________________
श्रीविश्वशम्भुप्रणीता ॥ एकाक्षरनाममालिका ॥
ध्यात्वा नत्वा निरीक्ष्यान्तःकरणे कर्मसाक्षिणि । क्रियते नूतना नाममालैकाक्षरवाचिका ॥१॥ यतयो ये परं पारं शब्दाम्भोधेगेता यतः । एषा तेषामतो मान्या महाभावमनीषिणाम् ॥ २॥ खमेवार्थ स्वयं रान्ति यतोऽकारादयः खराः । स्वराभावे ककारादि व्यञ्जनं व्यर्थमेव हि ॥३॥५ न क्षरत्यक्षरं तेन स्वर एव तदुच्यते । व्यञ्जनानि स्वराश्चैव वर्णशब्देन वर्णिताः॥४॥ अः शिवे केशवे वायौ ब्रह्मचन्द्राग्निभानुपु । आः स्वयम्भूस्तथोक्ते स्यादव्ययं कोपपीडयोः॥५॥ एपामपत्ये कामे स्याद् इ: सम्बोधनकोपयोः । इः कुत्सार्थेऽपि कामेऽपि निषेधे नयनभ्रमे ॥६॥. ईः रमा मदिरामोहे महानन्दे शिरोभ्रमे । स्त्रीलिङ्गोऽयमुणाद्यन्तो नान्तोऽसाल्लोपनं सुपः॥७॥ ईय? योऽत्र जसा रूपं स्यादमा रूपमीञ् शसि । ईशब्दो द्रव्यपर्यायेऽव्ययं वृद्धैः प्रदर्शितम् ॥८॥१० उशब्दः शङ्करे तोये तोयधौ धरणीधरे । अवसाने वितर्केऽपि वचनावसरेऽव्ययम् ॥९॥ एतदर्थे निषेधेऽपि निर्णीतो दीर्घ ऊरपि । ऊ मान्तमव्ययं कोपे स्वार्थेऽप्यू च प्रकीर्तितः ॥१०॥ रक्षार्थवाचकावेतों व्याख्यातौ लघुदीर्घकौ । ऋशब्दः पावके सूर्ये धर्मे दाने धने पुमान् ॥११॥ आ अरौ अर एतानि अरं चारौ च ऋन् शसि । ऋदी? देवमाता स्याद् ऋभवस्तेन ते सुराः १२ स्त्रीलिङ्गोऽयं धने वह्नौ वासवे वरुणालये । ऋ रौ रो रूपमेतस्य सन्धिसामान्यसाधनम् ।। १३ ॥१५ लहवो लघुसंवादे शक्तौ सर्पिपि मातरि । लघ्वक्षरेपि ल क्लीवे दीर्घलुर्देवमातरि ॥ १४ ॥ वाराह्यां वर्तते दीर्घः सौदामिन्यामिदं द्वयम् । सर्प मत्रे तथा तवे लद्वयं लुकि वर्तते ॥१५॥ केऽपि दीर्घ न मन्यन्तेऽनुकृतौ मन्वते परे । कामसम्बोधने स्यादे तत ए ब्रह्म केवले ॥ १६ ॥ . एशब्देनोदिता चण्डी गोचरी गोपनेऽव्ययम् । ऐ स्वर्णेऽपि च पुंल्लिङ्गः शम्भुश्रीपतिवायुषु १७ सारदायां स्वरे सूर्ये मूच्छोयामैरपि स्मृतः । ओशब्दो रक्षणे शेषे सूत्रे पुंसि श्रुतावपि ॥१८॥ १.
औः समुद्रे जलेऽनन्ते पीडने पुंसि भाषणे । अं मान्तो ब्रह्मसंवादे परब्रह्मप्रवाचकः ॥ १९ ॥ व्यसने व्याधिते व्याधी ज्ञानविज्ञानवन्दने । अः सान्तः शङ्करे सूर्ये दानादानप्रदीप्तिषु ॥२०॥ सत्तायां क्षेपणे खेदे तथाऽऽश्चर्ये च निन्दके । को ब्रह्मात्मप्रकाशार्ककेकिवायुयमाग्निषु ॥ २१॥ कं मौलिसुखतोयेषु कशब्दः सर्वलिङ्गकः । सर्वनामगणोक्तो यस्तस्य रूपं त्रिलिङ्गकम् ॥ २२॥ कुः स्त्रियां भुवि कुत्सायामव्ययं कुप्रकीर्तितम् । कः का किं शब्दयोर्मान्तः कं कान्तौ कामवाचकम् २५ पाच्यलिङ्गः खशब्दोऽर्के वितर्के व्योम्नि वेदने । प्रश्ननिन्दानृपक्षेपसुखशून्येन्द्रिये दिवि ॥२४॥
पुनः कर्मसाक्षिणमिति विभक्तिविपरिणामः । कर्मसाक्षिणो भगवतोऽधिष्ठानभूतस्य अन्तःकरणस्याधिष्ठातृमाहारम्यादेव कर्मसाक्षित्वं ज्ञापयितुमत्र सप्तमी । तेन च तदधिष्ठातृप्रेरणाबलादेव मया नूतना नाममाला करप्यत इति भावः । उक्तं च-"शब्दाम्भोधिर्यतोऽनन्तः कुतोऽप्यगमदव्ययात् । सरस्वत्याः प्रसादेन कविनाति यत्पदम् ॥ प्रसिदमप्रसिदं वा सम्प्रमाणं च साधवः ॥" इति । २ ख-'सानुपु । ३ ख-'सर्वर्पिमातरि'। ४ ख-'ते तथा'। ५ क-स्वेदे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org