________________
१०६
पण्डितगुणरत्नमुनिवरकृताः
गर्यत्वात् प्रह्वीकुरु, मण्डयेति भोजनकारिवचः । तत् किम्भूतम् ? उतं - सम्बद्धं लिहं - भोजनं यस्मात् ( तत् ) ॥ २७ ॥
(नमकोऽर्ह तार्णम्) ताण - तृणसमूहो वर्तते । किम्भूतम् ? नमं-नमत् कुटीरप्रायं यत् ओको- गृहं तस्यार्हैः तृणैराच्छाद्यते गेहमिति ॥ २८ ॥
५ ( न मोदाs - रि-हं तृणम्) तृणं वर्तते । किम्भूतम् ? 'मोदारिहं' मोदो - हर्पः तत्प्रधाना अरयस्तान् हन्ति - हिनस्ति मोदारिहम् । 'न' इति निषेधे । तृणमुखास्ते वैरिणो जीवन्तीत्यर्थः ।। २९ ।।
(न-मोदा-रि हन्त ऋणम्) ऋणं वर्तते । ' हन्त' इति खेदे । किम्भूतम् ? 'नमोदारि' नं- बुद्धिः मोदो - हर्पः तस्य अरिः - वैरिभूतं वर्तते । ऋणे सति बुद्धि-हर्षो नश्यत १० इत्यर्थः ॥ ३० ॥
(नं मोsरिभा - ऽतः णं) अरिभं रिपुनक्षत्रं तत्र अतो- गमनं यस्य सः । 'अत सातत्य' गमने' (सिद्ध० धा० ) । एवंविधो मः - चन्द्रः । नं- वन्धनं, विग्रहमित्यर्थः तम् । " णकारो निष्फले प्रकटे च" ( ) इति वचनात् णं - निष्फलम् । करोतीत्यध्याहारः । " अरिहन्ता प्रथमैकवचनस्य व्यत्ययोऽप्यासाम् ” ( ) इति वचनादपभ्रंशापेक्ष१५ या 'स्यम् - जस्-शसां लुक्' (सिद्ध० ८-४- ३४४ ) इति लुक् । एवमन्यत्रापि ज्ञेयम् ॥ ३१ ॥
(न मोsरि-भं आक: अ-णं) भशब्देन राशिरप्युच्यते, भवनमपि, ततो अरिभं-रिपुभवनम् । यदा मः- चन्द्रो न आकः-न प्राप्तः तदा अणं सफलं, कार्य स्यादिति शेषः । पष्ठभवने चन्द्रस्त्याज्य इत्यर्थः ॥ ३२ ॥
( नमोदरि - हं ता अनः ) ता - तावत् अनः - शकटं वर्तते । किम्भूतम् ? 'नमो अरिहं' १० नमो दरिहं नर्म-नमस् नीचैर्भवत् पुनः उत्-उच्चैर्भवत् एवंविधं यत् अरि-चक्रं ताभ्यां हन्ति - गच्छति । शकटं हि चक्राभ्यां चलतीति ॥ ३३ ॥
( न मो - रि-हन्ता णं) मः - ईश्वरो वर्तते । किम्भूतः ? 'अरिहन्ता' अरं - शीघ्रम् इःकामः तस्य हन्ता, 'णं' अलङ्कारे ॥ ३४ ॥
( न ओजोऽर्ह ता - sणः ) ता - शोभा तत्प्रधानोऽणः - शब्दः साधुशब्दो यशः । 'न ओ२५ जोऽर्ह' ओजो - बलं तस्य योग्यं न, वलेन यशो न स्यादित्यर्थः । मकारोऽलाक्षणिकः । 'अणं' इत्यत्र 'लिङ्गमतन्त्रं' (सिद्ध० ८-४-४४५ ) इति क्लीवत्वेन न दोषः ॥ ३५ ॥
( नामू: अरमिभा - ऽन्ता - ऽणः ) अरम् - अत्यर्थम् । इभान्तः - हस्तिविनाशी सिंहः तस्य अणः-शब्दः, सिंहनाद इत्यर्थः । तं त्वं अय-प्राप्नुहि । इति सुभटस्योच्यते । यतो अमूः वन्धनं न स्यात् । 'स्वराणां स्वराः' (सिद्ध० ८ -४ - २३८ ) इत्यकारः ॥ ३६ ॥
१ 'भय'धातोरात्मनेपदिश्वात् चिन्त्योऽयं प्रयोगः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org