________________
१२२
श्रीसुधाकलशमुनिप्रणीता पंदार्थ उपमाने च विकल्पे च समुच्चये । विः श्रेष्ठेऽतीते नानार्थे वै हेतौ पादपूरणे ॥ ४० ॥ द्वितीयायाश्चतुर्थ्याश्च पष्ठ्या युष्मदहुत्वके । वश्वासां तु विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥ आकाशे विहगे विश्च शं श्रेयसि सुखेऽव्ययः । शा तु शान्ते च सारायां शीः शये हिंसनेऽपि च ॥ ४२ ॥ शुश्चन्द्रे षः सदारः स्यात् तथेष्टे प्रसवे तु पूः। सः सूर्ये च परोक्षे च सं शङ्का वाऽव्ययस्तु सः॥४३॥ सङ्गार्थे शोभनार्थे च प्रकृष्टार्थसमर्थयोः। प्रथमान्तर्तदः स्थाने स्मृतौ लक्ष्म्यां च सोच्यते ॥ ४४ ॥ हः शूलिनि करे नीरे, क्रोधगर्भप्रभापणे । निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥४५॥ अव्ययो हा स्मृतः शोके तथा दुःखविषादयोः । हि हेतौ पादपूर्ती च विशेपे चावधारणे ॥४६॥ स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये । विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥ हुमव्ययः परिप्रश्ने वितर्के वचने तु हो । हे कुत्सायां तथा हेतु हेतौ सम्बोधने तु हौ ॥४८॥ राक्षसे क्षस्तथा क्षेत्रे शब्दा ये यक्षरादयः । स्वरान्ता व्यञ्जनान्ताश्च ज्ञेया ग्रन्थान्तरात् तु ते ॥ ४९ ॥ मलधारिगच्छभर्तुः, सूरेः श्रीराजशेखरस्य गुरोः । शिष्यः सुधाकलश इत्येकाक्षरमालिकामतनोत् ॥ ५० ॥ ( आर्या)
एवाथ' इति स्व-पाठः। २ 'विश्वे' इति ख-पाठः। ३ 'शस्तु' इति ख-पाठः। 'राखायो' इति क-पाठः। ५ 'सकोचेऽव्ययस्तु सम्' इति ख-पाठः। ६ 'स्तदः' इति स्व-पाठः। 'क्रोधे' इतिस-पाठः। ८'शुभये काये च भाषणे' इति ख-पाठः। ९'हेतौ हुतो' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org