________________
नमस्कारप्रथमपदार्था
'खोः प्वय् व्यञ्जने लुक्' (सिद्ध० ४-४-१२१ ) इति यलोपे अरहन्ता । बन्दिमोक्षकरोमन्त्रमण्यादिः पदार्थो दैत्यभयवारको भवति । 'णं' पूरणे ॥ ६९ ॥
(न-मोऽरहन् त्राणम्) 'न' शब्देन ज्ञानं तच्च पञ्चसङ्ख्यम् । एतावता नं पञ्चसङ्ख्याया मं- ज्ञानं यस्य स नमः - पञ्चमज्ञानवान् केवली । 'मांङ्क मान - शब्दयोः' (सिद्ध० धा० ) । मीयते इति मं - ज्ञानम् । बाहुलकाद् भावे डप्रत्यये सिद्धम् । केवली किम्भूतः ? ' अरहन्' ५ अरा-देवाः तान् हन्ति - गच्छति प्राप्नोति अरहन् । देवस्य सेव्य इत्यर्थः । त्राणं- षङ्काय
१११
रक्षकश्च ॥ ७० ॥
(न-मा-ऊ अ-र-हा-न्तेभ्यः) अकारं रियन्तीति डे अराः । 'रिंतु गतौ' अकारप्रापकाः । हकारोऽन्ते येषां ते हान्ताः, अकारादयो हकारान्ता वर्णा इत्यर्थः । 'नमो' नं-ज्ञानं माशब्दः 'माक्रू मान- शब्दयोः' (सिद्ध० धा० ) इति तयोः औ: - अवगमनं भवति । अव - १० धातुरवगमनार्थेऽपि वर्तते । अवनं ऊः भावे विपू । 'अरहंताणं' इत्यत्र चतुर्थी ज्ञेया । वर्णभ्यो ज्ञानं शब्दावगमश्च स्यादित्यर्थः ॥ ७१ ॥
1
1
( नमोदरा - भक् त्राणम्) त्राणशब्देन बृहत्पूपिकोघ्यते जैनमुनिभाषया । ये लोके मण्डका इति प्रसिद्धाः ते साधूनां त्राणका इति । त्राणानां समूहो त्राणम् । समूहार्थे अणू । त्राणं किम्भूतम् ? नम-नमत् उदरं यस्याः सा नमोदरा - बुभुक्षा तां भनक्कीति क्विपू १५ 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८ ) इत्यकारः ।। ७२ ।।
(न मौक-रहः ता-ऽऽनः) "मूको दैत्याऽवागदीनेषु" इत्यनेकार्थसङ्ग्रहः (हैमे का० २, श्लो० ३० ) मूकानां समूहो मौकम् । 'पष्ठ्याः समूहे' (सिद्ध० ६-२-९) इत्यण् । 'रह त्यागे' (सिद्ध० धा० ) मौकं रहति मौकरहो न स्यात् । कः ? तां - लक्ष्मीं आनयतीति तानः । धनोपार्जकः दीनसमूहवर्जको न स्यात् । दीनसमूहं प्रीणयतीति स दीनैः सेव्यत इ- २० त्यर्थः ॥ ७३ ॥
( नमो-गा ण-रहन्तः) "णः प्रकटे निष्फले व प्रस्तुते ज्ञान- बन्धयोः” इति (सुधा० ) एकाक्षैरनाममाला (श्लो० २२ ) वचनात् णो- बन्धः, कर्मवन्ध इत्यर्थः । तं रहन्तः - त्यजन्तः पुरुषाः 'नमोगाः स्युः । नमः - नमस्कारं गच्छन्ति प्राप्नुवन्तीति नमोगाः - नमस्कारार्हाः स्युः ॥ ७४ ॥
(न-मोचः ण-रहन्तः) णं - ज्ञानं रहन्तः - प्राप्नुवन्तः पुरुषाः 'नमोचः' स्युः । नमन्तीति डे नाः - प्रणामकारिणः तान् मोचयन्ति संसारात् नमोचः, णिगन्सात् क्किए । 'रहु गतौ' (सिद्ध० धा० ) रहन्त इत्यत्रानुस्वाराभावश्चित्रत्वात् ॥ ७५ ॥
Jain Education International
(न माऊ: अरहन्तः णं) 'णसि कौटिल्ये' (सिद्ध० धा० ) नसनं नः कौटिल्यम् । अरहन्तः-अप्राप्नुवन्तः पुरुषाः णं प्रकटं यथा स्यात् तथा अवन्ति - दीप्यन्ते इति विपि ऊः । ३०
१ नमोः इति ख पाठः । २ 'भवनमोः' इति ख- पाठः । ३ 'क्षरवचनात्' इति ख- पाठः ।
For Private & Personal Use Only
२५
www.jainelibrary.org