________________
११०
पण्डितगुणरत्नमुनिवर कृताः
1
( न मोच-र-हन्ता ऋणम्) ऋधातोस्तप्रत्यये 'ऋहीघाधा (त्रोन्दनुदविन्तेर्वा ) ' (सिद्ध० ४-२-७६) इति ऋणप्रयोगः । ऋणं क्षीणं पुरुषं मोचः- शिग्रुः तस्य 'र' शब्देन रसो हन्ताघातकोभवति । क्षयरोगी पुरुषः शिग्रुरसेन नीरोगः स्यादिति तात्पर्यम् । पदैकदेशे पदसमुदायोपचारात् 'र' शब्देन रसः । नेयं स्वमतिकल्पना श्रीजिनमभसूरिरपि, 'पंउमाभवासुपूज्जा' ५ इत्यस्यां गाथायां चतुरनुयोग व्याख्यानयद्भिरेवं व्याख्यातम् — “ पर इति पौषः । मा इति माघः । भ इति भाद्रपदः । तत्र अव इति अवमरात्रे सतीत्यर्थः । असु इति असुभिक्षं - दुर्भिक्षं स्यात् । पु इति पुहवी । लोगो पुहवी सोवा तस्य ज्या ज्यानिः - हानिः स्यादित्यर्थः” । इति द्रव्यानुयोगः ॥ ६४ ॥
( न मोडलि - हन् त्राणम्) 'नमो अरिहंताणं' अलिः - वृश्चिकराशिः तत्र 'हनंकू हिंसा - १. गत्योः' (सिद्ध० धा० ) हन्ति - गच्छतीति विचि अलिहन्-वृश्चिकराशिगतो मः - चन्द्रः त्राणं-विपद्रक्षको न भवति । वृश्चिकराशौ चन्द्रस्य नीचत्वाद् दौर्बल्यम् । इति गणिताअनुयोगः ॥ ६५ ॥
( नमः अलि-हा-ऽन्तेभ्यः) “अलिः सुरा- पुष्पलिहोः" इति (हैमे अनेकार्थे का० २, श्लो० ४८०) वचनात् अलि:- सुरा तां जहाति अलिहं-सुरावर्जकम् । सुराया उपलक्षणत्वात् १५ मांसाद्यपि ग्राह्यम् । मद्यादिवर्जकं अन्तः - स्वरूपं येषां तानि अलिहान्तानि - श्राद्धकुलानि तेभ्यो नमः - उद्यमो भवतु । श्राद्धकुलानि उदितानि सन्त्वित्यर्थः ॥ ६६ ॥
( नमः अरे हं अताणम्) कश्चिच्छेवो वक्ति - हं - अहं रे - रामविषये नमो-नमस्कारम् अताणं-अतनवम्, कृतवानित्यर्थः । ' र ' शब्देन राम उच्यते एकाक्षरनाममालायाम् । अतनवमिति ह्यस्तन्युत्तमैकवचनम् । अकारः पादपूरणे ॥ ६७ ॥
२०
( नमः अरे हं अताणम्) कश्चिज्जैनो वक्ति - अहं रामे नमः नातनवम् । अकारो निषेधे । “अ-मा-नो-नाः प्रतिषेधवाचकाः” इति माला ॥ ६८ ॥
( नमोsर - भन्ता णम्) नमो अरहताणं नं- बन्धनं । 'मींगूशू हिंसायां' (सिद्ध० धा० ) मीनाति - हिनस्ति । उप्रत्यये नमो- बन्धच्छोटकः, बन्दिमोक्षकरः स वर्तते । किम्भूतः ? 'अरहन्ता' रो - नरः, न रः अरः- अमर्त्यः, देव इत्यर्थः । अरान् देवान् भनक्तीति अर१५ भन् - दैत्यः । तेभ्यः 'तायृङ् सन्तान - पालनयोः' (सिद्ध० धा०) तायते इति ताः क्विपि ।
1
१ सम्पूर्ण गाथा तच्छाया चैत्रम्
"पउमाभ-वासुपूज्या, रक्षा ससि पुष्कदंत ससिगोरा । सुन्वय- नेमी काळा पासो मल्ली पिगंगाभा ॥"
पद्मप्रभ-वासुपूज्यौ रतौ चन्द्र (प्रभ) - पुष्पदन्तौ शशिगौरी । सुव्रत नेमी काली पार्थो मल्लिः प्रियवाभः ॥ ३ सुधाकलशीयां (छो० ३७) प्रोकं चरः कामे तीक्ष्णे वैश्वानरे
२ रतयोरैक्येन भरिस्थाने मलिः ।
नरे । रामे वज्रे च ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org