SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२५ एकाक्षरनाममालिका व्रणे वा पुंसि डं प्राहुः क्षुद्रजन्ती वृथोदिते । मुस्तापत्रे करे डी स्त्री डोरोदन्तोऽन्त्यजे नरि॥५४॥ ढो ढका निर्गुणे लास्ये गोमुखे ढं नपुंसके । ढीर्वा शुनी समाख्याता पक्षिभेदे त्रियां ढि वा ५५ प्रहारे चायुधे ढः स्याद् घाते ढोऽपाठि पण्डितैः । श्वापदे दुर्जने मूढे वाद्यभेदे ढ उच्यते ॥५६॥ कर्णभेदेऽप्यतिस्थूले गुदवातध्वनौ च दुः। प्राभृते वेदनायां दा ढः स्वभावे विमत्सरे ॥५७॥ णो निर्गुणे जपे योग्ये दुष्टे क्रोडे च तस्करे । पशुपुच्छे स्त्रीयां णा स्त्री बृहन्माने च णुः पुमान्॥५ सम्प्रत्यये तथा खार्थे णः कोणे चैकचक्षुपि । क्षीरे रणे धने धान्ये णीः पुमान् णीर्णियौ णियः॥ समे खरे चये चौरे रणे णिश्चोभयात्मकः । तः प्रेते निष्फले शान्तौ पौनःपुन्येऽव्ययं च तु॥ रङ्गे रागे तुलादण्डे भीते तूर्यध्वनौ च ता। पूजायां तिः स्त्रियां तोके मतो माने महाधने॥६॥ अविलम्बे जले क्लीबे तः सूनौ तन्तुवायके । तौ च तौरे तदर्थेऽस्ति तोऽवसाने वयत्यपि॥६२॥ तौः तायौ ताय इत्येव रूपं स्त्रीपुंसयोरपि । हस्वदीपों तु भूभेदे प्रश्ने धान्येऽव्ययं द्वयम् ॥ ६३॥1. थो मिथ्यावाचके श्रान्ते शोकेऽथारब्धवस्तुनि । निमग्ने चाथ गम्भीरे स्तोकार्थे पुंनपुंसकम्॥६४॥ मरुदेशे प्रदेशेऽपि थाऽऽबन्तश्छलयोपिति । देवकूटे कपाये स्त्री दृढे परिवृढेऽपि था ॥६५॥ थुः पुंसि पर्वते द्रोणे व्रणे थुनिन्दिते पुमान् । निष्ठीवने बले भूते थाऽऽवन्तो भोजने भुवि ॥६६॥ दो दाने पूजने क्षीणे दान्ते शौण्डे च पालके । देवे दीप्तौ दुराधर्षे दोर्भुजे दीर्घदर्शके ॥ ६७ ॥ दयायां दमने दीने दन्दशूकेऽपि दः स्मृतः । वधे च वन्धने बोघे वाले बीजे बलोदिते ॥६८॥१५ विदोऽपि पुमानेप चालने चीवरे वरे । दाऽऽवन्तो दिवि गङ्गायां कुले काले कृते च दा॥६९॥ उपमायां च नैवेद्य निर्नाथा वनिता च दा । दै स्त्रियां देवकन्यायां दीवन्तो देवतर्पणे ॥७॥ धो विधाता धनं धर्मो धो गुह्ये गुह्यकेश्वरे । धश्चाश्वाधारभूतेऽपि वह्नौ वा देवधार्यके ॥ ७१ ॥ देशभेदे भृते भीतेऽधस्तथोपरि वर्तते । धं च षण्ढे च पारुष्ये धूर्वध्वां धुरि च स्मृतः॥७२॥ भारे धेनौ च धाऽऽदिष्टा धीवुद्धौ धातुवत् स्त्रियाम् । ध्याने धेनौ धरायां च धैरैदन्तः पुमानयम् ॥१० धृतौ पत्यावपि प्रोक्तो धुश्च धूर्तोऽतिधृष्टकः । वचने धं च तत् सेना धा स्त्रियां च तथाऽधिके ७४ धिः सेमये सुधावार्थी लोहे 'चोरेऽपि चेष्यते । धोशब्दः केनिपातेऽप्सु प्राहुः पदविचक्षणाः ७५ नो नरे च सनाथेऽपि नोऽनर्थेऽपि दृश्यते । नृशब्दोऽपि नरे नाथे ना नरौ नर इत्यपि ॥७६॥ ननो इति निपातौ द्वौ नू दीर्घोऽपि तथोदितः। पृच्छायां नु वितर्के निर्निनिशब्दौ तथाऽव्ययम्।। नीवन्तो लक्ष्मवाच्यः स्यान्निर्नेतरि नियौ नियः।नुः स्तुतौ दीर्घहस्वः स्त्री नूनश्चि तरणौ स्त्रियाम्७८९५ नूशन्दः पातके पुंसि वायौ क्लीवे नु वारिणि । नं ब्रह्मणि तथाऽनन्ते सानन्दे नं च नन्दने ७९ पः सूर्ये शोषणे वहौ पाताले वरुणेऽनिले । परित्राणे क्षमे क्षेत्रे निपाते(ने) पङ्कसङ्कले ॥८॥ उचदेशे स्थले पं स्यात् पूः पवित्रे पुवौ पुवः। पूः पृथिव्यां वधूवत् स्यात् पौरपि स्त्री यथा च नौः ८१ पाऽऽवन्तः पीच पालक्ष्मीपर्यायौ धातुवञ्च पाः। पाशब्दार्थे पुमानेष षष्ठ्यांप: पोस्तथा च पाम्।। ख-शुधिः '। २ ख-पोते'। ३ ख-कर्णरोगे'। क-'प्रोते'। ५ ख-शाम्ते'। क-भाते। ख-याने।८क-अकोदिते।९ख-'सम'। १० ख-'धौरपिक -प्रदर्शने'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy