________________
११८
पण्डितगुणरत्नमुनिवरकृताः राहुस्तु चन्द्रसूयौँ प्रस्यति(सते ?) इति राहोश्चन्द्रनाशः । पुनः किंविशिष्टः? 'तान' तोयुद्धं तस्य नो-बन्धो रचना यस्मात् स तथा । राहुसाधनापूर्व (सूर्यशशिभ्यां ) युद्ध क्रियते इतीदं विशेषणं युक्तिमत् ॥ १०८॥
अथ केतुः। (न मा उदरह-त-ऋणम् ) उदरहो-राहुः । पूर्ववद् व्याख्या । तस्य तः५ पुच्छं केतुः । “तकारस्तस्करे युद्धे कोडे पुच्छे च" (सुधा० श्लो० २३) इत्येकाक्षरवचनम् । केतुस्तु राहुपुच्छत्वेन ज्योतिर्विदां संम्मतः । यतः-"तत्पुच्छे मधुहायां आपदुःखं विपक्षपरितापः” (नीलकण्ठ्यां ?)। अत्र तत्पुच्छ इति राहुपुच्छं, केतुरित्यर्थः इति ताजिके । हे उदरहत] ! त्वं ऋण-ऋणवदाचर । मा निषेधे । ऋणं यथा दुःखदायि तथा केतु
रपि उदितः सन् जनपीडाकरः, तत एवमुच्यते । त्वं मा ऋण । नकारोऽपि निषेधार्थे । १५ "द्विर्वद्धं सुबद्धं भवति" इति निषेधद्वयम् । विशेषेण निषेधाय इति ॥ १०९ ॥
अथ नव रसा वर्ण्यन्ते । तत्र पूर्व शृङ्गाररसः। (नमोदरि ! हन्त अण) यथा कश्चित् कामी कुपितकामिनीप्रसत्तिकृते वक्ति । हे नमोदरि! हे कृशोदरि! त्वं अणवद । हन्तेति कोमलामन्त्रणे । नम-नमत् कृशं उदरं यस्याः सा नमोदरी-क्षामोदरी
तस्याः सम्बोधनम् ॥ ११०॥ इति नमस्कारप्रथमपदार्थाः ॥ १. पं० हर्षकुलगणिपादकृताः पं० समयकलशस्य लघुशिष्येणालेखि(पत)।
'प्रसिदः' इति ख-पाठः। २ भवशिष्टरसाष्टकस्य व्याख्या न विद्यते सत्र को हेतुरिति विचार्यतां विच. क्षणः। इति श्रीपरमगुरुथी जिनमाणिक्यसूरिशिष्यपण्डितविनयसमुदगुरुराजपादुकाप्रसादासादिताधिगमनपण्डितगुणरलमुनिना लिखितम् । श्रीः श्रीः शुभं भवतु' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org