' (पा० १०१६) इति धातुयुगलमाश्रित्य न्यवेदि ३० श्रीहर्षकीर्तिमूरिभिः । परन्तु अर्थनानात्वं वर्तते श्रीभगवतीविवरणे, तद् यथा-'इक् स्मरणे' (पा०१०४७) इति वचनात् (वा) मर्यते सत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, (यदाह-बार०) अथवा उपाधानमुपाधिःसन्निधिस्तेनोपाधिना उपाधी चा आयो-लाभः श्रुतस्य येषां उपाधीनां वा-विशेषणानां प्रक्रमाच्छोभनानामायोलाभो येभ्यः, अथवा उपाधिरेव-सन्निधिरेव भायम्-इष्टफलं दैवजनितरवेन अयानाम्-इष्टफलानां समूहस्तदेक हेतुत्वाद् थेपाम् , भयवा आधीना-मनःपीडानामायो-लाभः भाध्यायः अधिया वा-नमः कुत्सार्थत्वात् कुबुदीना३५ मायोऽध्यायः, 'ध्यै चिन्तायाम्' (पा०९०८) इत्यस्य धातोः प्रयोगासमा कुस्सार्थत्वादेव चयानं वा अध्याया, अपहत भाध्यायः भध्यायो वा यस्खे उपाध्याया भतस्तेभ्यः।" Page #160 -------------------------------------------------------------------------- ________________ नवकारस्मरणम् । नमो लोए सबसाहूणं ॥ ५ ॥ [ नमो लोके सर्वसाधुभ्यः ] सि० व्या०-- नमो-नमस्कारः । केभ्यः ? 'लोके सर्वसाधुभ्यः' । लोके - मनुष्यलोके सम्यग्ज्ञानादिभिर्मोक्षसाधकाः सर्वसत्त्वेषु समावेति साधवः सर्वे च ते स्थविरकल्पिकादिभेदभिन्नाः साधवश्चेति सर्वसाधवस्तेभ्यः इति 'कर्मधारयः' । यथा "निवाणसाहए जोए, जम्हा साहंति साहुणो । समाय सवभूएस, तम्हा ते सबसाहुणो ।। १ ।।" - ( आर्या ) ह० व्या०- ( नमो० इति ) तथा नमो लोके सर्वसाधुभ्यः । सम्यग्ज्ञान- दर्शन -चारित्रादिभिः साधयन्ति मोक्षमार्गमिति साधवः । लोके - सार्थद्वयद्वीपलक्षणे पञ्चचत्वारिंशलक्षयोजनप्रमाणे मनुष्यलोके सर्वे च ते साधवश्च । यद्वा सार्वस्य - अर्हतः साधवः सार्वसाधवः तेभ्यो १० नमो-नमस्कारोऽस्तु ॥ ५ ॥ एसो पंचनमुक्कारो ॥ ६॥ [ एष पञ्चनमस्कारः ] auraपणासणो ॥ ७ ॥ [ सर्वपापप्रणाशनः ] ५ निर्वाणसाधकाम योगान् यस्मात् साधयन्ति ( ततः ) साधवः । समाश्व सर्वभूतेषु तस्मात् ते सार्वसाधवः ॥ ४ अत्रापि विशेषो दरीदृश्यते भगवतीविवरणे १ 'सार्वसाधुभ्यः' इत्यपि सम्भवति । २ आदिशब्देन सूच्यन्ते जिनकल्पिक प्रतिमाकल्पिक-यथाछन्दकल्पिक- परिहार विशुद्धिकल्पिक - स्थितकल्पिकाऽस्थितकल्पिक - स्थितास्थितकल्पिक - कल्पातीत - प्रत्येकबुद्ध - स्वयंसम्बुद्ध - बुद्धबोधिता भारतादिभेदाः सुषमादुप्पमादिविशेषिता वा । ३ दृश्यते इयं गाथा आव० नम० ४४९ तमे पत्राङ्के भग० विवरणेऽपि, परन्तु तत्र 'सम्ब' स्थाने 'भाव' - २० शब्दः । एतच्छाया यथा ५ १५ “सर्वेभ्यो जीवेभ्यो हिताः सार्वाः, ते च साधवश्व, सार्वस्य वा भर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, १५ सर्वान् वा शुभयोगान् साधयन्ति-कुर्वन्ति, सार्वान् वा अर्हतः साधयन्ति- तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्ननिराकरणादिति सर्वसाधवः सार्वसाधवो वा, अथवा श्रन्येषु श्रवणार्हेषु वाक्येषु, अथवा सव्यानि-दक्षिणानि अनुकूलानि यानि कार्याणि तेषु साधवो निपुणाः श्रव्यसाधवः सव्यसाधवो वा अतस्तेभ्यः ।... एषां च नमनीयता मोक्षमार्ग साहायक करणेनोपकारित्वात्, आह च ( आव० नम० ४४९ तमे पत्राङ्के ) - असहाए सहायत्तं, करेंति मे संजम करितस्स । एएण कारणेणं, नमामिऽहं सन्त्र साहूणं ॥ १ ॥” [ असहाये सहायत्वं कुर्वन्ति मे संयमं कुर्वतः । एतेन कारणेन नमाम्यहं सर्वसाधून् ॥ ] ३० Page #161 -------------------------------------------------------------------------- ________________ सप्त स्मरणानि । मंगलाणं च सवेसि ॥ ८॥ [मङ्गलानां च सर्वेषाम्] पढम हवइ मंगलं ॥९॥ [प्रथमं भवति मङ्गलम् ] ५ सि० व्या०-एष पश्चनमस्कारः । एष-प्रत्यक्षो विधीयमानः पञ्चानामर्हदादीनां नमस्कारः-प्रणामः । स च कीदृशः १ 'सर्वपापप्रणाशनः' सर्वाणि च तानि पापानि च सर्वपापानि इति 'कर्मधारयः' । सर्वपापानां प्रकर्षेण नाशनो-विध्वंसकः सर्वपापप्रणाशनः इति 'तत्पुरुषः । सर्वेषां द्रव्य-भावभेदमिन्नानां मङ्गलानां प्रथममिदमेव मङ्गलम् । “होइ मंगलं" इति पाठस्त्वप्रामाणिकः, सर्वत्र "हवइ मंगलं" इत्येव दर्शनात् । चः समुच्चये । पञ्चसु पदेषु चतुर्थ्यर्थेषु षष्ठी । १. अत्र चाष्टषष्टिरक्षराणि, नव पदानि, अष्टौ च सम्पदो-विश्रामस्थानानि तत्र सप्त एकैकपदा, अन्त्या तु द्विपदा इति नमस्कारार्थः ॥६-९॥ ह० व्या०-( एसो० इति ) एपः-पूर्वोक्तः 'पञ्चनमस्कार' पञ्चानाम्-अर्हत्-सिद्धाऽऽचार्यो-पाध्याय-सर्वसाधूनां नमस्कारः-प्रणामः, सर्वपापप्रणाशनः-(समस्तदुरित)निवारकः। पुनः सर्वेषां मङ्गलानां-मङ्गलकारकवस्तूनां दधि-दूर्वा-ऽक्षत-चन्दन नालिकेर-पूर्णकलश१५ स्वस्तिक दर्पण-भद्रासन-वर्धमान-मत्स्ययुगल-श्रीवत्स-नन्द्यावर्तादीनां मध्ये प्रथम-मुख्यं मङ्गलं मङ्गलकारको भवति । यतोऽसिन् पठिते जप्ते स्मृते च सर्वाण्यपि मङ्गलानि भवन्तीत्यर्थः॥ ६-९॥ इदं च सरणमनादिभूतं, यतो जिनानां चतुर्विंशतयोऽनन्ताः सञ्जाताः अनन्ताश्च भविप्यन्ति तदा सदैवेदमेव, अतोऽनाद्यनन्तमित्यर्थः ।।. २. अत्र पदानि नव (९), सम्पदः अष्टौ (८), अक्षराणि अष्टपष्टिः (६८), लघ्वक्षराणि एकपटिः (६१), गुर्वक्षराणि सप्त (७) ज्ञेयानि ॥ नागपुरीयतपोगण-राजः श्रीहर्षकीर्तिसरिवरः।। प्रथमसरणे व्याख्यां, सञपाद् विहितवान् सम्यक् ॥ १॥ ॥ इति प्रथमसरणव्याख्या ॥ २५ .०वायमेव ' इति ख-पाठः। २ इतं पद्यं स्व-प्रत्यां न वर्तते। ३ स्मरणस्य टीका इति ख-पाठा। Page #162 -------------------------------------------------------------------------- ________________ प्रतिबोधं विदधानाः (श्रीसम्भूतिविजयनामानो भद्रबाहुवराहाभिधानौ ब्राह्मणत- ५ नौ भ्रातरौ प्रत्यबुबुधन् । ) स च (तत्र ) वराहमिहिरस्तथाविधज्ञानावरणीयकर्मक्षयोपशमाभावात् किञ्चिदेव चन्द्रप्रज्ञत्यादिकं शास्त्रमधीतवान् । भद्रबाहुखामी तु ( चतुर्दश पूर्वाष्यधीतवान् । स च सम्भूतिविजयस्तद् ) भ्रातुः पाठादिखरूपं तदुदकं च सातिशयज्ञानेन ज्ञात्वा "बूढो गणहरसद्दो, गोयममाईहिं धीरपुरिसेहिं । जो तं वइ अपत्ते, जाणतो सो महापावो ॥ १ ॥ " - (आर्या ) इति प्रवचनरहस्यं स्मरन् न किञ्चिदाचार्यादिपदं ददौ । ततस्तस्य महान् प्रद्वेषो जज्ञे । अशुभकर्मोदयवशात् मिथ्यात्वं चासौ गतः । व्रतं रजोहरणादिलिङ्गं च विमुच्य पुनर्ब्राह्मण एवाभवत् । ततः पूर्वाधीत चन्द्र प्रज्ञत्यादिसिद्धान्तार्थान् स्मृत्वा स्मृत्वा सपादलक्षप्रमाणं ज्योतिःशास्त्रं निर्मितवान् । तच्च नाम्ना वराहमिहिरमिति प्रसिद्धिसौध शिखरमध्यास्त । सिद्धान्तादुद्धृतत्वात् प्रायः सत्यार्थं च तत् जातम् । ततो विप्रादिभिर्लोकैः पठ्यमानं परम्परयाऽद्यापि तद् वर्तते । १५ " वराहमिहिरः किल द्वादशाब्दानि गच्छे स्थितः । तत्र चाङ्गोपाङ्गपूर्वादिसिद्धान्तमधीयानेन सर्वं ज्योतिःशास्त्रं अन्यदपि विद्यामत्रयोगचूर्णादि ज्ञातं तद्विप्रतारितमिथ्यादृष्टिब्राह्मणैश्च तदन्यथोच्यते स्म यदुत - भो लोकाः ! अयं वराहमिहिरः सकलशास्त्रपारावारपारीणश्चतुर्दशविद्यानिधानः वशीकरणपरपुरप्रवेशाकाशगामिन्यादिविद्यास्थानर्भूमिरभूत् । ततोऽनेन गगनमण्डले द्वादश वर्षाणि ज्योतिश्चक्रेण सहविद्याबलात् सञ्चरता सूर्यादिग्रहाणां अश्विन्यादिनक्षत्राणां २० च सञ्चारः सम्यग् निरीक्षितः । ततस्तं चेतसि सम्यग् धृत्वा मर्त्यलोकमवतीर्य लोकोपकारायेदं ज्योतिष्कं निर्मितमिति । सा च प्रसिद्धिः सम्प्रत्यपि मुग्धैस्तच्छास्त्राध्ययनादिना सञ्जाततत्कथित तथा प्रत्ययैस्तस्य माहात्म्यमारोपयद्भिस्तथैव विस्तार्यते, न पुनरिदमवगम्यते तैर्यदेतत् भगवतो जैनागमस्यैव माहात्म्यं यदिदं किमपि तच्छास्त्रोक्तं सत्यत्वेन संवदति, तदन्तर्गतत्वात् । तदर्थानां नहि सूक्तं किञ्चिदाईतमुपदेशमन्तरेण जगत्यस्ति । यदाह श्रीसिद्धसेनदिवाकरः१ धनुश्रिमान्तर्गतः पाठः क-प्रतौ पार्श्वे लिखितोऽस्ति, ख- प्रतौ तदभावः । .