________________
उवसग्गहरस्मरणम् । अथ धरणेन्द्रपंक्षे
(इय संथुओ महायमभत्तिभरनिन्भरेण! हियएण! । ता देव ! देसु बोहिं भवे भवे पासजिनचंद! ॥ इति संस्तुनो महायशोभक्तिभरनिर्भरैनः ! हृदयगेन! ।
तस्मात् देव ! देहि बोधिं भवे भवे पाशजिनचन्द्र! 1) इति-पूर्वोक्तरीत्या संस्तुतः, मयेति गम्यते । तथा महायशाः श्रीपार्श्वनाथस्तस्य भक्तिः-सेवेनं तस्याः भरः-अतिशयस्तेन निर्भरं-भररहितम् , अल्पीभूतमिति यावत् । एनः-पापं यस्य तस्यामात्रणं हे महायशोभक्तिभरनिर्भरैनः! । हे हृदयगेन ! हृदयेन-उरसा गच्छन्ति (इति) हृदयगाउरगास्तेषामिनः-स्वामी नागराजो-धरणेन्द्रः तस्यामवणं हे हृदयगेन! 'किसलय-कालायस हृदये यः' (सिद्ध० ८-१-२६९) इत्यनेन सस्वरयलोपे 'क-ग-च-ज-त-द-प-यवां प्रायो लुग्' १० (सिद्ध०८-१-१७७) इति दगयोर्लोपे च 'हिअय' ति रूपम् । तत इनशब्देन सन्धौ हिअयेण नि सिद्धम् । ता इति तस्माद् देव!-भवनपतीन्द्र ! दत्स्व बोधि मह्यं भवे भवे, पाशं-कर्मबन्धं जयतीत्यचि पूर्ववत् णे च, पासजिणा-पाशजेतारः सुविहितसाधवस्तान् प्रति चन्द्र इवोपसर्गतापनिर्वापणेनाह्लादकत्वात् तस्यामत्रणं हे पासजिणचन्द ! । यदिवा पाशेन जयति शत्रून्-वशं नयति इति प्राकृते पासजिणा-पद्मावती तां चन्दति-आहादयति भर्तृत्वात् च देवी तस्य १५ सम्बोधनम् । 'दीर्घ-हस्वौ मिथो वृत्ता' (सिद्ध०८-१-४) इति हस्खे पासजिण इति सिद्धम् । इति गाथार्थः ॥ ५ ॥
उपसर्गहरस्तोत्रे, व्याख्या किश्चिन्मयाऽरचि । याऽत्र चानौचिती वाच्ये, सा शोध्या कृपया बुधैः ॥ १॥ धृत्तिः सैपा विशेषोक्ति-रोचिष्णुः चारुचेतनैः । 'अर्थकल्पलता'नाम, चिररात्राय वाऽच्येताम् ॥ २॥ संवद्विक्रमभूपतेः शरऋतूदर्चिZगाङ्केमिते ___ पौपस्यासितपक्षभाजि शशिना युक्ते नवम्यां तिथौ । शिष्यः श्रीजिनसिंहमूरिसुगुरोर्वृत्तिं व्यधात्तामिमां __ श्रीसाकेतपुरे जिनप्रभ इति ख्यातो मुनीनां प्रभुः ॥ ३॥ इति श्रीसप्तस्मरणं समाप्नं ॥ शुभं भवतु ॥ श्रीरस्तु । ग्रन्थाग्रं २७१ ॥
प्रत्यक्षरं निरूप्यास्यां, ग्रन्थमानं विनिश्चित । अनुएमां च द्विशत्ये-कसप्तति(२७१)समन्विता ॥ १॥
. 'पक्ष इति संस्तुस्त्वं महा.' इति व-पाठः। २ 'सेवा' इति ख-पाठः। ३ 'वय॑ताम्' इति ख-पाठः, 'चण्ययम् (1)' इति ग-पाठः। ५ १३६५प्रमिते इत्यर्थः। ५ 'समाप्ता चेयं उपसर्गहरस्तावविवृत्तिः । कृति ३. रियं श्रीमजिनप्रभसूरेरिति वृत्तिः प्रथाग्रं.' इति स्व-पाठः। ६ न चायं पाठोऽसमीचीनः, खरसरमध्ठीयानां सप्तयारणेषु उपसर्गहरस्तोत्रस्य मन्तिमत्वात् । ७ 'एकसप्ततिसंयुकं शतद्वयमनुष्टुभाम्' इति खा-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org