________________
सप्त स्मरणानि ।
सि० ० व्या० - सम्प्रति निगमयन् प्रणिधानप्रधानां पञ्चमगाथामाह - इयति । हे 'महामहत् यशो यस्य स महायशास्तस्य सम्बोधनम् । इति पूर्वोक्तप्रकारेण मया त्वं संस्तुतः-सम्यग् वर्णितः । त्वमिति सामर्थ्यान्मयेति गम्यम् । केन करणभूतेन संस्तुत इत्याहहृदयेन - मानसेन । कथम्भूतेन हृदयेन ? 'भक्तिभरनिर्भरेण भक्तिः - आन्तरप्रीतिस्तस्या भरः५ प्राग्भारस्तेन निर्भरेण - सम्पूर्णेन । ता इति तस्मादर्थे । यस्माच्च संस्तुतस्तस्मात् हे 'देव !" दीव्यते - स्तूयते जगजनैरिति देवस्तस्यामन्त्रणं हे देव ! 'तत्पुरुषः' । हे पार्श्व ! 'जिनचन्द्र !' रागादिजेतृत्वाजिना:- सामान्य केवलिनस्तेषु चन्द्र इव चन्द्रस्तस्य सम्बोधनं हे जिनचन्द्र ! 'तत्पुरुपः । त्वं अर्थान्मह्यं वोधि-रत्नत्रयप्राप्तिं प्रेत्य जिनधर्मावाप्तिं वा देहि-प्रवितरेत्यर्थः । कस्मिन् १ भवे भवे - जन्मनि जन्मनि, यावन्मोक्षं न प्राशोमीति भावः । इदं स्तोत्रं धरणेन्द्र- पद्मावतीपार्श्वयक्षैरधिष्ठितमिति पक्षे तेषां व्याख्यानं तु बृहद्वृत्तितो द्रष्टव्यम् ॥ ५ ॥
१०
9
६४
यशः
ܕ
इति पात (द) शाह श्री अकब्बर जल्लालदीन (जलालुद्दीन)- श्रीसूर्यसहस्रनामाध्यापक- श्री शशुञ्जयतीर्थंकरमोचनसर्वत्र गोवधनिवर्तनाद्यने कसुकृत विनिर्मापक-महोपाध्याय श्री भानुचन्द्रगणिशिष्ययुगपदष्टोत्तरशतावधानचमत्कृतपादशाह श्री अकच्यर जला (ला) लदी(लुद्दी) नपादशाह श्रीनूर (रु) द्दीन जिहांगीर प्रदत्तषुश्फहम (खुप्फहम्) नादिर
मां (रुज्जमान्) द्वितीयाभिधान-महोपाध्याय श्री सिद्धिचन्द्रगणिविरचितायां सप्तस्मरणटीकायां उपसर्ग हर स्तोत्रटीका समाप्ता ॥
ह० व्या०—अथ कविः स्वविज्ञप्तिमाह - इह संधुओ इति । हे महायशः । महत् त्रैलोक्यव्यापकं यशः: - कीर्तिर्यस्य स महायशाः तस्यामत्रणं हे महायशः ! मया भक्तिभरनिर्भरेण भक्तेःआन्तरप्रीतेः भरः-प्राग्भारः - आधिक्यं तेन निर्भरं - पूर्ण भक्तिभरनिर्भरं तेन तथाभूतेन भक्त्या - २० धिक्यपूरितेन हृदयेन - अन्तःकरणेन कृत्वा इति - पूर्वोक्तप्रकारेण त्वं संस्तुतः - सम्यग् वर्णि तोऽसि । ता इति तस्मात् कारणात् हे देव ! दीव्यते - स्तूयते जगज्जनैरिति देवस्तस्यामन्त्रणं हे देव ! हे पार्श्वजिनचन्द्र ! जिनेषु चन्द्र इव चन्द्रः, भव्यानामतीवाह्लादकत्वात्, पार्श्वश्वासौ जिनचन्द्रश्च पार्श्वजिनचन्द्रस्तस्य सम्बोधनं हे पार्श्वजिनचन्द्र ! भवे भवे - जन्मनि जन्मनि यावन्मोक्षं प्रामोमि तावत् मह्यं बोधिं तत्त्वज्ञानं सम्यक्त्वं दद्याः, मेत्य जिनधर्मावातिं वा दद्याः, 'देसु' चि २५ पाठे देहि प्रयच्छ इत्यहं प्रार्थये । इहान्येऽप्यर्थाः सन्ति । तथा पार्श्वयक्ष पक्षेऽप्यन्योऽर्थोऽस्ति परं विस्तरभयानक्तः, किन्तु मूलार्थ एव व्याख्यातोऽस्ति ।
उपसर्गहर स्तोत्रे, वृत्तिं श्रीहर्ष कीर्तिसूरिरिमाम् ।
कृतवान् सुखावबोध, मन्दमतीनां हितार्थाय ॥ २ ॥ ॥ इति द्वितीयस्मरणवृत्तिः ॥ २ ॥
Jain Education International
冲
#
1 'विखरं विस्तर मिया नोकाः" इति त्र-पाठः ।
और
For Private & Personal Use Only
www.jainelibrary.org