________________
१०८
पण्डितगुणरत्नमुनिवरकृताः (नमोऽजा-अरिहं ता-ऽणं) अजः-छागः तेन, 'ऋक् गतौ' (सिद्ध० धा०) इयति अजारीः-छागवाहनो यह्निः शीलार्थ इन् । तं 'हिंट गति-वृद्धयोः' (सिद्ध० धा०) हाययतिवर्धयतीति अजारिहः-चद्विवर्धकोऽग्निहोत्री तं पुरुष नमोऽस्तु इत्युपहासः । तं किम्भूतम् ? 'ताणं' तां-शोभाम् अणति ताणः, वयं अग्निहोत्रिण इत्यभिमानी ॥ ४५ ॥ ५ (न मोचांअलि हन् अतणं)"मोचा शाल्मलि-कदल्योर्मोचा शिौ" इत्यनेकार्थः (हैम० का० २, श्लो० ७३)। मोचा-शाल्मली तां त्वं न अत । 'अत सातत्यगमने' (सिद्ध धा०) मा गच्छेति । यतः 'अलिहन्' अलीनां-भ्रमराणां हन्-गमनं णं निष्फलं वर्तते । 'हनं हिंसागत्योः' (सिद्ध० धा०) विचि रूपम् । भ्रमराणां भ्रमणं निष्फलं, सौरभरहितत्वात् । ततस्त्वं मा गच्छेति मित्रस्योक्तिः ॥ ४६ ॥ १. (नमोऽरि-हतेभ्यः) अरयो-वैरिणः अष्टविधकर्माणि । यदुक्कं (आवश्यकनियुक्ती गा० ९२०)
"अढविहं पि अ कम्मं अरिभूअं होइ सबजीवाणं ।
___ तं कम्ममरिं हंता अरिहंता तेण वुच्चंति ॥" इति तैर्हतेभ्यः कर्मपीडितेभ्यो नमोऽस्तु । इति उपहासनमस्कारः॥ ४७ ॥ १५ (न मोचं अर्हत्-त्राणम्) 'अरिहं' अर्हन्-तीर्थकरः तस्य त्राणं-शरणं न मोच-न मोच्यमिति ॥ ४८ ॥
(न मोचं अर्हत्-त्राणम्) अर्हन्-तीर्थकरः तस्य त्राणं-शरणं न मोच्यम् ॥ ४९ ॥ • (न मोचं अरि-ह-त्राणम्) अरि-अष्टविधं कर्म हतवन्तः ते अरिहाः-सिद्धाः तेषां त्राणं शरणं न मोच्यम् ॥ ५० ॥ २. (न मः मोदा-ऽरि-हतानाम्) मोदारिः-शोकः तेन हतानां-पीडितानां न म:शिवं न स्यात् ।। ५१॥
(न मोदोऽरि-हतानाम्) अरिहतानां-बाह्यवैरिपीडितानां न मोदः-हर्षो न स्यात् ॥५२॥
(नमः अरि हतेभ्यः) अरि इति अव्ययं सम्बोधने । हतेभ्यो-निन्द्येभ्यो नम इत्युपहास्यम् ॥ ५३ ॥ २५ (नमोऽगा-रि-हा-ऽन्ता-ऽणं) अगाः-पर्वताः तेषां अरिः-इन्द्रः तस्य हो-निवासः स्वर्गी| तस्य अन्तः-स्वरूपं, “अन्तः स्वरूपे निकटे" इति (हैमे का० २, श्लो० १७१) वचनात् ।
१ 'नमो० अरिभिर्हतानाम्-अष्टविधकर्मपीडितेभ्यो नमः-उपहासनमस्कारः' इति ख-पाठः । २ छाया
अष्टविधमपि च कर्म भरिभूतं भवति सर्वजीवानाम् ।
तं कारिं हन्ति भरिहन्तारस्तेनोच्यन्ते ।। ३ 'जिनः' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,