________________
श्रीविश्वशम्भुप्रणीता
अवसानेऽप्यवर्गेऽपि परब्रह्मण्यपीरितः । गस्तु गातरि गन्धर्वे शब्दसङ्गीतयोरपि ।। २५ ।। गौर्गणेश पशुस्वर्ग वज्राशा भूदकेऽक्षिणि । वाण्यां किरणवाणास्त्रे पुंलिङ्गोऽयमुदीरितः || २६ ॥ आवन्तो गाऽवनीवाची गैः पुमान् शब्दगीतयोः । इरन्तो गीर्गिरौ वाण्यां धातुवद् गाश्व गायकः ॥ मारणे मरणे घाते घण्टायां किङ्किणीरवे । शक्तौ सभैरवे देवे घो मैत्रेऽन्यार्थवाचकः ।। २८ ।। ५ पुण्ये प्रवाहे पाखण्डे घं च घोरे घु रौरवे । धिरिदन्तो घृते दीप्तौ घाऽऽवन्तो भूमिवाचक: २९ ङः शून्ये दानवाञ्छायां निन्दायामाधिसादरे । सौदामिन्यां नदे सूर्ये सिन्धौ तल्लिङ्गवाचकः॥ ३० ॥ चः पुंसि चेतने चन्द्रे चौरेऽहौ चारुदर्शने । इदन्तश्विः स्त्रियां बुद्धौ ज्ञाने चारे च पावके ॥ ३१॥ वाऽन्वाचयसमाहारेतरेतरसमुच्चये । समासा ( ना ? ) र्थेऽव्ययं चायमावन्तश्वा दिवि स्मृतः ॥ ३२ ॥ छः सूर्ये सोमनैर्मल्ये छेदे स्वच्छे च ज्ञातरि । छन्दानुवर्तिनि प्रोक्तइछाऽऽवन्तो निम्नगागिरोः ३३ १. छोऽस्त्रियां लोहधारायां छोऽस्ति पुंसि परश्वधे । वानरे हरिणे छागे छिः पुंसि प्रोच्यते छले ३४ जो जेता जं च जीवेऽपि जुर्वेगे नभसि स्वके । जायाजनन्योजऽऽबन्तः शय्यायामपि जारके ३५ स्त्रियां जूर्गतिवाची स्याजापे शापेऽपि जिः पुमान् । हखो दीर्घोऽपि शब्दो जरायां दुर्गतावपि ३६ जी रेफान्तस्तदर्थः स्त्री जूर्जुनौ जुव इत्यपि । प्रादुर्भावे जैवे जः स्याद् दाम्पत्ये जंच जन्मनि ३७ झशब्दः खपतौ शून्ये तथोर्ध्वक्षेपणेऽपि झः । विनष्टे विवरे भृङ्गे स्त्रियां झा तडिति स्मृता ३८ १५ वने च भुवने झं स्यादेकान्ते सङ्गते च झम् । स्रवद्रव्ये भगे भोगे विलासे सुन्दरी च झा ॥३९॥ अकस्माद्दर्शने शोके मूढास्त्रमोचने च झुः । झ इदन्तः स्त्रीलिङ्गो झिः सर्वधातुध्वनौ च झी:४० झीरौ झिर इत्येवं रूपं हानौ जरार्थकः । जो ज्ञाने गायनेऽज्ञाने घर्घरध्वनिते च नः ॥ ४१ ॥ itsदुमण्डले मत्रे वाच्याज्ञा विन्मुनीन्दुजाः । निषेधे चञ्चले जुः स्यान्निर्माणे जीरिति ध्वनिः।। टः स्थिरे ताडने त्रासे 'विश्वासेऽश्वे च पुंस्ययम् । टाऽऽवन्तो घटिकावाची पृथिव्यां टं करङ्कके ॥ १० भूषायां च मणौ मेद्रे दुः स्याद् भ्रष्टे टि पक्षिणि । पारस्त्रैणे टिशब्दोऽस्ति फटायां टा जटास्वपि ॥ मुद्रोर्मिमहिला स्त्री टीवन्तः पटहेऽपि टम् । ठो महेशे महामन्त्रे मत्रिभूपाधिताण्डवे ।। ४५ ।। आसने शयने शून्ये तथाऽऽकाशे जलाशये । घटे चक्रे च मुद्रायां कुण्डले भागवत्कचे ॥ ४६ ॥ 'ठीबन्तो मत्स्यसङ्घाते ठावन्तः कर्णकोटरे । विलये विजये देवसेवने ठुः "प्रियार्पिते ॥ ४७ ॥ नखोच्छन्नकुचे काव्यां ठुः स्त्री कृत्रिमरोदने । ठेरेदन्तो वृथाहास्ये सूर्ये ठौर्ना श्रुतौ स्त्रियाम् ॥४८॥ १५ वञ्चके वेपकारे ठु हुं विन्दौ जलबुदुदे । ठशब्देऽन्येऽपि शब्दार्थास्तेनायं ठेति विस्मृतः ॥ ४९ ॥ डो भयङ्करनादेषु चन्द्रे चञ्चलयोषिति । जिह्वायां कुण्डलिन्यां डा चण्डिका भूतनाथयोः ॥५०॥ धातुवद् डू हिंसायां वघे क्षेपे च डौर्द्वयोः । डूईवा डुव इत्येव डौडवात्मपरस्य च ॥ ५१ ॥ भ्रान्ते सर्ववधे बाले बलहीने वृथाकुले । पुंसि दुर्व्यर्थवाचाले सर्पे शापे च डूः स्त्रियाम् ॥ ५२ ॥ कालक्षेपे तथा दण्डे डीः पुंसि व्योमगामिनि । उत्पाते राजकीये डः फेने दानेऽल्परोदने ॥५३॥
१२४
१ ख'तो' । २ क- 'वाम्बाय' । ६ क - 'सर्पे सिद्धी' । ४ ख 'नवे जः स्यादपत्ये' । बिलासा' । ६ क- 'झरार्थकः ' । ७ ख - 'दाने' | ८ ख- 'विश्वासे चैष' । १० क - 'ठाऽऽबन्तो' । ११ ख- 'प्रियार्जिते' । १२ ख- 'सन्त्यर्थास्ते नोच्यन्ते' |
Jain Education International
For Private & Personal Use Only
५ ख - 'भागे
९ क- 'टाssवन्तः' ।
१३ ख - 'सर्ववधू ० ' ।
www.jainelibrary.org