________________
११२
पण्डित गुणरत्नमुनिवरकृताः प्राकृतत्वाजस्लुक् 'स्यम्-जस्-शसां लुक्' (सिद्ध० ८-४-३४४) अपभ्रंशे 'व्यत्ययश्च' (सिद्ध०८-४-४४७) इति भाषाव्यत्ययात् प्राकृतेऽपि ॥ ७६ ॥ - (न मोऽरि-हन्ता आः न) मृदं करोति णिजि अचि मः-कुम्भकारोऽस्ति । किम्भूतः?
अरि-चक्रं तेन अंहते-दीप्यते अरिहन्ता । सेल्क् न न भवतीति वेत्यर्थः । आः पाद५ पूरणे ॥ ७७॥
(नः मोक-रहन्तानाम्) मोक-कायिकी रहन्ताण-त्यजतां परिष्ठापयतां साधूनां नो भवति अविधिना त्यजतां नः-कर्मबन्धः, विधिना त्यजतां तु नो-ज्ञानं स्यादिति विवक्षयार्थद्वयम् ॥ ७८॥ .
अथ चतुर्दशस्वप्नवर्णनम्-(नम-करी ऋण-हन्ता णं) नमः-प्रहीभावः, सौम्यत्वमिति १. यावत् , तेन अवति-दीप्यते । अवधातुरेकोनविंशत्यर्थेषु । तत्र दीप्यर्थोऽप्यस्ति । नमश्चासौ करी-हस्ती । सौम्यो गज इत्यर्थः । सोऽदुःखहेतुत्वात् ऋणं-दुःखं, कारणे कार्योपचारात् हन्ति-विनाशयति । अणमित्यत्र 'स्वराणां स्वराः' (सिद्ध०८-४-२३८) इत्यात्वम् । 'हन्ताणं' इत्यत्र 'पदयोः सन्धिर्वा' (सिद्ध०८-१-५) इति सन्धौ ‘अधोम-न-याम्'
(सिद्ध०८-२-७८) यलोपे सिद्धिः ॥ ७९ ॥ १५ (नम ! उअ रथ-तानं) रह-रथं तानयति-विस्तारयति स्थानात् स्थानान्तरं नयति, 'नवाऽखित्कृदन्ते रात्रेः' (सिद्ध० ३-२-११७) इति मोऽन्ते रथंतानो-वृषभः तं 'उअ पश्य' (सिद्ध० ८-२-२११)। नमेति हे नम! नमतीति नमः तत्सम्बुद्धिः ॥ ८॥
(न-मोक्-करिहन्ता आनाम्) 'णहीच बन्धने' (सिद्ध० धा०) नह्यते इति भावे ड. प्रत्यये नं-बन्धनं तस्योपलक्षणादन्याऽपि पीडा ग्राह्या । तस्मान्मोचयति नमोग् णिगन्ताद् २० विच् करिहन्ता-सिंहः । नमोक् चासौ करिहन्ता च स तथा । केषाम् ? 'आणम्' ? 'अपी
असी गत्यादानयोश्च' (सिद्ध० धा०) इति चानुत्कृष्टशोभार्थादपेर्डे प्रत्यये अ:-शोभमानः, पुण्यवान्नर इत्यर्थः । तेषां एवंविधः सिंहो दृष्टः । पीडाहरः स्यादित्यर्थः ॥ ८१ ॥
(नमोदर-हं ता-ऽऽनम्) ता-लक्ष्मीः तस्याः आनं वर्णच्युतकादसनं वर्तते । किम्भूतम् ? 'नमोदरह' नम-नमत् उदरं हं-जलं यत्र तत् तथा । 'एकार्थ चाने च' (सिद्ध० ३२५१-२२) इति समासः। आसने स्थिता लक्ष्मीः स्वं जलेन सिञ्चति इति लक्ष्म्या अभिषेकः।
स्वप्ने दृष्ट इति तथा वर्णितम् । वर्णच्युतिश्च नैषधस्यादिकाव्ये (स० १, श्लो० १)-"तथाssद्रियन्ते न बुधाः सुधामपि" इत्यत्र सुधाशब्देन वसुधां व्याकुर्वता टीकाकारेण महाकविना दर्शिता ॥ ८२॥ . 'हरेस्यर्थः' इति ख-पाठः। २ सम्पूर्ण पद्यमेवम्
"निपीय यस्य क्षितिरक्षिणः कया-स्तथाऽद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकीर्तिमण्डलः, स राशिरासीन्महसां महोगवलः ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org