२ 'चन्द्रमराठि - सूर्यप्रज्ञादिकं' इति ख- पाठः । ३ ' स्वभ्रातुः' इति ख- पाठः । -१५ ४ छाया- 2 उवसग्गहरस्मरणम् । श्रीभद्रबाहुस्वामिविरचितं ॥ द्वितीयं 'उवसग्गहर' स्मरणम् ॥ ( व्याख्यात्रितयसमलङ्कृतम् ) श्रीजिनप्रभसूरिकृताऽर्थकल्पलतानामवृत्तिः ब्यूटो गणधरशब्दो गौतमादिभिर्धीरपुरुषैः । 2 यस्तं स्थापयति अपात्रे जानानः स महापापः ॥ १ ॥ ५ ' स्थानभूमिः' इति ख- पाठः । ६ 'निधानमभूत्' इति ख- पाठा । १० Page #163 -------------------------------------------------------------------------- ________________ सप्त स्मरणानि । "सुनिश्रितं नः परतत्रयुक्तिषु, स्फुरन्ति याः काथन सूक्तसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिनवाक्यविपुषः ॥ १ ॥ " ( वंशस्यम् ) ( प्रथमद्वात्रिंशिकायां श्लो० ३० ) एवं स तेन दम्मेन मिथ्यादृष्टीन् विप्रतारयंस्तेभ्यश्च दानादिपूजां लममानस्तया चालीकप्रसिद्ध्या ५ मनसि प्रमोदं दधानः कालमनैषीत् ॥ अन्यदा श्रीमानाचार्यसम्मूतविजयसूरिः स्वगच्छं भद्रबाहुखामिनि नियोन्य कृतानशनः समाधिना दिवममात् । तदनन्तरं श्रीभद्रबाहुरप्रतिवद्धविहारेण विहरन् मव्यान् प्राबुध्यत । एतसिंव समये स वराहमिहिरः साधुश्राद्धप्रद्वेषेण मिथ्यात्वोर्देयेन वान्तसम्यग्दर्शनोऽज्ञानतपोऽनुष्ठानेन कालं कृत्वा व्यन्तरेषूत्पन्नः । ततः पर्याप्तः सन् विभङ्गामोगाद् विज्ञातात्मीयपूर्वभव१. खरूपः पुनर्मिथ्यात्वोदयादईत्प्रवचने प्रद्वेषोत्कर्षमुद्वहन् अचिन्तयत् स सुराधमः - कथमहं पूर्ववैरनिर्यातनमेतेषां आईतानां साध्वादीनां करिष्ये १ ततोऽसौ सर्प इन छिद्रान्वेषणपरोऽपि सदनुष्ठाननिष्टतया सतताप्रमत्तत्वात् साधूनां छिद्रममव्यः सम्यक्त्वमिव न लेमे । ततो विलक्षः साधून मुक्त्वा श्रावकेष्त्रविरततया प्रमादबहुलेषु विशिष्टधर्मानुष्ठानविकलेषु च हलमवाप्य उपसर्गानं कर्तुमारेमे स दुष्टवानमन्तरः । ततः श्राद्धैरपि विशिष्टवृद्धिमिराकर्णित श्रुतसारैर्ज्ञातं यद् व्यन्तरकृत१५ मेतत् नासाभिरुपशमं नेतुं पार्यते । ततोऽत्रार्थे भद्रबाहुखाम्येव प्रतिकर्तुं अलं इति सर्वैरालोच्य तत्स्वरूपगर्भा विज्ञप्तिका गुरुभ्यः प्रेषिता । तामवधार्य श्रीभद्रयाखामिना अतिशयज्ञानज्ञातेतत्पारम्पर्येण महाप्रभावमुपसर्गहरस्तोत्रं नूतनं कृत्वा सर्वत्र प्रेषितम् । ततः सर्वोऽपि सङ्घस्तत्पाठस्मृतिप्रमावान्निरुपद्रवो धर्मपरायणो वभूवेति सप्रभावमिदं सर्वदा स्मरणीयं पठनीयं ऐहलौकिकपारलौकिकसुखामिलापिभिरिति । अत एव I २० “स्तोत्रस्यास्याष्टातिरिक्तं शतं यः कुर्याआपं पञ्चगाथात्मकस्य । , तस्यावश्यं मञ्जु नश्यन्ति विभा-स्तं निःशेषा वृष्वते सिद्धयथ ॥ १ ॥ " - (शालिनी) अत्र हि प्रथमगाथायां जगद्वालभ्यकरं सौभाग्यकरं भूतादिनिग्रहकरं क्षुद्रोपद्रवद्रावणमिति याष्टकं पार्श्वययविम्यादिमत्रार्थं न्यस्ताः । द्वितीयगाथायां च प्रथमं विपधरस्फुलिङ्गमत्रं यं बृहच्चक्राभिधानं सर्वसम्मत्करम्, द्वितीयं तु चिन्तामणिचक्रं चिन्तातीतार्थसाधकं नृप-वहि- तस्कर२५ शाकिनीप्रभृतिक्षुद्रोपद्रवनिवारणं न्यस्तम् । तृतीयगाथायां तु वन्ध्याशन्दापहं मृतवत्सानामपत्यजीवनं काकवन्ध्यादोपत्रमोपि बालानां ग्रहपीडानिवारणं दुर्भगानां सौभाग्यावहं अपस्माराद्यपहारि चेति यत्राणि सूचितानि । चतुर्थगाथायां पुनः सर्वार्थसाधकं देवकुलं कल्पद्रुमयत्रन्यासत्र प्रणीतः । '१ 'मानार्य' इति पाठः । २ 'भगवति श्रीभद्रबाहो' इति पाठः । ३ 'प्राषद (1)' इति पाठः । ● 'दबाद्' इति सन्पाठः । ५ 'स्वरोपशमनं शाकिनीनाशनं विषमविपरिग्रहकरं' इत्यकिः पाठः । ६ एतनि ३. शासुना द्रष्टव्या श्रीपूर्णचन्द्राचार्यरचिता उपसर्गहरस्तोत्रवृतिः । ● 'करं' इति पाठः । ८ 'क्षेमं सुख" इत ९ 'सूत्रिता' इति पाठ: 1: Page #164 -------------------------------------------------------------------------- ________________ उवसग्गहरस्मरणम् । पञ्चमगाथायां च पुनः शान्तिक पौष्टिकं च भूत-प्रेत-शाकिनी-डाकिनी-ज्वरादिनाशनं सर्वरक्षा विनिक्षिप्ता, मत्राश्चात्र दृष्ट(ष्टि)कोत्थापन-पुरक्षोभ-क्षेमकरणादिकार्यसाधकाः । अनेनैव च स्तोत्रेण निःसप्तकृत्वोऽष्टशतं वाऽभिमत्रितेन धूपबलिकमादिना कृतोपवासः पुरुषस्तत्तदनर्थसाथै व्यर्थयति । किश्च सर्वस्वं विद्यानां मत्राणामुपादानकारणं पञ्चपरमेष्ठिमहामत्रो नमस्कारः, तत्र च नमस्करणीयाः पञ्च परमेष्ठिनः, तेषां च नामाक्षरपद्धतिरेतत्स्तवसम्बन्धिनो गाथापञ्चकस्यादौ चिद्रूपनि- ५ रूपणीया दृश्यते । तथाहि-प्रथमगाथाया आदित 'उव' इत्यक्षरद्वयेन प्राकृतगाथाजुषा उपाध्यायाः सगृह्यन्ते, पदैकदेशे पदसमुदायोपचारात् । द्वितीयगाथादौ तु 'विस' इति वर्णद्वयेन साधवः, विपमिव विपं सर्वरसात्मकत्वोपदर्शनात् । विपभूताः साधवो हि तत्तत्पात्रापेक्षया तत्तद्रसस्पृशो भवन्ति । उक्तं च भगवता प्रस्तुतस्तोत्रकारेणैव दशवैकालिकनियुक्तौ (८३तमे पत्राङ्के) श्रमणानां विपसमानत्वम् । तृतीयगाथायास्तु धुरि 'चिट्ठ' इत्यवयवेनाचार्याः, भगवत्सु तीर्थ-१० करेपु मोक्षं गतेष्वपि यावत्तीयं पश्चादपि तिष्ठन्तीति, प्राकृतलक्षणात् चिट्ठादेशः, "कइया वि जिणवरिंदा" इति न्यायात् । अथवा सच्चिद्-द्रव्यगुणपर्यवेरनुयोगस्वरूपा तत्र तिष्ठन्तीति चित्स्थाःसूरयः । चतुर्थगाथायास्त्वादी 'तुह' इत्यक्षरद्वयेन अर्हन्तः । 'तुह(ह) दुह(ह) अर्दने' (सिद्ध० धा०)। तोहन्ति-अर्दयन्ति घातिकर्मचतुष्टयं सकलजगत्संशयराशिं वेति तुहः । विहरमाणा उत्पन्न केवलज्ञाना अर्हन्तः । नौम्युपान्त्यलक्षणे के तुह इति रूपम् । पश्चमगाथायाः पुन-१५ रादौ 'इय'त्ति वर्णयुग्मेन सिद्धाः । 'इण गती' (पा० धा० १०४५) । इता-गता अपुनरावृत्तये मोक्षमिति इताः-सिद्धाः । न चान्यार्थप्रयुक्तानामेपां पदानां परमेष्ठिमत्ररूपत्वमयुक्तमिति वाच्यम् "ऐन्द्रस्येव शरासनस्य दधती" इत्यादी बीजपदानां अन्यार्थप्रयुक्तत्वेऽपि मत्ररूपतानतिक्रमात् तत्प्रभावोपलब्धेश्च । , उल्लेखश्चायम् "विसतिणिसवायवंजुलकणियारुप्पलसमेण समणेणं । भमरुंदुरुनहकुकुडअद्दागसमेण होयध्वं ॥" [विप-तिनिश-वात-वक्षुल-कर्णिकार-उत्पलसमेन श्रमणेन । भ्रमर-उन्दुरु-नट-कुर्कट-आदर्शसमेन भवितव्यम् ॥1 २ इदं तु प्रथम चरणं उपदेशमालायाः द्वादशगाथायाः, सम्पूर्णा गाथा तच्छाया तु यथा "कइया वि, जिणवरिंदा, पत्ता अयरामरं पहं दाडं। भायरिएहि पवयणं, धारिजइ संपयं सयलं ॥" कदापि जिनवरेन्द्राः प्राप्ता अजरामरं पथं दवा। भाचार्यैः प्रवचनं धार्यते साम्प्रतं सकलम् ॥ ३ 'माम्पुपान्त्यमीकृशः कः' इति सिद्धहैमे (५-१-५४)। 'रूपं प्रयुक्त' इति पाठा, 'रूपे ३० प्रयुक्तः' इति तु ग-पाठः । ५ भारतीमधुस्लोग्ने समग्रं पथं बाधं यथा "ऐन्द्रस्यैव शरासनस्य दधती मध्येकलाट प्रभा शौहीं कास्तिमनुष्णगोरिव शिरमातम्वती सर्वतः । स.स.