________________
१२०
श्रीसुधाकलशमुनिप्रणीता संविदि शून्यखण्डे च वर्तते खश्च भास्करे । गो गन्धर्वे गणेशे च गीते गं गश्च गातरि ॥ १२ ॥ गौर्वाणीचाणभूरश्मिवज्रवर्गाक्षिवारिषु ।। दिशि धेनौ श्रुतैश्वर्या गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥ घुः कुम्मे हनने घोषान्तर्भावकिङ्किणीष्वपि । ङो विषये भैरवे चै चस्तरौ चन्द्रचोरयोः ॥ १४ ॥ चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः । अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे ॥१५॥ पक्षान्तरे समूहार्थे हेताववधृतावपि । अन्वान्व(च)ये तथा तुल्ययोगितायां च कीर्तितः ॥ १६ ॥ छः सूर्ये छेदके ख्यातस्तथा संवरणे भवेत् । छं च छन्दसि तडिति निर्मले च तथा स्मृतः ॥१७॥ जश्च जेतरि जनने विगते जिस्तु जेतरि । जूर्विहायसि जवने पिशाच्यां विगतेऽपि च ॥१८॥ झो नक्तं गायने नष्टे घर्षरध्वनिनामनि । चारुवाश्चोरयोझस्तु म्यूहिते गूढरूपके ॥ १९ ॥ टः पृथिव्यां ध्वनौ वायौ करङ्केटं पुनर्भुवि । चकोरेऽन्दे तथा ठस्तु घेण्टे शून्ये बृहद्ध्वनौ ॥ २०॥ चन्द्रस्य मण्डले रुंद्रेऽथो वृपाङ्के ध्वनावपि । बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥ २१ ॥ ढो ढकायां समाख्यातस्तथा ढा निर्गुणे ध्वनौ । णः प्रकटे निष्फले च प्रस्तुते ज्ञानवन्धयोः ॥ २२ ॥ तकारस्तस्करे युद्ध क्रोडे पुच्छे च ता श्रियाम् । तुः स्थाव पूर्वे निवृत्तौ च पूर्वसादवधारणे ॥ २३ ॥ विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे। भूधरे च तथा भारे दो दाने दायकेपि च ॥ २४ ॥ दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः । दं कलत्रं तथा धं च धीरे च धनदे धने ॥ २५ ॥
चापि' इति ख-पाठः। २'घः' इति ख-पाठः। 'चैव' इति क-पाठः। 'न्यूने' इति ख-पाठः। ५'घटे' इति ख-पाठः। ६ 'रुद्रे डो' इति ख-पाठः। 'ध' इति स्व-पाठः। ८ 'धने' इति स-पाठः ।. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org