________________
११६
पण्डितगुणरत्नमुनिवरकृताः स्वोपमान् सर्वजनान् करोति अन्तर्भूतणिगर्थत्वात् नम् । सर्वव्यापारप्रवर्तक इत्यर्थः ॥९९॥
(नम अरहा-ऽन्त! न) 'अरहन्त०' आपो-जलं । 'रह त्यागे' (सिद्ध० धाः) रहन्तित्यजन्ति मुञ्चन्तीति अरहो-मेघाः तस्य अन्तो-विनाशो यस्मात् सः अरहान्तो-घनात्ययः, शरद् इत्यर्थः । हे अरहान्त !-हे शरत् ! त्वं । न निषेधे । 'नम' इति क्रियापदम् । मा ५ नम-मा कृशीभव । शरदोऽतिरमणीयत्वादेवमुक्तिः ॥१००॥ इति पडू ऋतवः सम्पूर्णाः ॥
अथ नव ग्रहा वर्ण्यन्ते । तत्र सूर्यचन्द्रौ पूर्व, तत्रापि चन्द्रः प्रथमः सिद्धान्तवेदिनां मते । (नमोऽरभं त्राणम्) "रः तीक्ष्णे" इति (विश्व० श्लो० १०१) वचनात् रः-तीक्ष्णः, न रः अरः, शीत इत्यर्थः । अरा-शीता भा-कान्तिः यस्य स अरभः-शीतगुः तं नमो
ऽस्तु । चन्द्रं किम्भूतं? त्राणं-शरणं, सर्वनक्षत्राणां ग्रहाणां च नायकमित्यर्थः ॥ १०१॥ १० अथ सूर्यः। (नमो रभं ता-ऽऽ-नम्) रा-तीक्ष्णा भा-कान्तिः यस्य स रभः, सूर्य इत्यर्थः।
रभाय-सूर्याय नमः। 'व्यत्ययोऽप्यासाम्' (आसां) विभक्तीनां व्यत्ययोऽपि स्यादिति वचनात् चतुर्थ्यर्थे द्वितीया । चः पूर्वोक्तार्थसमुच्चये । किम्भूताय रभाय ? 'तानाय । “तकारस्तस्करे युद्धे” (सुधा० श्लो० २३) इत्येकाक्षरवचनात् ताः-चौराः तेषां आ-समन्तात्
नो-वन्धनं यस्मात् स तानः तस्मै । सूर्योदये हि चौराणां वन्धनं भवति ॥ १०२ ॥ १५ अथ भौमः । (न मौ अर! हन्ताऽऽन !) हे अर! । अरः किम्भूतः ? 'आनः' आकारस्य नो-वन्धो यत्र, एतावता आरः-कुजः । किम्भूतः ? 'हन्तः' हो-जलं तस्य अन्तो यस्मात् स तथा, एवंविधो न, जलदाता इत्यर्थः । किम्भूतः सन् ? 'मोः' "मश्चन्द्रे (च) विधौ शिवे' इति ( सुधा० श्लो० ३४) वचनात् मः-चन्द्रः तं अवति-प्रामोतीति विपि
मौः । चन्द्रयुक्तो हि भौमो वर्षाकाले वृष्टिदः ॥ १०३ ॥ २. अथ बुधः । (न मौजोरै० भं तानः) मो-ब्रह्मा । सः अवति-देवतात्वेन स्वामीभवति । विपि मौः। स्वाम्यर्थे अवधातुः । ततो मौः-रोहिणीनक्षत्रं, तस्मात् जायते इति मौजोबुधः । “श्यामाङ्गो रोहिणीसुतः" इति (अभिधान० का० २, श्लो० ३१) वचनात् 'रिहं' राः-धनं, तदेव भं-भवनं, धनभवनमित्यर्थः, तत्र गत इति शेपः । 'तानः' तां-लक्ष्मी'.
आनयतीति तानः। एवंविधो न ? किन्तु एवंविध एवेति काकूक्त्या व्याख्येयम् । धन२५ भवनस्थो हि वुधो लक्ष्मीप्रद इति ज्योतिर्विदः। रैशब्दस्य 'एत ऐत्' (सिद्ध०८-१-१४८) 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८) इतीकारः ॥ १०४ ॥ .. अथ गुरुः। (नमः अद-ल-हन्ता आ-नः) "लश्चामृते" इति (सुधा० श्लो०३९) वचनात् ल:-अमृतम् , अदनम् अदो-भोजनम्, अदे-भोजने ल:-अमृतं येषां ते अदला-देवाः, तान् हन्ति-गच्छति आचार्यतया प्रामोति अदलहन्ता-सुराचार्यः, जीव इत्यर्थः । किम्भूतः।
१ सोद्यमान्' इति ख-पाठः । २ 'उमाङ्गो' इति स्व-पाठः । ३ "वृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः" इति अभिधान०(का. २, श्लो. ३२)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org