२ Page #165 -------------------------------------------------------------------------- ________________ सप्त स्मरणानि । अत्र च यद्यप्यर्हतामेव मुख्यत्वं युक्तं, तथाप्येतत् स्तोत्रं श्रुतकेचलिरचितत्वात् सूत्रम् । तच्चोंपाध्यायैरेवाध्यापनीयमित्यादावुपाध्याया उक्ताः । उपाध्यायपाधै चाधीयमानस्य साधव एव साहायकं कुर्वते, तेषां साहायककरण एवाधिकारात् "मंग्गे अविप्पणासो आयारे विणयया सहा यत्" (आव०नि० गा० ३१३, विशेषा० गा० २९४४ ) ति यथासङ्ख्यमर्हत्सिद्धाचार्यो५ पाध्यायसाधूनामावश्यकेऽधिकार उक्तः । एवं चाधीतस्य तस्यार्थमाचार्या एव कथयन्तीति तदनन्तरं तेषामुपन्यासः । आचार्योपदेशेन चाहन्तो ज्ञायन्ते । अर्हश्चतत्स्तोत्रवर्णनीयो भगवान पार्श्व इत्याचार्यानन्तरमहन्तोऽभिहिताः । एतत्स्तोत्रपाठाच भावतः परम्परया सिद्धत्वमित्यर्हदनन्तरं सकलसदनुष्ठानफलभूताः सिद्धाः प्रतिपादिता इति पञ्चपरमेष्ठिगर्भितत्वात् श्रुतके वलिप्रणीतत्वाच्च नास्य स्तवराजस्य प्रभावमहिमा दुःश्रद्धानः । साक्षाक्रियन्ते चास्य विवेकि१.मिरनेके प्रभावातिशया इति । अस्य च पञ्चाशीत्यधिकशताक्षरमानस्येयमाद्यगाथा उवसग्गहरंपासं, पासं वंदामि कम्मघणमुकं । विसहरविसनिन्नासं, मंगलकल्लाणआवासं ॥१॥ [उपसर्गहरपार्श्व पार्श्व वन्दे कॅर्मघनमुक्तम् । विषधरविषनिर्नाशं मङ्गलकल्याणावासम् ॥ ] १५ उपसर्गाः-दिव्य-मानुप-तैरश्चा-ऽऽत्मसंवेदनीयभेदाच्चतुर्विधाः उपप्लवास्तान् हरति-अपनयती त्युपसर्गहरः, शासनाधिष्ठायकत्वात् प्रत्यूहनिवारयिता । तथाभूतः पाचः-पाचयक्षो यस्य स तथा तम् । अनुस्वारस्त्वार्षत्वादलाक्षणिकः, यथा-"'देवनागसुवण्ण" इति । उपसर्गहरा वा धरणे एषाऽसौ त्रिपुरा हृदि द्युतिरिवोजांशोः सदाहस्थिता छिन्द्याद्वः सहसा पदस्त्रिभिरघं ज्योतिर्मयी पासायी ॥१॥" 'सूचनात्' इति क-पाठः, 'रचितात्' इति ग-पाठः । २ एतदुत्तरार्धच्छाये यथा "पंचविहनमोकारं करेमि एएहिं हेऊहिं" मार्गोऽविप्रणाश आचारो विनयता सहायस्वम् । पञ्चविधनमस्कारं करोम्येते तुभिः॥ ५ ३'पास' इति पृथक् पदं वा। ४ उपसर्गहरं पश्यं (अथवा प्राशं पाशं पा)' इत्यपि सम्भवति । ५ धनकर्ममुकं इत्यपि सम्भवति । ६ 'विषगृहवृष०' 'विषगृह विष०' वा इस्यपि सम्भवति । 'मशः श' (सिद्ध०. २-३-७३) इति सूत्रेण 'निर्णाशं' स्यात्, परन्तु व्याख्यात्रितये श्रीपूर्णचन्द्रीयवृत्तावपि प्रयोगोऽयं दरीरश्यते । 4 'कल्याणभावासम्' इत्यपि सम्भवति । ९ पुक्सरवरेत्यपरनान्नः श्रुतस्तवस्य चतुर्थपद्यस्य द्वितीयपादगतोऽयं पाठः । सम्पूर्ण पचं पथा "सिद्ध! भो पयो णमो जिणमए नंदी सया संजमे देवनागसुलणकिघरगणस्सम्भूअभावचिए। लोगो जस्य पहिलो जगमिणं तेलुकमच्चासुरं धम्मो बाट सासो विजयभो धम्मुत्तरं बर"-शार्दूलविक्रीडितम् • छिन्या. Page #166 -------------------------------------------------------------------------- ________________ उवसग्गहरस्मरणम् ! ११ न्द्रादयः पार्श्वे - समीपे सततसन्निहितत्वात् यस्य तम् । अथवा उपसर्गहर मिति पृथक् । पश्यति कालत्रयवर्ति वस्तुजातमिति पश्यस्तम् । प्राकृतव्युत्पच्या 'पास' इति । यद्वा प्रगता आशा यस्य स प्राशस्तं निराकाङ्क्षमित्यर्थः । पार्श्व - श्री पार्श्वनाथं 'वेन्दामि' ति वन्दे - नमस्करोमि । तथा कर्माणि ज्ञानावरणीयाद्यष्ट तानि जीवचन्द्रमसो ज्ञानांशुमण्डलच्छादकत्वाद् घना इवजलदा इव कर्मघनाः, “स्थितः शीतांशुवजीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥ १ ॥ ” इति वचनात्, तेभ्यो मुक्तः - पृथग्भूतः कर्मघनमुक्तस्तम् । अत्र चन्द्ररूपकाभावेऽपि विशेषणान्यथानुपपच्या तदवगमः । अथवा और्यत्वात् घनशब्दस्य विशेषणत्वेऽपि परनिपातात् घनानि - दीर्घकालस्थितिकानि बहुप्रदेशाग्राणि वा यानि कर्माणि घातिकर्माणि तैर्मुक्तं- त्यक्तम्, उत्पन्न केवलज्ञान - १० मित्यर्थः । तथा विषधरा- अनन्त वासुकि- तक्षक-कर्कोट-पद्म- महापद्म-शङ्खपाल - कुलिक-जय-विजयलक्षणदशनागकुलजाता नागास्तेषां विषं पार्थिवादिभेदभिन्नं निर्नाशयति - निश्चितमपहरति (इति) विषधर विषनिर्नाशस्तम् । भगवन्नामÎतमन्त्रजापाद् हि सर्वविषधरविषनाशः सुप्रतीत एव मात्रिकाणाम् । यदिवा विषं-पानीयं प्रस्तावात् 'मैणिकर्णिका'जलं तत्र 'घरं' ति गृहं निवासो यस्यासौ पिगृहः । प्रायेण 'वाराणसी 'वासिनः पञ्चाग्नितपश्चरणं 'मणिकर्णिका' तीर एव कुर्वाणा दृश्यन्ते । १५ स च सामर्थ्यात् कम मुनिस्तस्य वृपं धर्मं लौकिकैर्धर्मतया गृह्यमाणत्वात् पञ्चाग्नितपश्चर्यालक्षणं निर्नाशयति यः, प्रज्वलज्वलनदह्यमान काष्ठ कोटरान्त म्रियमाण र्सर्पप्रदर्शनेन मातुर्लोकानां च मनसि तत्तपसोऽधर्मरूपत्वनिश्चायनात् तम् । अनेन गृहस्थावस्थावदातसूचितं परमकारुणिकत्वं च कुमार्गनिर्लोठनात् । अथवा विषं-मिथ्यात्वकपायादिलक्षणं भावविषं धारयन्तीति विषधरा विषगृहा वा मिथ्यात्वकषायादिदोषदूषितात्मानः प्राणिनः तेषां विषं यथोक्तरूपमेव निर्नाश- २० यति-निजवचनामृतरसोपयोजनेनापगमयतीति विपधरविषनिर्नाशो विपगृहविषनिर्नाशो वा तम्, तथा मङ्गलानि च विपदुपशमरूपाणि, कल्याणानि च सम्पदुत्कर्षरूपाणि तेषां उभयेषामप्यावास इवावासः - क्रीडास्थानं तम् । अत एव हि भगवन्तं मङ्गलकल्याणावासं पर्युपासीना अपि तदुभयभाजनं भवेयुः । [ सिद्धाः ! भो प्रयतो नमो जिनमताय नन्दिः सदा संयमे देवनागसुवर्णकिन्नरगणसद् भूतभावार्चिताय । लोको यत्र प्रतिष्ठितो जगदिदं त्रैलोक्य मर्त्या सुरं धर्मों वर्धतां शाश्वतो विजयतां धर्मोत्तरं वर्धताम् ॥ ] १ 'बन्दामि इति' इति क-पाठः । २ 'आर्थत्वेन' इति ख- पाठः । ३ 'भूत' इति पाठः । ४ श्रीम. णिकर्णिकाष्टकं मुद्रितं वृहत्स्तोत्रमुक्ताहारे ( पृ० ३१९ ) । ५ ' तपश्चर्यादि-' इति पाठः । इति ख- पाठः, 'सर्पेऽपि हर्श०' इति गन्पाठः । ६ 'सर्वोपदर्श' ५ २५ ३० Page #167 -------------------------------------------------------------------------- ________________ सप्त स्मरणानि । "नात्यद्भुतं भुवनभूषणभृत ! नाथ ! भूतैर्गुणैर्भुवि भवन्तममिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥१॥" -(भक्तामरस्तोत्रे श्लो० १०) इति ( श्रीमानतुङ्गमूरि )वचनात् तमेवंभृतं पार्श्व वन्दे इति सम्बन्धः ।। ५ अयं च स्तवोऽनुज्झितश्रीपार्श्वनाथसनिधिमिः पार्श्वयक्ष-श्रीपद्मावती-धरणेन्द्ररधिष्ठित इति तत्पक्षोऽपि व्याख्यायते तत्र पासं इति पार्श्व-पार्श्वयक्षम् । किंविशिष्टम् ? उपसर्गहरं-सम्यग्दृशा विनोपशमकर्तारम् । तथा पाशोऽस्या वामहस्तेऽस्तीत्यभ्रादित्वात् मत्वर्थीये प्रत्यये पाशा-पद्मावती तां च । किंविशिष्टाम् ? 'काम्यघनमुत्कां' काम्यः-कमनीयो धनः-शरीरं तेन करणभूतेन १. मुद्-हर्षोऽथोत् द्रष्टणां यस्याः सकाशात् सा काम्यघनमुत्का, दिव्यवपुषा प्रमोदजनिकेत्यर्थः ताम् । विषधरो-जलधरोऽर्थात् कमठासुरसम्बन्धी तस्य विषं-जलं निर्नाशयति निजफणातपत्रधारणेन वारयति (इति) विषधरविपनि शो-धरणेन्द्रस्तं च । मङ्गलकल्याणावासमिति प्राग्वत् अथवा मङ्गलकैल्पश्रेयस्करणप्रगुणा या आज्ञा-भगवच्छासनं तया आ-समन्तात् वासना वासो वा भावना यस्य तं, कल्याणकारिभगवदाज्ञाभावितमनसमित्यर्थः । एतांस्त्रीनपि वन्दे-अभि१५ ष्टौमि । 'वदुङ् अभिवादनस्तुत्योः' (सिद्ध० धा० ) इति वचनात् । इति गाथार्थः ॥१॥ श्रीसिद्धिचन्द्रगणिकृता व्याख्या अथ पञ्चाशीत्यधिकशताक्षरमानस्य उपसर्गहरस्तोत्रस्येय(मा)माद्यां गाथामाह-उवसग्गेति । अहं श्रीपार्श्व-पार्श्वनाथं वन्दामि-अभिष्टोमि 'वदुङ् अभिवादनस्तुत्योः' (सिद्ध० धा०) इति धातोः रूपम् । कथम्भूतं पार्श्वम् ? 'उपसर्गहरम्' उपसर्गान्-देवादिकृतान् उपद्रवान् हरति २०-निराकरोतीति उपसर्गहरस्तथाभूतः पार्श्वनामा यक्षो यस्य स तथा तं उपसर्गहरपार्श्व इति 'बहुव्रीहिः' । प्राकृतत्वादनुस्वारः । “उपसर्ग उपद्रवः" इति हैमः (अभि० का० २, श्लो० ३९)। अथवा उपसर्गहरमिति पृथगेव पार्श्वविशेषणम् । पुनः कथम्भूतम् ? 