________________
२२
सप्त स्मरणानि ।
भूतेन हृदयेन-अन्तःकरगेन । ता इति तस्मादर्थे । संस्तुत्य हि प्रभुः प्रार्थ्यते । ततश्च यस्मात् त्वं संस्तुतस्तस्मात् हे 'देव!' दीव्यते-स्तूयते त्रिजगजनैरिति देवः-आराध्यस्तस्यामन्त्रणम् । 'देसु ति देहि-प्रेयच्छ । अर्थात् मह्यं स्तोत्रे, बोधि-रत्नत्रयप्राप्तिं प्रेत्य जिनधर्मावाप्तिं वा भवे भवे-जन्मनि जन्मनि, यावन्मोक्षं नाप्नोमीति भावः । हे पाच!-श्रीपार्श्वनाथ ! 'जिनचन्द्र!' रागादिजेतृत्वात् ५जिनाः-सामान्यकेवलिनः तेषु मध्ये चन्द्र इव चन्द्रः, चतुस्त्रिंशदतिशयसम्पत्समन्वितेनाह्लादक
त्वाजिनचन्द्रस्तस्यामत्रणम् ॥ __अधिष्ठायकस्तवपक्षे पुनरेवं क्रमेणार्थयोजना-हे पार्श्वयक्ष ! इति संस्तुतः त्वं महा. यशाः-प्रस्तावाद् भगवान् पार्श्वनाथः तत्र विषये योऽसौ भक्तिभरस्तनिर्भरेण हृदयेन मनसा
उपलक्षितविशेषणे तृतीया । तस्माद् देव!-व्यन्तरजातीय! दत्स्व-वितर वोधि मह्यं भवे भवे । न १. चासाद् बोधिप्रार्थनमनौचितीमश्नुते "सम्मदिट्टी देवा" (वंदित्तुसूत्रे गा०४७) इति पूर्वाचार्यैरपि
भणनात् । न चायं न सम्यग्दृष्टिः परमाईतत्वात् , तथा विशेषणमुक्तमाचार्येण 'जिणचन्द' ति । जिन एव श्रीमदर्हन्नेव चन्दतीति चन्द्रः-आह्लादको यस्यासौ जिनचन्द्रः तस्य सम्बोधनम् ॥ अथ पद्मावतीपक्षे
( इय संथुओ महाऽयसभत्तिभरनिन्भरे ण हियए ण । ता देवदेऽसुरोहिं भवे भवे पास जिण चंद ॥ इति संस्तुता उ मम अयशोभक्तिभरनिर्भरे ! न हितदे ! न ।
तस्मात् देवते ! असुबोधिं भवे भवे प्रास्य जय चन्द ॥) इति संस्तुता त्वम् । उः इति निपातः सम्बोधने । सन्धौ कृते संस्तुतो इति । 'मह' ति मम-स्तोतुः । अयशोभक्तिभरनिर्भरेण अयशः-अपकीर्तिः, आयं-धनादिलाभं स्यन्ति-समापय२०न्तीति आयसाः-शत्रवः तस्य तेषां वा भक्तिः-भजनं तत्र विषये यो भरः-अत्याग्रहः तेन निर्भरा-पूर्णा तस्या आमन्त्रणम् अयशोभक्तिभरनिर्भरे! आयसभक्तिभरनिर्भरे! वा। 'ण हियए ण' त्ति "द्वौ नौ प्रकृतार्थ गमयतः" इति न्यायान्न न हितदे !, अपि तु हितदे! । हितम्-अनुकूलं वस्तु भक्तेभ्यो ददातीति हितदा तस्या आमन्त्रणम् । ता-तस्मात् देवदे इति देवते! पद्मावति!
देवि! 'व्यत्ययश्च' (सिद्ध० ८-४-४४७) इति प्राकृतवचनात् शौरसेनी विनापि तकारस्य २५ दः । शोभना बोधिः सुबोधिः न सुबोधिरसुबोधिः कुतीर्थ्यभिप्रेता सातिचारा वा बोधिरित्यर्थः
ताम् । 'एदोतः पदान्तेऽस्य लुम्' (सिद्ध० १-२-२७ ) इति अलोपः । 'भवे भवे पास' ति
प्रास्य-प्रकर्षेण क्षिप-निराकुरु । तथा 'जिण' ति । जयं 'चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो . हवा' (सिद्ध० ८-४-२४१) इति णोऽन्तः । सर्वोत्कर्षेण वर्तस्वेत्यर्थः । किश्चान्यत्-चन्ददीप्यस्व, खमाहात्म्येन चिरं भ्राजस्वेति भावः ॥
'प्रयच्छतु' इति ग-पाठः। २ 'वं संस्तुतः' इति क-पाठः। ३ 'आयसभक्ति.' इत्यपि सम्भवति । 'भपरभत्तिभर निठभरेण' इति ख-पाठः। ५ 'पप्रत्ययश्चेति' इति ग-पाठः। ६'किच तथा चंद मि चन्दव.: महिना सोमव' इति क-पाठा। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org