________________
१०४
पण्डितगुणरत्नमुनिवरकृताः
प्रश्रवणस्य लिहः - पानकारी । 'लिहींकू आस्वादने' (सिद्ध० धा०) तस्यैवंविधकष्टकर्तुरपि त्राणं शरणं न स्यात् । ज्ञानं विनेत्युपस्कारः । " सोपस्कराणि सूत्राणि भवन्ति” इति
न्यायः ॥ ८ ॥
(न मौकलि-हा - SSनम् ) मौकलिः - 5:- वायसः । 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८) ५ इत्यकारः । तस्य हन्ता - घातकः, तस्य आनं जीवनं न स्यात् । लोके हि एवं रूढिः - वायसस्य भक्षकश्विरजीवी स्यात् । तत्रायं अर्थो न समर्थः । तस्य हननेऽपि अधिकं जीवनं नैवेत्यर्थः ॥ ९ ॥
(न- मोदाssरि भन्राणम्) 'हंताणं' भानि - नक्षत्राणि तेषां त्राणं- रक्षणं यस्य, सर्वनक्षत्रत्राता, चन्द्रः इत्यर्थः । 'पश्यत' इति क्रियाऽध्याहारः । चन्द्रं किम्भूतम् ? 'नमोदारि' १० नो-बुद्धिः मोदो - हर्षः आरः- प्रापणम्, आरो विद्यते यस्य स आरी, बुद्धिमोदयोः आरी । शुभे चन्द्रे हि शुभा बुद्धिः हर्षश्च प्राप्यते । 'आरि' इत्यत्रानुस्वाराभावो न दोषाय, चित्रत्वात् । 'ख-ध-थं-ध-भां हः ' ( सिद्ध० ८-१-१८७ ) इत्यादौ भकारस्य हकारः क्वचित् आदावपि भवतीति वचनात्, बाहुलकाच्च ॥ १० ॥
(न-मोदाsहं त्राणं) त्राणं - सत्पुरुषशरणं वर्तते । किम्भूतम् । 'नमोदार्ह' नो- ज्ञानं १५ मोदो - हर्षः तयोः अर्ह योग्यम् ॥ ११ ॥
(नृ-मोदर्ह तानम्) तानं - वस्त्रम् । लोके हि तानकयोगाद् वस्त्रनिष्पत्तिः । कारणे कार्योपचारात् तानं - वस्त्रम् । किम्भूतम् ? 'नमो अरिहं' नृणां - मनुष्याणां मा-शोभा, तस्या उदहं भृशं योग्यम्, मनुजशोभाकारि इत्यर्थः ॥ १२ ॥
( नमोदरी हन्त आ-नम् ) ' हन्त' इति खेदे । नमं-नमत् कृशम् उदरं यस्याः सा नमो२० दरी - कृशोदरी, स्त्री इत्यर्थः । सा 'आनं' आ-समन्तात् नं- बन्धनम् । स्त्रियः सर्वत्र बन्धनरूपा इति ॥ १३ ॥
(नम अर्हदाज्ञाम्) 'अरिहंताणं' अर्हदाज्ञां प्रति नम - प्रह्वीभवेति शिष्यस्य कथनम् ॥ १४ ॥
( न मोपरि हन्ता) मः- शिवः । 'शिव' शब्देन मोक्षो ज्ञेयः । तस्य उपरि हन्ता - गन्ता २५ न वर्तते कश्चित् जीवः, मुक्तेरुपरि अलोकसद्भावेन कस्यापि गमनाभावात् । ' हन्ता' इत्यत्र 'हनंकू हिंसा - गत्योः' (सिद्ध० धा० ) इति गत्यर्थः ॥ १५ ॥
( न म उअ इह अ-तानम् ) इह-जगति अं- परब्रह्म तस्य तानं - विस्तारं त्वं 'अ पश्य' (सिद्ध० ८ - २ - २११ ) । सर्वस्मिन् जगति ब्रह्मैवास्तीति वेदान्तिमतम् । न मः -
१ 'भक्तिक' इति क-पाठः । २ 'बाहुलकाद् चा' इति ख- पाठः । ३ ' गमनं नास्ति' इति ख- पाठः । ४ उभ पश्येत्यस्यार्थे श्री हेमचन्द्रसूरिभिः प्राकृतव्याकरणस्य स्वोपज्ञवृत्तौ निर्दिष्टा गाथा तच्छाया च यथा"उभ निश्चल निष्कंदा भिसिणीपत्तम्मि हइ बलाभा । निम्मक- मरगय- भाषण-परिद्विआ सङ्घ- सुत्ति व्व ॥" पश्य निश्चळ निःस्पन्दा बिसिनीपात्रे राजति बलाका । निर्मलमरकत भाजनपरिस्थिता शङ्खशुक्तिरिव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org