'पाशम्' पश्यति कालत्रयवर्तिवस्तुजातमिति पाशः तं पाशम् 'तत्पुरुषः । प्राकृतत्वाद् दन्त्यसकारनिर्देशः । यदिवा प्रगता आशा-आकाङ्क्षा यस्य स प्राशस्तं प्राशं इति 'बहुव्रीहिः' । निराकासमित्यर्थः । पुनः कथम्भू२५ तम् ? 'कर्मघनमुक्तम्' कर्माणि-ज्ञानावरणीयादीन्येव जीवचन्द्रमसो ज्ञानांशुमण्डलाच्छादकत्वात् . घना इव घनाः कर्मघना इति 'कर्मधारयः', ततः कर्मघनेभ्यः-कर्ममेषेभ्यो मुक्तः कर्मघनमुक्तः तं कर्मधनमुक्तं इति 'तत्पुरुषः । १ 'भूषण! भूतनाय!' इत्यपि सम्भवति । २ एतरपक्षे छाया अथा उपसर्गहरं पार्थ पासा पम्दे काम्यघनमुस्काम् । विष० माया मालकापाशावासबा॥ . मोब.' इति स-पाठः। Page #168 -------------------------------------------------------------------------- ________________ १३ 'उवसग्गहरस्मरणम् । "धनः सान्द्रे दृढे दाय विस्तारे मुद्गरेऽम्बुदे । सङ्के मुस्ते ( धनं मध्यनृत्तवाद्यप्रकारयोः )" ॥ इति हैमानेकार्थः (का० २, श्लो० २७४) । अथवा आर्षत्वाद् घनशब्दस्य परनिपाते धनानिदीर्घकालस्थितिकानि प्रदेशाग्राणि वा यानि कर्माणि तेभ्यो मुक्तं-पृथग्भूतमिति व्याख्येयम् । पुनः कथम्भूतम् ? 'विपधरविपनि शं' विषधराः-अनन्त-वासुकि-तक्षक-कर्कट-पद्म-महापा-५ शङ्खपाल-कुलिक जय-विजयलक्षणा दश तेषां विषं पार्थिवादिभेदभिन्नं नितरां नाशयतीति विपधरविपनि शः तं विषधरविपनि शं इति 'तत्पुरुषः' । यदिवा विष-पानीयं प्रस्तावात् 'मणिकर्णिका'नदीजलं तत्र गृह-निवासो यस्य स विपगृहः, स च अर्थात् कमठमुनिस्तस्य पं-धर्म पञ्चाग्नितपश्चर्यारूपं निर्नाशयतीति विपगृहपनि शः तं विषगृहवृषनिर्नाशं इति 'बहुव्रीहिगर्भितः 'तत्पुरुषः' । अनेन गृहस्थावस्थावदातः सूचितः । अथवा विपं-मिथ्यात्वकपायादिकं १० धारयन्ति ते विषधराः प्राणिनस्तेषां विषं-मिथ्यात्वादिरूपं निर्नाशयतीति स तथोक्तस्तं विषधरविषनि शमिति व्याख्येयम् । पुनः कथम्भूतम् ? 'मङ्गलकल्याणआवासं' मङ्गलानि चश्रेयांसि, कल्याणानि च-सम्पदुत्कर्षरूपाणि, तेपामुभयेपामप्यावास इव आवासो मङ्गलकल्याणआवासस्तं मङ्गलकल्याणआवासं, मङ्गलकल्याणानां क्रीडामन्दिरमित्यर्थः॥१॥ ___ श्रीहर्षकीर्तिमूरिकृता व्याख्या अथ द्वितीयं सरणं व्याख्यायते-इदं च स्मरणं वराहमिहिरकृतश्रीसङ्घोपद्रवनिवारणार्थ श्रीभद्रबाहुस्वामिभिः कृतम् , यथा-श्रीभद्रबाहुस्वामिनो भ्राता वराहमिहिरः । स च दीक्षां गृहीत्वा चन्द्रप्रज्ञप्तिसूर्गप्रज्ञत्यादिकं शास्त्रमधीतवान् । यदा च तस्याचार्यपदं न दत्तं तदा तस्य महान् प्रद्वेषो जातः, रजोहरणादिलिङ्गं विमुच्य पुनर्ब्राह्मण एवाभवत् । ततः पूर्वाधीत- \ चन्द्रप्रज्ञस्यादिसिद्धान्तार्थान् स्मृत्वा सपादलक्षप्रमाणं ज्योतिःशास्त्रं निर्मितवान् । सिद्धान्तादु-२० द्धृतत्वात् सत्यं च जातम् । वराहमिहिरेण तु द्वादशान्दानि गच्छे स्थितवता पूर्वादिसिद्धान्तमधीयानेन सर्व ज्योति शास्त्रमन्यदपि विद्यामन्त्रयोगचूर्णादि ज्ञातम् । तद्विप्रतारितब्राह्मणैरेवमुच्यते-यदयं वराहमिहिरः सकलशास्त्रपारगामी परपुरप्रवेशाकाशगामिन्यादिविद्यास्थानमभूत् । ततोऽनेन गगनमण्डले द्वादश वर्षाणि ज्योतिश्चक्रेण सह सञ्चरता सूर्यादिग्रहाणाम् अश्वि , “संहितैकपदे नित्या, नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु, सा विवक्षामपेक्षते ॥१॥" इस्यनेन सन्धिप्रसझे सत्यपि 'श्रीआदिनाथं नतनाकिनाथ' (भीसुमतिकल्लोलमुनिविरचिते ऋषभस्तवने), 'भीन्द्रभूतिं वसुभूतिपुत्रं ( श्रीदेवानन्दसूरिकृते गौतमाष्टके), 'वरधर्मकीर्तिऋषभो (श्रीधर्मघोपरिप्रणीते अष्टापदकल्पे), 'शरऋतूदर्चि' (श्रीजिनप्रभसूरि विरचिताया अर्थकरुपळतायाः प्रशस्तौ पृ. २३) इत्यादिवत् भन्नापि सन्धेरभावः । अपरशायमेव प्रयोगो वतेते श्रीपूर्णचन्द्राचार्यविरचितायां उपसर्गहरस्तोत्रलघुवृत्तौ । ३. २ 'सर्वोपद्रवः' इति क-पाठः। ३ 'स्वैव' इति ख-पाठः। १ हणमश्वि०' इति खपाठः। Page #169 -------------------------------------------------------------------------- ________________ १४ सप्त स्मरणानि । न्यादिनक्षत्राणां सञ्चारः सम्यक् निरीक्षितः । ततस्तं चेतसि धृत्वा मर्त्यलोकमवतीर्य लोकोपकारायेदं ज्योतिःशास्त्रं निर्मितमिति । ततः स तेन दम्भेन मिथ्यादृष्टीन् विप्रतारयन् तेभ्यो दानादिकां पूजां च लभमानः तया चौलिकप्रसिद्ध्या प्रमोदं दधानः कालम पीत् । अन्ते चाज्ञान तपोऽनुष्ठानेन कालं कृत्वा व्यन्तरेमृत्पन्नः । ततो विभङ्गावधिज्ञानेन पूर्वभवस्वरूपं ज्ञात्वाऽर्हत्प्रवचने ५ प्रवेपमुद्वहन् पूर्ववैरनिर्यातनार्थमाहतसङ्के उपसर्गान् कर्तुमारेभे । ततः श्राद्धरपि तद् व्यन्तरकतमुपद्रवं ज्ञात्वा सर्वैरप्यालोच्य तत्स्वरूपगर्भा विज्ञप्तिका श्रीभद्रवाहुस्वामिगुरुभ्यः प्रेषिता । तामवधाये श्रीभद्रबाहुखामिभिस्तदुपसर्गनिवारणार्थ महाप्रभावं श्रीउपसर्गहरस्तोत्रं नूतनं कृत्वा सर्वत्र प्रेषितम् । ततः सर्वोऽपि सङ्घस्तत्पठनप्रभावान्निरुपद्रवो जातः । अत इदं सरणं ऐहलौकिकपारलौकिकसुखाभिलापिभिनरैः सर्वदा स्मरणीयम् । यतः "स्तोत्रस्याष्टातिरिक्तं शतं यः, कुर्याजापं पञ्चगाथात्मकस्य । तस्यावश्यं मङ्ख नश्यन्ति विना-स्तं निःशेपा वृण्वते सिद्धयश्च ॥१॥"-शालिनी पूर्व किलास्य सरणस्य सप्त गाथा अभूवन् । ततो गाथाद्वयं श्रीभद्रबाहुस्वामिभिर्भाण्डागारे स्थापितम् । साम्प्रतं तु पश्चैव गाथाः प्रवर्तन्ते । अतोऽस्य पञ्चाशीत्यधिकशताक्षर १८५ मानस्य स्तोत्रस्येयमादिगाथा-'उवसग्गहरं पासं' इति । अहं पार्थ-श्रीपार्श्वनाथं वन्दे-नम१५ स्करोमि । कथम्भूतं पार्श्वम् ? 'उपसर्गहरपाश्च' उपसर्गाणां-देव-मनुष्य-तिर्यक् कृतोपद्रवाणां हरोनिवारकः पार्श्वनामा शासनाधिष्ठायकः सेवकयक्षो यस्य स तम् । यद्वा उपसर्गहरं पार्श्वसमीपं यस्य स तम् । अथवा उपसर्गहरा-उपसर्गनिवारका धरणेन्द्रादयः पार्थे यस्य स तम् । प्राकृतत्वाद् विन्दुरलाक्षणिकः । यद्वा उपसर्गहरमिति पृथक् पदम् । प्राशमिति पृथक् पदम् । उपसर्गान् हरतीत्युपसर्गहरः तम् , प्रगता आशा-प्रार्थना वाञ्छा यस्य स प्राशस्तम् । पुनः २० कथम्भूतं पार्श्वम् ? 'कर्मघनमुक्तं' ज्ञानावरणीयाद्यष्टकमोण्येव घना-मेघाः, ज्ञानाच्छादकत्वात् । तेभ्यो मुक्तो-रहितः पृथक् । (उक्तं च )___ "स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच विज्ञानं, तदावरणमभ्रवत् ॥ १॥" जीवश्चन्द्रवत् ज्ञानं चन्द्रिकावत् कर्माणि मेघवत् तदावरणं अत एव कर्मघनमुक्तम् । अथवा २५ धनानि-निविडानि-दीर्घकालस्थितिकानि च तानि कर्माणि च कर्मघनानि । प्राकृतत्वात् व्यत्ययः । कर्मघनैः-घनकर्मभिः मुक्तो-रहितस्तम् , उत्पन्न केवलज्ञानमित्यर्थः । पुनः कथम्भूतं पार्श्वम् ? 'विषधरविपनि शं' विषधराणां-सर्पाणां विपं निर्नाशयति-निश्चितमपहरतीति विष० तम् । भगवन्नाममैत्रादपि विषधरविषनि शो भवतीति । अथवा विपं-मिथ्यात्वकषायलक्षणं . . . . ., 'चातीव प्रसिध्या' इति क-पाठः। २ 'श्रीपाश्व-श्रीपार्श्वनाथं' इति क-पाठः। ३ 'मतदेष विष' ३.इति ख-पाठः। Page #170 -------------------------------------------------------------------------- ________________ उपसग्गहरस्मरणम् । १५ भावविषं धारयन्तीति विषधराः-मिथ्यात्वकपायादिदोषदृषितात्मानः प्राणिनः तेषां विषंमिथ्यात्वादि निर्नाशयति-जिनवचनामृतरसप्रयोजनेनापगमयतीति तम् । पुनः कथम्भूतं पार्श्वम् ? 