________________
१२१
एकाक्षरनाममाला धस्तु चित्रेऽश्ववारे च धीवुद्धाविषुधावपि । गुह्यकेशे विरची धा तथा धूभोरकम्पयोः ॥ २६ ॥ धूर्ते धुरा कम्पने च नो बुद्धौ ज्ञानबन्धयोः। अस्मानस्सभ्यमसाकमेषां स्थाने भवेच्च नः॥ २७ ॥ निषेधार्थेऽव्ययो नो च नकारस्तु नरस्तु ना। निः श्रुते नेतरि ख्याती नुः स्तुतावव्ययस्तु नौ ॥२८॥ निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु । कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥ अधोभावोपरमयोः सन्निधानेऽव्ययो मतः। नुः प्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः॥३०॥ तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि । प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥ फकारो निष्फले जल्पे पुष्करे भयरक्षणे । झंझावाते फले फेने फूत्कारे फूस्तथोदितः॥३२॥ घेकारो वरुणे पद्मे कलहे विगतौ तथा । भश्चालिशुक्रयो वे भश्च दीप्तौ भये च भीः ॥३३॥ भं धिष्ण्ये भूभुवि स्थाने मश्चन्द्रे तु विधौ शिवे । मौलौ च बन्धने मूः स्यात् मा माने वारणेऽव्ययः ॥ ३४॥ 'अस्मच्छब्दे द्वितीयायां मा च पठ्यां च मे पुनः ।
मा मातरि तथा लक्ष्म्यां यस्तु वाते यमेऽपि च ॥ ३५॥ धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् । खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे॥ ३६॥ रामे वजे च शब्दे स्यात् रा द्रव्ये कनके पुनः। आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७॥ भये शब्दे च री भ्रान्तौ लकारश्चलने पुनः । ला दाने लूश्च लवने लश्च लौश्च विडोजसि ॥ ३८ ॥ लश्चामृते दिशायां च लीः श्लेपे वलये तथा । वो वाते वरुणे रुद्रे सान्त्वने वाऽव्ययः पुनः ॥ ३९ ॥
'नुः स्तुतौ च प्रकीर्तितः' इति ख-पाठः। २'क्षेपे' इति ख-पाठः। ३ 'दाहकर्मणि' इति स-पाठः। 'फफा वाते' इति ख-पाठः। ५'य: कुम्मे वरुणे' इति ख-पाठः । ६''इतिस-पाठः। 'मारणे' इति ख-पाठः। ८'यस धातरि सूर्ये स्यात्' इति व-पाठः। १ 'खूब'इति-पाठः 'चाव्या इति स-पाठः।
अर्थ. १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org