________________
नमस्कारप्रथमपदार्थाः
११७ 'आनः' आ-समन्तात् नो-ज्ञानं यस्मात् स आनः-ज्ञानदाता। किम्भूतः सन् ? 'नमः' नो-बुद्धिः पञ्चमं भवनं तत्र 'मदुङ् स्तुति-मोद-मद-स्वप्न-करन्ति-गतिषु' मन्दते-गच्छति नमः डप्रत्यये सिद्धम् । लग्ने हि पञ्चमभवनस्थो गुरुर्ज्ञानदाता स्यादिति ॥ १०५ ॥ ___ अथ शुक्रः । (नम उन्द-ल-भं तानम्) 'तानः' तकारस्य पोडशव्यञ्जनत्वात् तशब्देन पोडश उच्यन्ते । 'अपी असी गत्यादानयोश्च' (सिद्ध० धा० ) इत्यत्र चानुकृष्टदीप्त्यर्थात ५ असूधातोः विपि असू इति रूपम् । असो-दीप्तयः, किरणा इति यावत् । ततः ता:-पोडश असः-किरणाः तेषां नो-बन्धो योजना यस्य स तानः-शुक्रः। सन्धी, दीर्घ 'अन्त्यव्य. ञ्जनस्य' (सिद्ध०८-१-११) इति सलोपे प्राकृते रूपसिद्धिः । व्यञ्जनैश्च सङ्ख्याप्रतिपादनं ग्रन्थप्रसिद्धम् । यदुक्तं आरम्भसिद्धौ"विद्युन्मुख १ शूली २ शनि ३ केतू ४ का ५ वज्र ६ कम्प ७ निर्घाताः ८। १०
डा ५ ज ८ ढ १४ द १८ ध १९ फ २२ व २३ भ २४ सङ्ख्ये रविपुरत उपग्रहा धिष्ण्ये ॥१॥" इत्यादि । “पोडशाचिर्दैत्यगुरुः” इति (अभिधान० का० २, श्लो० ३४) वचनात् तानः-पोडशकिरणः, शुक्र इति यावत् । तं शुक्रं नम, धातूनामनेकार्थत्वात् भजस्वेत्यर्थः । किम्भूतं ? ऊ अरहं । 'उन्दैप क्लेदने' (सिद्ध० धा०) उनत्ति-रोगैः क्लिन्नो भवति उन्दः तस्य । “लश्चामृते” इति (सुधा० श्लो० ३९) वचनात् लः-अमृतं तं भव-१५ तेऽन्तर्भूतणिगर्थत्वात् 'भूङ् प्राप्तौ' (
) धातोः प्रापयति डे रूपं उन्दलभः तम् , रलयोरैक्यम् । रोगार्तस्य हि शुक्रोऽमृतदाता । सञ्जीवनीविद्या शुक्रस्यैवेति तद्विदः। अथवा "भश्चालिशुक्रयोः" इति (सुधा० श्लो ३३) वचनात् भ:-शुक्रः । अरः-शीघ्रगामी चासौ भश्च अरभः तं नम-सेवस्व । उ इति सम्बोधनम् । किम्भूतं भम् ? 'तानं' शुभकायाणि तानयति-विस्तारय(ती)ति तानः तम् । शुक्रो हि शीघ्रगामी अनस्तमितः शुभा, शुभ-२० कार्याय भवति ॥ १०६ ॥
अथ शनिः । (नमोऽरं हन्ता आनम् ) "आरः क्षितिसुतेऽर्कजे" इति विश्वप्रकाश(रवर्गे २२)वचनात् आरः-शनिः । 'स्वराणां स्वराः' (सिद्ध०८-४-२३८) इति प्राकृते अर इति जातम् । अथवा अरः कथम्भूतः? 'आनः' अकारस्य नो-वन्धो यत्रेत्यनया व्युत्पत्त्या आर इति जातम् । आरं-शनि नमोऽस्तु इत्युपहासनमस्कारः। यतो हन्ता- २५ जनपीडकः तस्मात् हे आर! त्वां नमोऽस्तु इत्यर्थः ॥ १०७ ॥
अथ राहुः । (न-म उदरहः तानः) 'उअरह' उंदरेण हीयते उदरहो-राहुः । राहुस्तु उदरहीनः, शिरोमात्ररूपत्वात् , तस्य । किम्भूतः? 'नमः' 'नशौच अदर्शने' (सिद्ध धा०) नश्यतीति डे नः । एवंविधो मः-चन्द्रो यस्मात् सः, उपलक्षणात् सूर्योऽपि ।
'नमः उ भर-भं तानं' इत्यपि पदच्छेदः। २'उदरे' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org