________________
पण्डितगुणरत्नमुनिवरकृताः अथ पद्मसरः । (न मोद् र हान्ताः न) रो वर्तते । किम्भूतः १ 'हान्ताः' हकारोऽन। यस्य । एतावता सकारः। तेन असति-शोभते इति हान्तास् । एतावता सरः इति जातम् । अजानि-कमलानि श्रयतीति णिचि विपि तल्लोपे अन्त्यस्वरादिलोपे । 'पदस्य' (सिद्ध २-१-८९) इति जलोपे च 'अब्' इति जातम् । 'अन्त्यव्यञ्जनस्य' (सिद्ध०८-१-११ ५ इति प्राकृते वकारस्यापि लोपे अम् इति स्थितम् । एतावता पद्माश्रितं सर इत्यर्थः। किम्भूतम् ? मोदयति मोद्, एवंविधं न न । प्रकृतार्थे द्वौ निषेधौ । हर्षकारकमेवेत्यर्थः ॥ ८८॥
अथ सागरः । (नम-ऊ-जलध्यन्तः-आनन्) नमं नमनं-सर्वत्र प्रसरणं तेन ऊः-शो. भमान एवंविधो जलध्यन्तः-समुद्रः। अन्तशब्दः स्वरूपे । किम्भूतः ? "टुनदु समृद्धी' १० (सिद्ध० धा०) आपूर्वः नद् । आनन्दयति-समृद्धि प्रापयति सेवकान् , रलाकरस्यात् । विचि 'आनन्' इति सिद्धम् ॥ ८९ ॥
अथ विमानः । (नम ओ अ-र-ह-अन्त ! ऋणम्) अन्तशब्देन 'पदैकदेशे पदसमुदायोपचारात्' निशान्तं-गृहम् । "रः कामे तीक्ष्णे वैश्वानरे नरे" इत्येकाक्षर(सुधा० श्लो.
३६) वचनात् रो-नरः न रः अरः । अरो-देवः । अरान्-देवान् हन्ति-गच्छति प्रामोति १५ देवाश्रितत्वात् अरहम् , एवंविधं अन्तं-निशान्तं अरहन्तम् , अमरविमानमित्यर्थः । तस्य
सम्बुद्धौ हे अरहन्त ! त्वं ऋणं-दुःखं नामय-पराकुरु । 'नम' इत्यत्रान्तर्भूतो णिगर्थः । 'ओ' इति 'हे'इत्यर्थे ॥ ९ ॥
(नः म-ऊत-र-अहर-अन्त-गण) “मश्चन्द्रे (च) विधौ शिवे" इति (सुधा० श्लो. ३४) वचनात् मः-चन्द्रः तेन ऊतं-कान्तं मोतं, चन्द्रकान्तमित्यर्थः । र:-अग्निः तत्तुल्यं, २० तथा अहर्-दिनं । अहः करोति णिजि क्विपि अहः-सूर्यः तद्वदन्तः-स्वरूपं यस्य, सूर्य
कान्त इत्यर्थः । एतावता चन्द्रकान्ते वह्निवर्णसूर्यकान्तादीनि रत्नानि । उपलक्षणादन्यान्यपि रत्नानि ग्राह्याणि । तेषां गणः-समूहोऽस्ति । 'क-ग-च-ज-(त-द-प-य-वां प्रायो लुक्) (सिद्ध०८-१-१७७) इति गलुक् । 'पदयोः सन्धिर्वा' (सिद्ध०८-१-५) इति सन्धिः ।
यथा चक्काउ चक्रवाकः । 'णिश समाधी' (सिद्ध० धा०) नेशति-समाधिं करोति चित्त२५ स्वास्थ्य निर्मापयतीति डे नः॥ ९१॥
अथाग्निः । (नम ओ अज-रथं त्रि-अणम्) अजः-छागो रथो-वाहनं यस्य सः अज. रथो-वह्निः तं व्यणं त्रयोऽणाः शब्दा यस्य सः, 'त्रिविधोऽग्निरिति कविसमयः । 'ओ' इति सम्बोधने । तं नम-प्रणमेति स्वप्नाः १४ ॥ ९२ ॥
(नमो अरहंताणं) नं-ज्ञानं । अरहन्ताणम्-अत्यजतां पुरुषाणां उख् भवति । 'उख ३० नखेति गत्यर्थो दण्डकधातुः। 'ओखणं ओम्' विचि सिद्धम् । अन्त्यव्यञ्जनलोपे ओ
'चकाओ' इति ख-पाठः। २ 'निर्मातीति' इति ख-पाठः।।दक्षिण-गार्हपत्या-हवनीयस्थानीयः।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org