________________
नमस्कारप्रथमपदार्थाः
११५ गतिर्भवतीत्यर्थः । गतिः सैव या सद्गतिः । यथा “कुले हि जातो न करोति पापं" इत्यत्र कुलं तदेव यत् सत्कुलमिति ॥ ९३ ॥
(नं ओ तर हन् ! तां नः) हंसं अणति-श्रयति वाहनतया णिजि क्विपि हन् । 'ओ' इति सम्बोधने । हे हन् !-हे सरस्वति! नः-अस्माकं नं-ज्ञानं तां-शोभां च तर-देहि । तधातुः दाने वर्तते (अन्यथा विपूर्वोऽपि दाने न प्रवर्तेत) उपसर्गाणां धात्वर्थद्योतकत्वात् । ५ तृधातौ दानार्थोऽस्तीति ॥ ९४ ॥ __ (नम् ओ अर अहर अन्त ! णं) अन्तशब्देन (पदैक)देशे समुदायोपचारात् हेमन्त इति । अहर्-दिनं नमतीति नमं-कृशं हे हेमन्तऋतो! त्वं नम-कृशं दिनं अर-प्रामुहि । 'ण' अलङ्कारे । हेमन्ते दिनलघुता इति प्रसिद्धम् ॥ ९५॥
(नमः अरे ह-तानाम् ) "ः तीक्ष्णे" इति (विश्वशम्भुनाममालायां श्लो० १०१). वचनात् रं-तीक्ष्णं उष्णमिति यावत् । न रं अरं-अतीक्ष्णः, शिशिर ऋतुः इत्यर्थः, तस्मिन्
अरे-शिशिरऋतावित्यर्थः । अपभ्रंशे इकारः । 'व्यत्ययोऽप्यासाम्' इति व्यत्ययः स्याच्च । ह-जलं तस्मात् तन्यन्ते-विस्तारं यान्ति हतानि-जलरुहाणि, पद्मानीत्यर्थः । तेषां नमो नमनं-कृशता भवति । शिशिरे हि कमलानि हिमेन शुष्यन्तीति प्रसिद्धम् ॥ ९६ ॥
(नम् उ सुरभू हान्ताम् णं) हकारोऽन्ते यस्य स हान्तः । सकार इत्यर्थः। तेन अस-१५ ति-शोभते हान्तास् । एवंविधो रभूशब्दः । पुनः किम्भूतः ? 'उ' 'अ' उकारेणासति-शोभते उ अप् 'अन्त्यव्यञ्जनस्य' (सिद्ध०८-१-११) इति पलोपः । उरह(हः) इति शब्दः स सकारयुक्तः क्रियते तदा सुरह इति जातम् । कोऽर्थः ? सुरभिः-वसन्तऋतुः तमाचष्टे स्तौति इच्छति वा यः पुरुषः स सुरभ् णिजि तलोपे सिद्धम् । क्विप् लोपश्च । उ अरहु इत्यत्र अन्त्यव्यञ्जनलोपः। सुरभूशब्देन वसन्तस्तावकः पुरुष इत्यर्थः । “णः प्रकटे २० निष्फले च" इति (सुधा० श्लो० २२) वचनात् णं-प्रकटं यथा स्यात् तथा नम् स्यात् नमतीति नम्-प्रतीभावः, उद्युक्तः सर्वकर्मणीत्यर्थः ॥ ९७ ॥ __ (न मोदः रहा-ऽन्तानः ) "रः तीक्ष्णे" (विश्व० श्लो० १०१ ) इति वचनात् । र:-उष्णः, ग्रीष्मऋतुरित्यर्थः । किम्भूतः ? हं-जलं अन्तं आनयतीति हान्तानः, ग्रीष्मे जलशोषः स्यादित्यर्थः। मोदयतीति मोदः। एवंविधो न । ग्रीष्मः (प्रायः) परिताप-२५ करत्वान्न मोदकृत् ॥ ९८॥
(नमोरः हन्तानः) उ अर । कोऽर्थः । त्वरः 'रह त्यागे' (सिद्ध० धा०) रह्यतेत्यज्यते इति भावे डप्रत्यये रो-निन्द्यः, न रः अरः, उत्तम इत्यर्थः । ऋतुषु अरः-उत्तमः ऋत्वरः, सर्वऋतुप्रधान इत्यर्थः। स क इति विशेषणद्वारेणाह-'हन्तानः' है-जलं तानयतिविस्तारयति हन्तानः । वर्षा ऋतुरित्यर्थः । किम्भूतः? 'नमः' नमति-प्रह्वीकरोति ३०
'प्रसिद्धिः' इति ख-पाठः। २ हैमेऽनेकार्थे (का. १, श्लो. ") अपि। ३ 'व्यत्ययः' इति सिद्ध०(८-४-४४७)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org