'मङ्गलकल्याणावासं' मङ्गलं-दुरितोपशामकं कल्याणं-नीरोगत्वं सम्पदुत्कर्षरूपं वा, तयोः आवासः-स्थानं गृहं यः स तम् । अत एव मङ्गलकल्याणावासं श्रीपाच सेवमानाः पुरुषा अपि मङ्गलकल्याणभाजो भवन्तीति युक्तमेव ॥ १॥ जि० ०–इदानीं द्वितीयगाथा व्याक्रियते विसहरफुलिंगमंतं', कंठे धारेइ जो सया मणुओ। तस्स गहरोगमारी-दुट्ठजरा जति उवसामं ॥२॥ [विषधरस्फुलिङ्गमनं कण्ठे धारयति यः सदा मनुजः । • तस्य ग्रहरोगमारीदुष्टज्वरा यान्त्युपशमम् ॥२॥] "विसहर' त्ति 'फुलिङ्ग' त्तिशब्दाभ्यां गर्भितत्वाद् विषधरस्फुलिङ्ग इति नाम स चासौ मत्रश्च मनसस्त्राणयोगान्मत्रणाद् वा गुप्तभाषणाद् वा विषधरस्फुलिङ्गमत्रस्तं भगवन्नामगर्भितमष्टादशाक्षरात्मकमादौ तारत्रैलोक्यकमलार्हदीजैरन्ते च तत्वप्रणिपातवीजाभ्यामष्टाविंशतिवर्णात्मकं मत्रविशेष कण्ठे यो मनुजः-मनुष्यः । यद्वा मनुः-मत्रस्तं गच्छति "सर्वे गत्यर्था ज्ञानार्थाः" ? इति वचनात् जानातीति मनुगो-मात्रिकः । सदा-सर्वकालं धारयति-धत्ते कण्ठस्यं करोतीति १५ यावत् । कण्ठस्थकरणेन चाहर्निशं तजापविधिय॑ज्यते । तस्य किं भवतीत्याह-तस्य शश्वन्मत्रं जपितुर्ग्रहाश्च भूत-प्रेत-ब्रह्मराक्षसादयः सूर्यादयो वाऽशुभगोचरवर्तिनः रोगाश्व-वात-पित्त-श्लेष्मसनिपातजा व्याधिप्रभेदाः मारिश्च-सर्वगमृत्युलक्षणमशिवं दुष्टज्वराः-एकान्तर-द्वितीयान्तरतृतीयान्तर-चातुर्थिकादयोऽथवा दुष्टा-दुष्टजनाः कुपितनृपा वा ज्वराश्च शीतज्वराद्या वा तापज्वराया यान्ति-गच्छन्ति उपशमनं-निवृत्ति, उपशाम्यन्तीत्यर्थः । 'उवसमं ति वक्तव्ये आपत्वाद् २० इखाभावः । यथा-"उँवसामं उवणीया गुणमहया जिणचरित्तसरिसं पि" ( आव०नि० गा० ११८, विशेषा० गा० १३०६ )त्ति । एवं च व्याख्यायमाने मा भूदधिकतमत्रजपितुः स्वार्थसम्पत्तिमात्रफलभाक्तया कुक्षिम्भरित्वमिति परार्थसम्पत्तिरपि व्याख्यायते । तस्य मत्रजपितुर्ग्रहाद्या 'तं' इति पृथक् पदं वा। २ '' इति पृथक् पदं वा । ३ विषधरस्फुलिङ्गमं त्वां विष लिङ्गामं स्वां विसहरफुलिङ्गमन्तं वा इति सम्भवति। ५ 'मनुगः' इत्यपि सम्भवति । ५ 'पान्ति तु यशामम्' इत्यपि १५ 'सम्मवति । ६ 'हर इति' इति क-ख-पाठः। ७ 'यम्तर-यन्तर' इति प्रतिभाति । ८ एतदुत्तरार्धेच्छाये यथा परिवायंति कसाया कि पुण सेसे सरागरथे॥" उपशममुपनीता गुणमहता जिमचारित्रसरशमपि । प्रतिपातयन्ति कषायाः किं पुनः शेषाम् सरागस्थान् ।। ९ 'कृस्यम' इति ग-पाठः । Page #171 -------------------------------------------------------------------------- ________________ सप्त स्मरणानि । उक्तखरूपाः । तुशब्दस्यावधारणार्थत्वात् “तुः स्याद् भेदेऽवधारणे" इत्यनेकार्थवचनात् यान्त्येव वशाम वश-आयत्तता तस्यां अमनं अमः-अवगमनं वशामस्तं, वशगत्वमित्यर्थः । अन्येध्वपि वर्तमाना ग्रहरोगादयः तस्य वशवर्तिनो भवन्ति, तत्प्रतीकारसामर्थ्यादिति भावः । उक्तं हि वृहत्तौ-"शान्तिकपौष्टिकवश्याकर्षणोच्चाटनस्तम्भनविद्वेषणमारणलक्षणकर्मनिर्माणालंके५र्मीणत्वमेतन्मत्रस्य" । अस्याश्च गाथाया यद्यपि विषधरस्फुलिङ्गमत्रस्य भगवन्नामगर्भितत्वेन वस्तुतः स्तुतिरूपताऽस्ति, तथापि भगवद्वाचकयुष्मच्छब्दाद्यभावान्मा दुर्विदग्धाश्चर्चयिष्यन्तीत्यन्यथापि व्याचक्ष्महे । विषधरस्फुलिङ्गे-एतनामकर्मतत्र(मन्त्र)विशेषे माति-संनिविशते इति विषधरस्फुलिङ्गमस्तम् । मत्रसनिविष्टमित्यर्थः । अथवा विषधरस्फुलिङ्गममति-गच्छति (इति) विषधरस्फुलिङ्गामस्तं, विषधरस्फुलिङ्गाख्यमत्रगतमित्यर्थः । 'लुक' (सिद्ध०८-१-१०) इति •प्राकृतलक्षणेनाकारलोपाद् ‘विसहरफुलिंगम' त्ति सिद्धम् इति त्वां यः कण्ठे धारयति । न च भगवतः कण्ठधारणमनुपपन्नमिति वाच्यम् । परमेश्वरस्यापि मत्रादविष्वग्वृत्तित्वेन मत्ररूपत्वात् । तथाच मन्त्राधिराजस्तवे श्रीगुणशेखरसूरयः "न पार्थादपरो मत्रो, न मत्रादपरो विभुः। तद्वयादपरो नात्मा, ध्यायेदित्येकतानताम् ॥१॥ आत्मा पार्धात्मकः पार्थो, मत्रात्मा तौ तदात्मकौ । एकं वित्रास्त्रयोऽप्येके, नेति तल्लयमावहेत् ॥ २ ॥" अथवा कण्ठे धारयतीति विषधरस्फुलिङ्गयन्त्ररूपं त्वां विद्यामणीकृत्य स्वकण्ठे परिदधातीति । परस्य च कण्ठे परिधापयतीति यथासङ्ख्यं स्वार्थपरार्थसम्पत्तिपक्षयोर्योज्यम् । पाचयक्षपद्मावती-धरणेन्द्रस्तवपक्षेपि तुल्यैव व्याख्या, प्रस्तुतमन्त्रस्य तत्रयेण अधिष्ठितत्वात् । २० इति गाथार्थः॥२॥ सि० व्या०-विसहरेति । यो (मनुजः-) मनुष्यः यदिवा मनुः-मन्त्रस्तं गच्छति-जानातीति मनुगो-मात्रिकः । विषधरस्फुलिङ्ग इति नाम स चासौ मन्त्रश्च विपधरस्फुलिङ्गमन्त्रस्तं विषधरस्फु- . लिङ्गमत्रं इति 'कर्मधारयः' । 'नमिऊणपासविसहरविसहजिणफुलिङ्ग' इति भगवन्नामगर्भितमष्टा दशाक्षरात्मकं त्रैलोक्यकमलाईदीजैरन्ते च तत्वप्रणिपातबीजाभ्यामष्टाविंशत्यक्षरात्मकं वा कण्ठे२५ गले सदा-सर्वकालं धारयति-धत्ते, कण्ठस्थं करोति जपतीत्यर्थः, तस्य मनुष्यस्य मात्रिकस्य च ग्रहाः-भूत-प्रेत-राक्षसादयः सूर्यादयो वाऽशुभगोचरवर्तिनः रोगाश्च-कास-श्वास-भगन्दर-कुष्ठादयः मारिश्च-सर्वगमृत्युलक्षणमशिवं दुष्टज्वराश्च-एकान्तर-तृतीय-चातुर्थिकादयः अथवा दुष्टा-दुजेनाः कुपितनृपाद्याः ज्वराच-शीततापज्वराः उपशमं-निवृत्तिं यान्ति, उपशाम्यन्तीत्यर्थः । ग्रहाथ 'तु मेदे' इति ग-पाठः । . 'माणस्व.' इति ख-पाठा, 'कृकर्मीण.' इति ग-पाठः। । विनिमयो' १०इतिख-पाठ: भयं पाठोप-प्रत्यामेव । Page #172 -------------------------------------------------------------------------- ________________ उवसग्गद्दरस्मरणम् । -१७ रोगाश्र मारिव दुष्टज्वराथ ग्रहरोगमारिदुष्टज्वराः इति 'इतरेतरद्वन्द्वः' । ' उवसमं' ति वक्तव्ये आर्षत्वात् हस्वाभावः ॥ २ ॥ ह० व्या॰—मत्रगर्भितस्यास्य श्रीपार्श्वनाथस्तवस्य महिमानमाह - 'विसहर' चि । यो मनुजोमनुष्यः अथवा मनुः - मत्रस्तं गच्छति - जानातीति मनुगो - मात्रिकः प्रस्तावात् श्रीपार्श्वनाथस्य । एवं विषधरस्फुलिङ्गमत्रं सदा-सर्वदा कण्ठे धारयति - कण्ठाधीनं करोति- अहर्निशं पठति ५ तस्य मनुजल रोगमा रिदुष्टज्वराः उपशमं यान्ति । विषधराः - सर्पाः स्फुलिङ्गा-अग्निकणाः तेषां उपलक्षणत्वादन्येषामपि क्षुद्रोपद्रवाणां मत्रः प्रतिहन्ता - निवारकस्तम्, अथवा 'बिसहर' चि 'फुलिङ्ग' ति शब्दानां मत्रगर्भितत्वाद् विसहरफुलिङ्ग इति मत्रः, मनसस्त्राणान्मत्रः, मत्रणाद् भाणत्वाद्वा मत्रः तम् । भगवन्नामगर्भितोऽष्टादशाक्षरात्मको मत्रो यथा - "नमिऊण पासविसहरव(वि) सहजिणफुलिङ्गः" इति । स चादौ तारत्रैलोक्पकमलाऽर्हद्वीजैः तत्त्वप्रणिपातवी - १० जाभ्यां चाष्टाविंशत्यक्षरात्मकः । यथा- “ॐ ह्रीं श्रीं अर्ह नमिऊण पासविसहरवसहजिणफुलिङ्ग ॐ ह्रीँ श्रीँ अहं नमः" इति । अयं च मत्रः श्रीधरणेन्द्र- पद्मावतीभ्यां श्रीपार्श्वयक्षेण चाधिष्ठितः, एनं मत्रं अथवा विसहरफुलिङ्ग इति नामास्त्यस्येति विसहरफुलिङ्गमान् तं विसहरफुलिङ्गमन्तं श्रीपार्श्व कण्ठे धारयति - जपति तस्य ग्रहाः - सूर्यादयो गोचरे अशुभाः भूत-प्रेत-पि शाचादीनां आवेशा वा रोगा-वात-पित्त - श्लेष्म- सन्निपातजा व्याधयः मारिः - मरकोपद्रवः १५ दुष्टा - दुर्जनाः शत्रवश्च ज्वरः - तापः अथवा दुष्टज्वरा - ऐकाहिक व्याहिक व्याहिक - शीतज्वरादिलक्षणाः एते सर्वेप्युपशमन्ति उपशाम्यन्ति - निवृत्तिं यान्ति तं न पीडयन्तीत्यर्थः । उवसीमं इत्यत्रार्यत्वात् ह्रस्वाभावः ॥ २ ॥ जि० पृ० - अधुना तृतीया गाथा व्याख्यायते चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होइ । नरतिरिए वि जीवा, पावंति न दुक्खदोर्गेचं ॥ ३ ॥ [ तिष्ठतु दूरे मंत्रः तव प्रणामोऽपि बहुफलो भवति । नरतिर्यक्ष्वपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥ ] योऽयं मत्रः प्राग्व्यावर्णितसृष्टिः स तावद् दूरेऽपि तिष्ठतु - पुरश्चरणोत्तरचरणहोमतपोजपादिप्रक्रियासाध्यत्वेन कष्टावहत्वाद् दूरापास्त एवास्तां यावता तव भवतः कर्मतापन्नस्य प्रणा - १५ मोsपि प्रशब्दस्य कर्पार्थद्योतकत्वात् विशुद्धश्रद्धा पूर्वं कृतो नमस्कारोऽपि - प्रणिपातमात्रमपि 'बहुफलो' बहूनि सौभाग्या - ऽरोग्य-धन-धान्य- कलत्र-द्विपद-चतुष्पद - राज्य खर्गादीनि फलानि - कार्याणि २० १ 'पणादू' इति ख- पाठः । २ 'अ' इत्येकमक्षरं ज्ञेयम् । ३ 'शब्याधिरोगा' इति ख- पाठः । ४ 'सामंत्य (?) - मारवात्' इति ख-पाठः । 'दोह' इत्यपि पाठः दौर्भाग्येत्वर्थकः । ६ 'प्रकर्षद्योतक०' इति गन्पाठः । स. म. ३ Page #173 -------------------------------------------------------------------------- ________________ १८ सप्त स्मरणानि । अस्य कारणभूतस्य स तथा भवति - सम्पद्यते । प्रणाम इत्येकवचनं च ज्ञापयति यदेकोऽपि नमस्कारो बहुफलो भवति, किं पुनस्ते बहुशः प्रयुक्ता इति' । येन च जन्तुना भगवन्तं प्रति नमस्कारमात्रमपि विशुद्धश्रद्धया विहितं सोऽवश्यं सम्यग्दृष्टिः, स च देवेष्वेव उत्पद्यते, "संम्मद्दिट्ठी जीवो विमाणवज्जं न बन्धए आउं" इति वचनात् । यदि च कदाचित् पूर्वबद्धायुष्कतादिना ५ हेतुना भवपारम्पर्येण वा नरेषु तिर्यक्षु वाऽसावुत्पत्तिमासादयति तदापि भगवन्नमस्कारप्रभावादेव न दुःखभाजनं भूयो भजते ( भवति १) इत्येतदेवाह - नरेत्यादि । नरास्तिर्यञ्च श्वेति 'द्वन्द्वः' तेषु नरतिर्यक्ष्वप्युत्पन्ना जीवाः - प्राणिनो न दुःखदौर्गत्यं प्राप्नुवन्ति । अपिः विस्मये । विस्मयश्व किल नरेषु तिर्यक्षु च दुःखदौर्गत्याभावो दुर्घट इति हेतोः । तत्र दुःखं शारीरं मानसं च । दुर्गतस्य भावो दौर्गत्यं - दारिद्र्यं ततः समाहारद्वन्द्वे दुःखदौर्गत्यम् । अयमभिप्रायः - यदि किल कथञ्चिन्नरेषूत्प१० 'द्यन्ते ते नमस्कारकर्तारः, तदापि रोगादिरहितत्वेन सद्यः सम्पद्यमानसमीहितार्थतया च न शारीरमानसदुःखभाजो भवेयुः, ऋद्धिसमृद्धतया च न जातु दारिद्र्येणोपद्र्यन्ते । तिर्यक्षु चोत्पद्यमानाः कमनीय कनक - रत्न- चिन्तामणि- कल्पद्रुम-पट्टतुरङ्गम-जयकुञ्जरादिभावमासाद्य तांस्तान् पूजाप्रका - रान् प्राप्नुर्वेन्तीति । पाठान्तरं वा 'दुक्खदोहग्गं' इति । दुःखं च दौर्भाग्यं चेति 'समाहारद्वन्द्वः' ॥ पार्श्वयक्षादिस्तवपक्षे चैवं नेयम् - तिष्ठतु दूरे मन्त्रः, तव - पार्श्वयक्षस्य पद्मावत्या धरणेन्द्रस्य १५ च प्रणामोऽपि बहुफलो भवति । 'णम प्रह्वत्वे (शब्दे च)' (पा० धा० ९८१) । प्रणमनं प्रणाम :प्रदत्वं प्रहीभावः, प्रसादाभिमुख्यमिति यावत् । अत्र तवेति कर्तरि षष्ठी । भगवत्पक्षे च कर्मणि । तथा तव प्रभावमात्रादेव नरास्तिर्यञ्च इव नरतिर्यश्चो - नृपशवः पांशुरपादाः पशुप्राया बालगोपालकृषीवलादयस्तेष्वपि मध्ये जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् । ते हि प्रायो दुःखिता एवोपलभ्यन्ते । केवलं त्वत्प्रसादात् तेऽपि सतत सुखिता एव स्युः । इति गाथार्थः ॥ ३ ॥ १० २५ सि० व्या० - चिट्ठउ ति । योऽयं मत्रः प्राग् व्यावर्णितः स दूरे तिष्ठतु - दूरे आस्तामित्यर्थः । तव - भवतः प्रणामोऽपि - विशुद्ध श्रद्धाकृतो नमस्कारोऽपि बहुफलो भवति - सञ्जायते । बहूनि सौभाग्याऽऽरोग्यादीनि फलानि यस्य स बहुफलः इति 'बहुव्रीहि:' । यतस्तव प्रणामात् जीवाः - प्राणिनः दुःखदौर्गत्यं न प्राप्नुवन्ति-न लभन्त इत्यर्थः । तत्र दुःखं मानसं शारीरं वा, १ उक्तं च सिद्धस्तवे -- "इको वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥ [ एकोऽपि नमस्कारो जिनवरवृषभाय वर्धमानाय । संसारसागरात् तापयति नरं वा नारीं वा ॥ ] २ 'जविन सम्मत्तजढो महव ण बद्धाढभो पुब्वि' इति उत्तरार्धस्, सम्पूर्ण च्छाया तु यथा सम्यग्टष्टिर्जीवो विमानवज्ये न बभाति आयुः । यद्यपि न स्यसम्यक्त्वोऽथवा न बद्धायुष्कः पूर्वम् ॥ 'इन्दे' इति कन्पाठः 1 ४ 'वन्धि' इति कन्पाठः । Page #174 -------------------------------------------------------------------------- ________________ उवसग्गहरस्मरणम् । दर्गतस्य भावो दौर्गत्यं-दारिद्यं, दुःखं च दार्गत्यं चेति 'द्वन्द्वः' । केषु सत्स्वपि ? 'नरतिर्यक्ष्वपि' नराश्च तिर्यञ्चश्व नरतिर्यञ्चः इति 'द्वन्द्वः' तेष्वपि, नरतिर्यग्लक्षणभवान्तेष्वपीत्यर्थः । एतावता यथाकथञ्चित् जीवानां (समुद्भवेऽपि तत्र तव प्रणति)करणात् तत्रापि मानसशरीरदुःख. भाजो न भवेयुः । न जातुचित् दारियोपहताश्च । यदि च जीवाः तिर्यक्षु कदाचिदुत्पद्यन्ते तदा तव प्रणतिप्रसादात् कमनीयकनक-रन-चिन्तामणि-कल्पद्रुम-पट्टतुरग-जयकुञ्जरादिभावमापन्नास्त-५ प्रापि न दुःखदौर्गत्यं प्राप्नुवन्तीति फलितार्थः । क्वचित् 'दुक्खदोहग्गं' इति पाठः, तत्र दुःखं च दौभाग्यं चेति 'द्वन्द्वः' एवावगन्तव्यः ॥ ३ ॥ ह० व्या०-अथ स्तुतिमत्रादि विनव श्रीपार्श्वनाथप्रणाममात्रेणैव सर्व फलं स्यादित्याहचिहउ दूरे इति । मन्त्रस्तव स्तुतिरूपः प्रागुक्तोऽष्टादशाक्षरात्मकः स तु दृरे तिष्ठतु-आस्तां, तस्य किं कथनीयमिति, किन्तु तब-भवतः प्रणामोऽपि त्वयि विषये कृतः प्रणामो-नमस्कारोऽपि १० बहुफलो भवति । बहूनि-प्रचुराणि सौभाग्या-ऽऽरोग्य-धन-धान्य-कलत्र-पुत्र-द्विपद-चतुष्पदराज्य-स्वर्गादीनि फलानि यस्मात् सः । अन्यच्च-त्वत्प्रणामात् जीवाः-प्राणिनो नरतियक्षु दुःखदौर्भाग्यं न प्राप्नुवन्ति । 'दुक्खदोगचं' इति पाठे दुःखदीर्गत्यं न प्राप्नुवन्ति । त्वन्नमस्कारकर्तारः सम्यग्दृष्टयो जीवाः प्रायो वैमानिकदेवेषूत्पद्यन्ते, कदाचित् पूर्ववद्धायुषो भवपरमरया वा नरेषु तिर्यक्षु उत्पद्यन्ते तथापि तत्र तेषां दुःखं शारीरं मानसं च दुर्गतस्य भावो दौर्गत्यं दारियं न १५ भवति, नरेषु रोगादिरहितत्वेन सम्पद्यमानसमाहितार्थतया च शारीरं मानसं च दुःखं न प्राप्नुवन्ति, तथा ऋद्धिसमृद्धतया च दारिद्यभाजोऽपि न भवन्ति । तिर्यक्षु तु कमनीयकनक-रत्नचिन्तामणि-कल्पद्रुम-पट्टतुरङ्गम-जयकुञ्जरादिघृत्पद्यन्ते पूजां च प्राप्नुवन्ति । अथवा नरा एव तिर्यश्चो नरतियश्च:-नृपशवो नृपु पशुतुल्या वालगोपालकृपीवलादयस्तेष्वपि दुःखदौर्भाग्यं न प्राप्नुवन्ति । त्वत्प्रसादात् तेऽपि सदा सुखिन एव स्युरिति ॥ ३ ॥ जि० वृ०-साम्प्रतं चतुर्थगाथार्थः स्पष्टीक्रियते तुह सम्मत्ते पत्ते, चिंतामणिकप्पपायवभहिए। पावंति अविग्घेणं, जीवा अयरामरं ठाणं ॥४॥ [तव सम्यक्त्वे प्रासे चिन्तामणि कल्पपादपाभ्यधिके । प्रामुवन्त्यविनेन जीवा अजरामरं स्थानम् ।।] पूर्वगाथायां भगवत्प्रणामात् सम्यक्त्वं तत्फलं चोक्तम् । अनया तु गाथया प्रकर्षकोटिप्राप्तं तस्यैव पर्यन्तफलमुच्यते । तव सम्बन्धिनि नेतरीयसम्बन्धिनि सम्यक्त्वे विशिष्टप्रमाणात्मके देवतत्त्व गुरुतत्व-धर्मतत्वनिश्चयरूपे वा प्राप्ते-लन्धे सति । किंविशिष्टे ? चिन्तामणिः-चिन्तिता धनुश्विद्वान्तर्गतोऽयं पाठोऽनुमानिकः, मूलप्रतौ अक्षराणामस्पष्टरवात् । २ कमनीय' इति ख-पाठः। 'यत्रापि' इति व पाठः। 