SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ नमस्कारप्रथमपदार्थाः १०९ तं अणति वदति यः तं प्रज्ञापनादिसिद्धान्तवेदिनं नमः -प्रणतोऽस्मीत्यर्थः । 'अवर्णो यश्रुतिः' (सिद्ध० ८-१ - १८० ) न यकारवा हुलकात् इति अगारिरित्यत्र ॥ ५४ ॥ ( नमोऽर्ह त्वमत णम् ) णं- ज्ञं पण्डितं पुरुषं त्वम् अत - जानीहि । 'अत सातत्य - गमने' (सिद्ध० धा० ) । 'गत्यर्था ज्ञानार्थाः ' । किम्भूतम् ? नमोऽर्ह - प्रणामयोग्यम् ॥५५॥ (न-म-उ अर्हदृणम्) 'अरिहंताणं' अर्हन्- तीर्थकरः तस्य ऋणं कर्म तीर्थकर नामकर्मे - ५ त्यर्थः । किम्भूतम् ? 'नमो' नो-ज्ञानं मः- शिवं तयोः कः - प्राप्तिः यस्मात् । यत् कर्म - युदिते परमज्ञानं मोक्षश्च प्राप्यते एवेत्यर्थः ॥ ५६ ॥ ( नमोत्तरी : हा - sन्ता) 'नमोत्तरी : ' नमा नमन्ती उत्-ऊर्ध्वं गच्छन्ती एवंविधा तरीः-नौः। किम्भूता ? ' हान्ता' हं जलं तस्य अन्तः - प्रान्तो यस्याः एवंविधा न स्यात् । क्षणं नमति क्षणाच्चोद्धं याति तया नावा जलप्रान्तो न स्यात्, जलप्रान्ते न गम्यते १० इत्यर्थः ॥ ५७ ॥ (नृ-मोऽरि हताऽऽनः ) ना - पुरुषः तस्य मो - मस्तकः । किम्भूतः ? 'हतानः ' "हः शूलिनि करे नीरे” (सुधा० श्लो० ४५) इति ह: - - ईश्वरः तस्य ता - शोभा तां आनयतिवर्धयति (इति) हतानः । नरमस्तको हि ईश्वरशोभाकरः तदाभरणं शिवस्य वर्तते । 'अरि' सम्बोधने ॥ ५८ ॥ ( नम अजं हताऽनम् ) अजं - विष्णुं नम-प्रह्वीभव । किम्भूतम् ? 'हतानः' हतः अनः - शकटदैत्यो येन तम् । 'इ-जे-राः पादपूरणे' (सिद्ध०८-२-२१७ ) इति सूत्रात् इकारमुक्तो रेफः पादपूरणे ॥ ५९ ॥ ( न मा अजोऽरिहन्ता णम्) अजो - रघुतनयः अरिहन्ता - सर्ववैरिविनाशी अभूत् । 'णं' अलङ्कारे । 'मा' 'न' इति निषेधद्वयं प्रकृतार्थम् ॥ ६० ॥ ३० (नृ-मोदं रह तानम् ) 'नमो अरहंताणं' अयमपि पाठोऽस्ति । ताना एकोनपञ्चाशत् । तानं - गीततानं रह - जानीहि । 'रहुण गतौ' (सिद्ध० धा० ) । गत्यर्थाश्च ज्ञानार्थाः । तानं किम्भूतं ? 'नृमोदं' नृणां पुरुषाणां मोदो यस्मात् ॥ ६१ ॥ (न मोचय अर्हदाज्ञाम् ) अनेन पदेन अनुयोगचतुष्टयं व्याख्यायते । अरहंताणं अर्ह दाज्ञां न मोचय । मोचा - शाल्मली मोचां करोति मोचयति । मध्यमपुरुषैकवचने मोचयेति २५ सिद्धम् । शाल्मलितुल्यामसारां जिनाज्ञां मा कुरु । तत्त्वरूपां तां जानीहि । इति चरणकरणानुयोगः ॥ ६२ ॥ ( नमः अर्हन्नकं त्राणम्) 'अरहं' अर्हन्नकं - साधुं त्राणं- शरणभूतं नमस्कुरु । पदैकदेशे पदसमुदायोपचारात् अरहं अर्हन्नकम् । इति धर्मकथानुयोगः ॥ ६३ ॥ १] अनेन विप्रहेण 'नमो' इति पदस्य कर्मविशेषणत्वे संशीतिः, नपुंसकत्वे ह्रस्वेन भाव्यम् । २ 'तरस्वरूप' इति ख- पाठः । ३ 'मईकः' इति क-पाठः । Jain Education International १५ For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy