________________
नमस्कारप्रथमपदार्थाः
गंज-वृषभ-सिंह-पद्मा-सन-स्रक्-चन्द्र-तपन-पताकाः ।
कुम्भा-ऽम्भोजसरो-ऽम्बुधि-विमान-रत्नोच्चयाऽग्नयः स्वप्नाः ॥-गीतिः (इति) चतुर्दशस्वप्मनामानि, तत्र चत्वारि व्याख्यातानि । अथ स्रक् व्याख्यायते
(नम-ऊ-अलि हन्त-आः नम् ) ह-जलं तस्मात् तन्यते-विस्तरति उत्पद्यते इति यावत् हन्तं-कमलं कर्मकर्तरि डः कमलस्योपलक्षणादन्यान्यपि पुष्पाणि गृह्यन्ते। 'आसिक् ५ उपवेशने' (सिद्ध धा०) आसनं आस् । कमलादिपुष्पाणाम् आः-स्थानम् , एवंविधो यो नो-वन्धो रचनाविशेषः सकपः तत् हन्तानं क्लीवत्वं प्राकृते लिङ्गस्यातन्त्रत्वात् । किम्भूतम् ? 'नमो अरि' रलयोरक्यं । नमः-प्रह्वीभावः परितो भ्रमणं तेन ऊः-शोभमाना अलयो यत्र तत् । अवतेः शोभावाचिनः विपि ऊः॥ ८३ ॥ __(न मोऽरिहन्ता न णं) मः-चन्द्रो वर्तते । किम्भूतः ? 'णसि कौटिल्ये' (सिद्ध० धा०) १० नसते इति नः 'क्विप् । 'अभ्वादेः (अत्वसः सौ ) (सिद्ध०१-४-९०) इति न दीर्घः, भ्रादित्वात् । न नः-न कुटिलः, पूर्ण इत्यर्थः । एवंविधश्चन्द्रोऽरिहन्ताऽस्तु । 'ण' इत्यत्रानुस्वाराभावश्चित्रत्वात् ॥ ८४ ॥ ___ अथ सूर्यः । ( नमो अर्-अहस्तानम् ) अहर-दिनं तनोति-करोति अहस्तानो-दिनकरः । अरा विद्यन्ते यत्र तत् अरि-चक्रं तद्वदाचरति वृत्तत्वादाचारे क्यनि विपि तयो-१५ लोपे अर , अर् चासौ अहस्तानश्च वृत्तो दीप्यमानश्च सूर्यस्तं नमः ॥ ८५ ॥
(नमोदन रंह तानम् ) तानोद्भवत्वात् तानं-वस्त्रं, कारणे कार्योपचारात् । तानं किम्भूतम् ? 'नमोदन्' नम-नमनं सर्वदिक्षु प्रसरणं तेन अवते-कान्तिमद् भवति । क्विपि न मु दण्डं श्रयति । णिजि क्विपि पदस्य उलोपे दन् । न मु च तद् दन् च नमोदन् । एतावता ध्वज इत्यर्थः । 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८) इत्योकारः। तं २० ध्वजं त्वं रह-जानीहि । 'रहण गतौ' (सिद्ध० धा० ) 'गत्यर्था ज्ञानार्था' इति वचनात् ज्ञानार्थत्वम् । चान्द्रमते णिचोऽनित्यत्वाणिजभावे रहेति सिद्धम् । अनुस्वारस्तंदसत्त्वं चित्रत्वाददुष्टम् ॥ ८६ ॥
अथ कुम्भः। (न मा ओ कलः! हा-न्तं अण) ओ कलः! कलशं श्रयति णिजि क्विपि सम्बोधने । ओ कलः! 'ओ' इति सम्बोधनपदम् । हे कलशाश्रयिन् ! पुरुष! त्वम् । 'हिंट २५ गतिवृद्धयोः' (सिद्ध० धा०) हयनं हो-वृद्धिः तस्या अन्तं-विनाशं न-मा अण-बद । कलशाश्रयिणः पुरुषस्य वृद्धिरतो न स्यात् । कामकुम्भो हि कामितकरः, तेनैवमुच्यते । नकार-मकारी निषेधवाचकौ । एकनिषेधेऽर्थसिद्धी द्वितीयनिषेधः "द्विर्वद्धं सुबद्धं भवति" इति न्यायादवगन्तव्यः। लोकप्रधानत्वापेक्षया च निषेधद्वयं 'मा' 'न' करि २ इत्यादि ॥८७॥
१ क-प्रतो नास्त्यत्रायं पाठः गजादिको व्याख्यातान्यन्तकः, किन्तु चतुर्दशस्वम नामप्रान्तकः समस्ति ९३तमस्यार्थस्य प्रारम्भे । २ 'शोभाचात्' इति क-पाठः। ३ 'किपि' इति ख-पाठः। ४ 'सद.' इति ख-पाठः । ५ 'म' इति स्व-पाठः।
अर्थ. १५
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International