________________
पण्डितगुणरत्नमुनिवरकृताः ॥ नमस्कार - प्रथम-पदा -ऽर्थाः ॥
101
(नमोऽर्हद्भ्यः) नमो अरिहंताणं । नमोऽर्हद्द्भ्य इति मुख्योऽर्थः ॥ १ ॥ ( नमोऽरि-हन्तृभ्यः) अरयः: - वैरिणस्तेषां हन्तारः अरिहन्तारः - सर्ववैरिविनाशकाः, चक्रवर्तिन इत्यर्थः, तेभ्यो नमोऽस्तु इति तत्सेवकवचः ॥ २ ॥
( नमोऽरि-हन्तृभ्यः) अथवा अरा विद्यन्ते यत्र तत् अरि-चक्रं, तेन हन्तारो - वैरिविनाशकाः, चक्रवर्तिन इत्यर्थः, तेभ्यो नमोऽस्तु ॥ ३ ॥
(न-मोदाsरि ह त्राणम्) हो - जलं तस्य त्राणं- रक्षणं, सरोवरमित्यर्थः, तद् वर्तते किम्भूतम् ? मोदो - हर्षः तस्य अरिरिव अरिः शोकः, न विद्यते मोदारिः- शोको यस्मात् तत् नमोदारि । नखादिगणान्नञोऽवस्थानम् । “प्रक्रियां नातिविस्तरां " ( सारखतादौ ) इत्या- १० दिवत् ॥ ४ ॥
(नम ओ अरि-हं त्राणम्) अरि-चक्रं हन्ति - गच्छति प्राप्नोति इति अरिहं - चक्रधरं, विष्णुम् | 'नम' इति क्रियापदं पञ्चम्या मध्यमपुरुषैकवचने । किम्भूतं विष्णुम् ? त्राणं-शरभूतं तत्सेवकानाम् । 'ओ' इति सम्वोधने ॥ ५ ॥
( नमोदलि ह-तानं) हो - जलं तस्मात् तानो - विस्तारः उत्पत्तिः यस्य तत् हतानं - कम- १५ लम् । (तद्) वर्तते । किम्भूतम् ? 'नमोदलि' नमः - प्रह्वीभावः तेन उत्-प्रबला उद्धता अॅलिनः - भ्रमरा यत्र एवंविधम् । अनुस्वाराभावः चित्रत्वात्, रलयोरैक्यं च तस्मादेव ॥६॥
Jain Education International
(नमोदरि हन्ताऽऽनम् ) नमो अरि० । नर्म-नमत् उदरं नमोदरं, नमोदरं विद्यते यस्य तत् नमोदरि, बुभुक्षाक्रान्तोदरं भिक्षाचरवृन्दमित्यर्थः । तद् वर्तते किम्भूतम् ? 'हन्ताणं' हन्तशब्देन भिक्षा उच्यते । देशीभापया हन्त - भिक्षा, तया आनं-जीवनं यस्य २० ( तत् ) हन्तानम् ॥ ७ ॥
(न मोअ - लिह - त्राणम्)
मोअशब्देन प्रश्रवणम् । 'अँणहारे मोअनिंबाइ' इति
१ ‘नखादयः' इति सिद्ध है मे ( ३-२-१२८) । २ 'अलयः' इति ख- पाठः ।
३ श्रीदेवेन्द्रसूरिकृतस्य प्रत्याख्यान भाष्यस्य पञ्चदशगाथायाश्चतुर्थं चरणमिदम् । सम्पूर्णा गाथा तच्छाया चैवम् -
५
"खाइमे भत्तोसफळाइ साइमे सुंठिजीर अजमाई | महु-गुढ तंबोलाइ, अणाहारे मोभनिवाइ ॥” खादिमे भक्तोषफलादि स्वादिमे शुण्ठिजीर काजाजादि । मधु-गुड-ताम्बूलादि अनाहारे प्रश्रवणनिम्बादि ॥
For Private & Personal Use Only
www.jainelibrary.org