'मदे' त्यपि पा ५ चिंता-३. मणि 'इस्यपि सम्भवति । Page #175 -------------------------------------------------------------------------- ________________ सप्त स्मरणानि । र्थप्रदायी देवताधिष्ठितो रत्नविशेषः, कल्पपादपः- कल्पवृक्ष उत्कृष्टकालभावी अन्तःकरणक्षुण्णफलप्रदो वृक्षभेदः, ततो द्वन्द्वे ताभ्यामप्यभ्यधिकः - अतिशयेनाधिकस्तस्मिन्निति विग्रहः । तौ हि प्रसन्नाप्यैहिकमेव फलं दातुमीश्वरौ त्वत्प्रणामस्तु चिन्तातीतमोक्षलक्षण पारलौकिकफलप्रदानसमर्थ इति युक्तमेव ततोऽभ्यधिकत्वमस्येति । तस्मिन् प्राप्ते सति किमित्याह - प्राप्नुवन्ति - ५ लभन्ते । विघ्नानामभावोऽविन इत्यव्ययीभावस्तेन अविमेन, निष्प्रत्यूहमित्यर्थः । जीवाःप्राणिनोऽजरामरं स्थानं-पदं, न विद्यते जरा यत्र तदजरं न म्रियते यस्मिनित्यमरं, बाहुलकादल, अजरं च तदमरं चेति विशेषणकर्मधारयेऽजरामरं, मुक्तिपदमित्यर्थः ॥ पार्श्वयक्षादिस्तवपक्षे पुनरित्थं घटना सम्मतस्य बहुमतस्य भावः साम्मत्यं, वाल्लभ्यैमित्यर्थः तस्मिन् । तव पार्श्वयक्षस्य पद्मा१० चत्या धरणेन्द्रस्य च सम्बन्धिनि प्राप्ते चिन्तामणिकल्पपादपाभ्यधिके ततोऽप्यतिशयितफलदायित्वात् । अथवा पीयत इति पायः - पानकं वल्भो - भोजनं चिन्तामणिकल्पौ मनश्चिन्तितरसपूरणप्रवणत्वाच्चिन्तारत्नतुल्यौ यौ पायवल्भौ ताभ्यां हितः - अनुकूलः, तत्सम्पादकत्वात् तस्मिन् । यदिवा अकारलोपात् अचिन्ता - निश्चिन्ता मनःप्रयासवर्जिता इति जीवानां विशेषणम् । मणिभिःकर्केतनाद्यैः कल्पः कल्पनं - रचना येषां तानि मणिकल्पानि, रत्नघटितानीत्यर्थः । तथाविधानि १५ यानि 'पाय' ति पात्राणि - स्थाल्यादिभाजनानि तेषु वल्भो - भोजनं तेन कृत्वा तस्मै वा हिते, तव साम्मत्ये त्वत्प्रसादसुभगानामैश्वर्यशालितया रत्नमयपात्रेषु भोजनोर्पपत्तेः । प्राप्नुवन्त्यविघ्नेन जीवाः स्थानं - पदं प्राज्यसाम्राज्यादिकम् । अथ कथं स्थानशब्देन राज्यादिकं लभ्यते । असाधारणविशेषणसामर्थ्यादिति ब्रूमः । तच्च विशेषणं 'अयरामर' ति । अयः - अनुकूलदैवं तेन रामा-रमणीया रा - दीप्तिर्यत्र तदयरामरम् । उत्कृष्टभाग्यवशाद्धि राज्यादिक एव पदे दीप्तिर तितरामुत्पद्यते पुरुषाणाम्, यस्तव सम्मतो भवेत् सोऽनुकूलदैवान्वितं राज्यादिपदमवाप्नोतीत्याकूतम् । इति गाथार्थः ॥ ४ ॥ १० २० १५ सि० व्या० - तुह सम्मत्ते इति । जीवाः - भव्यप्राणिनः अजरामरं स्थानं-मोक्षपदं अविमेन - विमाभावेन प्राप्नुवन्ति - लभन्त इत्यर्थः । न विद्यते जरा - विस्रसा यत्र तत् अजरं, न म्रियन्ते अस्मिन् इत्यमरं, बाहुलकात्, अजरं च तत् अमरं चेति 'विशेषण कर्मधारयः' । कस्मिन् सति । तव १ 'लभन्ति' इति पाठः । २ 'मुक्तिमित्यर्थः ' इति क-ग-पाठा | ३ छाया चैवम्— सव साम्मध्ये प्राप्ते चिन्तामणिकल्पपादपाभ्यधिके चिन्तामणिकल्पपायंवरमहिते अचिन्ता मणिकरपात्रभहिते वा । प्रामुवन्त्यविघ्नेन जीवा अम-राम-नं स्थानम् ॥ ४ 'भ्यकमि०' इति पाठः । ५ ' प्रदत्वा ०' इति ग-पाठः । ६ 'पपत्तिः' इति क-पाठः । ७ ' भवति' इति ख- पाठः । Page #176 -------------------------------------------------------------------------- ________________ उवसग्गहरस्मरणम् । २१ सम्बन्धिनि सम्यक्त्वे विशिष्टप्रणामात्मके देवतस्त्रगुरुतत्त्वधर्मतत्त्वनिश्चयरूपे वा सम्यक्त्वे लब्धे सति प्राप्ते सति । आहुच - "या देवे देवताबुद्धि-गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥ १॥" इति योगशास्त्रे (प्र० २, श्लो० ० २ ) श्री हेमचन्द्रसूरिचरणाः । कथम्भूते सम्यक्त्वे ! ' चिन्ता - ५ मणिकल्पपादपा [भ्याम् ] भ्यधिके' ( चिन्तामणिश्च कल्पपादपश्च ) चिन्तामणिकल्पपादपे 'इतरेतरद्वन्द्वः' चिन्तामणिकल्पपादपाभ्यां अभ्यधिकं - अत्युत्कृष्टं चिन्तामणिकल्पपादपाभ्यधिकं तस्मिन् चिन्तामणिकल्पपादपाभ्यधिके इति 'तत्पुरुषः' । तौ हि प्रसन्नावप्यैहिकं फलं दातुमीशौ, त्वत्प्रणामस्तु चिन्तातीत मोक्षलक्षणपारलौकिक फलप्रदानसमर्थ इति युक्तमेव तयोरप्यधिकत्वमिति भावः ॥ ४ ॥ ह० व्या० - भगवत्प्रणामात् सम्यक्त्वं भवति । अतः सम्यक्त्वस्य फलमाह -तुह सम्मत्ते पत्ते इति । हे श्रीपार्श्वजिन ! तब सम्यक्त्वे विशिष्टप्रणामात्मके अथवा भवत्प्रणीतसम्यग्दर्शने तत्त्वश्रद्धानरूपे ते तव मते वा प्राप्ते - लब्धे सति जीवाः - प्राणिनः अविमेन - निर्विनं अजरामरं स्थानं नास्ति जरा यत्र तदजरं, न म्रियन्ते यस्मिन् तदमरं अजरं च तदमरं च अजरामरं - जरामरणरहितं स्थानं मोक्षं प्राप्नुवन्ति - लभन्ते । कथम्भूते तव सम्यक्त्वे १ १५ चिन्तामणिकल्पपादपाभ्यंधिके चिन्तामणिः - मनचिन्तितार्थदायकं रत्नं, कल्पपादपः - कल्पवृक्षो वाञ्छितार्थपूरकस्ताभ्यामप्यधिकं - अधिकफलप्रदम् । चिन्तामणिकल्पपादपौ तु प्रसन्नौ सन्तौ ऐहिकं फलं दातुं समर्थों, त्वत्प्रणामस्तु चिन्तातीत मोक्षलक्षणपारलौकिकफलप्रदानसमर्थ इति युक्तमेव ताभ्यामधिकत्वम् ॥ ४ ॥ जि० पृ० - सम्प्रति निगमयन् प्रणिधानप्रधानां पञ्चमगाथामाह- असंधुओ महास!, भत्तिन्भरनिब्भरेण हियैरण । ता देव! 'देसु बोहिं, भवे भवे पासजिणचंद ! ॥ ५ ॥ [ इति संस्तुतो महायशः । भक्तिभरनिर्भरेण हृदयेन । तस्माद् देव! देहि बोधिं, भ॑वे भवे पार्श्व ! जिनचन्द्र ! ॥ ५ ॥ १ 'पत्ते' इत्यधिकः ख- पाठः । २ 'भ्यामप्यधिके' इति क- पाठः । इति कचित्। ५ 'दिज' इत्यपि पाठः, तत्र 'दद्यात्' इति च्छाया । १० इति - पूर्वोक्तप्रकारेण संस्तुतः - सम्यग् वर्णितस्त्वं, सामर्थ्यान्मयेति गम्यम् । हे 'महायशः ॥ २५ महत् त्रैलोक्यव्यापि यशः - कीर्तिर्यस्य तस्यामन्त्रणम् । अथवा अमा- रोगास्तान् हन्तीत्य महा, आगः - पापं स्यति - अन्तं नयतीत्यागसः, ततो विशेषणकर्मधारये अमहागसः तस्यामन्त्रणम् । केन करणभूतेन संस्तुत इत्याह- भक्तेः - आन्तरप्रीतेर्भरः - प्राग्भारस्तेन निर्भरं - सम्पूर्ण तेन तथा १० ३ 'इ' इति ग-पाठः । ४ 'हिमयेण ' ६ 'अमहागसः !' इत्यपि सम्भवति । ३० Page #177 -------------------------------------------------------------------------- ________________ २२ सप्त स्मरणानि । भूतेन हृदयेन-अन्तःकरगेन । ता इति तस्मादर्थे । संस्तुत्य हि प्रभुः प्रार्थ्यते । ततश्च यस्मात् त्वं संस्तुतस्तस्मात् हे 'देव!' दीव्यते-स्तूयते त्रिजगजनैरिति देवः-आराध्यस्तस्यामन्त्रणम् । 'देसु ति देहि-प्रेयच्छ । अर्थात् मह्यं स्तोत्रे, बोधि-रत्नत्रयप्राप्तिं प्रेत्य जिनधर्मावाप्तिं वा भवे भवे-जन्मनि जन्मनि, यावन्मोक्षं नाप्नोमीति भावः । हे पाच!-श्रीपार्श्वनाथ ! 'जिनचन्द्र!' रागादिजेतृत्वात् ५जिनाः-सामान्यकेवलिनः तेषु मध्ये चन्द्र इव चन्द्रः, चतुस्त्रिंशदतिशयसम्पत्समन्वितेनाह्लादक त्वाजिनचन्द्रस्तस्यामत्रणम् ॥ __अधिष्ठायकस्तवपक्षे पुनरेवं क्रमेणार्थयोजना-हे पार्श्वयक्ष ! इति संस्तुतः त्वं महा. यशाः-प्रस्तावाद् भगवान् पार्श्वनाथः तत्र विषये योऽसौ भक्तिभरस्तनिर्भरेण हृदयेन मनसा उपलक्षितविशेषणे तृतीया । तस्माद् देव!-व्यन्तरजातीय! दत्स्व-वितर वोधि मह्यं भवे भवे । न १. चासाद् बोधिप्रार्थनमनौचितीमश्नुते "सम्मदिट्टी देवा" (वंदित्तुसूत्रे गा०४७) इति पूर्वाचार्यैरपि भणनात् । न चायं न सम्यग्दृष्टिः परमाईतत्वात् , तथा विशेषणमुक्तमाचार्येण 'जिणचन्द' ति । जिन एव श्रीमदर्हन्नेव चन्दतीति चन्द्रः-आह्लादको यस्यासौ जिनचन्द्रः तस्य सम्बोधनम् ॥ अथ पद्मावतीपक्षे ( इय संथुओ महाऽयसभत्तिभरनिन्भरे ण हियए ण । ता देवदेऽसुरोहिं भवे भवे पास जिण चंद ॥ इति संस्तुता उ मम अयशोभक्तिभरनिर्भरे ! न हितदे ! न । तस्मात् देवते ! असुबोधिं भवे भवे प्रास्य जय चन्द ॥) इति संस्तुता त्वम् । उः इति निपातः सम्बोधने । सन्धौ कृते संस्तुतो इति । 'मह' ति मम-स्तोतुः । अयशोभक्तिभरनिर्भरेण अयशः-अपकीर्तिः, आयं-धनादिलाभं स्यन्ति-समापय२०न्तीति आयसाः-शत्रवः तस्य तेषां वा भक्तिः-भजनं तत्र विषये यो भरः-अत्याग्रहः तेन निर्भरा-पूर्णा तस्या आमन्त्रणम् अयशोभक्तिभरनिर्भरे! आयसभक्तिभरनिर्भरे! वा। 'ण हियए ण' त्ति "द्वौ नौ प्रकृतार्थ गमयतः" इति न्यायान्न न हितदे !, अपि तु हितदे! । हितम्-अनुकूलं वस्तु भक्तेभ्यो ददातीति हितदा तस्या आमन्त्रणम् । ता-तस्मात् देवदे इति देवते! पद्मावति! देवि! 'व्यत्ययश्च' (सिद्ध० ८-४-४४७) इति प्राकृतवचनात् शौरसेनी विनापि तकारस्य २५ दः । शोभना बोधिः सुबोधिः न सुबोधिरसुबोधिः कुतीर्थ्यभिप्रेता सातिचारा वा बोधिरित्यर्थः ताम् । 'एदोतः पदान्तेऽस्य लुम्' (सिद्ध० १-२-२७ ) इति अलोपः । 'भवे भवे पास' ति प्रास्य-प्रकर्षेण क्षिप-निराकुरु । तथा 'जिण' ति । जयं 'चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो . हवा' (सिद्ध० ८-४-२४१) इति णोऽन्तः । सर्वोत्कर्षेण वर्तस्वेत्यर्थः । किश्चान्यत्-चन्ददीप्यस्व, खमाहात्म्येन चिरं भ्राजस्वेति भावः ॥ 'प्रयच्छतु' इति ग-पाठः। २ 'वं संस्तुतः' इति क-पाठः। ३ 'आयसभक्ति.' इत्यपि सम्भवति । 'भपरभत्तिभर निठभरेण' इति ख-पाठः। ५ 'पप्रत्ययश्चेति' इति ग-पाठः। ६'किच तथा चंद मि चन्दव.: महिना सोमव' इति क-पाठा। .. Page #178 -------------------------------------------------------------------------- ________________ उवसग्गहरस्मरणम् । अथ धरणेन्द्रपंक्षे (इय संथुओ महायमभत्तिभरनिन्भरेण! हियएण! । ता देव ! देसु बोहिं भवे भवे पासजिनचंद! ॥ इति संस्तुनो महायशोभक्तिभरनिर्भरैनः ! हृदयगेन! । तस्मात् देव ! देहि बोधिं भवे भवे पाशजिनचन्द्र! 1) इति-पूर्वोक्तरीत्या संस्तुतः, मयेति गम्यते । तथा महायशाः श्रीपार्श्वनाथस्तस्य भक्तिः-सेवेनं तस्याः भरः-अतिशयस्तेन निर्भरं-भररहितम् , अल्पीभूतमिति यावत् । एनः-पापं यस्य तस्यामात्रणं हे महायशोभक्तिभरनिर्भरैनः! । हे हृदयगेन ! हृदयेन-उरसा गच्छन्ति (इति) हृदयगाउरगास्तेषामिनः-स्वामी नागराजो-धरणेन्द्रः तस्यामवणं हे हृदयगेन! 'किसलय-कालायस हृदये यः' (सिद्ध० ८-१-२६९) इत्यनेन सस्वरयलोपे 'क-ग-च-ज-त-द-प-यवां प्रायो लुग्' १० (सिद्ध०८-१-१७७) इति दगयोर्लोपे च 'हिअय' ति रूपम् । तत इनशब्देन सन्धौ हिअयेण नि सिद्धम् । ता इति तस्माद् देव!-भवनपतीन्द्र ! दत्स्व बोधि मह्यं भवे भवे, पाशं-कर्मबन्धं जयतीत्यचि पूर्ववत् णे च, पासजिणा-पाशजेतारः सुविहितसाधवस्तान् प्रति चन्द्र इवोपसर्गतापनिर्वापणेनाह्लादकत्वात् तस्यामत्रणं हे पासजिणचन्द ! । यदिवा पाशेन जयति शत्रून्-वशं नयति इति प्राकृते पासजिणा-पद्मावती तां चन्दति-आहादयति भर्तृत्वात् च देवी तस्य १५ सम्बोधनम् । 'दीर्घ-हस्वौ मिथो वृत्ता' (सिद्ध०८-१-४) इति हस्खे पासजिण इति सिद्धम् । इति गाथार्थः ॥ ५ ॥ उपसर्गहरस्तोत्रे, व्याख्या किश्चिन्मयाऽरचि । याऽत्र चानौचिती वाच्ये, सा शोध्या कृपया बुधैः ॥ १॥ धृत्तिः सैपा विशेषोक्ति-रोचिष्णुः चारुचेतनैः । 'अर्थकल्पलता'नाम, चिररात्राय वाऽच्येताम् ॥ २॥ संवद्विक्रमभूपतेः शरऋतूदर्चिZगाङ्केमिते ___ पौपस्यासितपक्षभाजि शशिना युक्ते नवम्यां तिथौ । शिष्यः श्रीजिनसिंहमूरिसुगुरोर्वृत्तिं व्यधात्तामिमां __ श्रीसाकेतपुरे जिनप्रभ इति ख्यातो मुनीनां प्रभुः ॥ ३॥ इति श्रीसप्तस्मरणं समाप्नं ॥ शुभं भवतु ॥ श्रीरस्तु । ग्रन्थाग्रं २७१ ॥ प्रत्यक्षरं निरूप्यास्यां, ग्रन्थमानं विनिश्चित । अनुएमां च द्विशत्ये-कसप्तति(२७१)समन्विता ॥ १॥ . 'पक्ष इति संस्तुस्त्वं महा.' इति व-पाठः। २ 'सेवा' इति ख-पाठः। ३ 'वय॑ताम्' इति ख-पाठः, 'चण्ययम् (1)' इति ग-पाठः। ५ १३६५प्रमिते इत्यर्थः। ५ 'समाप्ता चेयं उपसर्गहरस्तावविवृत्तिः । कृति ३. रियं श्रीमजिनप्रभसूरेरिति वृत्तिः प्रथाग्रं.' इति स्व-पाठः। ६ न चायं पाठोऽसमीचीनः, खरसरमध्ठीयानां सप्तयारणेषु उपसर्गहरस्तोत्रस्य मन्तिमत्वात् । ७ 'एकसप्ततिसंयुकं शतद्वयमनुष्टुभाम्' इति खा-पाठः। Page #179 -------------------------------------------------------------------------- ________________ सप्त स्मरणानि । सि० ० व्या० - सम्प्रति निगमयन् प्रणिधानप्रधानां पञ्चमगाथामाह - इयति । हे 'महामहत् यशो यस्य स महायशास्तस्य सम्बोधनम् । इति पूर्वोक्तप्रकारेण मया त्वं संस्तुतः-सम्यग् वर्णितः । त्वमिति सामर्थ्यान्मयेति गम्यम् । केन करणभूतेन संस्तुत इत्याहहृदयेन - मानसेन । कथम्भूतेन हृदयेन ? 'भक्तिभरनिर्भरेण भक्तिः - आन्तरप्रीतिस्तस्या भरः५ प्राग्भारस्तेन निर्भरेण - सम्पूर्णेन । ता इति तस्मादर्थे । यस्माच्च संस्तुतस्तस्मात् हे 'देव !" दीव्यते - स्तूयते जगजनैरिति देवस्तस्यामन्त्रणं हे देव ! 'तत्पुरुषः' । हे पार्श्व ! 'जिनचन्द्र !' रागादिजेतृत्वाजिना:- सामान्य केवलिनस्तेषु चन्द्र इव चन्द्रस्तस्य सम्बोधनं हे जिनचन्द्र ! 'तत्पुरुपः । त्वं अर्थान्मह्यं वोधि-रत्नत्रयप्राप्तिं प्रेत्य जिनधर्मावाप्तिं वा देहि-प्रवितरेत्यर्थः । कस्मिन् १ भवे भवे - जन्मनि जन्मनि, यावन्मोक्षं न प्राशोमीति भावः । इदं स्तोत्रं धरणेन्द्र- पद्मावतीपार्श्वयक्षैरधिष्ठितमिति पक्षे तेषां व्याख्यानं तु बृहद्वृत्तितो द्रष्टव्यम् ॥ ५ ॥ १० 9 ६४ यशः ܕ इति पात (द) शाह श्री अकब्बर जल्लालदीन (जलालुद्दीन)- श्रीसूर्यसहस्रनामाध्यापक- श्री शशुञ्जयतीर्थंकरमोचनसर्वत्र गोवधनिवर्तनाद्यने कसुकृत विनिर्मापक-महोपाध्याय श्री भानुचन्द्रगणिशिष्ययुगपदष्टोत्तरशतावधानचमत्कृतपादशाह श्री अकच्यर जला (ला) लदी(लुद्दी) नपादशाह श्रीनूर (रु) द्दीन जिहांगीर प्रदत्तषुश्फहम (खुप्फहम्) नादिर मां (रुज्जमान्) द्वितीयाभिधान-महोपाध्याय श्री सिद्धिचन्द्रगणिविरचितायां सप्तस्मरणटीकायां उपसर्ग हर स्तोत्रटीका समाप्ता ॥ ह० व्या०—अथ कविः स्वविज्ञप्तिमाह - इह संधुओ इति । हे महायशः । महत् त्रैलोक्यव्यापकं यशः: - कीर्तिर्यस्य स महायशाः तस्यामत्रणं हे महायशः ! मया भक्तिभरनिर्भरेण भक्तेःआन्तरप्रीतेः भरः-प्राग्भारः - आधिक्यं तेन निर्भरं - पूर्ण भक्तिभरनिर्भरं तेन तथाभूतेन भक्त्या - २० धिक्यपूरितेन हृदयेन - अन्तःकरणेन कृत्वा इति - पूर्वोक्तप्रकारेण त्वं संस्तुतः - सम्यग् वर्णि तोऽसि । ता इति तस्मात् कारणात् हे देव ! दीव्यते - स्तूयते जगज्जनैरिति देवस्तस्यामन्त्रणं हे देव ! हे पार्श्वजिनचन्द्र ! जिनेषु चन्द्र इव चन्द्रः, भव्यानामतीवाह्लादकत्वात्, पार्श्वश्वासौ जिनचन्द्रश्च पार्श्वजिनचन्द्रस्तस्य सम्बोधनं हे पार्श्वजिनचन्द्र ! भवे भवे - जन्मनि जन्मनि यावन्मोक्षं प्रामोमि तावत् मह्यं बोधिं तत्त्वज्ञानं सम्यक्त्वं दद्याः, मेत्य जिनधर्मावातिं वा दद्याः, 'देसु' चि २५ पाठे देहि प्रयच्छ इत्यहं प्रार्थये । इहान्येऽप्यर्थाः सन्ति । तथा पार्श्वयक्ष पक्षेऽप्यन्योऽर्थोऽस्ति परं विस्तरभयानक्तः, किन्तु मूलार्थ एव व्याख्यातोऽस्ति । उपसर्गहर स्तोत्रे, वृत्तिं श्रीहर्ष कीर्तिसूरिरिमाम् । कृतवान् सुखावबोध, मन्दमतीनां हितार्थाय ॥ २ ॥ ॥ इति द्वितीयस्मरणवृत्तिः ॥ २ ॥ 冲 # 1 'विखरं विस्तर मिया नोकाः" इति त्र-पाठः । और Page #180 -------------------------------------------------------------------------- ________________