SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ नमस्कारप्रथमपदार्थाः (नमोऽजारि-हन्तृभ्यः) "अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे" (हमे का० २, श्लो० ८०) इत्यनेकार्थवचनात् अजः-ईश्वरः सोऽरिर्यस्य सः अजारिः-कन्दर्पः, तस्य हन्तृभ्यो-नीरागेभ्यो नमः ॥ ३७॥ (न मा ओ! अ-लिहं त्राणम्) कस्यचिद् धनवतो धर्मपराङ्मुखस्योच्यते । 'लिहीक् आस्वादने' (सिद्ध० धा०) लिहनं लिहः वाहुलकाद् भावे कः । न विद्यते लिहो यस्य । (सद् ) अलिहम्-अभक्ष्यत्वं अज-क्षिप, त्यजेत्यर्थः। अवतेवृद्ध्यर्थात् क्विपि । औस्तस्यामन्त्रणे हे ओ! धनवृद्ध! मा-लक्ष्मीः त्राणं न भवतीति, विरतिरेव त्राणं स्यादिति अभक्ष्यार्थ त्यजेत्यर्थः ॥ ३८ ॥ (न मोचः अज-लिह-तानाम्) अजः-छागः तं लिहन्ति भक्षयन्तीति अजलिहाः। एवंविधास्ताः-तस्करास्तेषां मोचो-मोक्षो न स्यात् । 'ते कर्मभिः न मुच्यन्ते इत्यर्थः । मोचनं. मोच इति णिगन्तादच् ॥ ३९ ॥ (न मोचा लिह-ता न) मोचा-कदली वर्तते । किम्भूता ? लिहो-भोज्यं तस्य ता-शोभा यस्याः सा । भोज्ये सारभूता । न नेति निषेधद्वयं प्रकृतार्थम् ॥ ४० ॥ (न मा अही-ऽन्ता णं) अर्हा-पूजा तस्या अन्तो-विनाशो यस्यां सा अन्तिा । ईदृशी मा-लक्ष्मीः न भवति । लक्ष्मीः सर्वत्र पूजां प्राप्नोतीत्यर्थः । 'ण' अलङ्कृतौ ॥ ४१ ॥ १५ (न मोऽजा-रि-हन्ता न) मातीति मः 'क्वचिड्डः' (सिद्ध०५-१-१७१) प्रमाणवेदी पुरुषः। किम्भूतः ? अजः-परमात्मा तस्य अरिः-निषेधकः, प्रतिवादीति यावत् , तस्य हन्ता-निवारकः । परमेश्वरं यो न मन्यते तं निवारयति प्रमाणवेत्ता पुरुषः, सर्वज्ञं स्थापयतीत्यर्थः । नद्धयं प्रकृत्यर्थे ॥ ४२ ॥ __ (नमोऽजा-ऽह-ता-अणं) अजः-सर्वज्ञः तस्य अर्हः-पूजा तस्य तां-शोभा अणति-वदति २० उपदिशति यः तं पुरुषं (प्रति) नमोऽस्तु । पूजास्थापकः पूजाहेः स्यादित्यर्थः ।। ४३ ॥ (न मोह -ऽन्ता-sगः) “अन्तः स्वरूपे निकटे, प्रान्ते निश्चय-नाशयोः। अवयवेऽप्यथाऽर्हन् स्यात् , पूज्ये तीर्थकरेऽपि च ॥" . .. इति (हैमे का० २, श्लो० १७१) वचनात् मः-शिवोऽस्ति किम्भूतः? 'अन्तिाणा' ५५ अर्ह-सर्वेषां योग्यम् अन्तः-स्वरूपं तस्य अण- उपदेष्टा । 'अण शब्दे' (सिद्ध० धा०)। "मश्चन्द्रे (च) विधौ शिवे" (सुधा० श्लो० ३४) इत्येकाक्षरनिघण्टुः। ईश्वरः सर्वपदार्थयथास्थितवादी न स्यात् , तदुक्ततत्त्वव्यभिचारात् ॥ ४४ ॥ , 'कर्ममुक्तिर्न सावित्यर्थः' इति न-पाठः । २ 'भलकारे' इति स्न-पाठः । "अन्तः स्वर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy