________________
क-परिशिष्टम् मलधारिगच्छीयश्रीसुधाकलशमुनिप्रणीता
॥ एकाक्षरनाममाला ॥
श्रीवर्द्धमानमानम्य सर्वातिशयसुन्दरम् । 'एकाक्षरनाममाला' कीर्तयामि यथाश्रुतम् ॥१॥ अ: पुल्लिङ्गः शार्ङ्गधारिण्यस्वल्पार्थेऽव्ययः पुनः । विरञ्चावाश्च पुल्लिङ्ग आ वाक्ये सरणेऽव्ययः ॥ २॥
आः सन्तापेऽव्यये क्रुध्यामव्ययोधृतौ स्मृतौ । इ: कामे पुल्लिङ्ग इ वोऽव्ययः कोपोक्तिखेदयोः॥३॥ ईः पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने । प्रकोपे सन्निधौ चैव पुल्लिङ्ग उपध्वजे ॥ ४ ॥ दोपोक्तौ मत्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा । प्रश्ने चाङ्गीकृतौ रोपे पुल्लिङ्ग ऊस्तु रक्षणे ॥५॥ ऊमव्ययः प्रकोपोक्तौ प्रश्ने ऋर्देवमातरि । अध्यय मा तु कुत्सायां वचनेऽपि तथैव च ॥६॥
स्त्वजे दानवाञ्छायां लश्च स्याद् देवमातरि । टूर्वारायां भवेदेस्तु विष्णावस्तु वृपध्वजे ॥७॥
ओरूर्ध्वलिङ्ग आहूतावव्ययः स्यादनन्त औः । सम्बोधने चाव्यय औ परब्रह्मण्यमः शिवे ॥ ८ ॥ कः सूर्यमित्रवायग्निब्रह्मात्मयमकेकिषु । प्रकाशवयोश्चापि कं नीरसुर(ख)मूर्धेसु ॥९॥ कुर्भृकुत्सितशब्देषु पापीयसि निवारणे । ईपदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥ वितर्काश्चर्य निन्दासु किंशब्दः स्यात् कियानपि । ग्वमिन्द्रियस्वर्गशून्यभूपाकाशसुखेषु च ॥ ११ ॥
१'शालिनम्' इति ख-टि-पाठः । २ 'यथाक्रमम्' इति ख-टि-पाठः। ३ 'पुल्लिाशा.' इति ख-पाठः। ४ 'प्यतौ' इति ख-पाठः। ५ 'चाव्ययः' इति ख-पाठः। ६ 'व्यय उ स्वव्यय.' इति ख-पाठः। 'कृते' इति ख-पाठः। ८ 'ऋश्च' इति ख-पाठः। ९ 'ऋर्वा.' इति ख-पाठः। १०-११ 'भो' इति स्व-पाठः।..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org