________________
नमस्कारप्रथमपदार्थाः
१०५ विधाता, "मश्चन्द्रे (च) विधौ शिवे" (श्रीमुधाकलशप्रणीतायामेकाक्षरनाममालिकायां श्लो० ३४), विधाता-जगत्कर्ता कोऽपि तन्मते न वर्तते इत्यर्थः ॥ १६ ॥
(न मा ऊ अ-रि हा-sतानम्) न विद्यते रा-द्रव्यं यस्य तत् अरि, निद्रव्यं कुलमित्यर्थः । तत् किम्भूतम् ? 'हंताणं' हो-निवासः तस्य अतानं-लाघवं यस्य तत् । निर्धनस्य गृहलाघवं स्यात् । तानो-विस्तारः, अतानं-लाघवम् । 'न मा' इति निषेधद्वयं प्रकृत-५ मर्थ ब्रूते । 'अ' इति पूरणे ॥ १७ ॥
(नमोत्परिघं ता-ऽऽ-नम्) तः-तस्करः तस्य आ-समन्तात् नं-बन्धनम् । किम्भूतम् ? 'नमोत्परिघं' नमन्-आरतः परतोऽपि द्वारादिषु मिलन् उत्-प्रबलः परिधः-अर्गला यत्र तदेव चौरबन्धनं स्यात् ॥ १८ ॥
(न मा ऊ अरि-ह सन्तानम्) अरी-प्राप्नुवन् हकारो यत्र । एतावता सकारः १० तस्मात् अन्तानं इति योज्यते । तदा स(सा?)न्तानं इति स्यात् । ततः सन्तानं मा-लक्ष्मीः च ऊः-रक्षणं न स्यात् , दुर्गतिपातत इति ॥ १९॥ (नमोऽर्हद्भ्यः ) अर्हन्तः-सामान्यकेवलिनः तेभ्यो नमः ॥ २० ॥
(नमोऽहंदुभ्यः) अर्हद्भ्यः-पूज्येभ्यो मातापित्रादिभ्यो नमः ॥ २१ ॥ __(नं ओ अर्हन्तं अत णं) 'ओ' इति सम्बोधने । नं-बुद्धिम् अर्हन्त-प्राप्नुवन्तं वुद्धि-१५ निधानं मन्त्रिणम् । 'अत सातत्यगमने' (सिद्ध० धा०)। अत-जानीहि । 'गत्यर्था ज्ञानार्थाः' इति । 'स्वराणां स्वराः' (सिद्ध०८-४-२३८) इत्याकारः । ‘णं' वाक्यालङ्कारे ॥ २२ ॥ ___(नमोऽर्हतः) अर्हतः-स्तुत्यान् सत्पुरुषान् नमः, स्नुग्-द्विषाहः शत, शत्रुः स्तुत्ये इति ॥ २३ ॥ __ (नं अर्हतः उअ) नं-ज्ञानम् अर्हतः-प्राप्तान् श्रुतकेवलिनः । 'उअ पश्य' (सिद्ध०२. ८-२-२११) ॥ २४ ॥
(न-मा-ऊ-अरिहं ता अण) नं-ज्ञानं तस्य मा-प्रामाण्यम् । ऊः-धारणं तस्य अरिहं-योग्यं । ज्ञानप्रामाण्यवादिनं जनं त्वं अण-बद । 'अण-रण(वण-व्रण-बण-भणभ्रण-मण-धण-ध्वण-ध्रण-कण-कण-चण शब्दे)' (सिद्ध० धा०) इति दण्डकधातुः। ता-तावत् प्रक्रमे । अन्तेऽनुस्वारः प्राकृतत्वात् ॥ २५ ॥
(नमः अहीं-ऽन्त-अणं) अर्हः-प्राप्तोऽन्तो यः। एवंविधा 'अण' त्ति अनन्तानुबन्धिनो यस्य तम्, पदैकदेशे पदसमुदायोपचारात् । सम्यग्दृष्टिपुरुषं क्षायिकसम्यक्त्ववन्तं प्रति नमः ॥२६॥ (नम उत-लिहं त्राणं) त्राणं-भोजनभाजनमण्डनयोग्यं वस्तु, तं नम-अन्तर्भूतणि१ 'पितृप्रभृतिभ्यः' इति ख-पाठः। २ अन्न पूर्वापरीभावः ख-पुस्तके ।
अर्थ. १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org